अथाष्टमः पटलः
पदवर्गः
अथ वक्ष्ये विशेषेण चरणायामविस्तरम्
आकारं भूषणं चैव सङ्क्षेपात् शृणु सुव्रत १
स्तम्भं च तलिपं चैव चरं जङ्गममेव च
स्थाणुः स्थूणश्च पादश्च पर्याय वचनानि च २
उक्तोत्सेधांशमानेन पादायामो विधीयते
उक्ताधिष्ठानतुङ्गस्य द्विगुणं वाङ्घ्रितुङ्गकम् ३
तस्मात्तरनलोच्चं वा षष्ठांशमधिकं तु वा
पादोच्चं पङ्क्तिनन्दाष्टभागैकं पादविस्तरम् ४
दारुपादतलं ह्येतत् कुड्यपादमथोच्यते
तदर्धं वा त्रिभागैकं चतुर्भागोनमेव वा ५
आढ्यस्तम्भविशालं स्यादेतत्सर्वं सुधर्मसु
प्रतेरुत्तरसीमान्ते विशालस्तम्भ उच्यते ६
उपानाद्युत्तरान्तस्थः निवाताङ्घ्रिस्तदुच्यते
तुङ्गं सप्तांशमथवा नवधर्मांशमेव वा ७
रुद्र भान्वंशकं वाथ कृत्वैकांशाङ्घ्रिविस्तरम्
तन्मूलतारमाख्यातं तत्तारं तु तथा भवेत् ८
एकभागविधीनं तु शेषमग्रविशालकम्
एकादिषोडशान्तं च तलं प्रत्येवमाचरेत् ९
मूलादाग्रं युगाश्रं तु कुम्भमन्थादिसंयुतम्
ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् १०
रसाश्रमिन्दुकान्तं स्यात् चन्द्र कान्तं तलाश्रकम्
कण्ठमानेन तन्मूलं तथैवाग्रं प्रकल्पयेत् ११
स्तम्भाग्रे चैतन्मूले चतुरश्रसमन्वितम्
तयोर्मध्येऽपि वस्वश्रं षोडशाश्रमथापि वा १२
वृत्ताकारं तु वा वप्रं कुम्भमण्ड्यादिसंयुतम्
कुम्भमण्ड्यादिहीनं वा तदाहुः रुद्र कान्तकम् १३
मूलादग्रविशालं तु मध्येष्टाश्रं द्विदण्डकम्
रुद्र कान्तमिति ख्यातं मूलमग्रं तु वर्तुलम् १४
कुम्भमण्ड्यादितन्मध्ये अष्टाश्रं तावदुच्यते
चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा १५
तदूर्ध्वे वृत्तमेवं स्यात्त्रिभागं तुङ्गसदृशं
शिवच्छन्दमिति ख्यातं शिवहर्म्ये प्रसंस्थितम् १६
दण्डं सार्धं द्विदण्डं वा मूलपद्मासनोदयम्
द्विगुणं पत्रविस्तारं पद्माकारं तु कारयेत् १७
तन्मध्ये कर्णिकायां तु चरणस्थापनं कुरु
यथेष्टाकृतिसंयुक्तं कुम्भमण्ड्यादिसंयुतम् १८
चक्रवाकतलं मध्ये भूषितं पद्मपादुकम्
पत्रमूलाङ्घ्रिमध्ये तु व्यालेन व्यालपादुकम् १९
मूलेभपादमानेन गजपादमुदाहृतम्
मूले बिम्बादिभिः कुर्यात् यथेष्टाकृतिसंयुतम् २०
कुम्भमण्ड्यादिसंयुक्तं तत्तन्नाम्ना प्रकीर्तितम्
वृत्ताकारे तदायामे शुण्डुभेदैस्समन्वितम् २१
कुम्भमण्ड्यादिसंयुक्तं शुण्डुपादमुदाहृतम्
मुक्तादामैरलङ्कृत्य पिण्डिपादमुदाहृतम् २२
विष्कम्भकर्णमानेन स्तम्भाग्रे चतुरश्रकम्
तदयस्त्वर्धदण्डान्तमब्जमष्टाश्रसंयुतम् २३
दण्डमानेन तस्याधः वस्वश्रं परिकल्पयेत्
तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः २४
चतुरश्रसमायुक्तं तस्य छत्रं तु पूर्ववत्
मूले वा वेदशेषाश्रं छत्रखण्डं तदुच्यते २५
मध्यपट्टं तु वस्वश्रं श्रीकण्ठं तदुदाहृतम्
मध्ये पट्टं कलाश्रं चेत् श्रीवज्रं स्तम्भमुच्यते २६
मूलादाग्रं युगाश्रं स्यात्त्रिपट्टं क्षेपणान्वितम्
क्षेपणस्तम्भमाख्यातं पट्टं पत्रादिशोभितम् २७
स्तम्भाकारत्रिभागैकं चतुर्भागैकमेव वा
स्तम्भमध्ये शिखां कुर्यात् एतत्स्तम्भविशेषतः २८
स्तम्भमूले तु पद्मादिस्तम्भमाने तु कल्पयेत्
स्तम्भलक्षणमाख्यातं बोधिकालक्षणं शृणु २९
इति काश्यपशिल्पे स्तम्भलक्षणं नाम अष्टमः पटलः