०७

अथ सप्तमः पटलः
नाळप्रतिष्ठाविधिः
अथ वक्ष्ये विशेषेण निर्माल्यद्वारलक्षणम्
प्रतिबन्धे प्रतेरन्तेदनन्ये पट्टिकान्तके १
दलान्ते कुमुदं चैव वप्रान्ते पादुकान्तके
छिद्रं कुर्यात्तथा चोर्ध्वे गलं तस्मात्सुयोजयेत् २
भान्वङ्गुळं समारभ्य गुणाङ्गुलविवर्धनात्
चतुर्विंशाङ्गुलं यावत्तावत्पञ्चविधं तथा ३
भित्तिबाह्यगतं ह्येवं तस्यार्धं गर्भगेहके
वेशयित्वाथवा भित्तेर्ह्यभ्यन्तरसमं तु वा ४
वस्वङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
कलाङ्गुलावसानं तु विस्तारं पञ्चधा क्रमम् ५
तन्मूलं तारपञ्चांशं त्रयांशं त्वग्रविस्तृतम्
तद्विस्तारसमं वाथ त्रिपादं वाथ तद्धनम् ६
विस्तारस्य त्रिभागैकं छिद्रं तारोन्नतं तथा
नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् ७
मूलादग्रोन्नतं किञ्चित् मूलं हंसस्य चान्वितम्
गजोष्ठसदृशालम्बं यथा सुन्दरमाचरेत् ८
व्याळः सिंहोऽथ भूतो वा नाळं धृत्वा तु संस्थितः
नाळमेकं तु कर्तव्यं सौम्यं प्रासादमध्यगम् ९
स्थापयित्वा विशेषेण अनेन विधिना तथा
नाळं गन्धोदकैर्दिव्यैः स्थापयित्वा हृदा बुधः १०
शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन्
स्थापकः सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके ११
नाळं तु स्थापयेत् धीमान् स्थपतिः स्थापकान्वितः
सर्वालङ्कारसंयुक्तं सर्वतोयसमन्वितम् १२
सुधया गुडतोयैश्च बन्धयेत् सुदृढं यथा
पुंशिलायां तु कर्तव्यं नाळं तु द्विदलान्वितम्
नाळस्थापनमेवं तु स्तम्भलक्षणमुच्यते १३
इति काश्यपशिल्पे नाळलक्षणप्रतिष्ठाविधिर्नाम सप्तमः पटलः