अथाष्टादशः पटलः
प्रस्तरलक्षणम्
अथ वक्ष्ये विशेषेण प्रस्तरस्य तु लक्षणम्
स्तम्भार्धं मञ्चमानं तु आर्तोत्सेधांशमेव वा १
तदुच्चे त्वेकविंशांशे कृत्वा गुणांशमुत्तमं
वाजनस्यैकभागेन भूतमालोन्नतं त्रिभिः २
भूतमालोपरिष्टात्तु वाजनं त्वेकभागकम्
सप्तांशं तु कपोतोच्चमालिङ्गमेकभागकम् ३
अंशेनान्तरितं कुर्यात् वृत्त्युत्सेधं गुणांशकम्
वाजनं त्वेकभागेन कुर्याद्वै चान्यभेदतः ४
तुङ्गमेकोनविंशांशं कृत्वोत्तरं त्रिभागकम्
भागेन वाजनं कुर्यात् अभ्यंशे वलभी भवेत् ५
वाजनं त्वेकभागेन कपोतोच्चं रसांशकम्
आलिङ्गमंशमंशेनान्तरितं तु प्रकल्पयेत् ६
वृत्त्युत्सेधं द्विभागेन वाजनस्यैकभागकम्
उत्सेधश्चैवमाख्यातः त्वङ्गजातमथोच्यते ७
स्तम्भात्तु पोतिका नीप्रं बोधिकादुत्तरं तथा
वाजनस्य तु निष्क्रान्तमुत्तरं वाजनोन्नतम् ८
वाजनात् वलभी नीप्रं वलभीतुङ्गसादृशम्
त्रिपादं वा तदर्धं वा प्रग्वाजनातिविस्तृतम् ९
वाजनानां कपोतस्य नीप्रं होमसमानकम्
उपानस्यावसानं वा जगदतमथापि वा १०
वाजनादर्धदण्डं वा दण्डं सार्धं द्विदण्डकम्
वाजनात्तु कपोतस्य नीप्रं चालम्बनं समम् ११
कपोतं गोपानसहितं गोपानरहितं तु वा
पादबाह्यसमं प्रोक्तं कुलिङ्गवृतिरुच्यते १२
आलिङ्गान्तरितं वेशं नीप्रं चोत्सेधसदृशम्
वाजनोच्चसमं प्रोक्तं वाजनस्य तु निर्गमम् १३
दण्डं त्रिपादमर्धं वा चोत्तराग्रस्य नीप्रकम्
उत्तरस्यानुकूलं तु वाजने नीप्रवेशनम् १४
वलभी वृतसंसाद्यैर्भूषयेदुत्तरोपरि
नानापत्रलताद्यैस्तु कपोतं कर्णपालिकं १५
प्रत्यग्रमकरीबन्धप्रतिसिंहादिभूषितम्
एवं प्रस्तरवर्गं तु प्रोच्यते तत् द्विजोत्तम १६
इति काश्यपशिल्पे प्रस्तरलक्षणं नाम अष्टादशः पटलः