०१

अथ प्रथमः पटलः
महादेवं शशिधरं सर्वलोकैकनायकम्
महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् १
देवदानवसिद्धाद्यैः सेवितं सुरपूजितम्
प्रणम्य देवचरणं एवं ब्रूयात्स काश्यपः २
शुचेत्परमसद्भावं प्रसन्नात्सृष्टिकारणात्
जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् ३
देवानां च हितार्थाय शिवज्ञानं परं महत्
महार्थमल्पग्रन्थं च कर्षिणाद्यर्चनान्तकम् ४
अंशुमन्तमहातन्त्रात्त्वयोक्तं हि पुरार्थकम्
तन्त्रं तद्वददेवानां रुद्रा णामधिकारिणाम् ५
अल्पायुष्यादिधर्माणां नराणां त्वधिकारिणां
अनुग्रहार्थं त्वेतेषां सङ्क्षेपाद्वदमे प्रभो ६
साधुसाधुमहाविप्रयत्त्वया परिचोदितं
दुर्लभं तदहं वक्ष्ये शृणु चैकाग्रमानसः ७
पुष्यमासादिषण्मासा माघमासेतरे शुभाः
दक्षिणे चाश्वयुङ्मासः श्रावणः कार्तिकस्तथा ८
पूजिताः कर्षणादीनां शेषमासा विवर्जिताः
पौष्यादित्यमघास्वाती सावित्रत्वाष्ट्रमैत्रकं ९
श्रवणेन प्रजेशश्च तिष्याश्वि च कर्तृयुक्
सदने पूजितास्ताराः प्रतिपत्षष्ठिसप्तमी १०
तृतीया पञ्चमी चैव द्वितीया च त्रयोदशी
दशमी तिथयश्शस्ताः शुक्लपक्षे विशेषतः ११
प्रतिपत्पौर्णमासी च द्वितीया पञ्चमी तथा
तृतीया मध्यमाख्याता कृष्णपक्षे विशेषतः १२
षष्ठी च दशमी कृष्णे कनिष्ठाऽन्यानि गृह्यते
सितसौम्यौ शशीजीवः परं श्रेष्ठतमाः स्मृताः १३
तेषामंशोदयो होरा द्रे क्काणश्चैव दर्शिताः
शुभदा इति विज्ञेयाः तत्र राश्युदयं विना १४
मेषं कर्कटकं तौलिं मकरं च धनुर्विना
शेषराश्युदयाश्शस्ताः सर्वसम्पत्समृद्धिदाः १५
उच्चस्थानगतश्चन्द्रः सौख्यो वित्तगतस्तथा
शत्रुक्षेत्रगतश्चन्द्रः नीचस्थोऽपि धनक्षयम् १६
भौमादित्याविन्दुराहू शौरिर्वा लग्नसंस्थिताः
आयुष्यं धनधान्यं च कर्तुर्नश्येत् न संशयः १७
धनस्थानगताः क्रूराः धनधान्यविनाशनाः
तत्रैव चन्द्र संयुक्ताः धनधान्यविवर्धनाः १८
भ्रातृस्थानगतास्सर्वे सर्वसम्पत्समृद्धिदाः
बन्धुस्थानगताः पापाः सर्वदुःखभयावहाः १९
पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति
शत्रुस्थानगतास्सर्वे सर्वदुःखभयावहाः २०
भार्यास्थानगतो जीवः चन्द्र भावयुतस्तथा
आयुष्यं धनधान्यं च सर्ववृद्धिं प्रयच्छति २१
निधनस्थानगास्सर्वे कर्तुर्निधनमादिशेत्
शुभग्रहा नवस्थाने सर्वसौख्यधनावहाः २२
कर्मस्थानगताः क्रूराः सवित्तायुः क्षयावहाः
शुभग्रहस्तु कर्मस्थः सर्ववित्तविवर्धनः २३
अशुभश्च शुभश्चैव लाभस्थानगताः शुभाः
द्वादशस्थो बुधो जीवः वित्तवृद्धिं समारभेत् २४
नक्षत्रान्ते च मासान्ते पक्षान्ते चैव दक्षिणे
व्यतीपाते च शूले च धृतौ वा कालकण्टके २५
गण्डके च तथा स्तूर्णे परिवेषे च दुर्दिने
उल्कापाते प्रवेशे च विष्ट्यां च विषनाडिके २६
षडशीति मुखे चैव मासशून्ये तथैव च
कर्षणादिप्रतिष्ठान्तं सर्वकर्म हिनाचरेत् २७
मर्त्या नामायुषं कर्तुं कृष्णपक्षे सुचन्द्र वत्
तस्मात्तु यत्नतः शीघ्रं कर्तव्यो धर्मसङ्ग्रहः २८
अल्पदोषं गुणाधिक्यं दिनं लग्नं च सङ्ग्रहेत्
अनेककोटिदोषाढ्यं दिनं वा लग्नमेव वा २९
दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम
अनेककोटिदोषस्तु जीवैकेन विना तथा ३०
तमोऽपरिमितं रात्रौ रविणैकेन नश्यति
तथैव जीवदृष्ट्या तु सर्वदोषविनाशनम् ३१
एवं परीक्ष्य बहुधा कर्षणादिसमाचरेत्
तत्रैव सदनं कुर्यात् तदंशे कर्षणं कुरु ३२
अष्ट दिक्षु च कर्तव्यं ग्रामादिषु शिवालयम्
पैशाचपदके कुर्यादालयं तु पराङ्मुखम् ३३
परिवास्तु त्रिदण्डादि यावता त्रिंशदन्तकम्
तावद्वेष्ट्यादिदेशेषु कर्तव्यं शिवमन्दिरम् ३४
परिखाभ्यन्तरे वापि पैशाच पदके कुरु
मानुषे तु पदे वाथ कर्तव्यं शिवमन्दिरम् ३५
विप्रक्षत्रियविट्शूद्रा श्चानुलोमास्तथैव च
समासात्मजिकर्तारः सर्वप्राणि हिताय वै ३६
अथ भूपरीक्षा विधिः
हस्तात्रं ततः खात्वा खात्वा तद्भूमिमध्यमे
पूरिते तु मृदा खाते ह्यधिका चोत्तमामही ३७
समा तु मध्यमाख्याता हीना साकन्यसामता
अग्रताच्छोत्तमामध्या मार्गहीनान्यसद्मनि ३८
श्वेता रक्ता च पीता च कृष्णा षप्रदथाक्रमात्
चतुर्विधमपि ख्याता तत्तज्जात्याहता शुभा ३९
परेषामपरा शस्ता त्वपरेषु परां विना
तत्तदोभ्यामभिग्राह्या मर्त्यानामालयं कुरु ४०
सर्वामभिप्रशस्ते तु देवानां तु विशेषतः
भूतप्रेतपिशाचेभ्यः दनलं वा बलिं ददेत् ४१
अस्त्रेणोच्चाटनादेतत्पश्चात्करणमाचरेत्
श्वेता रक्ता च पीता च कृष्णा जान्युहुकौ क्रमात् ४२
युवानौ कर्षणापूर्वौ गङ्गा हीनौ बलान्वितौ
हेमशृङ्गकरोपेतकष्ठान्तरनसंस्पृशौ ४३
सम्पूज्य ऋषि गायत्री गन्धपुष्पाक्षतैर्बुधः
पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ४४
यज्ञाप्रीगैस्पारवृक्षे लक्षणेन युगं हलम्
सीतायामतिहस्ताढ्यां नाहं सप्ताङ्गुलं भवेत् ४५
वृत्ततुन्दमशेषे तु वंशां श्रमश्रकम्
मेखलोच्च त्रितालं स्यात्त्रिमात्रं तद्घनं भवेत् ४६
मूलादग्रान् क्षमा क्षीणं किञ्चित्क्षीणं न मध्यमम्
मेखला वस्तुमूले तु तुर्यग्वेशनवाङ्गुलम् ४७
देवाप्यंशाङ्गुलायामं घनमन्त्यार्धमात्रकम्
चतुर्विंशाङ्गुलायामं घ्राणदीर्घं तु काश्यपः ४८
सीतार्धे घ्राणतुङ्गं तु पञ्चाङ्गुलमुदाहृतम्
घ्राणाङ्गुष्ठमुखं कुर्यात् मनुमात्रं तदायतम् ४९
शेषं चन्द्र मिति ख्यातं सीसमेखलसन्धितौ
षण्मात्रं घ्राणविस्तारं घनं देवा गुलं भवेत् ५०
अग्रं सूचीमिवाकारं मनुपूर्वं कृशं भवेत्
त्रिपञ्चमात्रमित्युक्तं सीसघ्राणाग्रयोस्तरम् ५१
अथवा हलजिह्वां तु घ्राणाग्रे योजयेत् बुधः
सीतायामसमानं च युगं चन्द्र युगान्वितम् ५२
कनिष्ठाङ्गुलिपरीणाहं गोचर्म द्विकरान्वितम्
हृदयं मन्त्रमुच्चार्यबुधः युगश्रियौ वृषौ ५३
युगमध्ये हलं बद्ध्वा किञ्चित् दक्षिणमाश्रितः
शिवमन्त्रं समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ५४
कर्षयेत् मतिमान्विप्रः तृणादीनि व्यपोह्य च
तिलसर्षपमुद्गांश्च नेत्रमात्रेण वापयेत् ५५
आचार्यं पूजयेत्तस्मै द्विद्विगाहहलौषधौ
त्रिरात्रमङ्कुरं श्रेष्ठं वेदरात्रं तु मध्यमम् ५६
अधमं भूतरात्रं तु अधमं परिवर्जयेत्
अपूफलफलागाक्ष्या गोधनानि निवेदयेत् ५७
एकरात्रं द्विरात्रं वा वस्त्रं तत्रैव पूजयेत्
गोतन्त्रमेवमाख्यातं गोमयप्रश्नवैरपि ५८
प्रस्तरं भूतलं पश्चात् मध्यमे श्मतलं कुरु
गोमया लेपतं कृत्वा दिक्परिच्छेदनं कुरु ५९
अथ दिक्परिच्छेदनम्
शङ्कुः कलाङ्गुलायामं नाहं तत्समुच्यते
मूलताराष्टभागैकहीनमग्रतिशालकम् ६०
सुवृत्तमर्जयेत् शङ्कुं सारवृक्षं विशेषतः
शङ्कुद्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ६१
तन्मध्ये स्थापयेत् शङ्कुं चतुर्दिक्षु विशेषतः
पूर्वापराह्णयोः छाया यदि तौ मण्डलान्तकौ ६२
छायाग्रमध्यं संलक्ष्यं तथैव त्वपराह्णके
बिन्दु द्वयान्तरं सूत्रं पूर्वापर दिगिष्यते ६३
तयोर्बिन्द्वन्तरं ग्राह्यं शफराननपुच्छकम्
दक्षिणोत्तरगं सूत्रं तध्येतु प्रसारयेत् ६४
ये मध्यमध्यमार्धां तु अपच्छायाङ्गुलं व्रजेत्
मण्डलं कुब्जतालेन अङ्गुलं तु विभाजयेत् ६५
भानुर्मीनाष्टविंशांशं सप्तविंशांशमुत्तरे
गते त्वर्जवनत्युक्ता कन्यायां च तथैव हि ६६
मीनेष्टविंशदंशे हि भागं प्रत्यर्धमात्रकम्
वर्धयेन्मिथुने सप्तविंशदंशावसानके ६७
ततो त्रिमात्रं क्षीणं स्यात् भागं प्रतिविशेषतः
कन्यायां छान्दविंशांशं तद्धारांशं विवर्धनात् ६८
छायाष्टविंशदंशान्तं ततो ह्रासं तथैव च
छाया वृद्धिं क्षयं चैव कृत्तिकांशं कुमध्यमम् ६९
छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत्
पूर्वापराह्णयोः छायामध्ये मानं च वर्जयेत् ७०
प्रागादिपरिदं सूत्रमिष्टमाने तु विन्यसेत्
पुण्याहं वाचयेत् पश्चात् खात्वा प्रासादमानतम् ७१
स्यात् प्रासादं सविस्तारमेकाशीति पदं कुरु
तत्पदे वास्तु देवांश्च पूजयित्वा समासतः ७२
मध्वाज्यगुडसम्मिश्रं देवानां तु बलिं ददेत्
प्रणवादींस्तु मध्ये तु स्वाहान्तं बलिमाचरेत् ७३
वास्तुहोमं तथा कृत्वा मध्ये वा चोत्तरेऽपि वा
वास्तुहोमं विना कृत्वा तद्वास्तु विनशिष्यति ७४
पर्यग्निकरणं कृत्वा प्रोक्षयेत् पञ्चगव्यकैः
कर्षणं ह्येवमाख्यातं शृणु चाष्टकवास्तुकम् ७५
इति काश्यपशिल्पे प्रथमः कर्षणपटलः