११

अथैकादशः पटलः
जालकलक्षणम्
अथ वक्ष्ये विशेषेण शृणु जालकलक्षणम्
पादवर्गगळे चैव जालकस्थानमुच्यते १
प्रासादेषु सहावास्त्वन्तराले चैव मध्यमे
पादात्पदं न कर्तव्यमनेन विधिना बुधः २
योजयेत् वेदिकोर्ध्वे तु जालकं तु द्विजोत्तमाः
वेदिकाजालकार्थं न छेद्या सर्वविनाशनम् ३
तद्यथा वेदिकाजालं कार्यं न छेदयेत्तथा
द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् ४
चतुर्दण्डविशालं तु ह्युत्तमं परिकीर्तितम्
विस्तारसदृशोत्सेधमेकदण्डादिवर्धनात् ५
विस्तारद्विगुणं वाथ तावद्वै जालकोत्तमम्
येषु तुङ्गविशाले तु यदिष्टं तु परिग्रहेत् ६
स्तम्भव्यासार्धमानं तु घनं व्यासाङ्घ्रिकम्पयोः
विस्तारार्थायनं वा तच्चतुर्थांशमेव वा ७
मध्यस्थं च रन्ध्रं च वर्ज्यं जालकमाचरेत्
युग्मं पादं समायुक्तमयुग्मं कम्पमुच्यते ८
गोनेत्रं हस्तिनेत्रं च नन्द्यावर्तं ऋजुक्रियम्
पुष्पकर्णं सकर्णं च जालकं षड्विधं भवेत् ९
दीर्घाश्रं कण्टकच्छिद्रं गोनेत्रमिति सञ्ज्ञितम्
युगांशं कर्णकच्छिद्रं हस्तिनेत्रमुदाहृतम् १०
पञ्चसूनं तु यत् छिद्रं प्रदक्षिणवशाकृति
नन्द्यावर्तस्य पुष्पाभं नन्द्यावर्तमिति स्मृतम् ११
आर्जुकालौ स्तम्भकम्पौ द्वौ जालं तदृजुक्रियम्
पुष्पकण्ठं सकर्णाभं नन्द्यावर्तमिवाकृति १२
स्तम्भयोगं कवाटं च भित्तिमध्यबहिःस्थितम्
युग्मायुग्मं कवाटं वा घाटनोद्घाटनक्षमम् १३
जालकं तु सभादीनां पदतोर्धेन कल्पयेत्
लोहद्रुमफलैर्दिव्यैर्वेष्टकाभित्तिजालकम् १४
यत्रोचितं तु यत् द्र व्यं तेन तत्रैव योजयेत्
जालकं ह्येवमाख्यातं ततस्तोरणलक्षणम् १५
इति काश्यपशिल्पे जालकविधानं नाम एकादशः पटलः

अथ द्वादशः पटालः
तोरणलक्षणम्
अथ वक्ष्ये विशेषेण तोरणानां च लक्षणम्
पादोदये दशांशे तु सप्तांशं चरणोदयम् १
शेषं त्वनलभागं तु झषमानमुदाहृतम्
नवांशे पादतुङ्गे तु षडंशं चरणोदयम् २
शेषं झषादयं ख्यातमष्टांशे चाङ्घ्रितुङ्गके
पञ्चांशं चरणोत्सेधं गुणांशं कम्पतुङ्गकम् ३
तुङ्गं वा विपुलं वापि देवभूतरसाङ्घ्रिकम्
तोरणस्य तु पाद्बाह्वोः व्यासमेवं चतुर्विधम् ४
प्रासादमण्डपादीनां मध्यभागे तु तोरणम्
अनेन विधिना विप्र कर्तव्यं कुड्यबाह्यके ५
पत्राख्यं तोरणमेकं द्वितीयं करतोरणम्
तृतीयं चित्रसञ्ज्ञं तु त्रिविधा तोरणाकृतिः ६
अर्धचन्द्र मिवाकारं पत्रराजिविराजितम्
पत्रतोरणमाख्यातं ततो मकरमुच्यते ७
पञ्चवक्त्रसमायुक्तं पार्श्वयोः मकरास्यकम्
मध्ये पूरिमसंयुक्तं नानाफललतान्वितम् ८
नानालङ्कारसंयुक्तं वृत्तं मकरतोरणम्
तदेव पार्श्वयोर्मध्ये पूरिमस्य द्वयोरपि ९
नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्तथा
सिंहव्यालकहंसाद्यैः बलाग्रन्मुक्तमादकैः १०
अन्यैश्च विविधैश्चित्रैः रत्नसङ्घैश्च भूषयेत्
चित्रतोरणमेवं स्यात् प्रोच्यते तोरणत्रयम् ११
तोरणं चान्तराऽधस्तात् प्रयोज्यानि विचक्षणैः
-–पार्श्वयोः विकरण्डसमन्वितम् १२
बोधिकारहितं यत्तत्स्तम्भं तु गलतास्मृता
स्तम्भतोरणवन्मूलर्ध्नि कर्तव्यं तोरणद्वयम् १३
एवं तत्त्रिविधं नीत्वा द्विज कुम्भलतोच्यते १४
इति काश्यपशिल्पे तोरणकुम्भलता लक्षणं नाम द्वादशः पटलः