अथ तृतीयः पटलः
हर्म्ये वाद्यष्टकाकाले लिङ्गसंस्थापयेत्तथा
सकलस्थापने चैव सम्प्रोक्षे तु तथैव च १
बाणलिङ्गप्रतिष्ठायां मण्डपे नृत्तरञ्जके
सभायां यागशालायां वास्तुहोमं समाचरेत् २
आचार्यलक्षणोपेतः स्वाचार्यो होममाचरेत्
समरी प्राक् प्रदेशे वा सौम्ये वा ब्रह्मणः पदे ३
स्थण्डिलं सिकतैः कुर्यात् हस्तमात्रप्रविस्तरम्
उत्सेधं द्व्यङ्गुलं ज्ञेयं चतुरश्रं समं कुरु ४
जेलरत्तं न्यसेदैन्द्रे शालिमध्ये द्विजोत्तमाः
गन्धतो येन सम्पूज्य होमतन्त्रे च निक्षिपेत् ५
पालाशपत्रपर्वा च तज्जले तु निधापयेत्
गन्धपुष्पादिनापूज्य तज्जले द्वारदेवताः ६
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
ब्रह्मादिवास्तुदेवांश्च अग्निमध्ये तु समावहेत् ७
गन्धैः पुष्पैश्च धूपैश्च पूजयेत् स्वस्वनामतः
प्रणवादीनां तु स्वाहान्तं होममाचरेत् ८
स्याद् ब्रह्मप्रसमी हेतुः प्रत्येकं होममाचरेत्
शतमर्धं तदर्धं वा होमयेत् गोघृतेन च ९
पायसेनैव चरुणा प्रत्येकं तु शताहुतीः
जयादिरभ्यातानं च राष्ट्रेभ्यश्च क्रमात् हुनेत् १०
मिन्दाहुतिं च कूश्माण्डं प्रायश्चित्ताहुतिं चरेत्
हव्यवाहेति मन्त्रेण स्विष्टमग्नेति होमयेत् ११
यदस्येति च मन्त्रेण होमयेत्तु घृतेन तु
परिषेचनं ततः कृत्वा प्रासादेन तु मन्त्रतः १२
परिस्तरणं विधाय आज्येत्तोत्तपथे क्रमात्
ब्रह्माणं तु परे दद्यात् दर्शनौ सूर्यमण्डले १३
प्रणीताद्भिश्च सम्प्रोक्ष्य चात्मानं पावमानकैः
एवं समाप्य होमं तु प्रणिपत्यक्षमापयेत् १४
दर्भैः पालाशपत्रैश्च शोषितैर्बन्धयेत्क्रमात्
तदग्नौ दीपयित्वा तु तथा प्रासादमण्डपे १५
प्राकारे गोपुरस्थाने पर्यग्निकरणं कुरु
ब्राह्मे तदग्निमुद्वास्य स्थापिते तु जले बुधः १६
सर्वत्र प्रोक्षयेद्विद्वान् शुची वो हव्यमन्त्रतः
वासुदेवोद्गतार्थं तु पर्यग्निकरणं कुरु १७
वास्तुहोमः समाख्यातः प्रथमेष्टकाया विधिं शृणु
इति काश्यपशिल्पे वास्तुहोमविधिर्नाम तृतीयः पटलः