अथ नवमः पटलः
बोधिकालक्षणम्
अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम्
मूलपादस्य पादेन श्रेष्ठे मध्ये तु मध्यमम् १
अग्रपादविशालं स्यात् समं कन्यसबोधिकम्
विस्तारसदृशोत्सेधं पञ्चदण्डायतान्वितम् २
उत्तमा बोधिकाख्याता तारद्वित्र्! यंशमुन्नता
चतुर्दण्डायतोपेता मध्यमासाप्रकीर्तिता ३
विस्तारस्यार्धतुङ्गं तु गुणदण्डायुतान्वितम्
कन्यसाबोधिकाख्याता त्वङ्घ्रयो बोधिकान्विताः ४
बोधिकाश्च त्रिभागे तु एकांशेनार्धपट्टिकम्
मध्यांशेन तरङ्गं स्यात् लताद्यैः भूषितं तु वा ५
तदधस्त्वेकभागेन मुष्टिबन्धं च कारयेत्
दण्डत्रिपादमर्धं वा छायामानं तदंशके ६
ऊर्ध्वाधः पट्टिकाधस्तात् छायाकारं प्रकल्पयेत्
अधस्तात् बोधिकाकारमलङ्कारं वदाम्यहम् ७
मध्ये पट्टं त्रिभागैकं विस्तारार्धमथापि वा
पार्श्वयोरुभयोश्शेषं तरङ्गस्थानमुच्यते ८
सक्षुद्र क्षेपणं मध्यात्पटपत्राद्यलङ्कृतम्
पार्श्वयोस्तु तरङ्गं स्यात्समाच्चान्योन्यहानकम् ९
बोधिविस्ताररन्ध्रं वा त्रिपादं वाऽग्रनीलकम्
तन्मूलसदृशं व्यासं बोधिकायाः प्रकल्पयेत् १०
अन्यत् बोधं षडंशांशं कृत्वोर्ध्वं पट्टिकान्वितम्
ऊर्ध्वपद्ममथांशेन कण्ठमन्येन कारयेत् ११
अधः पद्मं द्विभागेन चोर्ध्वं पट्टांशमुच्यते
अधस्त्वम्बुजमध्यांशं कल्पयेत्तु क्रमेण तु १२
पद्मस्य मुकुलाकारमग्रादधो गतं कुरु
अग्रं निष्क्रामयुक्तं वा छायाकारमथापि वा १३
पार्श्वयोः मुष्टिबन्धाग्रं व्याल आपादिकल्पितम्
भुजे वा मकरैर्व्यालैः पट्टकाद्यैर्विभूषितम् १४
रत्नबन्धक्रियावल्ली चित्रवाग्रस्तपट्टिका
बोधिकाया तरङ्गाढ्या तन्मध्ये दण्डमानतः १५
युगाश्रं पट्टसंयुक्तं तारोच्छायं तु वृत्तकम्
नानाचित्रैरलङ्कृत्य बोधिका चित्रबोधिका १६
पत्रैर्विचित्रता पत्रबोधिका तु प्रकीर्तिता
महार्णवतरङ्गाभतरङ्गांस्तु प्रकल्पयेत् १७
पादमर्धं त्रिपादं वा भित्तिस्तम्भस्य निर्गतम्
चतुरष्टाश्रवृत्तानां क्रमात्साधारणं तु वा १८
बोधिकायास्तथाग्रे तु वीरकण्ठं युगाश्रकम्
अग्रपादसमं तच्च त्रिपादं तुङ्गमुच्यते १९
सर्वेषामपि पादानां वीरकण्ठं युगाश्रकम्
अधस्ताद्वीरकण्ठं स्यात् फलिकालक्षणं शृणु २०
अथ फलिकालक्षणम्
अथ वक्ष्ये विशेषेण फलिकानां तु लक्षणम्
त्रिदण्डं फलिका व्यासं कन्यासार्धाधिकं समम् २१
चतुर्दण्डविशालं तु उत्तमा लम्भका भवेत्
अथवा फलकाव्यासं कुम्भकर्ण समं भवेत् २२
सर्वेषां फलकानां तु तुङ्गं पादो न दण्डकम्
तदुत्सेधं त्रिधाभज्य ऊर्ध्वं तत्सन्धिरच्यते २३
तथार्धो पेतमेकांशं तस्याधस्त्वम्बुजांशकम्
नागपत्रसमाकारमपेतो पादरूपकम् २४
सर्वेषां फलकानां तु उत्सेधार्थं युगांशकम्
फलकमेवं प्रकर्तव्यं तस्याधस्तात् घटं कुरु २५
द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा
सपाददण्डतुङ्गं वा घटोच्चं तु चतुर्विधम् २६
प्रियदर्शनं सौम्यं च चन्द्र कान्तं च श्रीकरम्
यथाक्रमेण नामानि कलशानां क्रमादितः २७
घटोच्चं वै नवांशेन हृद्भागे परिकल्पयेत्
वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः २८
आस्योच्चमेकभागेन पद्ममेकेन कारयेत्
अधोनावृत्तमंशेन हीनौ सङ्कल्पयेत् बुधः २९
ऊर्ध्वोदयगतं कुर्यात् अनेन विधिना क्रमात्
एवमुच्चं समाख्यातं विष्कम्भमधुना शृणु ३०
अथ विष्कम्भलक्षणम्
पादव्याससमौ हीनौ तत्कण्ठस्यास्य विस्तृतम्
अस्य कण्ठविशेषेण कुम्भस्योपरिविस्तृतम् ३१
स्तम्भे व्याससमं प्रोक्तं विस्तारे तच्च कर्णयोः
तस्याधो लश्नुनं मूलात्कल्पयेत्कल्पवित्तमः ३२
अथवा बोधिकादीनामुदयं तु वदाम्यहम्
गुणांशं चरणोत्सेधं कृत्वाधो द्व्यंशकं व्रजेत् ३३
ऊर्ध्वभागं तु सङ्ग्राह्यं द्वाविंशत्यंशकं व्रजेत्
युगांशं बोधिकोत्सेधं वीरकण्ठं च तत्समम् ३४
भूतांशं फलकोत्सेधं मध्यमूलं शिवांशकम्
समोत्सेधं तु वेदांशं शिवांशं कण्ठमानकम् ३५
तदास्योदयमेकांशं पद्ममेकेन कारयेत्
वृतमन्धेन कर्तव्यं हीनं तत्सममुच्यते ३६
लश्नुनाब्जलतामुक्तं मालामानादिपूर्ववत् ३७
स्तम्भभूषणमेवं स्याद्वेदिकालक्षणं ततः ३८
इति काश्यपशिल्पे बोधिकादिलक्षणविधानं नाम नवमः पटलः