अथ दशमः पटलः
वेदिकालक्षणम्
अथ वक्ष्ये विशेषेण वेदिकालक्षणं परम्
अधिष्ठानोपरिष्टात्तु स्तम्भमूले च कल्पयेत् १
प्रस्तारं सोपरिष्टात्तु कर्तव्या वेदिका द्विज
अध्यर्धदण्डमानं तु कन्यसा वेदिका मता २
द्विदण्डोदयमध्यं स्याच्छ्रेष्ठं तुङ्गं त्रिदण्डकम्
अथवान्यप्रकारेण वेदिकोत्सेधमुच्यते ३
चरणोदयं तु षट् सप्तवसुभागविभाजिते
एकांशं वेदिकामानं कार्यं श्रेष्ठमधोधमम् ४
एवं हि चरणानां तु मूले तु वेदिकोदयम्
ऊर्ध्वमप्यङ्घ्रितुङ्गे तु सप्तभागविभाजिते ५
एकांशं खण्डहर्म्याणां वेदिकोदयमिष्यते
त्रिचतुः पञ्चभागं तु गलोत्सेधं विभाजिते ६
गलमुच्चतमेकांशं श्रेष्ठमध्याधमं तथा
अर्धोत्सेधांशमानं वा दण्डमूले तु वेदिका ७
षडंशे वेदिकोत्सेधं गुणांशं गलमानकम्
गलोर्ध्वे कम्पमेकांशमेकेनाब्जं प्रकल्पयेत् ८
तदूर्ध्वं कम्पमेकांशं कर्तव्यं द्विजसत्तम
सप्ताष्टांशे तु वेद्युच्चे चेदभूतं क्रमाद्गलम्
कम्पं पद्मं च कम्पं च प्रागिवैव प्रकल्पयेत् ९
कण्ठमानेन तन्मूलकम्पमेकेन कल्पयेत् १०
शेषं कण्ठोदयं प्रोक्तं तत्कम्परहितं तु वा
अत्यर्धांशं तु वा पद्मं तुङ्गं द्व्यंशमथापि वा ११
पद्मशैलसुपत्राभा चित्रांशा वेदिकाऽथवा
सर्वेषां वेदिकानां तु गलमङ्घ्रिविभूषितम् १२
कुड्यस्तम्भसमव्यासान्नीप्रं वा वेदिकाङ्घ्रिका
प्ररोपरितवेदीनां वेशनं शृणु सुव्रत १३
गर्भभित्तित्रिभागैकमङ्घ्रिवेद्यङ्घ्रिवेशनम्
चतुर्भागैकभागं वा पञ्चभागैकमाभजेत् १४
एकांशरहितं शेषं वेदिकायास्तु विस्तृतम्
युगांशं वेदिकाकारं नागरे प्रस्तरोपरि १५
प्राविडे वेसरैर्हर्म्यैर्वस्वग्रं वेदिकाकृति
अथवा वेसुराहर्म्यवेदिकाग्रत एव वा १६
अनेकाश्रयताश्रे च गळाग्रं वेदिकाश्रया
वेदिकालक्षणं प्रोक्तं ततो जालकलक्षणम् १७
इति काश्यपशिल्पे वेदिकालक्षणं नाम दशमः पटलः