२४

अथ पञ्चविंशः पटलः
नागरादिविमानलक्षणम्
नागरादिविमानानां लक्षणं वक्ष्यतेऽधुना
हिमाद्रि कन्ययोरन्तर्गतो देश उदाहृतः १
सोपि देशस्त्रिधा भिन्नः तत्तद्देशोद्भवैर्गुणैः
यथैव देहिनां देहः वातपित्तकफात्मकः २
तथा ह्येतज्जगत्सर्वं विज्ञयं त्रिगुणात्मकम्
सात्विकं तामसं चैव राजसं च त्रिधा स्मृतम् ३
हिमाद्रि विन्ध्ययोरन्तर्गता सत्वा वसुन्धरा
विन्ध्यादिकृष्णवेण्यन्ताराजसाख्यामहीमता ४

कृष्णवेण्यादिकन्यान्तं तामसं भूतलं भवेत्
नागरं सात्विके देशे तामसे वेसरं भवेत् ५
राजसे द्रा विडं देशे कामदेवं हि भावयेत्
सात्विके नागरं हर्म्यं तामसे वेसरालयम् ६
राजसैद्रा र्!विडैर्हर्म्यं क्रमात्पुण्डरियोषितः
विष्णुर्महेश्वरो धाता क्रमाद्धर्म्यादि देवताः ७
नागरं भूसुरं विद्यात् वेसरं वैश्यमुच्यते
द्रा विडं तन्नृपं ज्ञेयं मात्रती शृणु सुव्रत ८
कूटकोष्ठादि निष्क्रान्तं मानसूत्रे तु सुस्थितम्
उन्नतावनतोपेतौ कूटकोष्ठौ यथाक्रमम् ९
एकाकारतलस्तम्भपत्रतोरणसंयुतम्
क्षुद्र कोष्ठसमायुक्तं महानास्य परे द्विज १०
वेदिकाजालकोपेतं कूटवेदाश्रशीर्षकम्
एकानेकतलं वापि सालिन्द्रं वापि हीनकम् ११
वेदाश्रं शीर्षं कण्ठं स्यात् सालाकारमथापि वा
नागरं भवनं ख्यातं तत्तद्देशे प्रकल्पितम् १२
प्राग्वत्कूटविनिष्क्रान्तं कूटकोष्ठोद्गतं तु वा
मानसूत्राद्बहिः कूटं नीप्रकूटं तु कोष्ठकम् १३
मध्यकोष्ठं सभद्रं वा द्विभद्रं वा द्विजोत्तम
पञ्जरं मानसूत्रेण कूटनिष्क्रान्तसागरम् १४
उन्नता वनता वेला सौष्ठीकोपि यथाक्रमम्
उन्नतं सान्तरं मञ्चं तं तं प्रस्तरहीनकम् १५
चतुरश्राष्टवृत्तान्तं कूटं क्रमात्तले तले
नानामसूरकस्तम्भवेदिकालकतोरणैः १६
वृत्ताख्यस्फाटितैर्हस्तितुण्डैः कुम्भलतादिभिः
हारान्तरेषु स्तम्भोर्ध्वे क्षुद्र कोष्ठयुतं तु वा १७
तत्रैव हस्तितुण्डं वा भद्र नास्यल्पमेव वा
साधारं वा निराधारमेकानेकतलं तु वा १८
शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा
युगाश्रं वा शिरोग्रीवं विमानं द्रा विडं भवेत् १९
तदेव चरणाधारमेकाकारं तु कल्पयेत्
हारान्तरे विशेषेण कल्पवृत्तस्फुटोदयम् २०
समं तु कूटकोष्ठौ द्वौ सान्तरप्रस्तरान्वितौ
हीना वान्तरमन्तोर्ध्वे निष्पञ्चसमसूत्रकम् २१
हारान्तरे तु कर्तव्यं भद्रं वा भद्र पञ्जरम्
कपोतपञ्जराढ्यं वा सान्तरप्रस्तरान्वितम् २२
सर्वेषां कण्ठकूटानामाशीर्षं तु युगाश्रकम्
वस्वश्रं वेदिकोपेतं मण्डलं शीर्षकं गलम् २३
वस्वश्रं वा शिरः कण्ठं युगाश्रं वा प्रकल्पयेत्
एतच्च द्रा विडं ख्यातं होमाद्याकुड्मलान्तकम् २४
वस्वश्रं वा षडश्रं वा तच्च द्रा विडमुच्यते
एवं त्रिविधं नित्यं तु प्रोच्यते द्रा विडालये २५
वेसरे कूटकोष्ठादि नीप्राः स्युः समसूत्रिणः
वृत्ताकारशिरोपेतान् कण्ठकूटान् प्रकल्पयेत् २६
वृत्तं गर्भगृहाकारं बाह्यं वृत्ताभमेव वा
वृत्तग्रीवशिरोपेतं यथेष्टं शिखरेण वा २७
सालिन्द्रं वा सभद्रं वाऽप्येकानेकतलं तु वा
समाग्रं वाऽऽयताग्रं वा वृत्तं वृत्तायतं तु वा २८
द्व्यश्रं वृत्तायतं हर्म्यं कूटकोष्ठादिभिर्युतम्
उन्नतावनपेतौ कूटकोष्ठौ यथाक्रमम् २९
समौ वा कूटकोष्ठौ द्वौ बाहू भूम्येकमेव वा
वेसरं भवनं ख्यातमथवान्यप्रकारतः ३०
जन्मादिस्तूपिपर्यन्तं युगाश्रं नागरं भवेत्
वस्वश्रं शीर्षं कण्ठं वा द्रा विडं भवनं भवेत् ३१
वृत्तग्रीवशिरोपेतं वेसरं हर्म्यमीरितम्
कूटकोष्ठविहीनानां हर्म्यकं कथितं त्विदम् ३२
नानाधिष्ठानसंयुक्तं गलं प्रत्यङ्घ्रिभेदितम्
सर्वत्र वृत्तपादं वा वेसरे भवने कुरु ३३
लिङ्गं च पिण्डिकां चैव प्रासादं चैव जातिकम्
सर्वसम्पत्समृद्धिः स्यात् नृपतेर्वास्तुजन्मनाम् ३४
परी ते विपरीते वा राजराष्ट्रभयङ्करम्
तस्मात्सर्वप्रयत्नेन एकजात्यैवमाचरेत् ३५
नागरे सकलं शान्तं वेसरे यानपत्तिनां
भोगं वीरं च नृत्तं च द्रा विडे भवने भवेत् ३६
अन्यथा चेद्विपत्यै च कर्तुर्भर्तुश्च देहिनाम्
नागरादिविधिः प्रोक्तः गर्भन्यासविधिं शृणु ३७
इति काश्यपशिल्पे नागरादिविमानविधिर्नाम पञ्चविंशः पटलः