२५

अथ षड्विंशः पटलः
गर्भन्यासः
अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम्
प्रासादं देहमित्युक्तं तस्य प्रकारो वास्तुगर्भकम् १
गुरुहीने गृहे विप्र सकृत्कालं नवास्यकम्
अहमन्ये च देवाश्च नवसेयुरगर्भकम् २
तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत्
श्रीप्रणं भाणिनां गर्भमितरे श्रीकरं भवेत् ३
अधिष्ठानव्रतेरूर्ध्वे भूसुराणां हिताय वै
कुमुदोर्ध्वे नृपाणां तु जगत्यूर्ध्वे विशां वरम् ४
होमोर्ध्वे गर्भविन्यासं शूद्रा णामभिवृद्धिदम्
सर्वजात्यन्तं हं प्रोक्तं भूमौ त्वाद्येष्टकोपरि ५
प्रासादे मण्डपे चैव प्राग्द्वारे गोपुरे तथा
परिवारालये चैव गर्भन्यासं तु कारयेत् ६
यत्रैवाद्येष्टकान्यासः तत्र गर्भं निधापयेत्
सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् ७
कांस्येनैवाथवा विप्र कर्तव्यं गर्भभाजनम्
पञ्चाङ्गुलं समारभ्य यावद्वै विंशदङ्गुलम् ८
एकैकाङ्गुलवृद्ध्या तु कलासङ्ख्या तु भाजनम्
एकादिषोडशान्तानां भूमीनां तु यथा क्रमम् ९
गर्भभाजनतारास्ते त्वङ्घ्रिमूलतरं तु वा
गर्भभाजनविस्तारं विस्तारसदृशोन्नतम् १०
भाजनोच्चस्य भागैकं पिधानस्योच्छ्रयं भवेत्
भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ११
यवैकव्यासमारभ्य यवार्धैः कोष्ठविस्तृतम्
फलोच्चं त्रिचतुर्भागं कोष्ठभित्त्युदयं भवेत् १२
मध्यकोष्ठे न्यसेन् कूटमिन्द्र नाभसमन्वितम्
तत्पूर्वं ह्यष्टकोष्ठेषु परितो द्विजसत्तम १३
अनन्तादिशिखण्ड्यन्तं मूलमन्त्रं निधापयेत्
तद्बाह्ये षोडशे कोष्ठं पूर्वादिक्रमयोगतः १४
अकारादिविसर्गान्तस्वरान्न्यासेत् यथा क्रमम्
रत्नलोभा निधान्यानि फलान्यवरके न्यसेत् १५
मृत्कन्दधान्यपत्राणि गर्भगर्ते तु विन्यसेत्
फलशुद्धिं ततः कृत्वा गव्यदस्त्रेत्युदाहरन् १६
माणिक्यं विन्यसेत् कूटे कूटमन्त्रमुदाहरन्
अनन्ते विन्यसेत् वज्रं सूक्ष्मे मौक्तिकं न्यसेत् १७
शिलोत्तमैरिन्द्र नीलं स्यात्स्फाटिक्यैकनेत्रकम्
एकरुद्रे तु शङ्खं स्यात् त्रिमूर्ते पुष्परागकम् १८
श्रीकण्ठसूर्यकान्तं स्यात् शिखण्डे तु विडूरकम्
स्वर्णेनैव जगत्कृत्वा अकारे विन्यसेत् बुधः १९
कपालं रजतेनैव इकारे तु निधापयेत्
तन्त्रेणैव तु तङ्कुम्भमुकारे द्विजसत्तम २०
आरकूटेन तद्द्वारं ऋकारे तु निधापयेत्
कांस्येनैव पिनाकं तु औकारे विन्यसेद्बुधः २१
सीसेन पाशुं कृत्वा णकारे तु निधापयेत्
त्रपुणा हरिणं कृत्वा ओकारे तु निधापयेत् २२
त्रिशूलमायसेनैव अङ्कारे तु निधापयेत्
स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् २३
आकारे विन्यसेत् शम्यामीकारे तु मनश्शिलाम्
उकारे जातिलिङ्गं तु ऋकारे गैरिकान्न्यसेत् २४
सौराष्ट्र चैव लृकारे एकारे त्वञ्जनां न्यसेत्
गोरोचनं तथाङ्कारे विसर्ज्ये नीलधारकम् २५
तद्बीजं समनुस्मृत्य विन्यसेत्तत्क्रमेण तु
यवानी वारशाली च प्रियङ्गुतिलसर्षपम् २६
मुद्गानि सप्त बीजानि पूरयेत् गर्भभाजने
पिधाय च विधानेन सुस्निग्धं सुदृढं कुरु २७
प्रासादस्योत्तरे चाग्रे पञ्चषट्सप्त हस्तकाम्
षोडशस्तम्भसंयुक्तां प्रपां कृत्वातिसुन्दराम् २८
विधानेनोर्ध्वमाच्छाद्य करङ्गैः स्तम्भवेष्टनैः
द्वारतोरणसंयुक्तं दर्भमालादिभूषितम् २९
मण्डपस्य त्रिभागैकं मध्ये वेदिं प्रकल्पयेत्
हस्तमात्रविमुत्सेधं तालमात्रमथापि वा ३०
परितस्त्वग्निकुण्डानि महाशालं द्विजोत्तम
चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् ३१
त्रिमेखलसमायुक्तं नाभियोनिसमन्वितम्
दर्पणोदरसङ्काशं कुण्डवेदिस्थलं कुरु ३२
तत् शिल्पिवतमुद्वास्य गोमयालेपनं कुरु
पिष्टचूर्णैरलङ्कृत्य पुण्याहं प्रोक्षणं कुरु ३३
वेदी द्वे स्थण्डिले कुर्यात् चतुद्रो र्णै!स्तु शालिभिः
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ३४
गन्धपुष्पादिभिः पूज्य दिग्देवान् नाममन्त्रकैः
गव्याभिषेच्य फलं तु स्नापयेत् गन्धतोयकैः ३५
तन्तुनाकौतुकं बध्वा नववस्त्रेण वेष्टयेत्
स्थण्डिले तु निधातव्यं कूटाक्षरमुदाहरन् ३६
परितोष्टौ घटान्न्यस्य ससूत्रान्सपिधानकान्
सकूर्चान् वस्त्रसञ्छन्नान् सगन्धान्परितः क्रमात् ३७
विश्वेश्वरादिकुम्भस्थे स्तोत्राभ्यर्च्य स्वमन्त्रतः
कुण्डानां पञ्चसंस्कारं कृत्वा होमं समाचरेत् ३८
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिदाज्य चरून् लाजान् तिलतण्डुलसर्षपान् ३९
हृदयादिषु सङ्घैश्च ईशानेन क्रमेण तु
होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतीः ४०
द्र व्यान्ते व्याहृतीर्हुत्वा मूलेनैव शताहुतीः
जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ४१
एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके
सुनक्षत्रे सुलग्ने तु सुतिथौ च सुवासरे ४२
शिवद्विजकुले जातः स्वाचार्यः शिवदीक्षितः
स्नानद्वयसमायुक्तः सकलत्रः सविग्रहः ४३
सितवस्त्रोत्तरीयश्च सितमाल्यानुलेपनः
आचार्यान्पूजयेत्तत्र वस्त्रहोमाङ्गुलीयकैः ४४
शिल्पिनः पूजयत्तत्र वस्त्रैराभरणादिभिः
गर्भस्थानं प्रविश्याथ कर्त्रा चाचार्यशिल्पिनौ ४५
अष्टधा विभजेत् भित्तिं बाह्यतश्चतुरस्त्यजेत्
त्रीणि चाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् ४६
हृन्नदी सस्यवल्मीक हलस्तेङ्गुलिरातटे
नागा वृषभशृङ्गे च अष्टमृत् गृह्यदेशिकः ४७
गर्भगर्तेनमोच्चार्य कन्दान्न्यसेत्ततोपरि
मध्यमे त्वम्बुजं न्यस्यात्पूर्वे कुमुदकन्दकम् ४८
दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत्
सौम्ये उशीरकन्दं स्यात् बीजं तदुपरि न्यसेत् ४९
पूर्वे तु विन्यसेत्सालिं व्रीहिं वै दक्षिणे न्यसेत्
पश्चिमे कोद्र वं विद्यात् माषमुत्तरतो न्यसेत् ५०
पावते विन्यसेत् माषं नैरृत्यां कुरु पूजकैः
प्रियङ्गुवायुदिग्भागे ऐशान्ये तु कुलुत्थकम् ५१
एवं न्यस्य हृदं मन्त्रांस्तथा वै गर्भभाजनम्
सर्ववाद्य समायुक्तं नृत्तगेयसमन्वितम् ५२
जयशब्दसमायुक्तं ब्रह्मघोषसमन्वितम्
प्रासादबीजमुच्चार्य स्थापयेत् गर्भभाजनम् ५३
शिलाभिरिष्टकाभिर्वा सुधया सुदृढं कुरु
गन्धपुष्पादिभिः पूज्य प्रासादं कल्पयेत्ततः ५४
गर्भन्यासविधिः ख्यातः ततस्त्वेकविधिं शृणु ५५
इति काश्यपशिल्पे गर्भन्यासविधिर्नाम षड्विंशः पटलः