१३

अथ चतुर्दशः पटलः
स्तम्भतोरणलक्षणम्
अथ वक्ष्ये विशेषेण स्तम्भतोरणलक्षणम्
योगं वा पञ्चषट्सप्तभागे वै त्रिविधं भवेत् १
शेषं पादोदयं ख्यातमेवं वै त्रिविधं भवेत्
युगाश्रं वसुकोणं वा वृत्तं वा तोरणद्वयम् २
कुम्भमण्ड्यादिसंयुक्तं पोतिका सहितं तथा
पोतिका रहितं वाथ वीरकाण्डसमन्वितम् ३
कुड्यस्तम्भविशालार्धं त्रिपादं वा समं तु वा
तोरणाङ्घ्रिविशालं तु प्रोच्यते द्विजसत्तम ४
उत्तरं वाजनं साब्ज क्षेपणं क्षुद्र वाजनम्
यथा क्रमेण सङ्कल्प्य अनेन विधिना बुध ५
तोरणाङ्घ्रिविशालं वा त्रिपादं वोत्तरोदयम्
तदर्धं वाजनोच्चं तु तस्यार्धं गळमानकम् ६
गळार्धं क्षेपणं ख्यातं तस्यार्धं क्षुद्र वाजनम्
उत्तरं पोतिकोर्ध्वे तु वीरकाण्डं तु वा भवेत् ७
उत्सन्धितानताग्रं तु कुर्यात् मकरविष्टरम्
तोरणाग्रविशालं तु कुड्यस्तम्भोऽथ आर्धकम् ८
कुड्यस्तम्भस्य तारान्तर्व्यासं वा तोरणाग्रकम्
स्वाङ्घ्रिवेत्रावसानं वा तस्मात् दण्डाधिकं तु वा ९
एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम्
कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते १०
द्वारतुल्योन्नतव्यासं तोरणाङ्घ्रितरं समम्
उत्तरं वाजनं वाब्जक्षेपणं चाष्टमङ्गळम् ११
फलकं पञ्चवक्त्राढ्यं प्रागुक्तविधिना कुरु
वक्त्राख्यं मकराख्यं वा चित्रतोरणमेव वा १२
मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम्
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् १३
श्रीवत्सं स्वस्तिकं शङ्खं दीपं देवाष्टमङ्गलम्
श्रीवत्सं मध्यमे कुर्यात् शेषांस्तु तस्य पार्श्वयोः १४
लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम्
द्वारतोरणमेवं हि स्तम्भतोरणमुच्यते १५
पादोच्चं तु त्रिधा भज्य द्विभागं चरणोदयम्
पादं सर्वाङ्गसंयुक्तं पोतिकारहितं कुरु १६
उत्तरं वाजनाब्जं च क्षेपणं निम्नवाजनम्
तदूर्ध्वं झषकर्णं तु नानापत्रैर्विचित्रितम् १७
तोरणं मकराख्यं तु मृणाल्यन्वितकन्धरम्
सर्वालङ्कारसंयुक्तमेतत् स्यात् स्तम्भतोरणम् १८
पादान्तरे हारायां वा कर्णप्रासादमध्यमे
शालामध्यान्तराले वा कर्तव्यं सर्वधामसु १९
स्तम्भतोरणमाख्यातं शृणु कुम्भलताविधिम् २०
इति काश्यपशिल्पे कुड्यद्वारस्तम्भतोरणविधिर्नाम चतुर्दशः पटलः