अथाष्टाविंशः पटलः
द्वितललक्षणम्
अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम्
प्रासादमानवत् कुर्यात् विस्तारोच्चं च निर्गमम् १
विन्याससूत्रयोरन्तर्व्यासं सप्तर्तुवा भवेत्
एकांशं कूटविस्तारं कोष्ठं तु द्विगुणायतम् २
कूटव्याससमं कोष्ठं विस्तारं द्विजसत्तम
शेषं हारान्तरं कोष्ठं पार्श्वयोस्तु सपञ्जरम् ३
हारान्तरमशेषं वा त्रिपादं वार्धमेव वा
पञ्जरव्यासमाख्यातं कूटबाह्यसमो गतिं ४
अन्तः प्रवेशं वा मानसूत्राणि प्रयुतं तु वा
पञ्जरं कर्णकूटाभं नासिकाकारमेव वा ५
प्रासादोच्चं तु विभजेत् अष्टाविंशतिभागया
गुणांशं धरा तलोत्सेधं रसांशं चरणोदयम् ६
प्रस्तरोच्चं गुणांशं स्यात् भूतांशं चरणोदयम्
द्विभागं प्रस्तरोत्सेधमेकांशं वेदिकोदयम् ७
द्विभागांशं गलोत्सेधं सार्धं वेदं शिरोदयम्
अत्यर्धांशं शिखामानं कल्पितं शान्तिकं भवेत् ८
चतुर्विंशतिभागं तु कृत्वा च सदनोदयम्
सार्धार्धांशमधिष्ठानं तद्विधं चरणोदयम् ९
प्रस्तरोच्चं गुणांशं स्यात् तलिपं सार्धषट् भवेत्
गुणांशं मञ्चमानं तु व्योमांशं वेदिकोदयम् १०
सार्धाग्न्यंशं गलोत्सेधं भूतांशं शिखरोदयम्
अर्धांशं शिखरं मानं पौष्टिकं सदनं भवेत् ११
तदेव गलमानं तु सार्धद्व्यंशेन कल्पयेत्
शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते १२
जयदं सदनं ह्येतत्सर्वदेवप्रियावहम्
षट् त्रिंशत् विभजेद्यर्धं घटतुङ्गं धरातलम् १३
वस्वंशपादमानं तु सार्धाग्न्यंशं तु प्रस्तरम्
सप्तांशं चरणोत्सेधं गुणांशं च गलोदयम् १४
भूतांशं शिखरोच्चं तु स्तूप्युच्चं सार्धभागया
अर्धभूतं सदनं ह्येतत्कल्पयेत्कल्पवित्तमः १५
चत्वारिंशतिभागं तु कर्तव्यं सदनोदयम्
अधिष्ठानोच्चं वेदांशं स्तम्भं तद्द्विगुणायतं १६
युगांशं मञ्चमानं च स्तम्भलिप्सार्धसप्तकम्
त्रिभागं प्रस्तरोत्सेधं द्विभागं वेदिकोदयम् १७
त्रिभागं ग्रीवमानं तु शिखरं सप्तभागया
शेषं शिरोदयं ख्यातं विमानं सार्वदेशिकम् १८
होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत्
चतुष्कूटं चतुश्शालं पञ्जराष्टकसंयुतम् १९
षडष्टैवाल्पनासिं च पादं प्रतिप्रकल्पयेत्
कल्पितं वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् २०
एतत्स्वस्तिकमाख्यातं सर्वदेवप्रियावहम्
तदेव शीर्षकाग्रेषु पार्श्वयोः स्वल्पनासिका २१
स्वस्तिभद्र मिदं ख्यातं मम प्रीतिकरं भवेत्
तदेव नतकूटं च कोष्ठं नासिकमञ्चकम् २२
नतपञ्जरसंयुक्तं यथेष्टं क्रमशीर्षतः
स्तूपिर्घटं गलं तं च श्रीकरं समुदाहृतम् २३
तदेव कूटकोष्ठाः स्युः कूटशालोन्नताः समाः
निम्नपञ्जरवन्तोऽसौ यत्तत्कैलासमुच्यते २४
तदेव कूटकोष्ठौ द्वौ निम्नोन्नतविवर्जितौ
अन्तरप्रस्तरोपेतौ समसूत्रगतौ नतौ २५
हारान्तरे विशेषेण युग्मं वायुग्मपञ्जरम्
चतुष्कूटं चतुश्शालं षडष्टैवाल्पनासिकम् २६
वस्वग्रं वेदिकोपेतं वर्तुलं शीर्षकं गलम्
शिखरं वसुनासाढ्यं भद्रा भद्रं चतश्चतुः २७
वेदिकातोरणाढ्यं तु रुद्र कान्तमिदं परम्
कूटात्कोष्ठकनिष्ठान्तं दण्डं वाद्ध्यर्धदण्डकम् २८
द्विदण्डं वा त्रिदण्डं वा कूटात्कोष्ठस्य निर्गतिः
नानाधिष्ठानसंयुक्तं नानास्तम्भविमानितं २९
प्रागुक्तानां तु सर्वेषां कल्पितं वापि हीनकम्
तदेव शिखरे चार्धकोष्ठकं तु चतुष्टयम् ३०
चतुरश्रशिरोपेतं चतुष्कूटसमन्वितम्
षडष्टनासिकोपेतं स्वस्तिबन्धमुदाहृतम् ३१
तदेव कूटकोष्ठौ द्वौ चान्तरप्रस्तरान्वितौ
हारपञ्जरसंयुक्तं षडष्टौ वाल्पनासिकम् ३२
सर्वालङ्कारसंयुक्तमेतत्कल्याणसुन्दरम्
तदेव शिखरे चार्धकोष्ठकं तु विवर्जयेत् ३३
चत्वारि नासिकोपेतं शिखरं परिकल्पयेत्
नानालङ्कारसंयुक्तं एतत्पाञ्चालमुच्यते ३४
तदेवाष्टाश्रवेदीयं कन्धरं शिखरं घटम्
शिरोष्टौ च महानासियुक्तं तद्विष्णुकान्तकम् ३५
सान्तरं प्रस्तरोपेतं कूटकोष्ठौ चतुश्चतुः
लम्बपञ्जरसंयुक्तं वृत्तशीर्षककन्धरम् ३६
दण्डं वाऽद्ध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम्
कर्णकूटं तु कोष्ठानि निष्क्रान्तं परिकल्पयेत् ३७
षडष्टनासिकोपेतं चत्वारि शिखरे वर
एतत् विश्वकरान्यस्यात् ईश्वरस्य प्रियावहम् ३८
तदेव त्रिचतुर्भागे भागाधिक्यं यथाक्रमम्
तथा शीर्षं च कण्ठं च वेदिकं तत्प्रकल्पयेत् ३९
स्तूपित्रयसमायुक्तं एतत् मङ्गलमुच्यते
तदेवायतवृत्ताभं गान्धारमिति विद्यते ४०
तारादर्धाधिकादर्धमायताश्रं समाश्रकम्
द्व्यश्रवृत्तमुपानादि कल्पितं वा तदेव हि ४१
समाश्रमायताश्रं वा बाह्यतः परिकल्पयेत्
वृत्तगर्भगृहोपेतं कूटकोष्ठकसंयुतम् ४२
वृत्ताभं कर्णकूटं च शीर्षं स्यात्परिकल्पयेत्
कूटकोष्ठाल्पनीडाश्च समसूत्रैश्च कल्पयेत् ४३
नाम्नामनोहरं रम्यं सर्वदेवार्हकं परम्
उपानादिस्तूपिपर्यन्तं वृत्तं चेत्तु बहिर्बहिः ४४
शेषं प्रागिव कर्तव्यं शिवकान्तमिदं परम्
चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ४५
अधिष्ठानोपरिष्टात्तु स्तूप्यन्तं वर्तुला कृति
कूटकोष्ठादिसर्वाङ्गयुक्तं गर्भगृहं भवेत् ४६
चतुरश्रमधिष्ठानमायताश्रमथापि वा
रसाश्रं शिखरं कण्ठं कूटकोष्ठादिसंयुतं ४७
यथोचितं तु सङ्कल्प्य नाम्नाकुबेरकान्तकम्
एवं तु द्वितलो योग्यं भेदमष्टादश स्मृतम् ४८
इष्टकाभिः शिलाभिर्वा होमादिस्तूपिकान्तकम्
कल्पितं सञ्चितं हर्म्यं पुमानिव घनी कृतम् ४९
दृषद्भिरिष्टकाभिः सम्मिश्रहर्म्यं तदेव हि
श्रेष्वादौ दिषवृत्कार्यं तदूर्ध्वे त्विष्टकाक्रिया ५०
इष्टकादारूहिं मिश्रं षण्डमेतदुदाहृतम्
तदेवोपचितं ख्यातं घनाघनमुदाहृतम् ५१
अशेषं तरुभिः कार्यं सञ्चितं स्त्रीति विद्यते
अघनं चेति तत्कार्यं एवं पुंषण्डयोषितां ५२
वक्त्रमण्डपमानं च गर्भगृहविशालकम्
भित्तिव्यासं चतुस्सर्वे प्राग्वदेव तलोक्तवत् ५३
द्वारस्योभयपार्श्वे तु पादयोरन्तरे द्विज
द्वारपालगुहां कुर्यात् तलादुत्तरसिंहकम् ५४
बिम्बोदितं विशालं च दण्डमात्रं तु वेशनम्
सर्वधामनि कर्तव्यं प्रवेशरहितं तु वा
एवं द्वितलमाख्यातं त्रितलं तु ततो विदुः ५५
इति काश्यपशिल्पे द्वितलविधानं नाम अष्टाविंशः पटलः