१६

अथ सप्तदशः पटलः
कम्पद्वारलक्षणम्
अथ वक्ष्ये विशेषेण कम्पद्वारविधिं परम्
प्रासादमण्डपादीनां चतुर्दिक्षु विदिक्षु वा १
तयोर्मध्यान्तराले वा व्योमाभीष्टं तु यत्र वै
तत्रैव कल्पयेत् सम्यक् कम्पद्वारं द्विजोत्तम २
वक्त्रवीतकृतं पत्तिव्यासयुक्तं विशालकं
स्थलादुत्तरसीमान्तं कम्पद्वारोदयं भवेत् ३
भुवङ्गं च पतङ्गं च योगं प्रागुक्तवत् घनम्
कृत्वा दृढी कृतं बध्वा योजयेदन्तरा पुरा ४
योगव्यासं घनं दीर्घं आयामाङ्घ्रि तथा कुरु
मूलाग्रयोजिकोपेतं तरङ्गाङ्घ्रि प्रकल्पयेत् ५
भुवङ्गं च पतङ्गं च छिद्रे युञ्ज्यात् दृढी कृतम्
चतुष्षडष्टसङ्ख्यं वा दश द्वादश एव वा ६
मनुषोडशसङ्ख्यं वा कल्पयेदन्तराङ्घ्रिकम्
अन्तरार्थ्यन्तरा प्रत्यक् गमागमक्षमं विना ७
अन्तराङ्घ्रीन् प्रयुञ्जीयात् स्थापयेत् द्वारयोगवत्
योजयेत्तु कवाटादि व्योम्नि प्रत्येकमेव तु ८
कवाटे द्विव्योमग्रासत्रिव्योमग्रास एव वा
कल्पयेत् सुदृढं द्वारं त्वचलं हस्तिनापि वा ९
कम्पद्वारं समाख्यातं प्रस्तरं तु ततः शृणु १०
इति काश्यपशिल्पे कम्पद्वारलक्षणं नाम सप्तदशः पटलः