१२

अथ त्रयोदशः पटलः
वृत्तस्फाटितलक्षणम्
अथ वक्ष्ये विशेषेण वृत्तस्फाटितलक्षणम्
षडङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् १
कलाङ्गुलावधिर्यावत् तावद्व्यासं तु षड्विधम्
विस्तारार्धं तु तन्नीप्रं द्वात्रिंशत् द्वित्रिभागकम् २
वृत्ताकारसमं तच्च तोरणाङ्घ्रि तु दायतम्
सकन्धरं तदूर्ध्वे तु शुकनासान्वितं तु वा ३
कर्णकूटाकृतिं वाथ वृत्ताकारं प्रकल्पयेत्
स्तम्भोत्सेधयुगांशे तु द्विभागं चरणोदयम् ४
प्रस्तरोदयमेकांशं शुकनास्युदयांशकम्
तदेव कूटमानं तु तत्तदुक्तवशान्नयेत् ५
अथवा तरमञ्चस्य प्रोक्तमार्गेण वा कुरु
वृत्तस्फाटितमेवं हि लतामण्डलमण्डितम् ६
स्तम्भाद्यं तोरणं चैव तथा कुम्भलता द्विज
वृत्ताख्यं स्फाटितं चैव हारं तारेषु कल्पयेत् ७
स्तम्भान्तरे च कर्तव्यं हर्म्यादीनां विशेषतः ८
इति काश्यपशिल्पे वृत्तस्फाटितलक्षणं नाम त्रयोदशः पटलः