अथैकोनविंशः पटलः
गळभूषणम्
अथ वक्ष्ये विशेषेण गळभूषणलक्षणम्
ऊर्ध्वभौमोच्चतुङ्गं तु गळमानमुदाहृतम् १
अर्धोत्सेधांशमानं वा गळमानमुदाहृतम्
तदुच्चत्रिचतुष्पञ्च शेषं वा वेदिकोदयम् २
शेषं गळोदयं ख्यातं तमशेषं गळोदयम्
वेदिकायास्तु विस्तारे चतुष्पञ्चषडंशके ३
त्रिचतुष्पञ्चभागं तु गळव्यासं यथा क्रमम्
अङ्घ्रेर्वेध्यङ्घ्रिवेशं स्यात्तद्वेध्यं गळवेशनम् ४
त्रिपादं वा तदर्धं वा वेद्यङ्घ्रेर्गळवेशनम्
एवं त्वनेकभेदेषु कर्तुरिच्छावशान्नयेत् ५
वेदाश्रं नागरे कण्ठं वस्वश्रं द्रा विडे गलम्
वृत्तं तु वेसरे हर्म्ये गलमानाकुलं नयेत् ६
दिशिभद्र समायुक्तं नासिका नकुलाङ्घ्रिकम्
भानुद्व्यंशे गलोत्सेधे कलांशं तु गलोदयम् ७
उत्तरोच्चं गुणांशं तु वाजनं गलभागकम्
आद्व्यंशं बहुभिर्मानं व्योमांशं वाजनोदयम् ८
उत्तरार्धगलान्नीप्रं वाजनादीनि पूर्ववत्
अथवा भानुभागे तु गलोदयमुदाहृतम् ९
उत्तरोच्चं गुणांशं तु शिवांशं वाजनोदयम्
तदूर्ध्वे मुष्टिबन्धं चाप्यध्यर्धांशमुदाहृतम् १०
मृणाल्युच्चं गुणांशं तु एकांशं पट्टिका भवेत्
सार्धांशं दण्डिकोच्चं तु व्योमांशं वर्णपट्टिका ११
गोपानं कल्पयेदूर्ध्वे उपारोहणमेव वा
वाजनादीनि निष्क्रान्तं तत्तदुच्चसमं भवेत्
एवं गलोन्नतं व्यासमलङ्कारं च कीर्तितम् १२
इति काश्यपशिल्पे गळभूषणविधानं नाम एकोनविंशः पटलः