अथ विंशः पटलः
शिखरलक्षणम्
अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम्
ऊर्ध्वभूस्तम्भतुङ्गस्य सदृशं शिखरोदयम् १
अर्धोत्सेधांशमानं वा तुङ्गं वै शिखरस्य तु
यदि विस्तारतुल्यं वा शिखरे प्लोतनीप्रकम् २
वलभी वाजननीप्रं दण्डं वार्धं एव वा
द्विदण्डं नीप्रं चालम्बनं समम् ३
तन्नीप्रसदृशं तुङ्गं कपोतं वलभीजनात्
शिरस्तारं कपोतोर्ध्वं वलभीवाजनैः समम् ४
शिखरे मध्यविस्तारं कम्पनिष्क्रान्तसदृशम्
समं त्रिपादमर्धं वा तारमेवं चतुर्विधम् ५
तत्र तारं च पञ्चांशे त्र्! यंशं फलिकविस्तृतम्
शिखरे बलिकस्थानं भूतांशेषु शिरोदयम् ६
वेदभागावसाने तु फलिकामण्डलाकृतिं
त्रिचतुष्पञ्चमात्रं वा बलिकं मण्डलं तथा ७
तत्तारे तु चतुर्थांशन्तन्मण्डलघनं भवेत्
युग्मं वाऽयुग्मसङ्ख्यं वा परितः कल्पयेत्समम् ८
बलिकानामधश्चोर्ध्वे वेत्रे तदधमानतः
बलिकव्यासभूतांशे युग्मांशं पद्मविस्तृतम् ९
शिखरस्य तु मानान्तं पद्मतुङ्गमुदाहृतम्
पद्मतारत्रिभागैकं कुम्भस्थाधोवलग्नकम् १०
वलग्नस्य त्रिभागैकं कुम्भस्योपरिकन्धरं
कन्धरं त्रिगुणं वाली तत्त्रिभागे तु कुड्मलम् ११
पालिनाळविशालं तु कन्धरादिषु ब्रंहितम्
वलिकान्तं शिरोमध्यात् आनुपूर्व्यं कृशं कुरु १२
मध्याद्वाजनतुल्यान्तं क्रमेण कृशतां कुरु
तस्मात्कपोतनीप्रान्तं क्रमेणैव बृहद्घनम् १३
शिखरस्य तु तुङ्गार्धं पद्मार्धे स्तूपितुङ्गकम्
द्वाविंशति भवेदुच्चं पद्ममध्यर्धभागकम् १४
कम्पमर्धांशमित्युक्तं गलमर्धांशमानतः
तत्समं चोर्ध्वकम्पं तु पद्ममंशेन कल्पयेत् १५
भूतभागं गळोत्सेधं कम्पमर्धांशमानतः
पद्ममंशेन कर्तव्यं कम्पमर्धांशमानतः १६
पञ्चांशं वालिकानां तु द्व्यंशं कम्पमथोच्यते
पद्ममंशेन कर्तव्यं पालिकोच्चं तु भागकम् १७
अर्धेन पद्ममर्धेन पद्मशेषं तु कुड्मलम्
शिखराकृतिवत्कुम्भं फलिकाकूश्मलं तथा १७
नागरे चतुरश्रं तत् वस्वश्रं द्रा विडे शिरः
वृत्तं वेसरहर्म्ये तु शिरसो वर्तनं क्रमात् १८
नानापत्रलताभिस्तु शिखरं तु सुभूषयेत्
लक्षणं शिखरस्यैवं नासिकालक्षणं शृणु
इति काश्यपशिल्पे शिखरलक्षणं नाम विंशः पटलः