अथ सप्तविंशः पटलः
एकतलविधिः
अथ वक्ष्ये विशेषेण हर्म्यमेकतलं शृणु
तस्य विस्तारतुम्भं च प्रोक्तं प्रासादमानके १
युगाश्रं वृत्तमायाश्रं वस्वश्रं च षडश्रकम्
अष्टाश्रमाकृतिस्त्वेषां शिखरेऽपि तथैव च २
हर्म्यतारार्धमानं तु कन्यसम्मुखमण्डपम्
हर्म्यतारसमं श्रेष्ठं तयोर्मध्येऽष्टभाजिते ३
मुखमण्डपदैर्घ्यं तु नवधा कथितं मया
प्रासादसदृशव्यासमुत्तमत्रयमण्डपम् ४
प्रासादावेशनं श्लेषात् दण्डं वार्धार्धदण्डकम्
द्विदण्डं वा प्रवेशं तु मानसूत्रं द्विजोत्तम ५
अन्तराळसमायुक्तं युक्तसर्वाङ्गसंयुतम्
सावकाशान्तरालं च दीर्घं द्वित्रिचतुष्टयम् ६
सोपानं पार्श्वयोः कुर्यात् गजहस्तविभूषितम्
प्रासादभित्तिविस्तारतुल्यं वार्धत्रिपादकं ७
अन्तरालस्य भित्तेश्च व्यासाः स्युः मण्डपे तथा
कूटकोष्ठादि युक्तं वा हीनं वा मुखमण्डपम् ८
त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम्
एकानेकतलं वाथ कर्तव्यं मुखमण्डपम् ९
हर्म्यतारेऽग्निभागैकं गर्भगेहस्य विस्तरम्
पञ्चभागेऽग्निभागं च वेदांशं सप्तभागिकम् १०
द्वारांशे भूतभागं च अर्कांशं रुद्र भागिके
त्रयोदशांशे वस्वंशं दशं वस्वंशभागिके ११
सपादं च नवांशं च व्यासोद्धं हि द्विजोत्तम
गर्भगेहस्य विस्तारः नवधा परिकीर्तितः १२
शेषं भित्तिविशालं स्यात् परितः कल्पयेत् बुधः
एकद्वित्रिचतुष्पञ्च पङ्क्तिः स्यादेकभागिके १३
हर्म्योच्चं वसुधा भज्य एकांशं हि तलोन्नतम्
द्विभागं चरणायामं प्रस्तरस्यैकभागता १४
गलोच्चं त्वेकभागेन द्विभागं शिखरोदयम्
एकांशं स्तूपितुङ्गं च कल्प्यैवं शान्तिकं भवेत् १५
एकांशरहितं शेषं पञ्चं वा पार्श्वदेवता
एवं शान्तिकमाख्यातं पौष्टिकं चाधुनोच्यते १६
सदनोच्चेनवांशे तु शिवांशं तु तलोदयम्
अर्धेनांशसमायुक्तं द्वयांशं चरणायतम् १७
पञ्चमानं तथैवांशं सार्धं पादांशकं गलम्
सत्रिभागं द्विभागं तु शिखरोदयमीरितम् १८
स्तूप्युत्सेधं तथैकांशं पौष्टिकं सदनान्वितं
सदनोच्चे दशांशैकमधिष्ठानोदयं भवेत् १९
सार्धद्व्यंशं तु पादोच्चं प्रस्तरोच्चं शिवांशकम्
सार्धांशं गलमानं तु गुणांशं शिखरोदयम् २०
एकांशं स्तूपिमानं तु जपतानामुदाहृतम्
रुद्रा शं! हर्म्यतुङ्गं तु सपादांशं धरातलम् २१
सार्धद्व्यंशं तु पादोच्चं प्रस्तरोच्चं शतांशकम्
अत्यर्थांशं तु कण्ठोच्चं सार्धस्यांशं तु शीर्षकम् २२
शेषं स्तूप्युदयं ख्यातं तद्भूतं सदनं भवेत्
उत्तुङ्गे सप्तभागे तु व्योमांशं तु धरातलम् २३
पक्षांशं पादतुङ्गं तु शिखरोच्चं गुणांशकम्
स्तूप्युत्सेधं तथैकांशमेतत्स्यात्सर्वकामिकम् २४
शान्तिकाद्युदयोपेतं हर्म्यैर्गुण्यं क्रमोदयम्
विपरीते त्रिपादानां वैपरीत्यं समावहेत् २५
तस्मात् भित्यादिगुण्यं च उदयं चैकमाचरेत्
रुद्रा शं! सदनोत्सेधं तलमेकांशमानतः २६
द्व्यंशं च चरणायामं प्रस्तरं च शिवांशकम्
उपग्रीवं तु सार्धांशं त्रिपादं प्रस्तरोदयम् २७
सपादांशं गलोत्सेधं सार्धद्व्यंशं तु शीर्षकम्
एकांशं स्तूपिमानं तु एवं चैवाद्भुतं स्मृतम् २८
अथवाष्टौ द्विरष्टौ च धात्वष्टाभूत्तथा कृतम्
पक्षैराधारमानं च मञ्चोपग्रीवमञ्चकम् २९
गळमूर्ध्नि शिखामानं पाद्मे चाष्टनवांशकम्
सोपग्रीवसमं चैतत् एकभूरेकविन्यसेत् ३०
ऊर्ध्वं मञ्चोपरिष्टं तु चतुष्कोणैः ससुव्रत
अथवाष्टनवांशे तु ससप्तांशं सविस्तरम् ३१
विविधं स्यात्समायुक्तं कर्णकूटमुदाहृतम्
कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ३२
प्रविष्टानादिसर्वाङ्गं प्रग्रीवं च प्रकल्पयेत्
वृत्तग्रीवसमायुक्तं तथैव शिखरं घटम् ३३
शिखरे तु महानासी चतरश्रा महादिशि
दिशिभद्रा य तं वास्ते मञ्चेल्पा नासिका कला ३४
प्रस्तरेऽष्टाल्पनासी वा जयद्वन्द्वमुदीरितम्
तदेव कर्णकूटाभ्यां षट्पञ्चांशे शिखी तथा ३५
नागरे त्युचितं कण्ठकूटाकारं प्रकल्पयेत्
कण्ठकूटसमामध्या भद्रं तत् भद्र नासिका ३६
अन्तरालं च तत्तुल्यं क्षुद्रं पञ्चांशसंयुतम्
अभद्रं वाथभद्रं वा कूटं वा भद्र नासिका ३७
भद्रा नासी विशालं वा मध्ये भद्रं विशालकम्
त्रिचतुष्पञ्चषट्सप्तभागं वा सदनं स्तकम् ३८
कृत्वैकांशं द्विभागं वा मध्ये भद्र विशालकम्
त्रिभागं च विशालं तु मध्ये भद्र विशालकम् ३९
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वाथ निर्गतिः
यथेष्टं शिखरं कण्ठं श्रीभोगान्तमुदाहृतम् ४०
वस्वर्णं पट्टसंयुक्तं स्वतारे कुड्यपादयोः
स्वतारे कुड्यपादाढ्यान्निष्क्रान्तरहितं तु वा ४१
श्रीभद्र मिति विख्यातं सर्वदेवात्मकं परम्
तदेव सदने बाह्ये मध्ये भद्र युतं तु वा ४२
तोरणैर्जालकाढ्यं तत् श्रीविशालमुदाहृतम्
तदेव वेदिका कण्ठं शिखरं च घटं तथा ४३
वस्वङ्गं पादसंयुक्तं चतुर्दिग्भागनासिकम्
चतस्रो नासिकाश्चाल्पाश्शिखरे तु विदिक्स्थिताः ४४
पादं प्रत्यल्पनासाढ्यं स्वस्तिबन्धं तदुच्यते
तदेव मध्यभद्रं च कर्णकूटविहीनकम् ४५
सुशोभनावहं ख्यातं सर्वदेवप्रियावहम्
शिखरे तु कृता नासी प्रस्तराष्टौ द्विरष्टधा ४६
युगाश्रं शिखरं कण्ठं वेदिकं चैव श्रीकरम्
तदेव शिखरे चाष्टावल्पनासिसमन्वितम् ४७
महानास्य परे कोष्ठसंयुतं शीर्षकं भवेत्
नासिका विस्तृतं दण्डद्वयं वापि त्रिदण्डकम् ४८
कोष्ठदीपं समाख्यातमुत्सेधं नासिका समम्
विदिक्षु भद्र नासाढ्यं शिखरं परिकल्पयेत् ४९
वृत्तमस्तककण्ठाढ्यं वस्वग्रं वा गलं शिरः
वृत्तकोशं समाख्यातं वस्वश्रं राजकेसरम् ५०
प्रासादस्य तु विस्तारः पञ्चसप्ताष्ट वा भवेत्
त्रिभागं वा द्विभागं वा प्राग्वद्वा मध्यभद्र कम् ५१
दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम्
मध्यभद्र स्य निष्क्रान्तं भद्रा पेक्षितहर्म्यके ५२
यन्महानासिकापेतं शिरः स्वायकवृत्तकम्
पादं प्रत्यल्पनासाढ्यं कण्ठं वै शीर्षकाकृति ५३
कल्याणसुन्दरं ख्यातं सर्वदेवार्हकं परम्
तदेव भद्र नासाढ्यं पूर्वापरं द्विजोत्तम ५४
ललाटनासिकोपेतं पार्श्वयोः द्विजसत्तम
समं वा सायतं वाथ कल्पितं कोशलं भवेत् ५५
तलं प्रतिविमानादि उन्नतं त्वथ वक्ष्यते
स्कन्दं वै पूर्वदिग्भागे दक्षिणामूर्तिदक्षिणे ५६
पश्चिमे विष्णुमूर्तिं वा लिङ्गोद्भवमथापि वा
धाआ!रमुत्तरे विप्र भारस्थाने तु वर्जयेत् ५७
मण्डपे दक्षिणे भद्रे स्थापयेत् हि विनायकम्
पूर्वे वा पश्चिमे तस्य नृत्तमूर्तिं प्रकल्पयेत् ५८
दुर्गामुत्तरदिग्भागे क्षेत्रपालं तु वा द्विज
स्थानं वा सदनं वाथ दिशि मूर्तिं प्रकल्पयेत् ५९
एवं धरातलोर्ध्वे तु कल्पयेद्विधिवत् बुधः
स्कन्दं वै पूर्वदिग्भागे शक्रं वा सितरोहितम् ६०
हस्तिर्विधी नब्जकासी न एक एव समन्वितम्
दक्षिणे दक्षिणामूर्तिं वीरभद्र मथापि वा ६१
पश्चिमे नारसिंहं तु सौम्यमूर्तिमथापि वा
उत्तरे तु विधातारमब्जस्थं द्विजसत्तम ६२
प्रस्तरोपरि कर्तव्यमेकद्वित्रितले तथा
चतुर्भूम्यादिभूमासु महेशस्तु यथेष्टगः ६३
उमास्कन्दादिसहितः महेशः परिकीर्तितः
अन्ये देवाश्च गन्धर्वाः सिद्धा दैत्या मरुद्गणाः ६४
कलान्तयुगभूम्यादि ग्रीवे च प्रस्तरान्तके
इष्टमूर्तिमविष्टांशे कल्पयेत्कल्पवित्तमः ६५
गलस्यादिस्थमाञ्चोर्ध्वे कोणेषु वृषभं कुरु
कोणं प्रति द्वयं चैकं वृषभं शयनं कुरु ६६
भूतं वाथ चतुष्कोणे हृदयाञ्जलिसंयुतम्
कल्पयेत्पद्मपीठे द्वे आसीनं तु बृहत्तनुम् ६७
आमोदं चाग्निकोणे तु प्रमोदं नैरृते भवेत्
प्रमुखं वायुकोणे तु दुर्मुखीशानकोणके ६८
श्वेतं रक्तं तथा पीतं कृष्णमग्न्यादिषु क्रमात्
यमो वै देवता ह्येताः तासामावाहनं कुरु ६९
करालमुद्गगुल्मासु ककविङ्कणलेपनम्
नानालङ्कारसंयुक्तं नानालीलासमायुतम् ७०
नानाक्रीडा समायुक्तं सुधया धातुभिस्तथा
यथोचितं कल्पयेत्तु शूलादाविष्टकं भवेत् ७१
एवं तलमिदं ख्यातं द्वितलं तु ततो विदुः
इति काश्यपशिल्पे एकतलविमानलक्षणं नाम सप्तविंशः पटलः