अथ पञ्चमः पटलः
उपपीठविधानम्
अथ वक्ष्ये विशेषेण उपपीठविधिं परम्
स्वाधिष्ठानसमोच्चं वा त्रिपादं सार्धमेव वा १
पञ्चभागेऽग्निभागं वा सपादं सार्धमेव वा
पादोनादिगुणं वाथ द्विगुणं वा विशेषतः २
एवमष्टविधः ख्यातः उपपीठोदयो द्विज
दशधा भज्याधिष्ठानमधिष्ठानस्य पादुकम् ३
पञ्चांशं वाथ निष्क्रान्तमधिष्ठानस्य पादुकम्
उपपीठस्य नीप्रं तु पञ्चस्थं परिकीर्तितम् ४
तन्नीप्रमुपपीठं तु पाद्बाह्ये परिकल्पयेत्
अथवाग्नी पादसदृशं द्विगुणं त्रिगुणं तु वा ५
जगती नीप्रतुल्यं वा उपानसदृशं तु वा
एवं हि पञ्चभेदं स्यात् उपपीठस्य निर्गमः ६
उपपीठस्य निष्क्रान्तं सभादीनामथोच्यते
सभादीनां तु पाद्बाह्यं निष्क्रान्तं दण्डमुच्यते ७
समं तु दण्डमारभ्य नवदण्डावसानकम्
उपानं च तथा नीप्रं प्रथमादि त्रयं त्रयम् ८
तदुच्चे द्वादशांशे तु उपानोच्चं द्विभागकं
पद्ममंशेन कर्तव्यं मध्यांशं कम्पमुच्यते ९
भूतांशं कण्ठतुङ्गं तु कम्पमब्जं तु पूर्ववत्
एकेन वाजनं कुर्यात् कम्पमेकेन कारयेत् १०
अष्टाङ्गमेवमाख्यातं षडङ्गं तद्विनाम्बुजम्
कम्पेनाम्बुजमानं तु योज्यं भद्रो पपीठकम् ११
ऊर्ध्वे कम्पं विना वापि पञ्चाङ्गमुपपीठकम्
उपपीठस्य चोत्सेधे सप्तविंशति भाजिते १२
द्विभागं पादुकोत्सेधं पङ्कजं तत्समं भवेत्
कम्पमेकांशदित्युक्तं द्वादशांशं गलोदयम् १३
उत्तरं चैकभागं स्यात् तत्समं चोर्ध्वमम्बुजम्
अग्निभागं कपोतोच्चं अंशमालिङ्गमुच्यते १४
त्रैय्यश्रमेकभागेन प्रतिमानं द्विभागया
पानं चैकविभागेन नानं तत्प्रतिभद्र कम् १५
द्विभागं पादुकोत्सेधं द्विभागं पङ्कजोदयम्
कम्पमेकेन कर्तव्यमेकेनान्तरितं भवेत् १६
द्विभागं प्रतितुङ्गं तु एकेनैव तु वाजनम्
अष्टांशं गळमानं तु कम्पमेकेन कारयेत् १७
अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम्
एकेन लिङ्गमेकेनान्तरितं तु प्रकल्पयेत् १८
प्रतितुङ्गं द्विभागेन वाजनं चैकभागया
सप्तविंशतिभागे तु नामतः प्रतिसुन्दरम् १९
उपपीठस्य चोत्सेधे एकविंशति भाजिते
उपानं तु द्विभागेन तत्समं त्वम्बुजोदयम् २०
कण्ठमंशेन कर्तव्यं पद्ममंशेन कारयेत्
महापदि द्विभागेन पद्ममंशेन कारयेत् २१
कम्पमंशेन कर्तव्यं कण्ठोच्चं वसुधारया
भागेन कम्पमन्येन पद्मं कम्पोथ कर्तृभिः २२
कम्पमंशेन कर्तव्यमेतत् सौभद्र मुच्यते
उपानाद्विगमन्यांशः अम्बुजांशेन कन्धरम् २३
द्विभागेनाब्जं कर्तव्यं पट्टिका तत्समं भवेत्
वृत्तं तु समभागेन कम्पमेकेन कारयेत् २४
सप्तभागं गलोत्सेधं कम्पमंशेन कारयेत्
अम्बुजं समभागेन महापट्टी द्विभागया २५
अब्जमथांशभागेन कम्पमंशेन कारयेत्
पञ्चपञ्चोपपीठैश्च समभागविभाजिते २६
कल्याणिका निगदिता सर्वधाम्नस्तु पूजिता
एवं विधिः समाख्यातः उपपीठे द्विजोत्तम २७
अङ्गनिष्क्रान्तवेशं च अधिष्ठानविधानवत्
भूतैश्च व्यालसिंहैश्च मकरैः पत्रजातिभिः २८
उपपीठगलोमिश्रं भूषयन्तु सलक्षणम्
प्रत्यङ्गं मकरस्थान्तं अब्जाढ्यं रुद्धमस्तकम् २९
अम्बुजेनैव कर्तव्यमधिष्ठानोक्तमाचरेत्
उपपीठं समाख्यातमधिष्ठानविधिं शृणु ३०
इति काश्यपशिल्पे उपपीठविधानं नाम पञ्चमः पटलः