१४

अथ पञ्चदशः पटलः
कुम्भस्थललक्षणम्
स्तम्भमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत्
पादव्यापि समं तुङ्गं सपादं पद्मविस्तृतम् १
पद्मोच्चं वसुधा भज्य कम्पमेकांशमेव वा
अधः पद्मं गुणांशं तु एकांशं गळमुच्यते २
ऊर्ध्वमन्त्रद्विभागं तु कम्पमेकेन कारयेत्
तदूर्ध्वे कुम्भतुङ्गं तु पद्मस्योच्चं समन्वितम् ३
तत्तुङ्गद्विगुणं कुम्भव्यासमित्यभिधीयते
कुम्भास्ये स्तम्भनिर्यूहं वलिमण्डलसंयुतम् ४
कुम्भमण्ड्यादिसंयुक्तं वीरकाण्डविहीनकम्
फलकोपरिपद्मं तु कुम्भमानेन कल्पयेत् ५
कुम्भकुम्भलता ह्येता ह्यन्यथा वक्ष्यते पुनः
तदेवोत्सन्धिकोर्ध्वे तु वीरकाण्डसमन्वितम् ६
पोतिकारहितं यत्नात्स्तम्भकुम्भलता स्मृता
स्तम्भतोरणवन्मूर्ध्नि कर्तव्यं तोरणालयम् ७
एवं त्रिविधं छित्वा तूच्यते कुम्भलता द्विज ८
इति काश्यपशिल्पे कुम्भस्थललक्षणं नाम पञ्चदशः पटलः