०६

अथ षष्ठः पटलः
अधिष्ठानलक्षणविधिः
अथ वक्ष्ये विशेषेण अधिष्ठानविधिं शृणु
धरा तलमधिष्ठानमाधारं धरणी तलम् १
भुवनं पृथिवी भूमिः पर्याय वचनादिभिः
हर्म्यतारं तु कुड्यादि नीप्राधिष्ठाननीप्रकम् २
तस्मादुपरिपीठस्य नीप्रं होमाग्निनिर्गमम्
तस्मात् प्रकृतिनीप्रं च सूत्रपातं तु कारयेत् ३
यत्रैवाद्येष्टकानां समानं तत्रैव लक्षयेत्
तस्मात्तु घनभित्त्यैव प्रकृत्यन्तं प्रकल्पयेत् ४
सुभावं प्रकृतेरुध्ये प्रकृतावेकहस्तकम्
द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा विनाऽऽकृतिम् ५
षडङ्गुलं समुत्सेधं षट् षडङ्गुलवर्धनात्
उत्तमं मध्यमं चैव अधमं स्यात् त्रिधा अपि ६
प्रकृत्यं च स्थलं ख्यातमन्तर्मण्डलकस्य तु
एवं कृत्वा प्रकृत्यूर्ध्वं होमवाक्पलदेशिकः ७
भित्तिपादस्य विष्कम्भं द्विगुणं त्रिगुणं तु वा
होमनीप्रमिति ख्यानं तदर्धं वा बलाञ्चितम् ८
तद्धोमप्रकृती नीप्रैर्द्वित्रिदण्डैरथापि वा
आयानि प्रत्यवाहन्ति प्रादुवा पिङ्गलं तु वा ९
होमनीप्रं समं प्रोक्तं द्विवर्धं द्विजसत्तम
होमं तु गन्धमानेन होमोर्ध्वेऽब्जं प्रकल्पयेत् १०
अब्जस्योच्च समं वेशमब्जार्धो वपानवम्
तस्योपरि अधिष्ठानं सोपपीठान्वितं तु वा ११
अन्यद्धोमं प्रकृत्यूर्ध्वे सोपानानां प्रकल्पयेत्
तदूर्ध्वे तरतालं वा सोपपीठमथापि वा १२
दलापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत्
प्रकृतिं समसूत्रं तु कल्पयेत् देशिकोत्तमः १३
होपमाप्ने उपानादि हर्म्यनिष्क्रान्तवेशनम्
आर्तो त्सेधांशमानेनाधिष्ठानस्योच्चयं विदुः १४
पादोदयोर्ध्वमानं वा षडष्टांशोनमेव वा
अग्रपादविशालं तु दण्डमित्यभिधीयते १५
एकदण्डं समारभ्य अर्धदण्डविवर्धनात्
यापादापञ्चसङ्ख्या तु अग्निदण्डावसानकं १६
तद्बाह्ये वादनिष्क्रान्तं तत्त्रिभागविभाजिते
उपानं व्यासमेकांशं शेषं जगतिविस्तरम् १७
आमुदा वंशमेकांशं तन्नीप्रं जगती समम्
कुमुदे पट्टमंशेन तत्समं कर्णवेशनम् १८
सर्वेषामम्बुजानां तु नीप्रं तुङ्गसमं भवेत्
कम्पानामपि चाशेषं चतुर्भागैकनिर्गमम् १९
महावाजननिष्क्रान्तं तुङ्गं तुल्याक्षि एव वा
त्रिपादं वाथ निष्क्रान्तं यथा बलवशान्न्यसेत् २०
जन्मादिपञ्चवर्गेषु तत्तदङ्गावसानके
द्वारार्थं वा स्थलार्थं वा चोदयेत्तद्धरातले २१
उपानं जगती कम्पं कण्ठं च पट्टिका तथा
पञ्च वर्गमिति ख्यातं जगत्यर्थं तदा बुधः २२
द्वारं च जलधारं च स्थलं चाप्रतिबन्धकैः
प्रेतरूर्ध्वे तु कर्तव्यमङ्गं चैतन्न कारयेत् २३
प्रत्यञ्चेत्तु धनं चेतुविपदामास्पदं सदा
तस्मात् सर्वप्रयत्नेन प्रत्यङ्गच्छेदनं विना २४
अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धाङ्घ्रिबन्धनम्
पत्येकानां तु भेदेन प्रोच्यते द्विजसत्तमाः २५
सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते
पादबन्धतलानां तु वस्वशृङ्गमुदं भवेत् २६
तयोस्सङ्करमेतस्मिन् भवेत्तत् कर्तृनाशनम्
प्रासादं प्रतिबन्धं चेत् तद्भेदानेकसङ्करम् २७
कूटकोष्ठादिकानां तु कर्तव्यं तत् शुभावहम्
तदेवाङ्घ्रिप्रबन्धेन तस्मिन् शङ्करमुत्तमम् २८
अशुभं विपरीतं च वास्तुराष्टनृपस्य च
तस्मात्सर्वप्रत्नेन वर्गवर्गेण शङ्करम् २९
अधिष्ठानस्य चोत्सेधे एकोनविंशदंशिने
उपानं चैकभागेन सप्तांशे जगती भवेत् ३०
षडंशं कुमुदोत्सेधमालिङ्गं त्वेकभागया
त्रिपट्टं त्वेकभागेन प्रत्युत्सेधं द्विभागया ३१
वाजनं चैकभागेन प्रतिबन्धमिदं जगत्
उपानरहितं शेषं पूर्ववत् नैकधापिवा ३२
अधिष्ठानस्य चोत्सेधं पञ्चविंशति भाजिते
शिवांशं पादुकोत्सेधं जगती वसुभागया ३३
धात्वंशं कुमुदोत्सेधं व्योमांशं कम्पमानकम्
अनलांशं गळोत्तुङ्गं शश्यंशं चोर्ध्वकम्पकम् ३४
महापट्टी गुणांशं तदूर्ध्वमंशेन कम्पकम्
पादबन्धमिति ख्यातमुपानरहितं तथा ३५
एतच्च पादबन्धं च नानाभेदेन कीर्तितम्
त्रिसप्तांशे तलोत्सेधे कृतेंशेनैकपादुका ३६
अम्बुजं सार्धभागेन कम्पमर्धांशमुच्यते
सप्तांशं जगती तूर्णं रसांशं कुमुदोदयम् ३७
आलिङ्गमेकभागेन त्रिपट्टं त्वेकभागया
द्विभागं प्रतितुङ्गं स्यात् भागेनैकेन वाजनम् ३८
प्रतिबन्धमिदं नाम्ना प्रतिबन्धे तु भेदितम्
तदेवं पक्षभागे तु उपानं परिकीर्तितं ३९
आलिङ्गं च द्विभागेन शेषं पूर्ववदेव हि
उपानोपरिपद्मं च कम्पं चैकं परित्यजेत् ४०
तच्च प्रतिक्रमं ख्यातं सर्वदेवालये हितम्
षड्विंशद्विभजेदुच्चं समुवाचैकभागया ४१
द्विभागेन दलं कुर्यात्कम्पमेकेन कारयेत्
षडंशं जगतीरुच्चामेकांशं दलमानकम् ४२
खण्डमेकेन कर्तव्यमेकेनाब्जं तु कारयेत्
कुमुदोच्चं गुणांशेन पद्ममेकेन कारयेत् ४३
कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागकम्
एकांशं कण्ठतुङ्गं तु तत्समं तु दलोदयम् ४४
महापट्टी द्विभागेन दलमेकांशमानतः
कम्पमेकेन कर्तव्यमष्टाश्रं कुमुदं कुरु ४५
अम्भोजकेसरं ख्यातं पादपूज्यं तु भेदितम्
एकोनविंशदंशं तु तलोत्सेधे विभाजिते ४६
उपानमेकभागेन अम्भोजमनलांशकम्
कम्पोच्चं मध्यभागेन जगत्युच्चं युगांशकम् ४७
अम्बुजं त्वर्धभागेन दळमर्धांशमानतः
अर्धांशं पद्मतुङ्गं तु गुणांशं पट्टमानतः ४८
पद्ममर्धांशमानेन तत्समं कम्पमुच्यते
अत्यर्धांशं तु खण्डोच्चं कम्पमर्धेन कारयेत् ४९
पद्ममंशेन कर्तव्यं पट्टिका सार्धभागतः
अम्बुजं सार्धभागेन कम्पमध्येन कारयेत् ५०
पुष्पपुष्कलमाख्यातं पादबन्धं तु भेदिनं
द्वात्रिंशद्विभजेदुच्चमुपोपानं द्विभागया ५१
उपानं त्वेकभागं स्यात्सप्तांशं कमलोदयम्
कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ५२
कुमुदोच्चं चतुर्भागमेकांशं दलमुच्यते
कम्पमेकेन कर्तव्यं गुणांशं गलमानतः ५३
कम्पमेकेन कर्तव्यं ऊर्ध्वकम्पं प्रकल्पयेत्
कपोतोच्चं गुणांशेन आलिङ्गं त्वेकभागतः ५४
एकेनान्तरितं कुर्यात्प्रतितुङ्गं द्विभागतः
वाजनं तु द्विभागेन कल्पयेत्तु प्रमेण तु ५५
प्रतिबन्धे तु भेदं स्यात् श्रीबद्धान्तमुदाहृतम्
अष्टकानस्य चोत्सेधमष्टाविंशतिभाजिते ५६
उपानं त्वेकभागेन जगत्युच्चं रसांशकम्
कुमुदं पञ्चभागेन कम्पमेकेन कारयेत् ५७
गुणांशं गलमानं तु कम्पमेकेन कल्पयेत्
पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ५८
आलिङ्गं त्वेकभागेन त्वरितं तु प्रकल्पयेत्
प्रतीतं यद्विभागेन शतांशं वाजनोदयम् ५९
प्रतिबन्धस्य वर्गं स्यान्मञ्चबन्धमुदाहृतम्
तदेवालिङ्गकादूर्ध्वं विभज्यं विंशदंशकैः ६०
कल्प्यं श्रीकान्तवन्नाम्ना पादबन्धे तु भेदितम्
तुङ्गे षड्विंशदंशे तु एकांशं पादुकं भवेत् ६१
द्विभागं दलमानं तु कम्पोच्चं शशिभागकम्
षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् ६२
कम्पमेकेन कर्तव्यं पद्मोच्चं तु द्विभागतः
ऊर्ध्वकम्पमथैकांशं गलमानं द्विभागकम् ६३
वाजनं त्वेकभागेन सार्धांशं कमलोदयम्
कम्पमेकेन कर्तव्यं श्रेणी बद्धमिदं भवेत् ६४
पादबन्धे तु भेदं स्यात् सिंहे भाद्यैर्विभूषितम्
त्रिषडंशतलोत्सेधं कृत्वा सार्धांशपादुकम् ६५
कम्पमर्धांशमित्युक्तं भूतांशं पङ्कजोदयम्
गलमन्येन कर्तव्यं पद्ममेकेन कारयेत् ६६
कुमुदोच्चं त्रिभागैकं दलमेकेन कारयेत्
आलिङ्गमेकभागेन त्वरितं तत्समं भवेत् ६७
वृतेरुच्चं द्विभागेन वाजनं त्वेकभागकम्
अब्जबन्धमिदं नाम्ना भेदे तत्प्रतिबन्धके ६८
तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम्
अब्जमेकेन कम्पं तु एकांशेन प्रकल्पयेत् ६९
जगती पञ्चभागे तु कुमुदं चतुरंशकम्
पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ७०
कण्ठतुङ्गं द्विभागेन कम्पमेकेन कारयेत्
शिवांशं दलतुङ्गं तु महापट्टी द्विभागया ७१
कम्पमेकेन कर्तव्यं वप्रबन्धमिति स्मृतम्
पादबन्धस्य वर्गं स्यात् सर्वधामसु पूजयेत् ७२
तन्महापट्टिकामानं कपोतं वातबन्धकम्
कपोतो परिकम्पोर्ध्वे त्रिपट्टं त्वेकभागया ७३
प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया
तुङ्गे षड्विंशदंशे तु कल्पयेत्प्रतिसुन्दरम् ७४
आधीनस्यादिचोत्सेधं त्रयोविंशति भाजिते
उपानमेकभागेन पद्ममेकेन कम्पकम् ७५
अंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत्
पद्ममेकेन कण्ठान्तमेकांशेनैव कल्पयेत् ७६
एकांशेनाम्बुजं कुर्याद्गुणांशं कुमुदोदयम्
पद्ममेकेन कर्तव्यमालिङ्गं त्वेकभागया ७७
त्रिपट्टं शिवभागं तु द्विभागं प्रतिमानकम्
वाजनं त्वेकभागेन कल्पयेत्तु यथाक्रमम् ७८
प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठान्तमुदाहृतम्
उपानमेकभागेन पद्ममेकेन कम्पकम् ७९
द्व्यंशेन पट्टिका कम्पमेकांशेन प्रकल्पयेत्
गळमेकेन कर्तव्यं पद्ममेकेन कारयेत् ८०
कुमुदं तु त्रयांशेन पद्ममेकांशमानतः
आलिङ्गं त्वेकभागेन त्वरितं शशिभागया ८१
अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते
एतत्करीरबन्धं स्यात्प्रतिबन्धे तु भेदितम् ८२
पादुकं चैकभागेन भागेनाब्जं तु कम्पकम्
कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागतः ८३
कम्पमेकेन भागेन पट्टिकांशेन कम्पकम्
द्विभागं दलमानं तु गळमेकांशमानतः ८४
अम्बुजं त्वेकभागेन कुम्भमानं गुणांशकम्
एकांशं दलमानं स्यात् द्व्यंशेनालिङ्गमुच्यते ८५
त्रिपट्टं त्वेकभागेन प्रतिमानं द्विभागया
वाजनं त्वेकभागेन भानुद्विगुणितांशके ८६
एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम्
अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते ८७
पादुकं तु द्विभागेन तत्समं पङ्कजोदयम्
अब्जमेकेन कर्तव्यं जगच्चं रसांशकम् ८८
पद्ममेकेन भागेन कण्ठं पद्मं तु भागया
ईशांशं कलशोत्सेधं कमलं त्वेकभागया ८९
प्रतिबन्धे तु भेदं स्यात् श्रीकारं नाम तूच्यते
भानुद्व्यंशे तलोत्सेधे द्विभागं पादुकोदयम् ९०
उपानं तु शिवांशं स्यात् षडंशं दलमानकम्
कण्ठमंशेन कर्तव्यमंशेनाब्जं प्रकल्पयेत् ९१
गुणांशं खण्डमानं तु दलमेकेन वृत्तकम्
कम्पमेकेन कण्ठं तु गुणांशं दलमानकम् ९२
व्योमांशं दलमानं तु द्विभागं पट्टिका भवेत्
एकांशं दलमानं तु कम्पमेकेन कारयेत् ९३
सुन्दराणां ह्यम्बुजानां पादबन्धे तु भेदितम्
चतुस्सप्तद्विभागं तु तलमाने द्विभाजिते ९४
द्विभागं पादुकं ख्यातं दलमानं युगांशकम्
गळमेकेन कर्तव्यमम्बुजं तु द्विभागया ९५
द्विभागं पट्टिकामानमंशं पादुकमुच्यते
जगती चतुरश्रं तु पद्ममंशं द्विजोत्तम ९६
कण्ठमंशेन पत्रं तु शश्यंशं प्रतिधीयते
गुणांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् ९७
कम्पमंशेन कर्तव्यं त्रिपद्मं त्वेकभागया
प्रतिमानं भवेत् द्व्यंशं वाजनं तु शिवांशकम् ९८
एवं नळिनकान्तं स्यात्सर्वदेवप्रियावहम्
त्रयोविंशतिभागे तु तलोच्चे तु विभाजिते ९९
सार्धांशं पादुकोत्सेधमुपोपानंशतांशकम्
अधः पद्मं द्विभागं स्यादेकांशं कण्ठमुच्यते १००
तदुद्वेपनमेकांशं कुमुदोच्चं गुणांशकम्
तदूर्ध्वं पद्ममेकांशमेकांशमपमानकम् १०१
कण्ठं द्व्यंशेन कर्तव्यमेकांशं चाथ पट्टिका
एकांशं पद्मतुङ्गं तु आलिङ्गं त्वेकभागकम् १०२
त्रिपट्टं तु त्रयांशं तु प्रतिमानं विभागकम्
एकोनार्पजनं कुर्यात्तत् श्रीसौन्दर्यमुच्यते १०३
प्रतिबन्धस्य भेदं स्यादन्तं चापुनराश्रया
चतुर्विंशतिभागे तु तलोच्चे तु विभाजिते १०४
उपानं त्वेकभागेन द्विभागं तु दलोदयम्
तदूर्ध्वे कम्पमेकांशं जगत्युच्चरसांशकम् १०५
वेदांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत्
कण्ठमेकांशमित्युक्तमूर्ध्वे पद्मं शिवांशकम् १०६
वाजनोच्चं द्विभागेन एकांशं पद्मतुङ्गकम्
आलिङ्गं त्वेकभागेन त्रिपट्टं तत्समं भवेत् १०७
प्रतिमानं द्विभागं स्याद्वाजनं त्वेकभागया
स्कन्दस्कन्दमिदं नाम्ना प्रतिबन्धस्य भेदकम् १०८
धरातलोच्चं विभजेत्त्रयोविंशतिभागकम्
उपानोदयमेकांशं षडंशं त्वम्बुजोदयम् १०९
एकांशं कण्ठमानं तु ऊर्ध्वे पद्मं शिवांशकम्
युगांशं तु घटोत्सेधमेकांशं पद्मकम्पकम् ११०
कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम्
एकांशं कम्पमानं तु ऊर्ध्वे पद्मं तु तत्समम् १११
कपोतोच्चं गुणांशं तु अलिन्द्रं त्वेकभागकम्
एतच्चाम्बुजकान्तं स्यात्पादबन्धे तु भेदितम् ११२
एवं त्वनेकभेदेन प्रोच्यते तु धरातलम्
तलोत्सेधमिवात्रस्याद्धीनाधिक्यान्नदोषभाक् ११३
अंशं वार्धं त्रिपादं वा बलाङ्गावबलान्वितम्
त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते ११४
मूलपादसमव्यासं पादमूले त्रिपट्टकम्
पादान्तरे त्रिपट्टानां व्यासं त्रिपाददण्डकम् ११५
पादबाह्ये समावेशं नीप्रं चैव समं भवेत्
अयुग्मं युग्मसङ्ख्या वा पादान्तरे प्रकल्पयेत् ११६
हेमैर्वा मकरैर्यालिभूतहंसैर्विभूषितम्
प्रत्यग्रं मकरैर्व्यालैर्विद्याधरविनिर्मितम् ११७
त्रिपट्टोर्ध्वे प्रतिं ह्येवं सर्वत्र परिकल्पयेत्
ऊर्ध्वाधस्त्वम्बुजोपेतं कुमुदं वृत्तमाचरेत् ११८
अन्ये वै कुमुदं सर्वे प्रतिबन्धाङ्घ्रिबन्धयोः
वृत्तं च वसुकोणं च क्रमेणैव प्रकल्पयेत् ११९
इति काश्यपशिल्पे अधिष्ठानविधिर्नाम षष्ठः पटलः