अथ द्वितीयः पटलः
प्रासादवास्तुलक्षणम्
अथ वक्ष्ये विशेषेण प्रासादं वास्तुलक्षणम्
प्रासादस्य विशालं तु नवभागविभाजितम् १
प्रागग्राद्दशसूत्रं स्यात् उदगग्रं तथैव हि
एतन्नव नवांशे तु ब्रह्मा मध्ये नवांशयुक् २
समरी पूर्वभागे तु विवस्वान् दक्षिणे तथा
मित्रः पश्चिमभागे तु ह्युत्तरे पृथिवी धरः ३
ब्रह्माणं तु निरीक्षन्तः स्थिताः षट् पदभागिनः
आपश्चैवापवत्सश्च ऐशान्यां दिशिसंस्थितौ ४
सवित्रश्चैव सावित्रः आग्नेय्यां दिश्यवस्थितौ
इन्द्र इन्द्रा दयश्चैव नैरृत्यां दिश्यवस्थितौ ५
रुद्रो रुद्र जयश्चैव वायव्यां दिशि संस्थितौ
एते द्विपदभोक्तारः अंशमर्धद्वयं तथा ६
ऐशान्यां चैव पर्जन्यो जयन्तश्च महेन्द्र कः
आदित्यः सत्यकश्चैव भ्रमश्चैवान्तरिक्षकः ७
अग्निः पूषा च विधतो राक्षसश्च यमस्तथा
गन्धर्वो भृङ्गराजश्च मृषश्चैव तु दक्षिणे ८
निरृतिर्दौवारिकश्चैव सुग्रीवः पुष्पदन्तकः
वरुणोऽशेषरोगाश्च पापक्षय विपश्चमे ९
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च
ऋगादीत्यदितिश्चैव बाह्यस्थैकांशभोगिनः १०
चरकी च विदारी च पूतना पापराक्षसी
ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ११
एकाश्चैको न पञ्चाशत् देवताः परिकीर्तिताः
विंशत्सूत्रेण ते सर्वे बद्ध्वा वै वास्तुमूर्तिनम् १२
अधोमुखं शाययित्वा नासामपि सितस्थिता
वास्तुमूर्तिं तथा देवाः बध्वा तं शाययेत्कथम् १३
देवासु रमहायुद्धं वर्जयन्तु यथा तथा
असुराणां हि तत्कार्यं उग्रः कुर्यान्महातपाः १४
अब्रवीच्च तु सम्भूता देवैर्युद्धं प्रवर्तयेत् १५
सर्वदेवा युधैर्देवैः वर्धनं तु न शक्यते
सर्वदेवाश्च तद्भूतं शाययेयुरधोमुखम् १६
विंशत्सूत्रैश्च तद्भूतं बध्वा संस्तभ्य संस्थिताः
स एव वास्तुपुरुषः वास्तुमूर्तिस्तदुच्यते १७
तदन्यधोमुखो हीनः सर्वेषां दुःखमावहेत्
यत्तु वास्तु निविन्यस्तं तत्सर्वं वास्तुमूर्तिवत् १८
तदुद्धृत्य निवृत्यर्थं सर्वदुःखनिवारणम्
सर्वसिद्धिकरं तं तु वास्तुहोमं बलिं कुरु १९
ब्रह्मादिदेवतानां तु तृप्तिहोमं बलिं द्विज
तासां तृप्तिकृतं वास्तुपुरुषो वाथ नश्यति २०
तस्मात्सर्वप्रयत्नेन दद्यात् ब्रह्मादीनां बलिम्
वास्तुहोमस्तु कर्तव्यः ब्रह्मादीनां स्वनामतः २१
ऐशान्यां तु शिरो न स्याद्वरदो निरुचिगोचरे
आग्नेयं वायुदिग्भागे कूर्परौ जानुशायिनौ २२
मूर्तिदेवस्थिता देवाः ईशानः शिरसिस्थितः
नेत्रस्थाने तु पर्जन्यः जयन्तादिती कर्णकौ २३
आपः कृकाटिकोर्ध्वे तु आपवत्सस्तथैव च
नाभिसूत्रोपरि ब्रह्मा बीजाविन्द्र जयन्तिनी २४
लिङ्गे इन्द्र जयश्चैव पादयोर्निवृतिस्थितिः
समरी पृथिवी चैव स्तनसूत्रो परिस्थितौ २५
विवस्वानपि मित्रश्च कुक्षिपार्श्वोपरिस्थितौ
ऊरुहस्ते तलं चैव सावित्रे तु प्रकल्पयेत् २६
एतत्प्रकोष्ठमध्ये तु सावित्रं तु निधापयेत्
रुद्रो रुद्र जयश्चैव वामपार्श्वे तु पूर्ववत् २७
महेन्द्रा द्यन्तरिक्षान्ताः सव्यश्वाभुविसंस्थिताः
तज्जानुकूर्परे विप्राः अग्निमूर्तिं निधापयेत् २८
पूर्वादिन्द्र पपर्यन्तं जङ्घाया दक्षिणे न्यसेत्
दौवारिपापरक्षान्तं जङ्घाया दक्षिणे न्यसेत् २९
वामकूर्परजानूर्ध्वे वायुमूर्तिं निधापयेत्
नागादिगजपर्यन्तं वामभागे तु संस्थिताः ३०
चरद्विद्याश्चतुष्कर्णे कर्णसूत्राग्रकौ स्थितौ
शेते ह्यधोमुखो वास्तु मूर्तिरेवं द्विजोत्तमाः ३१
प्रागिवैव बलिं दत्वा वास्तु सङ्कल्पयेत् द्विजाः
प्रासादवास्तुरेवं हि वास्तुहोमं ततः परम् ३२
इति काश्यपशिल्पे द्वितीयः प्रासादवास्तुपटलः