२२

अथ त्रयोविंशः पटलः
मानसूत्रादयः
अथ वक्ष्ये विशेषेण मानसूत्रस्य लक्षणम्
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् १
नवपङ्क्तिकरान्तं तु हस्तेनार्ककरं भवेत्
एवमष्टाविधं मानं युग्मायुग्मं चतुश्चतुः २
पञ्चषट् हस्तमारभ्य द्विद्विहस्तविवर्धनात्
तिथिद्विरष्टकरान्तमाभासं त्रितलस्य तु ३
गृह्यधर्मकराद्यावत् सप्ताष्टाधिकतः कराः
चतुष्पञ्चतलं वाथ युग्मायुग्मं च ते दश ४
विस्तारं सप्तषट्पञ्चभागं कृत्वा द्विजोत्तम
रसभूतयुगांशं तु विस्ताराद्रो पयेत्क्रमात् ५
विस्तारे द्विगुणं चैव तस्मादष्टांशमाधिकम्
पञ्चायाथर्दितं तुङ्गमाभासे सदने द्विज ६
शान्तिकं पौष्टिकं चैव जयदं चाद्भुतं तथा
सार्वकामिकमित्येते अभिधानं यथाक्रमम् ७
हस्तद्वैधप्रवृद्ध्याथ व्यासत्सम्पूर्णमाचरेत्
आभासहर्म्यमाख्यातं विकल्पमधुना शृणु ८
नवपङ्क्तिकरात्पञ्चषट्पञ्चाशत्करांशकम्
द्विद्विहस्तविवृद्ध्या तु चतुर्विंशति सङ्ख्यया ९
पञ्चभूमिं समारभ्य यावदर्कतलान्तकम्
अधमं मध्यमोत्कृष्टं विकल्पं च यथाक्रमम् १०
षट् त्रिंशद्धस्तविस्तारे सप्तपञ्चाशदुच्छ्रये
त्रयोदशतलं कुर्यात् मम प्रीतिकरं भवेत् ११
विस्तारे सप्तपञ्चांशं नवभिर्हस्तमञ्चकं
तलं षोडशभिर्युक्तं शिवहर्म्यं शिवप्रियम् १२
एवं विकल्पमाख्यातं छन्दमार्गमथ शृणु
त्रिचतुर्दशहस्तादि द्विद्विहस्तविवर्धनात् १३
पञ्चषट् षष्टिहस्तान्तं व्यासे वै सप्तविंशतिः
वेदभूमिं समारभ्य भानुभूम्यवसानकम् १४
अधमं मध्यमोत्कृष्टं मानं वेदतलं प्रति
सप्ताष्टादशहस्तादि त्रित्रिहस्तविवर्धनात् १५
पञ्चषण्णवतिर्यावत् उच्चं प्रागिव सङ्ख्यया
अधमं मध्यमोत्कृष्टं तुङ्गभेदतलं प्रति १६
छन्दमेवं तलाख्यातं जातिहर्म्यमथ शृणु
सप्ताष्टादशहस्तादि द्विद्विहस्तविवर्धनात् १७
सप्ताशीति हस्तान्तं सप्तविंशति सङ्ख्यया
चतुर्भूमिसमारभ्य यावदर्कतलं प्रति १८
तावद्विस्तारमाख्यातमुत्सेधं शृणु साम्प्रतम्
त्रिसप्तविंशद्धस्तादि त्रित्रिहस्तविवर्धनात् १९
यावदाशतहस्तान्तमुच्चं प्रागिव सङ्ख्यया
अधमं मध्यमोत्कृष्टं व्यासोच्चं च क्रमोदितम् २०
एवं जातिविमानं तु सप्तविंशति धोदितम्
जातिच्छन्दविकल्पं च आभासास्ते द्विजोत्तम २१
महती द्व्यन्तराल्पं च क्षुद्र नासाप्रचोदितम्
युगाग्रे भूतमाने तु मानसूत्रं च विन्यसेत् २२
तदन्या कृतिहर्म्याणां वेदं शृङ्गाग्रपूरणम्
यत्रैव भज्यते तत्र मानसूत्रं विधीयते २३
प्रासादानां तु विस्तारं भित्तिपाद्बाह्यमेव वा
तद्पादाभ्यन्तरं वाथ तत्पादमध्यमं तु वा २४
उत्सेधं तदुपानादिस्तूप्यन्तं वा शिरोन्नतम्
सभामण्डपशालानां भित्तिमध्यावसानकम् २५
भित्तिमध्येङ्घ्रिबाह्ये वा मध्ये वाप्यन्तरेपि वा
भित्तिबाह्य गतं सौ तु बाह्ये वाभ्यन्तरेपि वा २६
तदङ्घ्रिमध्यावसानं मानसूत्रं द्विजोत्तम
भित्तिमध्येङ्घ्रिविस्तारं चाङ्घ्रिस्थानेषु चोच्यते २७
भित्तिबाह्यगतं पादं प्रागेव प्रोच्यते तदा
सालानां भित्तिमध्ये वा बाह्ये वाभ्यन्तरेऽपि वा २८
यानानां शयनानां च स्यान्मध्ये मानसूत्रकम्
मानसूत्रं समाख्यातं सर्वेषां सदनादिनाम् २९
मानसूत्रं तु बाह्ये स्यात् कूटशालादि नीप्रकम्
कूटाद्यात्तविशालं वा त्रिपादं वार्धमेव वा ३०
पादं सार्धं सपादं वा मानसूत्राच्च निर्गतम्
अथवा दण्डमानेन तुङ्गादीनां तु निर्गतं ३१
दण्डं वा ह्यर्धदण्डं वा द्विदण्डं सार्धदण्डकम्
त्रिदण्डं वाथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः ३२
मानस्याभ्यन्तरे वेशं विपदामास्पदं सदा
तस्मात्सर्वप्रयत्नेन मानसूत्राद्बहिर्गतम् ३३
एतद्विन्याससूत्रं स्यात् समसूत्रात्समं तु वा
होमवाग्गतसूत्रं वा अवसानमुदाहृतम् ३४
मानविन्याससूत्रं च अवसानं च ते त्रयम्
ख्यातं सङ्क्षेपतो विप्र शृणुष्वाऽऽयादिलक्षणम् ३५
इति काश्यपशिल्पे मानसूत्रादिलक्षणं नाम त्रयोविंशः पटलः