२१

अथ द्वाविंशः पटलः
प्रासादमानम्
अथ वक्ष्ये विशेषेण प्रासादमानलक्षणम्
प्रासादः सदनं सद्महर्म्यं धामनिकेतनम् १
मन्दिरं भवनं वासः गेहं दिव्यविमानकम्
आश्रयं चास्पदं चैव अधारं च क्रमेण तु २
आधारप्रतिधिष्ण्यं च हर्म्यपर्यायवाचकाः
तस्मादत्र परो नास्ति परिमाणं समुच्यते ३
यवाष्टौ सधरेण स्यात् धरे वेष्टकपिम्पि च
पिशुनामष्टकं प्रोक्तं केशानाग्रं तु सञ्ज्ञिका ४
बालानां मूर्ध्निकेशः स्यादग्रं तस्योपमानकम्
तत्केशाग्रं च सायं यत् लक्ष्यमाणमुदाहृतम् ५
सप्तसङ्ख्ययवं तारं मध्यमं गुलमुच्यते
कराग्राग्रान्तमाख्यातं षट्सङ्ख्यं यवविस्तृतम् ६
शाल्यायामचतुष्कं तु उत्तमाङ्गुलिसञ्ज्ञिकम्
शाल्याय त्रिगुणं मानमधमं तदुदाहृतम् ७
श्वेतशाली महाशाली रक्तशाली तथैव च
सौगन्धी हेमशाली च शाली पञ्चविधा स्मृता ८
रक्तशाल्यायतं तेषु अङ्गुलार्थं तु सङ्ग्रहेत्
एवं तु षड्विधं प्रोक्तं मानाङ्गुलं द्विजोत्तम ९
चन्द्र जीवशिवांशं च व्योमचैकाङ्गुलाख्यकम्
वृक्षपक्षाश्विनी चैव द्वितीयाङ्गुलसञ्ज्ञिकम् १०
कालं चानलरुद्रा क्षशूलं चालेखिनं गुणम्
तृतीयं गुणसञ्ज्ञाकं चेदाब्धियुगकोलकम् ११
चतुरङ्गुलसञ्ज्ञास्तु बाणभूतेन्द्रि यास्तृतम्
पञ्चाङ्गुलस्य सञ्ज्ञास्तु कुमारस्समयस्तथा १२
सारं चारमकं चैवर्तुकौशिकं षडङ्गुलम्
पातालं ऋषिधातूद्वाम्भोध्युष्णिक् नगास्तथा १३
मातृलोकं स्मरं चैव सप्ताङ्गुलविधानतः
हस्तिपर्वत अनुष्टु च मानं च वसवो मूर्तयस्तथा १४
अष्टाङ्गुलस्य सञ्ज्ञाः स्युः शक्तिद्वारगृहस्य वा
सूत्रानन्तघनं ताद्यं द्विजाश्चैव नवाङ्गुला १५
नाडिकाष्ठायुतं धर्मं दशाङ्गुलस्य सञ्ज्ञकम्
कंशातं चैवरो रुद्र मेकादशाङ्गुलाख्यया १६
अब्दं भास्करभानुश्च द्वादशाङ्गुलसञ्ज्ञितम्
चन्द्रा दित्यशिवांशं च त्रयोदशाङ्गुलं स्मृतम् १७
पक्षश्च तिथयश्चैव पञ्चदशाङ्गुलं स्मृतम्
कलामूर्तिद्वयं चैव षोडशाङ्गुलसञ्ज्ञितम् १८
पञ्चविंशतिः त्रिंशच्च चत्वारिंशत्तथैव च
पञ्चाशत् षष्टिसप्तत्यः अशीतिर्नवतिश्शतम् १९
प्रत्ययस्त्रिषु पञ्चाशत् जगतीसु गतिस्तथा
सत्वरिः च सशकश्च तुष्टिः पुष्टिः धृतिस्तथा २०
सुध्रितश्च दशाद्यादि शतानामभिधानकम्
एकादशं शतं चैव सहस्रमयुतं तथा २१
नियुतं प्रयुतं कोटिरर्बुदं ब्रूत खर्वटम्
निखर्वं शङ्खं पद्मं च समुद्रं मध्यमन्तरम् २२
आद्यं परं परार्धं च दशवृद्ध्या प्रकीर्तिताः
श्रेष्ठं मात्रान्तरैः स्तम्भद्वादशाङ्गुलं भवेत् २३
भानुद्वयाङ्गुलं कृष्णं हस्तमित्युच्यते बुधैः
श्रेष्ठमध्यान्तरैः मात्रैः कल्प्यहस्तं तथोदितम् २४
तच्चतुष्कं भवेत् दण्डं तेन वस्त्राणि मापयेत्
पञ्चविंशतिमात्रं स्यात् प्राजापत्यं करं बुध २५
षड्विंशतिर्धनुर्मुष्टिः सप्तविंशत् धनुर्ग्रहम्
अष्टाविंशाङ्गुलं प्राच्यं वैदेहं नवविंशतिः २६
वैर्वल्यात्रिंशदङ्गुल्यमेकत्रिंशत् प्रकीर्णकम्
एवमष्टविधं हस्तं प्रत्येकं द्विजसत्तम २७
अधमं मध्यमोत्कृष्टं भेदेनैव रविद्वयम्
धनुग्रहं प्रकीर्णाढ्यं द्विजानां गृहमारभेत् २८
वैपुल्यधनुर्मुष्टिभ्यां क्षत्रियाणां गृहं कुरु
प्राजापत्य करेणैव शूद्र जातिगृहं भवेत् २९
अधिकं जात्यकं हस्तं हीनानां तु विवर्जयेत्
सीनाधिकारविप्राणामधिकं च शुभावहम् ३०
सर्वेषामुदितं हस्तमेवं सद्मनिपूजितम्
अन्यच्च सर्वदेवानां योग्यं सद्मनियोजयेत् ३१
अधिकं कृष्णहस्तं तु सर्वजात्यर्हकं भवेत्
मानादिशयनान्तं च कृष्णहस्तेन मापयेत् ३२
आरामोद्यानकादीनि प्राजापत्यकरेण तु
धनुर्मुष्टिकया चैव ग्रामादिवास्तु मापयेत् ३३
धनुर्ग्रहेण वाप्यादि नद्यवानं च मापयेत्
अथवा कृष्णहस्तेन सर्ववास्तूनि वा द्विज ३४
इति काश्यपशिल्पे प्रासादादिमानलक्षणं नाम द्वाविंशः पटलः