अथ चतुर्विंशः पटलः
आयादिलक्षणम्
अथ वक्ष्ये विशेषेण आयादिलक्षणं परम्
हर्म्यषड्भागमानं तु गुणाढ्यं वसुभिर्हरेत् १
शेषं द्विजादियोनिः स्यात्तमसेधकरं बुधः
वर्जयेद्वसुभिश्चैव ऋक्षे भूतं हयादिकम् २
नवधा परितो हस्तं पातालैर्ह्रासयेद्बुधः
शेषमर्कादिवारं स्यात् व्यासायामकरं गुणैः ३
त्रिंशद्भिर्वर्जयेत् भित्तिं शेषं प्रतिपदादयः
तिथयस्तु समाख्याताः तुङ्गं हस्ताष्टवृद्धितम् ४
नाडिस्तु निविशेषमायमित्युच्यते बुधैः
तुङ्गं नवं तु मध्यात्तु क्रमाद्वै नाडिभिर्हरेत् ५
शेषं व्ययमिति ख्यातमायाधिक्यं व्ययक्षयम्
केतुस्सिंहो वृषो हस्ती गुरुश्शुक्रो बुधः शशी ६
यजमानस्य जन्मर्क्षादविरोधे दिनं तथा
वास्तुजन्मविरोधं च तथा ह्यात्मकुलं शुभं ७
एवं परीक्ष्य बहुधा शुभमानं तु सङ्ग्रहेत्
अथवा विस्तृतायामहस्तमष्टगुणी कृते ८
भानुव्यये विशेषं तु आयमित्युच्यते बुधैः
नवद्वादशिभिर्ह्रासे शेषं व्ययमुदाहृतम् ९
वसुभिर्गुणिते ऋक्षे हृते शेषादिकं दिनम्
गुणवृद्ध्याऽष्टभिर्ह्रासे शेषं ध्वजादियोनयः १०
नव ऋद्ध्या परीतोस्तं सप्तसङ्ख्या तु ह्रासयेत्
शेषमर्कादिवारं स्यात्त्रिंशत् ह्रासे तिथिर्भवेत् ११
प्राग्वत् शुभाशुभं वक्ष्ये शुभमानं तु सङ्ग्रहेत्
त्रिपञ्चयुगलं वेद षडष्टनवभानि वै १२
सदेष्टसिद्धिदाः प्रोक्ताः शेषास्स्युः परिवर्जिताः
नृपकर्तुश्च जन्मर्क्षाद्गेह ऋक्षावसानकम् १३
गणयेन्मतिमान्विप्रः शुभाशुभं तु गृह्यताम्
लग्नाष्टमं विनाशं च दुष्टयोगं च वर्जयेत् १४
शूलादियोगदोषाढ्ये दुष्टयोग उदाहृतः
आयादिरेवमाख्यातं नागरादिविधिं शृणु १५
इति काश्यपशिल्पे आयादिलक्षणं नाम चतुर्विंशः पटलः