अथैकविंशः पटलः
नासिकालक्षणम्
अथ वक्ष्ये विशेषेण नासिकालक्षणं परम्
ललाटनासिकाख्यातं शिखरे तारसदृशम् १
शिखरस्य तु विस्तारं त्रिचतुष्पञ्चभागकं
क्रमान्नासाविशालांशमुत्तमाधममध्यया २
महानासी तु विख्याता त्रिविधासाप्रकीर्तिता
समं त्रिपादमर्धं वा शिखरे नासिनीप्रकम् ३
तत्तारत्रिचतुर्थांशहीनं शेषोदयं भवेत्
नासिकातुङ्गमाख्यातं तत्वर्धोच्चमथापि वा ४
शक्तिध्वजतदूर्ध्वेन असितुङ्गार्ध एव वा
त्रिपादं वा त्रिभागैकं भागं वाथ तदुन्नतम् ५
तच्छक्तिध्वजतुङ्गं तु गुणभागविभाजिते
द्विभागं किन्नरीवृत्तं तच्छेषं गळमानकम् ६
दण्डं तद्गलसारं स्यात् द्विगुणं किन्नरीमुखम्
शक्तिध्वजोपरिष्ठं तु पत्रं वाथ ससूकलम् ७
किन्नरी वक्त्रतुङ्गं स्यात्समं शूलोदयं भवेत्
पत्रं चोक्तेन मानेन तथा सौन्दर्यमाचरेत् ८
विस्तारं मुखपट्ट्यस्तु दण्डं वाप्यर्धं एव वा
वल्ली मण्डलछत्राद्यैः भूषयेन्मुखपट्टिकाम् ९
मुखपट्ट्यवशेषान्तं तद्वा गाढमुदाहृतम्
शतस्थिततपट्टीभ्यां त्रिनाल्यप्रतिभूषितम् १०
शूलाभं वा स्थलाभं वा सव्यालं वा सनाटकम्
मालिका कूटकोष्ठादिमण्डितं वा विमानयेत् ११
चित्रचित्राख्यमकरैः तोरणाख्यैरथापि वा
तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुनासिका १२
नानाविधैस्तथान्यैर्वा नासिकार्थं तु मण्डयेत्
सभद्रं तु महानासि पादं सर्वाङ्गसंयुतम् १३
उत्तरं वाजनाब्जं च क्षेपणं नासिका तथा
कल्पयित्वा विशेषेण कण्ठं तारादिमानतः १४
ऊर्ध्वस्तम्भविशालं वा विशालं वार्ध एव वा
नासिकास्तम्भविस्तारं कर्णोच्चं तु तदुन्नतम् १५
स्वस्वश्रं वाथ वृत्तं वा युगाश्रं वा तदा कृति
नासिकायास्तु विस्तारं द्विदण्डं वा त्रिदण्डकम् १६
हितं शेषविशालं स्यात् नास्यङ्घ्रिबाह्यसीमकम्
नासिकाङ्घ्रिद्वये मध्ये तन्मूर्तिस्थापनं कुरु १७
महानासमिदं प्रोक्तं क्षुद्र नासविधिं शृणु
सार्धदण्डं द्विदण्डं वा त्रिदण्डं वाथ विस्तृतम् १८
तत्तारत्रिचतुर्थांशहीनं शेषोदयं भवेत्
कपोतालम्बनात् क्षुद्र नागोच्चं तु प्रकल्पयेत् १९
प्रतिवाजनसीमान्तं तस्य शक्तिध्वजोन्नतम्
तदुच्चं तु त्रिधाभज्य एकांशं कण्ठमानकम् २०
शेषं किन्नरिवक्त्रं वै तारं युक्तिवशान्नये
नासितारार्धगाढं स्यात् गाढार्धं मुखपट्टिका २१
व्यासं तालादिभिर्भूष्य नानालङ्कारसंयुतम्
पादं वृतिकपो तेषु कल्पयेत्स्वस्तिका कृतिम् २२
मध्ये च कूटशालानां पञ्जरं चाल्पनासिकम्
कल्पयेत्तु विशेषेण शिखरे भद्र नासिकम् २३
शालाग्रयोस्तु कर्तव्या ललाटाख्या तु नासिका
नासिकालक्षणं प्रोक्तं ततः प्रासादमानकम् २४
इति काश्यपशिल्पे नासिकालक्षणं नाम एकविंशः पटलः