अथ षोडशः पटलः
द्वारविन्यासः
अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम्
पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् १
चरणं नवधा भज्य अष्टांशं द्वारमानकम्
अथवाङ्घ्रिकतुङ्गे तु वसुभागविभाजिते २
सप्तांशं द्वारमानं तु रसभागविभाजिते
सार्धपञ्चांशमूर्ध्वे तु भवङ्गस्योच्छ्रयं भवेत् ३
शुद्धद्वारं तु तुङ्गार्धं शुद्धद्वारस्य विस्तृतम्
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवाङ्गुलम् ४
तुङ्गार्धादधिकं हीनं तारमेकोनविंशतिः
भेदमेवं समाख्यातं द्वारतुङ्गं त्रिधा भवेत् ५
सर्वेषामपि हर्म्याणां द्वारमध्ये तु योजयेत् ६
पादविष्कम्भमानं वा सपादं सार्धमेव वा
द्वारयोगस्य विस्तारं तस्यार्धं घनमुच्यते ७
साष्टसार्धघनं वाथ त्रिपादं वाथ तद्घनम्
योगतुङ्गं तु वेदांशमेकाग्रांशमथोत्तमम् ८
गुणांशमूर्ध्वगं ख्यातं बाह्याब्जक्षेपणाञ्चितम्
बाह्येब्जक्षेपणोपेतं भूतारं तदधो भवेत् ९
पतङ्गतारं योगस्य तुल्याब्जं च विहीनकम्
भुवनं च पतङ्गं च मध्यस्थवलयान्वितम् १०
ताम्रजौ वाऽऽयसौ वाथ वलयौ कीलवद्धितौ
तद्विस्तारत्रिभागैकं शिखायोगप्रवेशितौ ११
शैलजं चेत् भुवङ्गादि योगभूये शिखान्वितौ
भुवङ्गपतङ्गयोरग्रौ छिद्र योः वेशनान्वितौ १२
एवं दृढी कृतौ पश्चात् योगावस्थानमाचरेत्
सुनक्षत्रे शुभे वारे शुभहोरा मुहूर्तके १३
योगे संस्थापयेद्विप्र शान्तिहोमं परं चरेत्
भित्तिव्यासे तु भान्वंशे बाह्यात् पञ्चावसानकम् १४
अभ्यन्तरं तु सप्तांशं सीमायोगस्य मध्यमम्
तद्बाह्येऽभ्यन्तरं चैव सीमा व्यासोभयाश्रितम् १५
सर्वालङ्कारसंयुक्तं व्याससाम्य दृढी कृतम्
दक्षिणे तु कवाटे तु योजयेत् द्वारपट्टिकाम् १६
त्रिचतुःपञ्चमात्रं वा द्वारपट्टिकविस्तृतम्
तत्त्रिभागैकभागं तु तस्य नीप्रमुदाहृतम् १७
तन्नीप्रद्विगुणं ख्यातं नीप्रं वै तत्कवाटयोः
नीप्रभायां च मध्ये तु द्वारपट्टिकपार्श्वयोः १८
लोहजं वलयोपेतमेतानि कीलबन्धनम्
लोहजं दारुजं वाथ बाह्याभ्यन्तरगं तथा १९
तासां त्रिमङ्गलं तावत्तारार्थघनसंयुतम्
बध्वा कवाटे योगौ द्वौ दारुलोहैर्दृढी कृतम् २०
अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम्
परेषां घटयन् तन्त्रमप्यसक्तमिवाचरेत् २१
प्रासादे मण्डपे चैव गोपुरे चैवमाचरेत्
द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु २२
इति काश्यपशिल्पे द्वारविन्यासलक्षणं नाम षोडशः पटलः