अथ चतुर्थः पटलः
प्रथमेष्टकाविधानम्
अथ वक्ष्ये विशेषेण शृणु त्वं प्रथमेष्टकाम्
प्रासादे मण्डपे साले गोपुरे च तथैव च १
सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम्
स्निग्धं चैव तथाऽस्निग्धं द्विविधं भूमिलक्षणम् २
चिक्कणं शर्कराढ्यं च अशक्यखननक्रियम्
सुस्निग्धमिति विख्यातं तनुवालुकसंयुतम् ३
पुरुषाञ्जलिमात्रं तु दृष्ट्वा तोयसमन्वितम्
अशेषं खननं यत्तत् स्निग्धाख्यातमहीतलम् ४
प्रासादस्य तु विस्तारः द्विद्विहस्थोथ विस्तृतः
हस्तमात्रं खनेत् द्विप्रसुस्निग्धं तु महीतलम् ५
यावत्तत्र जलं दृष्टं खनेत्तावत्तु भूतले
अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ६
पूरयित्वा जलं पश्चात् जलेन समतां कुरु
श्वसले हस्तिपादैश्च स्निग्धं कृत्वा बृहच्छरैः ७
एवमाधारमानं तु अधिकं त्ववटं कुरु
मानसूत्रादिसूत्रं तु पातयेत्तत्र देशिकः ८
प्रथमं मानसूत्रं तु विन्यसेत्तु द्वितीयकम्
तृतीयमधिष्ठानसीमान्तं तथोपपीठसीमकम् ९
पञ्चमं होमसूत्रं तु षष्ठं तु प्रतिसूत्रकम्
एवं क्रमेण कर्तव्यं सूत्रषट्कं द्विजोत्तमाः १०
तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः
षोडशस्तम्भसंयुक्तं विधाय द्विजभूषितम् ११
तोरणैर्दर्भमाल्यैश्च मुक्तादामैरलङ्कृतम्
मण्डपस्य त्रिभागैकं वेदिकायास्तु विस्तरम् १२
हस्तमात्रसमुत्सेधं दर्पणोदरसन्निभम्
परितस्त्वग्निकुण्डानि महाशालं प्रकल्पयेत् १३
वेदाश्रं च सुवृत्तं च अब्जमिन्द्रा दितः क्रमात्
हस्तमात्रं च विस्तारं खातं चैवातिमेखलम् १४
गोमयालेपनं कृत्वा प्रोक्षयेत् पञ्चगव्यकैः
पिष्टचूर्णैरलङ्कृत्य ततो वै विप्रभोजनम् १५
कृत्वोच्छिष्टं समुत्सृज्य वास्तुहोमं ततः कुरु
पर्यग्निकरणं कृत्वा प्रोक्षयेद्वा कुशान् न्यसेत् १६
स्थण्डिलं वेदिकायां तु अष्टद्रो णैश्च शालिभिः
तदर्धैः तण्डुलैश्चैव तदर्धैश्च तिलैरपि १७
स्थण्डिलं कल्पयेद्धीमान् दर्भैः पुष्पैः परिस्तरैः
शिलाभित्तौ शिलाभिस्तु कारयेत् प्रथमेष्टकैः १८
आद्येष्टकान्तं कर्तव्यं विपरीतं विनाऽचरेत्
पुंलिङ्गाभिः शिलाभिस्तु कारयेत् प्रथमेष्टकाः १९
द्वारबन्धस्तु कर्तव्यः श्रीकलाभिर्विशेषतः
नपुंसको पलैर्नैव मूर्ध्नेषीक द्विजोत्तम २०
यथालाभशिलाभिर्वा भित्तिस्तम्भोदयो भवेत्
नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् २१
एकोन चत्वारिंशान्तं वेदवेदाङ्गुलेन तु
विस्तारं च घनं प्राग्वत् तत्सङ्ख्या चैव षोडश २२
एकादिषोडशान्तानां भूमीनां क्रम उच्यते
मूर्धेष्टकादिपुंसादिरेखाभिस्तु परीक्षयेत् २३
अयुग्म ऋजुरेखा च पुल्लिङ्गा सम्प्रकीर्तिता
युग्मरेखा च युग्मत्वात्कण्ठाभासा नपुंसका २४
भिन्नबिन्दुकलादीनि लोकपालसमन्वितम्
वर्जतानि प्रयत्नेन दोषहीनांस्तु सङ्ग्रहेत् २५
ईषदुन्नतमग्रं स्यात् नतमग्रमुदाहृतम्
ऊर्ध्वभागं मुखं ख्यातमपरं भूतदंशकम् २६
अग्रानामग्रतां चाग्रा ऊर्ध्वं ह्यापरमुच्यते
प्रागुदस्तं तु वैश्यानां शीर्षाणां परिकीर्तितम् २७
मूलाञ्चादितरत् ग्राह्यं प्रमाणमिष्टयापरं
गव्यैः गन्धोदकैः स्नाप्य पूर्वरात्रेऽधिवासयेत् २८
शिवद्विजकुलोद्भूतः शिवदीक्षा समन्वितः
सर्वलक्षणसम्पन्नः वेदाध्याय रतः शुचिः २९
अपोवगाहनं स्नानं भस्मस्नाआ!नं समाचरेत्
नवाम्बरधरोष्णीषी सासोक्तिधानुलेपनः ३०
गन्धमाल्यैरलङ्कृत्य सकलीकृतविग्रहः
पञ्चाङ्गभूषणैर्भूष्य क्षाळयेत् वर्मणेष्टकाः ३१
हैमैः कार्पाससूत्रैर्वा प्रतिसम्बन्धमाचरेत्
स्थण्डिले कर्णिकाबाह्ये महासामुनिधापयेत् ३२
लकारं पूर्वभागे तु लकारं याम्यगोचरे
लकारं वारुणश्वेतु यकारं सौम्यगोचरे ३३
शालिपिष्टेन संलिख्य प्रत्येकं वस्त्रवेष्टितम्
पूर्वाग्रं सौम्ययाम्ये तु शेषौ द्वौ चोत्तराग्रकौ ३४
स्थापयेत्सममभ्यर्च्य पृथिव्याद्यानकाः क्रमात्
नवसङ्ख्यान् नवान् कुम्भान् सूत्रवस्त्रसुभूषितान् ३५
सकूर्चान् सविधानांश्च स्नानगन्धसुपूजितान्
हेमपङ्कजसंयुक्तान् मध्यमात् क्रमशो न्यसेत् ३६
मध्यकुम्भे तु सादाख्यं परितो लोकपालकान्
तत्तन्मन्त्रैः न्यसेत्कुम्भे ध्यात्वा गन्धादिपूजयेत् ३७
निवेद्यान्नं पयो धीमान् ततो होमं समाचरेत्
अग्निध्यानादिकं सर्वमग्निकार्योक्तमाचरेत् ३८
पालाशो दुम्बरैश्चैव अश्वत्थवटमुख्यकैः
समिधः सद्यमन्त्रेण मूलेनान्यत्तु होमयेत् ३९
चरुहोममघोरेण नेत्रेणैव तिलांस्तथा
सर्षपं कवचेनैव प्रत्यकाष्टशताहुतीः ४०
द्र व्यं प्रतिविशेषेण व्याहृत्याऽऽहुतिमाचरेत्
एवं जागरणं रात्रौ प्रभाते देशिकात्तमः ४१
अपोवगाहनादीनि प्राणिनैव समाचरेत्
इष्टकाकलशाग्निं च पूरयेत्तु विशेषतः ४२
जलादिरम्यदानैश्च राष्ट्रं चैव तु होमयेत्
शिष्टमग्नेतिमन्त्रेण पूर्णाहुतिं समाचरेत् ४३
स्थापकः स्थापतिः पूज्यो वस्त्रहोमाङ्गुलीयकैः
मुहूर्ते समनुप्राप्ते द्वारं निश्चित्य वै तदा ४४
द्वारस्य दक्षिणे वाङ्घ्रिमूले भक्त्यन्तराङ्घ्रिके
इष्टकां वा शिलायां वा स्थापयेत्स्थपतिः क्रमात् ४५
प्रासादमण्डपानां तु निर्गमस्य प्रदक्षिणं
सालानां गोपुराणां च प्रवेशस्य तु दक्षिणे ४६
अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत्
अग्रमग्रं तथैशान्यां मूले मूले तथाङ्गुले ४७
अग्नौ मूले समायुक्त्या अग्नौ च वायुगोचरे
पञ्च ब्रह्मसमुच्चार्य पूर्वादिक्रमशो न्यसेत् ४८
तन्मध्ये विन्यसेत् प्रीतां हेमपङ्कजसंयुतं
पञ्चमृद्भिः समालिख्य कुम्भस्थाद्भिस्तु पूरयेत् ४९
शोभनं दक्षिणावर्तं वामावर्तमशोभनम्
वामावर्तं भवेत् सम्यक् शान्तिहोमं तु कारयेत्
या गोपकरणं सर्जा मध्यात् शिल्पी प्रकारयेत्
इति काश्यपशिल्पे प्रथमेष्टकाविधिर्नाम चतुर्थः पटलः