०८ दाय-विभाग-प्रकरणम्

अथ दायविभागप्रकरणम्

प्रमाणम् मानुषं दैवम् इति भेदेन वर्णितम् ।
अधुना वर्ण्यते दायविभागो योगमूर्तिना ॥

तत्र दायशब्देन यद् धनं स्वामिसंबन्धाद् एव निमित्ताद् अन्यस्य स्वं भवति तद् उच्यते । स च द्विविधो ऽप्रतिबन्धः सप्रतिबन्धश् च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्य् अप्रतिबन्धो दायः । पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं तत्पुत्रादिष्व् अप्य् ऊहनीयः । विभागो नाम द्रव्यसमुदायविषयाणाम् अनेकस्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतद् एवाभिप्रेत्योक्तं नारदेन ।

विभागो ऽर्थस्य पित्र्यस्य तनयैर् यत्र कल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥ इति । (न्स्म् १३.१)

पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । तनयैर् इत्य् अपि प्रत्यासन्नोपलक्षणम् । इदम् इह निरूपणीयम् । कस्मिन् काले कस्य कथं कैश् च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्य् एतावद् इह चिन्त्यते । किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र स्वत्वम् एव तावन् निरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वम् उत प्रमाणान्तरसमधिगम्यम् इति ।

  • तत्र शास्त्रैकसमधिगम्यम् इति तावद् युक्तम् गौतमवचनात्- “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं, निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.३९–४२)। इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनम् अर्थवत् स्यात् । तथा स्तेनातिदेशे मनुः-

यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ इति । (म्ध् ८.३४०)

अदत्तादायिनः सकाशाद् याजनादिद्वारेणापि द्रव्यम् अर्जयतां दण्डविधानम् अनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे । अपि च । लौकिकं चेत् स्वत्वं मम स्वम् अनेनापहृतम् इति न ब्रूयाद् अपहर्तुर् एव स्वत्वात् । अन्य्थान्यस्य स्वं तेनापहृतम् इति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवद् अस्य वा स्वम् अन्यस्य वा स्वम् इति संशयो न स्यात् । तस्माच् छास्त्रैकसमधिगम्यं स्वत्वम् इति ।

  • अत्रोच्यते- लौकिकम् एव स्वत्वं लौकिकार्थक्रियासाधनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वम् अस्ति ॥

  • ननु आहवनीयादीनाम् अपि पाकादिसाधनत्वम् अस्त्य् एव ।

  • नैतत् । न हि तत्राहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि प्रत्यक्षादिपरिदृश्यमानाग्न्यादिरूपेण । इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वम् अपि तु स्वत्वेनैव । न हि यस्य यत् स्वं न भवति तत् तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च । प्रत्यन्तवासिनाम् अप्य् अदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते, क्रयविक्रयादिदर्शनात् । किं च । नियतोपायकं स्वत्वं लोकसिद्धम् एवेति न्यायविदो मन्यन्ते । तथाहि, लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वम् एव न स्यात् । स्वत्वस्यालौकिकत्वाद् इति पूर्वपक्षासंभवम् आशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धम् इति पूर्वपक्षः समर्थितो गुरुणा ।

  • ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वम् एव न भवतीति याग एव न संवर्तेत, प्रलपितम् इदं केनाप्य् अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम् इति वदता । तथा सिद्धान्ते ऽपि स्वत्वस्य लौकिकत्वम् अङ्गिकृत्यैव विचारप्रयोजनम् उक्तम् “अतो नियमातिक्रमः पुरुषस्य न क्रतोः” इति । अस्य चार्थ एवं विवृतः । यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा नियमार्जिते नैव द्रव्येण क्रतुसिद्धिर् न नियमातिक्रमार्जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे

  • राद्धान्ते त्व् अर्जननियमस्य पुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर् भवति पुरुषस्यैव नियमातिक्रमदोष इति नियमातिक्रमार्जितस्यापि स्वत्वं स्याद् इति मन्तव्यम्, लोके तत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच् च । एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते, “ब्राह्मणस्य प्रतिग्रहादय उपायाः क्षत्रियस्य विजितादयः वैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादयः” इत्य् अदृष्टार्था नियमाः । रिक्थादयस् तु सर्वसाधारणाः “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु” (ग्ध् १०.३९) इत्य् उक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रतिबन्धो दायः । परिग्रहो ऽनन्यपूर्वस्य जलतृणकाष्टादेः स्वीकारः । अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । “ब्राह्मणस्याधिकं लब्धम्” (ग्ध् १०.४०) इति ब्राह्मणस्य प्रतिग्रहादिना यल् लब्धं तद् अधिकम् असाधारणम् । “क्षत्रियस्य विजितम्” (ग्ध् १०.४१) इत्य् अत्राधिकम् इत्य् अनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धम् असाधारणम् । “निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.४२) इत्य् अत्राप्य् अधिकम् इत्य् अनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तद् असाधरणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल् लब्धं तद् असाधारणम् । एवम् अनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद् यद् असाधारणम् उक्तं सूतानाम् अश्वसारथ्यम् इत्यादि तत् तत् सर्वं निर्विष्टशब्देनोच्यते, सर्वस्यापि भृतिरूपत्वात्, “निर्वेशो भृतिभोगयोः” इति त्रिकाण्डीस्मरणात् । तत् तद् असाधारणं वेदितव्यम् । यद् अपि “पत्नी दुहितरश् चैव” इत्य् आदिस्मरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धे ऽपि स्वत्वे व्यामोहनिवृत्त्यर्थं स्मरणम् इति सर्वम् अनवद्यम् ।

  • यद् अपि मम स्वम् अनेनापहृतम् इति न ब्रूयात् स्वत्वस्य लौकिकत्व इति ।

  • तद् अप्य् असत्, स्वत्वहेतुभूतक्रयादिसंदेहात् स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु,

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ इति । (नोत् इन् ध्को)

शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वम् एव नास्तीति तत्पूत्राणां तद् अविभाज्यम् एव । यदा तु लौकिकं स्वत्वं तदा ऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात् तत्पुत्राणां तद्विभाज्यम् एव । तस्योत्सर्गेण शुध्यन्ति इति प्रायश्चित्तम् अर्जयितुर् एव तत्पुत्रादीनां तु दायत्वेन स्वत्वम् इति न तेषां दोषसंबन्धः,

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ (म्ध् १०.११५)

इति मनुस्मरणात् ।

इदानीम् इदं संदिह्यते- किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र विभागात् स्वत्वम् इति तावद् युक्तम्, जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात् तदोत्पन्नस्य पुत्रस्यापि तत् स्वं साधारणम् इति द्रव्यसाध्येष्व् आधानादिषु पितुर् अनधिकारः स्यात् । तथा विभागात् प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते, सर्वानुमत्या दत्तत्वाद् विभागप्राप्त्यभावात् । यथाह-

शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ इति ॥ (न्स्म् १३.६)

तथा-

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ इति । (न्स्म् १.२४)

प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । न च स्थावराद् ऋते यद्द् अत्तम् इति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यद् अपि-

मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ (ध्को १२१९- नारद)

तथा-

पितृप्रसादाद् भुज्यन्ते वस्त्राण्य् आभरणानि च ।
स्थावरं तु न भुज्यते प्रसादे सति पैतृके ॥ इति । (ध्को १२१९- नारद)

स्थावरस्य प्रसाददाने प्रतिषेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणम् अपि मणिमुक्तादि पितुर् एव । स्थावरं तु साधारणम् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मान् न जन्मना स्वत्वं किं तु स्वामिनाशाद् विभागाद् वा स्वत्वम् । अत एव पितुर् ऊर्ध्वं विभागात् प्राग् द्रव्यस्वत्वस्य प्रहीणत्वाद् अन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणाद् एव पुत्रस्य स्वम् इति न विभागम् अपेक्षत इति ।

  • अत्रोच्यते । लोकप्रसिद्धम् एव स्वत्वम् इत्य् उक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवम् अर्हति । विभागशब्दश् च बहुस्वामिकधनविषयो लोकप्रसिद्धो नान्यदीयविषयो न प्रहीणविषयः, तथा “उत्पत्त्यैवार्थस्वामित्वं लभेतेत्य् आचार्याः” (नोत् इन् ग्ध्; ध्को ११२४) इति गौतमवचनाच् च । “मणिमुक्ताप्रवालानाम्” (ध्को १२१९) इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । न च पितामहोपात्तस्थावरविषयम् इति युक्तम्, “न पिता न पितामहः” (ध्को १२१९) इति वचनात् । पितामहस्य हि स्वार्जितम् अपि पुत्रे पौत्रे च सत्य् अदेयम् इति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्ताप्रवालवस्त्राभरणादीनां पैतामहानाम् अपि पितुर् एव स्वत्वं वचनात्, एवम् अस्मन्मते ऽपि पित्रार्जितानाम् अप्य् एतेषां पितुर् दानाधिकारो वचनाद् इत्य् अविशेषः । यत् तु “भर्त्रा प्रीतेन” इत्यादिविष्णुवचनं[^२७] स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याक्ख्येयम्, पूर्वोक्तैर् मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीतिदानयोग्यत्वनिश्चयात् । यद् अप्य् अर्थसाध्येषु वैदिकेषु कर्मस्व् अनधिकार इति तत्र तद्विधानबलाद् एवाधिकारो गम्यते । तस्मात् पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम् तथापि पितुर् आवश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यम् इति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यम् एव,

स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।
असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥
ये जाता ये ऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।
वृत्तिं च ते ऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥ (ध्को १५८७- व्यास)

इत्यादिस्मरणात् । अस्यापवादः-

एको ऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥ इति । (ध्को १५८८- स्मृत्यन्तर)

अस्यार्थः- अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वानुज्ञानादाव् असमर्थेषु भ्रातृषु वा तथाविधेष्व् अविभक्तेष्व् अपि सकलकुटुम्बव्यापिन्याम् आपदि तत्पोषणे वावश्यकर्तव्येषु च पितृश्राद्धादिषु स्थावरस्य दानाधमनविक्रयम् एको ऽपि समर्थः कुर्याद् इति । यत् तु वचनम्,

अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥ (बृस्म् १.१४.८)

इति तद् अप्य् अविभक्तेषु द्रव्यस्य मध्यस्थत्वाद् एकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनर् एकस्यानीश्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्य् एवेति व्याख्येयम् । यद् अपि,

स्वग्रामज्ञातिसामन्तदायादानुमतेन च ।
हिरण्योदकदानेन षड्भिर् गच्छति मेदिनी ॥ (ध्को ९०१- स्मृत्यन्तर)

इति तत्रापि ग्रामानुमतिः,

प्रतिग्रहः प्रकाषः स्यात् स्थावरस्य विशेषतः । (य्ध् २.१७६)

इति स्मरणात्, व्यवहारप्रकाषनार्थम् एवापेक्ष्यते न पुनर् ग्रामानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस् तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदायादानुमतेस् तु प्रयोजनम् उक्तम् एव “हिरण्योदकदानेन” (ध्को ९०१) इति ।

स्थावरे विक्रयो नास्ति कुर्याद् आधिम् अनुज्ञया । (ध्को १५८९)

इति स्थावरस्य विक्रयप्रतिषेधात् ।

भूमिं यः प्रतिगृह्नाति यश् च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥ [^२८]

इति दानप्रशंसादर्शनाच् च । विक्रये ऽपि कर्तव्ये सहिरण्यम् उदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्याद् इत्य् अर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वे ऽपि विषेशं “भूर् या पितामहोपात्ता” (य्ध् २.१२१) इत्य् अत्र वक्ष्यामः ॥ २.११३ ॥

इदानीं यत्र काले येन च यथा विभागः कर्तव्यस् तद् दर्शयन्न् आह ।

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् । २.११४अब्
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११४च्द् ॥

यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान् आत्मनः सकाशात् पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वाद् अनियमप्राप्तौ नियमार्थम् आह “ज्येष्ठं वा श्रेष्ठभागेन” इति । ज्येष्ठं श्रेष्ठभागेन मध्यमं मध्यभागेन कनिष्ठं कनिष्ठभागेन विभजेद् इत्य् अनुवर्तते । श्रेष्ठादिविभागश् च मनुनोक्तः-

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति । (म्ध् ९.११२)

वाशब्दो वक्ष्यमाणपक्षापेक्षः, “सर्वे वा स्युः समांशिनः” इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान् नेच्छया विषमो विभागो युक्तः । “विभागं चेत्पिता कुर्याद्” इति यदा पितुर् विभागेच्छा स तावद् एकः कालः । अपरो ऽपि कालो जीवत्य् अपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च निवृत्तरजस्कायां पितुर् अनिच्छायाम् अपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन,

अत ऊर्ध्वं पितुः पुत्रा विभजेयुर् धनं समम् । (न्स्म् १३.२ वरिअन्त्)

इति पित्रोर् ऊर्ध्वं विभागं प्रतिपाद्य,

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥ (न्स्म् १३.३)

इति दर्शितः । अत्र पुत्रा धनं समं विभजेयुर् इत्य् अनुषज्यते । गौतमेनापि “ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्” (ग्ध् २८.१) इत्य् उक्त्वा, “निवृत्ते चापि रजसि” (ग्ध् २८.२) इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायाम् अपि मातर्य् अनिच्छत्य् अपि पितर्य् अधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणाम् इच्छया भवति विभागः । यथाह शङ्खः- “अकामे पितरि रिक्थाविभागो वृद्धे विपरीतचेतसि रोगिणि च” (ध्को ११४८) इति ॥ २.११४ ॥

पितुर् इच्छया विभागो द्विधा दर्शितः समो विषमश् चेति । तत्र समविभागे विशेषम् आह ।

**यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः । २.११५अब् **
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११५च्द् ॥

यदा स्वेच्छया पिता सर्वान् एव सुतान् समविभागिनः करोति तदा पत्न्याश् च पुत्रसमांशभाजः कर्तव्यः यासां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति “दत्ते त्व् अर्धं प्रकल्पयेत्” (य्ध् २.१४८) इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान् न लभन्ते किं तूद्धृतोद्धारात् समुदायात् समान् एवांशांल् लभन्ते स्वोद्धारं च । यथाह आपस्तम्बः- “परीभाण्डं च गृहे ऽलंकारो भार्यायाः” (आप्ध् २.१४.८–९) इति ॥ २.११५ ॥

“ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः” (य्ध् २.११४) इति पक्षद्वये ऽप्य् अपवादम् आह ।

शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक् क्रिया । २.११६अब्

स्वयम् एव द्रव्यार्जनसमर्थस्य पितृद्रव्यम् अनीहमानस्यानिच्छतो ऽपि यत् किंचिद् असारम् अपि दत्त्वा पृथक् क्रिया विभागः कार्यः पित्रा, तत्पुत्रादीनां दायजिघृक्षा मा भूद् इति ।

“ज्येष्ठं वा श्रेष्ठभागेन” (य्ध् २.११४) इति न्यूनाधिको विभागो दर्शितः । तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थम् आह ।

न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ २.११६च्द् ॥

न्यूनाधिकविभागेन विभक्तानां पुत्राणाम् असौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतो ऽपि निवर्तत इत्य् अभिप्रायः । यथाह नारदः-

व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥ इति ॥ (न्स्म् १३.१५* अद्द्) २.११६ ॥

इदानीं विभागस्य कालान्तरं कर्त्रन्तरं प्रकारनियमं चाह ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् । २.११७अब्

पित्रोर् मातापित्रोर् ऊर्ध्वं प्रायणाद् इति कालो दर्शितः । सुता इति कर्तारो दर्शिताः । समम् इति प्रकारनियमः । समम् एवेति रिक्थम् ऋणं च विभजरेन् ।

  • ननु “ऊर्ध्वं पितुश् च मातुश् च” (म्ध् ९.१०४) इत्य् उपक्रम्य,

ज्येष्ठ एव तु गृह्नीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ (म्ध् ९.१०५)

इत्य् उक्त्वोक्तम्-

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति । (म्ध् ९.११२)

सर्वस्माद् द्रव्यसमुदायाद् विंशतितमो भागः सर्वद्रव्येभ्यश् च यच् छ्रेष्ठं तज् ज्येष्ठाय दातव्यम् । तदर्धं चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयम् अशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यम् इति मातापित्रोर् ऊर्ध्वं विभजताम् उद्धारविभागो मुनुना दर्शितः । तथा-

उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।
एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः ॥
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ इति । (म्ध् ९.११६–१७)

ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य सार्धं एको भागः ततो ऽनुजानाम् एकैको विभाग इत्य् उद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः पित्रोर् ऊर्ध्वं विभजताम् । जीवद्विभागे च स्वयम् एव विषमो विभागो दर्शितो “ज्येष्ठं वा श्रेष्ठभागेन” (य्स्ह् २.११४) इति । अतः सर्वस्मिन्न् अपि कले विषमो विभागो ऽस्तीति कथं समम् एव विभजेरन्न् इति नियम्यते ॥

  • अत्रोच्यते । सत्यम् । अयं विषमो विभागः शास्त्रदृष्टस् तथापि लोकविद्विष्टत्वान् नानुष्ठेयः, “अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन्न तु” (य्ध् १.१५६) इति निषेधात् । यथा “महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्” (य्ध् १.१०९) इति विधाने ऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । यथा वा “मैत्रावरुणीं गां वशाम् अनुबन्ध्याम् आलभेत” इति गवालम्भनविधाने ऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । उक्तं च यथा-

नियोगधर्मो नो नानुबन्ध्यावधो ऽपि वा ।
तथोद्धारविभागो ऽपि नैव संप्रति वर्तते ॥ इति । [^२९]

(नियोगम् अनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो देवराच् च सुतोत्पत्तिर् इत्यादिः स नो भवति) । आपस्तम्बो ऽपि “जीवन्पुत्रेभ्यो दायं विभजेत्” इति समताम् उक्त्वा, “ज्येष्ठो दायाद इत्य् एके” इति कृत्स्नधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य, “देशविशेषेण सुवर्णं कृष्णा गावः कृष्णभौमः जेष्ठस्य रथः पितुः परीभाण्डं च गृहे ऽलंकारो भार्याया ज्ञातिधनं चेत्य् एके” इत्य् एकीयमतेनैवोद्धारविभागं दर्शयित्वा, “तच् छास्त्रैर् विप्रतिषिद्धम्” इति निराकृतवान् (आप्ध् २.१४.१, ५, ६–१०) । तं च शास्त्रविप्रतिषेधं स्वयम् एव दर्शयति स्म “मनुः पुत्रेभ्यो दायं विभजेद् इत्य् अविशेषेण श्रूयते” । इति । (आप्ध् २.१४.११) तस्माद् विषमो विभागः शास्त्रदृष्टो ऽपि लोकविरोधाच् छ्रुतिविरोधाच् च नानुष्टेय इति समम् एव विभजेरन्न् इति नियम्यते ॥

मातापित्रोर् धनं सुता विभजेरन्न् इत्य् उक्तम् । तत्र मातृधने ऽपवादम् आह ।

मातुर् दुहितरः शेषम् ऋणात् २.११७च्

मातुर् धनं दुहितरो विभजेरन् । ऋणाच् छेषं मातृकृतर्णापाकरणावशिष्टं अतश् चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्न् इत्य् अस्य विषयः । एतद् उक्तं भवति- मातृकृतम् ऋणं पुत्रैर् एवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्नीयुर् इति । युक्तं चैतत्,

पुमान्पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः । (म्ध् ३.४९)

इति स्त्र्यवयवानां दुहितृषु बाहुल्यात्, स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवयवानां पुत्रेषु बाहुल्याद् इति । तत्र च गौतमेन विशेषो दर्शितः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” (ग्ध् २८.२४) इति । अस्यार्थः- प्रत्ताप्रत्तासमवाये ऽप्रत्तानाम् एव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवाये ऽप्रतिष्ठितानाम् एवेति । अप्रतिष्ठिता निर्धनाः ॥

दुहित्रभावे मातृधनम् ऋणावशिष्टं को गृह्नीयाद् इत्य् अत आह ।

ताभ्य ऋते ऽन्वयः ॥ २.११७द्

ताभ्यो दुहितृभ्यो विना दुहितॄणाम् अभावे अन्वयः पुत्रादिर् गृह्नीयात् । एतच् च “विभजेरन् सुताः पित्रोर् ऊर्ध्वम्” (य्ध् २.११७) इत्य् अनेनैव सिद्धं स्पष्टार्थम् उक्तम् ॥ २.११७ ॥

अविभाज्यम् आह ।

**पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् । २.११८अब् **
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ २.११८च्द् ॥
क्रमाद् अभ्यागतं द्रव्यं हृतम् अप्य् उद्धरेत् तु यः । २.११९अब्
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ २.११९च्द् ॥

मातापित्रोर्द्रव्याविनाशेन यत्स्वयम् अर्जितं मैत्रं मित्रसकाशाद्यल्लब्धं औद्वाहिकं विवाहाद्यल्लब्धं दायादानां भ्रातॄणां तन्न भवेत् । क्रमात्पितृक्रमादायातं यत्किञ्चिद्द्रव्यं अन्यैर्हृतमसामर्थ्यादिना पित्रादिभिर् अनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्धर्तैव गृह्नीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां समम् एव । यथाह शङ्खः ।

पूर्वं नष्टां तु यो भूमिम् एकश् चेद् उद्धरेत् क्रमात् ।
यथाभागं लभन्ते ऽन्ये दत्त्वांशं तु तुरीयकम् ॥ इति । (ध्को १२०७)

“क्रमाद् अभ्यागतम्” इति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल् लब्धं तद् अपि दायादेभ्यो न दद्यात्, अर्जक एव गृह्नीयात् । अत्र च “पितृद्रव्याविरोधेन यत् किंचित् स्वयम् अर्जितम्” इति सर्वशेषः । अतश् च पितृद्रव्याविरोधेन यन् मैत्रम् अर्जितम्, पितृद्रव्याविरोधेन यद् औद्वाहिकम्, पितृद्रव्याविरोधेन यत् क्रमायातम् उद्धृतम्, पितृद्रव्याविरोधेन विद्यया यल् लब्धम्, इति प्रत्येकम् अभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन् मैत्रम्, आसुरादिविवाहेषु यल् लब्धम्, तथा पितृद्रव्यव्ययेन यत् क्रमायातम् उद्धृतम्, तथा पितृद्रव्यव्ययेन लब्धया विद्यया यल् लब्धम्, तत् सर्वं सर्वैर् भ्रातृभिः पित्रा च विभजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वाद् एव पितृद्रव्याविरोधेन प्रतिग्रहलब्धम् अपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकम् इत्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन् मैत्रादिलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनम् अर्थवद् इत्य् उच्यते । तथा सति समाचारविरोधः, विद्यालब्धे नारदवचनविरोधश् च -

कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥ इति । (न्स्म् १३.१०)

तथा विद्याधनस्याविभाज्यस्य लक्षणम् उक्तं कात्यायनेन ।

परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।
तया लब्धं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥ इति । (क्स्म् ८६७)

तथा पितृद्रव्याविरोधेनेत्य् अस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वम् आचारविरुद्धम् आपद्येत । एत देव स्पष्टीकृतं मनुना-

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ इति (म्ध् ९.२०८)

श्रमेण सेवायुद्धादिना ।

  • ननु पितृद्रव्याविरोधेन यन् मैत्रादिलब्धं द्रव्यं तद् अविभाज्यम् इति न वक्तव्यम्, विभागप्राप्त्यभावात् । यद् येन लब्धं तत् तस्यैव नान्यस्येति प्रसिद्धतरम् । प्राप्तिपूर्वकश् च प्रतिषेधः । अत्र कश् चिद् इत्थं प्राप्तिम् आह-

यत् कञ्चित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ इति । (म्ध् ९.२०४)

ज्येष्ठो वा कनिष्टो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्य् असति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति ।

  • तद् असत् । न ह्य् अत्र प्राप्तस्य प्रतिषेधः किं तु सिद्धस्यैवानुवादो ऽयम् । लोकसिद्धस्यैवानुवादकान्य् एव प्रायेणास्मिन् प्रकरणे वचनानि । अथ वा,

समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः । (बृस्म् १.२६.१८)

इति प्राप्तस्यापवाद इति संतुष्यतु भवान् । अतश् च “यत् किंचित् पितरि प्रेते” इत्य् अस्मिन् वचने ज्येष्ठादिपदाविवक्षया प्राप्तिर् इति व्यामोहमात्रं । अतो मैत्रादिवचनैः पितुः प्राग् ऊर्ध्वं वा विभाज्यत्वेनोक्तस्य “यत् किंचित् पितरि प्रेते” इत्य् अपवाद इति व्याख्येयम् । तथान्यद् अप्य् अविभाज्यम् उक्तं मनुना-

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ इति । (म्ध् ९.२१९)

धृतानाम् एव वस्त्राणाम् अविभाज्यत्वं यद् येन धृतं तत् तस्यैव । पितृधृतवस्त्राणि तु पितुर् ऊर्ध्वं विभजतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः ।

वस्त्रालंकारशय्यादि पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥ इति । (बृस्म् १.२६.६०)

अभिनवानि तु वस्त्राणि विभाज्यान्य् एव । पत्रं वाहनम् अश्वशिबिकादि तद् अपि यद् येनारूढं तत् तस्यैव । पित्र्यं तु वस्त्रवद् एव । अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वम् एव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य,

अजाविकं सैकशफं न जातु विषमं भजेत् ।
अजाविकं सैकशफं ज्येष्ठस्यैव विधीयते ॥ (म्ध् ९.११९)

इति मनुस्मरणात् । अलंकारो ऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव-

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ इति । (म्ध् ९.२००)

“अलंकारो धृतो भवेद्” इति विशेषेणोपादानाद् अधृतानां विभाज्यत्वं गम्यते । कृटान्नं तण्डुलमोदकादि तद् अप्य् अविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच् च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश् च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्यायेण कर्म कारयितव्याः । अवरुद्धास् तु पित्रा स्वैरिण्याद्याह् समा अपि पुत्रैर् न विभाज्याः, “स्त्रीषु च संयुक्तास्व् अविभागः” (ग्ध् २८.४७) इति गौतमस्मरणात् । योगश् च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्ताग्निसाध्यम् इष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूतं कर्म लक्ष्यते । तद् उभयं पैतृकम् अपि पितृद्रव्यविरोधार्जितम् अप्य् अविभाज्यम् । यथाह लौगाक्षिः-

क्षेमं पूतं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनम् एव च ॥ इति । (ध्को १२३३)

योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्य् अन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः, सो ऽप्य् अविभाज्यः । यत् तु उशनसा क्षेत्रस्याविभाज्यत्वम् उक्तम्,

अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥ (ध्को १२३२)

इति तद् ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम्,

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥ (बृस्म् १.२६.१२१)

इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वम् अनन्तरम् एव निरासि । पितृद्रव्यविरोधेन यद् अर्जितं तद् विभजनीयम् इति स्थितं, तत्रार्जकस्य भागद्वयं वसिष्ठवचनात्- “येन चैषां स्वयम् उपार्जितं स्यात् स द्व्यंशम् एव लभेत” इति (वध् १७.५१) ॥ २.११८ ॥ २.११९ ॥

अस्यापवादम् आह ।

**सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः । २.१२०अब् **

अविभक्तानां भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित् कृते सम एव विभागो नार्जयितुर् अंशद्वयम् ॥

पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे विशेषम् आह ।

अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२०च्द्

यद्य् अपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैर् अविशिष्टं तथापि तेषां पितृद्वारेणैव पैतामहद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतद् उक्तं भवति । यदा ऽविभक्ता भ्रातरः पुत्रान् उत्पाद्य दिष्टं गतास् तदैकस्य द्वौ पुत्रावन्यस्य त्रयो ऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वाव् एकं स्वपित्र्यम् अंशं लभेते, अन्ये त्रयो ऽप्य् एकम् अंशं पित्र्यं चत्वारो ऽप्य् एकम् एवांशं पित्र्यं लभन्त इति । तथा केषुचित् पुत्रेषु ध्रियमाणेषु केषुचित् पुत्रान् उत्पाद्य विनष्टेष्व् अप्य् अयम् एव न्यायो ध्रियमाणाः स्वान् अंशान् एव लभन्ते, नष्टानाम् अपि पुत्राः पित्र्यान् एवांशांल् लभन्त इति वाचनिकी व्यवस्था ॥ २.१२० ॥

अधुना विभक्ते पितर्य् अविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति, अध्रियमाणे पितरि “पितृतो भागकलपना” (य्ध् २.१२०) इत्य् उक्तत्वात् । भवतु वा स्वार्जितवत् पितुर् इच्छयैवेत्य् आशङ्कित आह ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा । २.१२१अब्
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ २.१२१च्द् ॥

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभरस्येयन्ति क्रमुकफलानीत्याद्य् उक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत् पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धम् इति कृत्वा विभागो ऽस्ति । हि यस्मात् तत्सदृशं समानं तस्मान् न पितुर् इच्छयैव विभागो नापि पितुर् भागद्वयम् । अतश् च “पितृतो भागकल्पना” (य्ध् २.१२०) इत्य् एतत् स्वाम्ये समे ऽपि वाचनिकम् । “विभागं चेत् पिता कुर्यात्” (य्ध् २,११४) इत्य् एतत् स्वार्जितविषयम् । तथा,

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । (न्स्म् १३.१२)

इत्य् एतद् अपि स्वार्जितविषयम् ।

जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः । (न्स्म् १.३२)

इत्य् एतद् अपि पारतन्त्र्यं मातापित्रर्जितद्रव्यविषयम्, तथा “अनीशास् ते हि जीवतोः” (म्ध् ९.१०४) इत्य् एतद् अपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागम् अनिच्छत्य् अपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथा ऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधे ऽप्य् अधिकारः । पित्रार्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस् तु कर्तव्या । तथाहि, पैतृके पैतामहे च स्वाम्यं यद्य् अपि जन्मनैव तथापि पतृके पितृपरतन्त्रत्वात्, पितुश् चार्जकत्वेन प्राधान्यात्, पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यम् अविशिष्टम् इति निषेधाधिकारो ऽस्तीति विशेषः । मनुर् अपि ।

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ इति । (म्ध् ९.२०९)

यत् पितामहार्जितं केनाप्य् अपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत् स्वार्जितम् इव पुत्रैः सार्धम् अकामः स्वयं न विभजेद् इति वदन् पितामहार्जितम् अकामो ऽपि पुत्रेच्छया पुत्रैः सह विभजेद् इति दर्शयति ॥ २.१२१ ॥

विभागोत्तरकालम् उत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्य् अत आह ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । २.१२२अब्

विभक्तेषु पुत्रेषु पश्चात् सवर्णायां भार्यायाम् उत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर् विभागस् तं भजतीति विभागभाक् । पित्रोर् ऊर्ध्वं तयोर् अंशं लभत इत्य् अर्थः । मातृभागं चासत्यां दुहितरि, “मातुर् दुहितरः शेषम्” इत्य् उक्तत्वात् । असवर्णायाम् उत्पन्नस् तु स्वांशम् एव पित्र्याल् लभते । मातृकं तु सर्वम् एव । एतद् एव मनुनोक्तम् ।

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् । इति । (म्ध् ९.२१६)

पित्रोर् इदं पित्र्यम् इति व्याख्येयम् ।

अनीशः पूर्वजः पित्रोर् भ्रातुर् भागे विभक्तजः । (बृस्म् १.२६.५५)

इति स्मरणात् । विभक्तयोर् मातापित्रोर् विभागे विभागात् पूर्वम् उत्पन्नो न स्वामी विभक्तजश् च भ्रातुर् भागे न स्वामीत्य् अर्थः । तथा विभागोत्तरकालं पित्रा यत् किंचिद् अर्जितं तत् सर्वं विभक्तजस्यैव,

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥ (बृस्म् १.२६.५६)

इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पितुर् ऊर्ध्वं विभक्तजो विभजेत् । यथाह मनुः ।

संस्पृष्टास्तेन वा ये स्युर् विभजेत स तैः सह । इति । (म्ध् ९.२१६)

पितुर् ऊर्ध्वं पुत्रेषु विभक्तेषु पश्चाद् उत्पन्नस्य कथं विभागकल्पनेत्य् अत आह ।

दृश्याद् वा तद् विभागः स्याद् आयव्ययविशोधितात् ॥ २.१२२च्द् ॥

तस्य पितरि प्रेते भ्रातृविभागसमये ऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालम् उत्पन्नस्यापि विभागः । तद्विभागः कुत इत्य् अत आह । दृश्याद् भ्रातृभिर् गृहीताद् धनात् । कीदृशाद् आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यद् उत्पद्यते । व्ययः पितृकृतर्णापाकरणम् । ताभ्याम् आयव्ययाभ्यां यच् छोधितं तत् तस्माद् उद्धृत्य तद् भागो दातव्यः स्यात् । एतद् उक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थम् आयं प्रवेश्य पितृकृतं चर्णम् अपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किंचित् किंचिद् उद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच् च विभागसमये ऽप्रजस्य भ्रातुर् भार्यायाम् अस्पष्टगर्भायां विभागाद् ऊर्ध्वम् उत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः- “अथ भ्रातॄणां दायविभागः, याश् चानपत्याः स्त्रियस् तासाम् आ पुत्रलाभात्” (वध् १७.४०–४१) इति । गृहीतगर्भाणाम् आ प्रसवात् प्रतीक्षणम् इति योजनीयम् ॥ २.१२२ ॥

विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्नातीत्युक्तम् । तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशाद् आभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यम् इत्य् आह ।

पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।२.१२३अब्

मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद् दत्तम् अलंकारादि तत् तस्यैव न विभक्तजस्य स्वं भवति । न्यायसाम्याद् विभागात् प्राग् अपि यस्य यद् दत्तं तत् तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोर् अंशं तद् ऊर्ध्वं विभजतां यस्य यद् दत्तं तत् तस्यैव नान्यस्येति वेदितव्यम् ॥

जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनाम् उक्तं “यदि कुर्यात् समान् अंशान्” (य्ध् २.११५) इत्यादिना । पितुर् ऊर्ध्वं विभागे ऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्शयितुम् आह ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ॥ २.१२३च्द् ॥

पितुर् ऊर्ध्वं पितुः प्रायणाद् ऊर्ध्वं विभजतां मातापि स्वपुत्रांशसमम् अंशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्ते त्व् अर्धांशहारिणीति वक्ष्यते ॥ २.१२३ ॥

पितरि पेते यद्य् असंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे को ऽधिक्रियत इत्य् अत आह ।

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । २.१२४अब्

पितुर् ऊर्ध्वं विभजद्भिर् भ्रातृभिर् असंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ।

असंस्कृतासु भगिनीषु विशेषम् आह ।

भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥ २.१२४च्द् ॥

अस्यार्थः । भगिन्यश् चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किं कृत्वा । निजाद् अंशाच् चतुर्थम् अंशं दत्त्वा । अनेन दुहितरो ऽपि पितुर् ऊर्ध्वम् अंशभागिन्य इति गम्यते । तत्र “निजाद् अंशाद्” इति प्रत्येकं परिकल्पिताद् अंशाद् उद्धृत्य चतुर्थांशो दातव्य इत्य् अयम् अर्थो न भवति किं तु यज्जातीया कन्या तज्जातीयपुत्रभागाच् चतुर्थांशभागिनी सा कर्तव्या । एतद् उक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावान् अंशो भवति तस्य चतुर्थांशस् तस्या भवति । तद् यथा । यदि कस्यचिद् ब्राह्मणस्यैका पत्नी पुत्रश् चैकः कन्या चैका तत्र पित्र्यं सर्वम् एव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्नीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्नीतः ॥ अथ त्व् एकः पुत्रो द्वे कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्वं पुत्रो गृह्नातीत्य् एवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस् त्रींश् चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्नाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनम् एकादशधा विभज्य तेषु त्रीन् अंशान् क्षत्रियापुत्रभागांश् चतुर्धा विभज्य चतुर्थम् अंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्मणीपुत्रौ विभज्य गृह्नीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च “निजाद् अंशाद् दत्त्वांशं तु तुरीयकम्” इति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम्, मनुवचनविरोधात् ।

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः प्रथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ इति । (म्ध् ९.११८)

अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्यो ऽंशेभ्यः “चतुरो ऽंशान् हरेद् विप्रः” इत्यादिवक्ष्यमाणेभ्यः स्वात् स्वाद् अंशाद् आत्मीयाद् आत्मीयाद् भागाच् चतुर्थं चतुर्थं भागं दद्युः । न चात्रात्मीयभागाद् उद्धृत्य चतुर्थांशो देय इत्य् उच्यते किं तु स्वजातिविहिताद् एकस्माद् एकस्माद् अंशात् पृथक् पृथग् एकस्याप्य् एकस्यै कन्यायै चतुर्थो ऽंशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागकॢप्तिर् उक्तैव । “पतिताः स्युर् अदित्सवः” इत्य् अकरणे प्रत्यवायश्रवणाद् अवश्यंदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनम् अविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानम् एव विवक्षितम् इति चेन् न, स्मृतिद्वये ऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाद्, अदाने प्रत्यवायश्रवणाच् चेति । यद् अपि कैश्चिद् उच्यते- अंशदानविवक्षायां बहुभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीति तद् उक्तरीत्या परिहृतम् एव । न ह्य् अत्रात्मीयाद् भागाद् उद्धृत्य चतुर्थांशस्य दानम् उच्यते येन तथा स्यात् । अतः असहायमेधातिथिप्रभृतीनां व्याख्यानम् एव चतुरस्रं न भारुचेः । तस्मात् पितुर् ऊर्ध्वं कन्याप्य् अंशभागिनी पूर्वं चेद् यत् किंचित् पिता ददाति तद् एव लभते विशेषवचनाभावाद् इति सर्वम् अनवद्यम् ॥ २.१२४ ॥

एवं “विभागं चेत् पिता कुर्यात्” य्ध् २.११४) इत्यादिना प्रबन्धेन समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागकॢप्तिर् उक्ता । अधुना भिन्नजातीयानां विभागम् आह ।

चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः । २.१२५अब्
**क्षत्रजास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥ २.१२५च्द् ॥ **

“तिस्रो वर्णानुपूर्व्येण” (य्ध् १.१७) इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यते । “संख्यैकवचनाच् च वीप्सायाम्” (पाण् ५.४।४३) इत्य् अधिकरणकारकाद् एकवचनाद् वीप्सायां शस् । अतश् च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्व्येकभागाः स्युर् भवेयुः । एतद् उक्तं भवति । ब्राह्मणेन ब्राह्मण्याम् उत्पन्ना एकैकशश् चतुरश् चतुरो भागांल् लभन्ते । तेनैव क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायाम् एकम् एकम् इति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णश इत्य् अनुवर्तते यथाक्रमं त्रिद्व्येकभागाः । क्षत्रियेण क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायाम् एकम् एकम् । विड्जाः वैष्येनोत्पन्नाः । अत्रापि वर्णश इत्य् अनुवर्तते यथाक्रमं द्व्येकभागिनः । वैश्येन वैश्यायाम् उत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायाम् एकम् एकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात् तत्पुत्राणां पूर्वोक्त एव विभागः । यद्य् अपि चतुस्त्रिद्व्येकभागा इत्य् अविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयम् इदं द्रष्टव्यम् । यतः स्मरन्ति ।

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषा पिता दद्यान् मृते विप्रासुतो हरेत् ॥ इति । (बृस्म् १.२६.१२१)

प्रतिग्रहणात् क्रयादिनालब्धा भूः क्षत्रियादिसुतानाम् अपि भवत्य् एव । शूद्रापुत्रस्य विशेषपतिषेधाच् च-

शुद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति । इति । (बृस्म् १.२६.१२२)

यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत् तदा शूद्रापुत्रस्य विशेषप्रेतिषेधो नोपपद्यते । यत् पुनः,

ब्राह्मणक्षत्रियविषां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ (म्ध् ९.१५५)

इति तद् अपि जीवता पित्रा यदि शूद्रापुत्राय किम् अपि प्रदत्तं स्यात् तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्यविरुद्धम् ॥ २.१२५ ॥

अथ सर्वविभागशेषं किंचिद् उच्यते ।

अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते । २.१२६अब्
**तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ २.१२६च्द् ॥ **

परस्परापहृतं समुदायद्रव्यं विभागकाले चाज्ञातं विभक्ते पितृधने यद् दृश्यते तत् समैर् अंशैर् विभजेरन्न् इत्येवं स्थितिः शास्त्रमर्यादा । अत्र “समैर् अंशैः” इति वदतोद्धारविभागो निषिद्धः । विभजेरन्न् इति वदता येन दृश्यते तेनैव न ग्राह्यम् इति दर्शितम् । एवं च वचनस्यार्थवत्त्वान् न समुदायद्रव्यापहारे दोषाभावपरत्वम् ।

  • ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम्,

यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥ (म्ध् ९.२१३)

इति वचनात् ।

  • नैतत् । यतः संभावितस्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या[^३०] सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते ।[^३१] “यो वै भागिनं भागान् नुदते चयते चैनं स यदि वैनं न चयते ऽथ पुत्रम् अथ पौत्रं चयते” (ऐत्ब् ६.७; ध्को १५७०) इति । यो भागिनं भागार्हं भागान् नुदते भागाद् अपाकरोति भागं तस्मै न प्रयच्छति स भागान् नुन्न एनं चोत्तारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषम् अन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः ।

  • अथ साधारणं द्रव्यम् आत्मनो ऽपि स्वं भवतीति स्वबुद्ध्या गृह्यमाणं न दोषम् आवहतीति मतम् ।

  • तद् असत् । स्वबुद्ध्या गृहीते ऽप्य् अवर्जनीयतया परस्वम् अपि गृहीतम् एवेति निषेधानुप्रवेशाद् दोषम् आवहत्य् एव । यथा मौद्गे चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु “अयज्ञिया वै माषाः” इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वाद् इति पूर्वपक्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्व् अवर्जनीयतया माषाव्यवा अपि गृह्यन्त एवेति निषेधः प्रविशत्य् एवेति राद्धान्तिनोक्तम् । तस्माद् वचनतो न्यायतश् च साधारणद्रव्यापहारे दोषो ऽस्त्य् एवेति सिद्धम् ॥ २.१२६ ॥

द्व्यामुष्यायणस्य भागविशेषं दर्शयंस् तस्य स्वरूपम् आह ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । २.१२७अब्
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७च्द् ॥

“अपुत्रां गुर्वनुज्ञातः” (य्ध् १.६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयोर् बीजिक्षेत्रिणोर् असौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः- यदासौ नियुक्तो देवरादिः स्वयम् अप्य् अपुत्रो ऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स द्विपितृको द्व्यामुष्यायाणो द्वयोर् अपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना-

क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ इति । (म्ध् ९.५३)

क्रियाभ्युपगमाद् इत्य् अत्रोत्पन्नम् अपत्यम् आवयोर् उभयोर् अपि भवत्व् इति संविदङ्गीकरणाद् यत् क्षेत्रं क्षेत्रस्वामिना बीजावपनार्थं बीजिने दीयते तत्र तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा-

फलं त्व् अनभिसंधाय क्षेत्रिणा बीजिना तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् बलीयसी ॥ इति । (म्ध् ९.५२)

“फलं त्व् अनभिसंधाय” इति- अत्रोत्पन्नम् अपत्यम् आवयोस् उभयोर् अस्त्व् इत्येवम् अनभिसंधाय परक्षेत्रे यद् अपत्यम् उत्पाद्यते तद् अपत्यं क्षेत्रिण एव, यतो “बीजाद् योनिर् बलीयसी,” गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वाग्दत्ताविषय एव, इतरस्य नियोगस्य मनुना निषिद्धत्वात् ।

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥ (म्ध् ९.५९–६०)

इत्य् एवं नियोगम् उपन्यस्य, मनुः स्वयम् एव निषेधति-

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥
अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुश्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥
स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थे गर्हन्ते तं हि साधवः ॥ इति ॥ (म्ध् ९.६४–६८)

न च विहितप्रतिषिद्धत्वाद् विकल्प इति मन्तव्यम्, नियोक्तॄणां निन्दाश्रवणात्, स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात्, संयमस्य प्रशस्तत्वाच् च । यथाह मनुर् एव,

कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ (म्ध् ५.१५७)

इति जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिद्ध्य,

आसीत आ मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ (म्ध् ५.१५८–६१)

इति पुत्रार्थम् अपि पुरुषान्तराश्रयणं निषेधति । तस्माद् विहितप्रतिषिद्धत्वाद् विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस् तर्हि धर्म्यो नियोग इत्य् अत आह-

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ इति । (म्ध् ९.६९–७०)

यस्मै वाग्दत्ता कन्या स प्रतिग्रहम् अन्तरेणैव तस्याः पतिर् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मिन् प्रेते देवरस् तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रम् अधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवाङ्नियमादिना शुक्लवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्य् आ गर्भग्रहणात् प्रत्यृत्व् एकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनियमवन् नियुक्ताभिगमनाङ्गम् इति न देवरस्य भार्यात्वम् आपादयति । अतस् तदुत्पन्नम् अपत्यं क्षेत्रस्वामिन एव भवति न देवरस्य । संविदा तूभयोर् अपि ॥ २.१२७ ॥

समानासमानजातीयानां पुत्राणां विभागकॢप्तिर् उक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस् तेषां स्वरूपं तावद् आह ।

औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः । २.१२८अब्
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ २.१२८च्द् ॥

उरसो जात औरसः पुत्रः स च धर्मपत्नीजः सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जात औरसः पुत्रो मुख्यः । “तत्समः पुत्रिकासुतः” तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥ इति । (वध् १७.१७)

अथ वा पुत्रिकैव सुतः पुत्रिकासुतः सो ऽप्य् औरससम एव पित्रवयवानाम् अल्पत्वात् मात्रवयवानां बाहुल्याच् च । यथाह वसिष्ठः- “तृतीयः[^३२] पुत्रिकैव” इति । तृतीयः[^३३] पुत्रः पुत्रिकैवेत्य् अर्थः । द्व्यामुष्यायणस् तु जनकस्यौरसाद् अपकृष्टो ऽन्यक्षेत्रोत्पन्नत्वात् । “क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा”- इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ २.१२८ ॥

गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः । १२९अब्
**कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१२९च्द् ॥ **

गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावे ऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस् तु कन्यकायाम् उत्पन्नः पूर्ववत् सवर्णासु मातामहस्य पुत्रः । यद्य् अनूढा सा भवेत् तथा पितृगृह एव संस्थिता । अथोढा तदा वोढुर् एव पुत्रः । यथाह मनुः ।

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति ॥ (म्ध् ९.१७२) २.१२९
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । १३०अब्
**दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३०च्द् ॥ **

पौनर्भवस् तु पुत्रो ऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णाद् उत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः ।

माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ इति । (म्ध् ९.१६८)

आपद्ग्रहणाद् अनापदि न देयः । दातुर् अयं प्रतिषेधः । तथा एक पुत्रो न देयः । “न त्व् एवैकं पुत्रं दद्यात् प्रतिगृह्नीयाद् वा” (वध् १५.३) इति वसिष्ठस्मरणात् । तथानेकपुत्रसद्भावे ऽपि ज्येष्ठो न देयः ।

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । (म्ध् ९.१०६)

इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश् च “पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर् हुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्नीयात्” (वध् १५.६) इति वसिष्ठेनोक्तः । अदूरबान्धवम् इत्य् अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । एवं क्रीतस्वयंदत्तकृत्रिमेष्व् अपि योजनीयम्, समानन्यायत्वात् ॥ २.१३० ॥

क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः । २.१३१अब्
दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ २.१३१च्द् ॥

क्रीतस् तु पुत्रस् ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथाइकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्य् एव । यत् तु मनुनोक्तम्,

क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ (म्ध् ९.१७४)

इति तद्गुणैह् सदृशो ऽसदृशो वेति व्याख्येयं न जात्या, “सजातीयेष्व् अयं प्रोक्तस् तनयेषु” (य्ध् २.१३३) इत्य् उपसंहारात् । “कृत्रिमः स्यात् स्वयंकृतः”- कृत्रिमस् तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस् ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्तत्वम् उपगतः । सहोढजस् तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ २.१३१ ॥

उत्सृष्टो गृह्यते यस् तु सो ऽपविद्धो भवेत् सुतः । २.१३२अब्

अपविद्धो मातापितृभ्याम् उत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्य् एव ॥

एवं मुख्यामुख्यपुत्रान् अनुक्रम्यैतेषां दायग्रहणे क्रमम् आह ।

**पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥ २.१३२च्द् ॥ **

एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदो ऽंशहरो धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुर् अपवादम् आह ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । म्ध् ९.१३४)

तथा अन्येषाम् अपि पूर्वस्मिन् पूर्वस्मिन् सत्य् अप्य् उत्तरेषां पुत्राणां चतुर्थांशभागित्वम् उक्तं वसिष्ठेन । तस्मिंश् चेत् प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद् दत्तक इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम्, पुत्रीकरणाविशेषात् । तथा च कात्यायनः -

उत्पन्ने त्व् औरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥ इति । (क्स्म् ८५७)

सवर्णा दत्तकक्षेत्रजादयस् ते सत्य् औरसे चतुर्थांशहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास् ते त्व् औरसे सति न चतुर्थांशहराः किं तु ग्रासाच्छादनभाजनाः । यद् अपि विष्णुवचनम्,

अप्रशस्तास् तु कानीनगूढोत्पन्नसहोढजाः ।
पौनर्भवश् च नैवैते पिण्डरिक्थांशभागिनः ॥ (ध्को १३९०)

इति, तद् अप्य् औरसे सति चतुर्थांशनिषेधपरम् एव । औरसाद्यभावे तु कानीनादीनाम् अपि सकलपित्र्यधनग्रहणम् अस्त्य् एव, “पूर्वाभावे परः परः” इति वचनात् ॥ यद् अपि मनुवचनम्,

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ (म्ध् ९.१६३)

इति तद् अपि दत्तकादीनाम् औरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस् तेनैव ।

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ इति । (म्ध् ९.१६४)

प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्टम् अंशम्, एकतरसद्भावे पञ्चमम् इति विवेक्तव्यम् । यद् अपि मनुना पुत्राणां षट्कद्वयम् उपन्यस्य पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषट्कस्यादायादबान्धवत्वम् उक्तम्,

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥ (म्ध् ९.१५९–६०)

इति, तद् अपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वम् उत्तरषट्कस्य तु तन् नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि समम् एवेति व्याख्येयम् ।

गोत्ररिक्थे जनयितुर् न भजेद् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ (म्ध् ९.१४२)

इत्य् अत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम् अविशिष्टम्,

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । (म्ध् ९.१८५)

इत्य् औरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु,

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । (म्ध् ९.१६३)

इत्य् अनेनैव रिक्थभाक्त्वस्योक्तत्वात्, दायादशब्दस्य “दायादान् अपि दापयेत्” इत्यदौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच् च । वासिष्ठादिषु वर्गद्वये ऽपि कस्यचिद् व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये (ग्ध् २८.३२–३५) तु पौत्रिकेयस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात् स्थितम् एतत् पूर्वपूर्वाभावे परः परो ऽंशभाग् इति ॥ यत् तु,

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ (म्ध् ९.१८२)

इति, तद् अपि भ्रातृपुत्रस्य पुत्रीकरणसंभवे ऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय, “तत्सुता गोत्रजा बन्धुः” इत्य् अनेन विरोधात् ॥ २.१३२ ॥

इदानीम् उक्तोपसंहारव्याजेन तत्रैव नियमम् आह ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । २.१३३अब्

समानजातीयेष्व् एव पुत्रेषु अयं पूर्वाभावे परः पर इत्य् उक्तो विधिः न भिन्नजातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां, वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनाम् औरसेष्व् अन्तर्भावात् तेषाम् अप्य् अभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस् त्व् औरसो ऽपि कृत्स्नं भागम् अन्याभावे ऽपि न लभते । यथाह मनुः ।

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ इति । (म्ध् ९.१५४)

यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्य् अपुत्रो ऽविद्यमानद्विजातिपुत्रो वा स्यात् तस्मिन् मृते क्षेत्रजादिर् वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनाद् दशमांशाद् अधिकं न दद्याद् इत्य् अस्माद् एव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते ॥

अधुना शूद्रधनविभागे विशेषम् आह ।

जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ॥ २.१३३च्द् ॥
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् । २.१३४अब्
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ २.१३४च्द् ॥

शूद्रेण दास्याम् उत्पन्न पुत्रः कामतः पितुर् इच्छया भागं लभते । पितुर् ऊर्ध्वं तु यदि परिणीतापुत्रा सन्ति तदा ते भ्रातरस् तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागाद् अर्धं दद्युर् इत्य् अर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं दासीपुत्रो गृह्नीयात् यदि परिणीतादुहितरस् तत्पुत्रा वा न सन्ति । तत्सद्भावे त्व् अर्धभागिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद् द्विजातिना दास्याम् उत्पन्नः पितुर् इच्छयाप्य् अंशं न लभते नाप्य् अर्धं, दूरत एव कृत्स्नम् । किं त्व् अनुकूलश् चेज् जीवनमात्रं लभते ॥ २.१३३ ॥ २.१३४ ॥

मुख्यगौणसुता दायं गृह्नन्तीति निरूपितम् । तेषाम् अभावे सर्वेषां दायादक्रम उच्यते ।

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा । २.१३५अब्
तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः ॥ २.१३५च्द् ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः । २.१३६अब्
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ २.१३६च्द् ॥

पूर्वोक्ता द्वादशपुत्रा यस्य न सन्त्य् असाव् अपुत्रः, तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनाम् अनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभाग् इति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनुलोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं दायग्रहणविधिर् दायग्रहणक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता “पत्युर् नो यज्ञसंयोगे” (पाण् ४.१।३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश् च बह्व्यश् चेत् सजातीया विजातीयाश् च तदा यथांशं विभज्य धनं गृह्नन्ति । वृद्धमनुर् अपि पत्न्याः समग्रधनसंबन्धं वक्ति-

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभते च ॥ इति । (ध्को १५२७)

वृद्धविष्णुर् अपि “अपुत्रधनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि” इति (ध्को १४७०) । कात्यायनो ऽपि ।

पत्नी पत्युर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥ इति । (क्स्म् ९२६)

तथा-

अपुत्रस्यार्यकुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥ इति । (क्स्म् ९२७)

बृहस्पतिर् अपि ।

कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥ (बृस्म् १.२६.९४)

एतद्विरुद्धानीव वाक्यानि लक्ष्यन्ते ।

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आजीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिद्युर् इतरासु तु ॥ (न्स्म् १३.२४–२५)

इति पत्नीसद्भावे ऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)
इत्य् अपुत्रस्य धनं पितुर् भ्रातुर् वेति दर्शितम् । तथा,
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ (म्ध् ९.२१७)

इति मातुः पितामह्याश् च धनसंबन्धो दर्शितः । शङ्खेनापि- “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी” (ध्को १४७१) इति भ्रातॄणां पित्रोर् ज्येष्ठायाश् च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि ।

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वा ऽथ माता वा तत्पितुः क्रमात् ॥ (क्स्म् ९२८)

इत्येवमादीनां विरुद्धार्थानां वाक्यानां धारेश्वरेण[^३४] व्यवस्था दर्शिता “पत्नी गृह्नीयात्” इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियोगार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनहरणं न स्वतन्त्रायां इति । “पिता हरेद् अपुत्रस्य” (म्ध् ९.१८५) इत्यादिवचनात् तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद् व्यवस्थाकारणम् अस्तीति गौतमवचनाच् च “पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य बीजं लिप्सेत” इति (ग्ध् २९.५–६) । अस्यार्थः- पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन् स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुर् अपि,

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ॥ (म्ध् ९.१४६)

इत्य् अनेनैतद् दर्शयति- विभक्तधने ऽपि भ्रातर्य् उपरते ऽपत्यद्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । यथाविभक्तधने ऽपि ।

कनीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥ इति । (म्ध् ९.१२०)

तथा वसिष्ठो ऽपि “रिक्थलोभान् नास्ति नियोगः” (वध् १७.६५) इति रिक्थलोभान् नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धन्संबन्धो नान्यथेति दर्शयति । नियोगाभावे ऽपि पत्न्या भरणमात्रम् एव नारदवचनात्,

भरणं चास्य कुर्वीरन् स्त्रीणाम् आजिवनक्षयात् । इति । (न्स्म् १३.२५)

योगीष्वरेणापि किल वक्ष्यते ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ इति । (य्ध् २.१४२)

अपि च । द्विजातिधनस्य यथार्थत्वात् स्त्रीणां च यज्ञे ऽनधिकाराद् धनग्रहणम् अयुक्तम् । तथा च केनापि स्मृतम् ।

यज्ञार्थे द्रव्यम् उत्पन्नं तत्रानधिकृतास् तु ये ।
अरिक्थभाजस् ते सर्वे ग्रासाच्छादनभाजनाः ॥
यज्ञार्थं विहितं वित्तं तस्मात् तद् विनियोजयेत् ।
स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥ इति । (ध्को १३९०, १४५७–८)

तद् अनुपपन्नम् । “पत्नी दुहितरः” इत्य् अत्र नियोगस्याप्रतीतेर् अप्रस्तुतत्वाच् च । अपि चेदम् अत्र वक्तव्यम् । पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नम् अपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वम् । तथा सति पुत्रस्यैव धनसंबन्धात् पत्नीति नारब्धव्यम् ।

  • अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् ।

  • तद् अप्य् असत्,

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ (म्ध् ९.१९४)

इत्यादिविरोधात् । किं च, सर्वथा पुत्राभावे पत्नी दुहितर इत्य् आरब्धम् । तत्र नियुक्ताया धनसंबन्धं वदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । स च प्राग् एवाभिहित इत्य् अपुत्रप्रकरणे पत्नीति नारब्धव्यम् । “अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य, बीजं वा लिप्सेत” (ग्ध् २८.२१–२२) इति गौतमवचनान् नियुक्ताया धनसंबन्ध इति । तद् अप्य् असत् । न हि यदि बीजं लिप्सेत तदानपत्यस्य स्त्री धनं गृह्नीयाद् इत्य् अयम् अर्थो ऽस्मात् प्रतीयते । किं तु “अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन् स्त्री वा सा स्त्री बीजं वा लिप्सेत संयता वा भवेत्” इति तस्या धर्मान्तरोपदेशः, वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दितायाः ।

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥ (ध्को १५२७)

इति संयताया एव धनग्रहणम् उक्तम् ॥

तथा नियोगश् च निन्दितो मनुना-
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ (म्ध् ९.६४)

इत्यादिना । यत् तु वसिष्ठवचनम् “रिक्थलोभान् नास्ति नियोगः” (वध् १७.६५) इति तद् अविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थं नियोगो न कर्तव्य इति व्याख्येयम् । यद् अपि नारदवचनम्,

भरणं चास्य कुर्वीरन् स्त्रीणां आजिवनक्षयात् । (न्स्म् १३.२५)

इति तद् अपि,

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते । (न्स्म् १३.२३)

इति संसृष्टानां प्रस्तुतत्वात्, तत् स्त्रीणाम् अनपत्यानां भरणमात्रप्रतिपादनपरम् । न च “भ्रातॄणाम् अप्रजाः प्रेयाद्” (न्स्म् १२.२४) इत्य् एतस्य संसृष्टिविषयत्वे “संसृष्टानां तु यो भागः” (न्स्म् १३.२३) इत्य् अनेन पौनरुक्त्यम् आशङ्कनीयम् । यतः पूर्वोक्तिविवरणेन स्त्रीधनस्याविभाज्यत्वं तत् स्त्रीणां च भरणमात्रं विधीयते । यद् अपि “अपुत्रा योषितश् चैषाम्” (य्ध् २.१४०) इत्यादिवचनं तत् क्लीबादिस्त्रीविषयम् इति वक्ष्यते । यत् तु द्विजातिधनस्य यज्ञार्थत्वात् स्त्रीणां च यज्ञे ऽनधिकाराद् धनग्रहणम् अयुक्तम् इति तद् असत्, सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वाद् दानहोमादीनाम् अपि धर्मत्वात् तदर्थत्वम् अविरुद्धम् इति मतम् । एवं तर्ह्य् अर्थकामयोर् धनसाध्ययोर् असिद्धिर् एव स्यात् । तथा सति,

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् । (य्ध् १.११५)

तथा, “न पूर्वाह्नमध्यन्दिनापराह्नान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः” (ग्ध् ९.४६), तथा,

न तथाइतनि शक्यन्ते संनियन्तुम् असेवया । (म्ध् २.९६)

इत्यादियाज्ञवल्क्यगौतममनुवचनविरोधः । अपि च धनस्य यज्ञार्थत्वे “हिरण्यं धार्यम्” इति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वम् उक्तम्, तत् प्रत्युद्धृतं स्यात् । किं च यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्त्रीणां अपि पूर्तधर्माधिकाराद् धनग्रहणं युक्ततरम् । यत् तु पारतन्त्र्यवचनं “न स्त्री स्वातन्त्र्यम् अर्हति” (म्ध् ९.५) इत्यादि तद् अस्तु पारतन्त्र्यं धनस्वीकारे तु को विरोधः । कथं तर्हि “यज्ञार्थं द्रव्यम् उत्पन्नम्” (ध्को १३९०)इत्यादिवचनम् । उच्यते । “यज्ञार्थम् एवार्जितं यद् धनं तद् यज्ञ एव नियोक्तव्यं पुत्रादिभिर् अपि” इत्येवंपरं तत्,

यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् । (य्ध् १.१२७)

इति दोषश्रवणस्य पुत्रादिष्व् अविशेषात् । यद् अपि कात्यायनेनोक्तम्,

अदायिकं राजगामि योषिद्भृत्यौर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥ (क्स्म् ९३१)

इति, अदायिकं दायादरहितं यद् धनं तद् राजगामि राज्ञो भवति, योषिद्भृत्यौर्ध्वदेहिकम् अपास्य, तत् स्त्रीणाम् अशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्युपयुक्तम् चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । अस्यापवाद उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्भृत्यौर्ध्वदेहिकम् अपास्य “श्रोत्रियायोपपादयेद्” इति तद् अप्य् अवरुद्धस्त्रीविषयम्, योषिद्ग्रहणात् । नारदवचनं च,

अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ (न्स्म् १३.४९)

इत्य् अवरुद्धस्त्रीविषयम् एव, स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दाद् ऊढायाः संयताया धनग्रहणम् अविरुद्धम् । तस्माद् विभक्तासंसृष्टिन्य् अपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्नातीत्य् अयम् अर्थः सिद्धो भवति, विभागस्योक्तत्वात् संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीकरादिभिर् उक्तं निरस्तं वेदितव्यम् । तथा ह्य् औरसेषु पुत्रेषु सत्स्व् अपि जीवद्विभागे अजीवद्विभागे च पत्न्याः पुत्रसमांशग्रहणम् उक्तम्,

यदि कुर्यात् समानंशान् पत्न्यः कार्याः समांशिकाः । इति । (य्ध् २.११५)

तथा,

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । (य्ध् २.१२३)

इति च । तथा सत्य्, अपुत्रस्य स्वर्यातस्य धनं पत्नी भरणाद् अतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ “पत्न्यः कार्याः समांशिकाः” इत्य् अत्र, “माताप्य् अंशं समं हरेत्” इत्य् अत्र च, जीवनोपयुक्तम् एव धनं स्त्री हरतीति मतं तद् असत्, अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान् मतम्- बहुधने जीवनोपयुक्तं धनं गृह्नात्य् अल्पे तु पुत्रांशसमांशं गृह्नातीति । तच् च न विधिवैषम्यप्रसङ्गात् । तथाहि “पत्न्यः कार्याः समांशिकाः”, “माताप्य् अंशं समं हरेत्” इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरम् अपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसमम् अंशं प्रतिपादयतीति । यथा चातुर्मास्येषु “द्वयोः प्रणयन्ति” इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या “न वैश्वदेवे उत्तरवेदिम् उपकिरन्ति न शुनासीरीये” इत्य् उत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैकदेशिना “न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोर् अयं प्रतिषेधः किं तूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रतिषेधो ऽयम् इत्य् अभिहिते पुनः पूर्वपक्षिणा ऽउपात्र वपन्तिऽ इति प्रथमोत्तमयोः पर्वणोः प्रतिषेधम् अपेक्ष्य पाक्षिकीम् उउतरवेदिं प्रापयति । मध्यमयोस् तु निरपेक्षम् एव नित्यवद् उत्तरवेदिं प्रापयति” इति विधिवैषम्यं दर्षितम् । राद्धान्ते ऽपि विधिवैषम्यभयात् प्रथमोत्तमयोः पर्वणोर् उत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्यालोचनया “उपात्र वपन्ति” इति मध्यमयोर् एव वरुणप्रघाससाकमेधपर्वणोर् उत्तरवेदिं विधत्त इति दर्शितम् । यद् अपि मतम्,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)

इति मनुस्मरणात्, तथा “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा व पत्नी” (ध्को १४७१) इति शङ्खस्मरणाच् च, अपुत्रस्य धनं भ्रातृगामीति प्राप्तम्,

भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् । (न्स्म् १३.२५)

इत्यादिवचनाच् च भरणोपयुक्तं धनं पत्नी लभत इत्य् अपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्याते भरणोपयुक्तं पत्नी गृह्नाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तम् एव द्रव्यम् अस्ति ततो न्यूनं वा, तदा किं पत्न्य् एव गृह्नात्य् उत भ्रातरो ऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थं पत्नी दुहितर इत्य् आरब्धम् इति । तद् अप्य् अत्र भगवान् आचार्यो न मृष्यति । यतः,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)

इति विकल्पस्मरणान् नेदं क्रमपरं वचनम्, अपि तु धनग्रहणे ऽधिकारप्रदर्शनमात्रपरम् । तच् चासत्य् अपि पत्न्यादिगणे घटत इति व्याचचक्षे । शङ्खवचनम् अपि संसृष्टभ्रातृविषयम् इति । अपि चाल्पविषयत्वम् अस्माद् वचनात् प्रकरनाद् वा नावगम्यते । “धनभाग् उत्तरोत्तरः” इत्य् अस्य च पत्नी दुहितर इति विषयद्वये वाक्यान्तरम् अपेक्ष्याल्पधनविषयत्वम्, पित्रादिषु तु धनमात्रविषयत्वम् इति पूर्वोक्तं विधिवैष्यं तदवस्थम् एवेति यत् किंचिद् एतत् । यत् तु हारीतवचनम्,

विधवा यौवनस्था चेन् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा । (ध्को १४६६)

इति, तद् अपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्माद् एव वचनाद् अनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतद् एवाभिप्रेत्योक्तं शङ्खेन “ज्येष्ठा वा पत्नी” इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशाम् अपि मातृवत् पालयतीति सर्वम् अनवद्यम् । तस्माद् अपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणिता स्त्री संयता सकलम् एव गृह्नातीति स्थितम् ।

तद् अभावे दुहितरः । दुहितर इति बहुवचनं समानजातीयानाम् असमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायनः ।
पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥ इति । (क्स्म् ९२६)

बृहस्पतिर् अपि ।

भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ॥
तस्मात् पितृधनं त्व् अन्यः कथं गृह्नीत मानवः ॥ इति । (बृस्म् १.२६.१२६–२७)

तत्र चोढानूढासमवाये ऽनूढैव गृह्नाति,

तद् अभावे तु दुहिता यद्य् अनूढ भवेत् तदा । (बृस्म् १.२६.१२८)

इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता, “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्टितानां च” (ग्ध् २८.२४) इति गौतमवचनस्य पितृधने ऽपि समानत्वात् । न चैतत् पुत्रिकाविषयम् इति मन्तव्यम्, तत्समः पुत्रिकासुत इति पुत्रिकायास् तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणे ऽभिधानात् । चशब्दाद् दुहित्रभावे दौहित्रो धनभाक् । यथाह विष्णुः ।

अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥ इति । (ध्को १४७१)

मनुर् अपि ।

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ इति ॥ (म्ध् ९.१३६)
तद् अभावे पितरौ मातापितरौ धनभाजौ । यद्य् अपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात्, तद् अपवादत्वाद्, एकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते, तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपाताद् एकशेषाभावपक्षे च मातापितराव् इति मातृशब्दस्य पूर्वं श्रवणात् पाठक्रमाद् एवार्थक्रमावगमाद् धनसंबन्धे ऽपि क्रमापेक्षायां प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किं च पिता पुत्रान्तरेष्व् अपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात्,
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् । (म्ध् ९.१८७)

इति वचनान्, मातुर् एव प्रथमं धनग्रहणं युक्तम् । न च सपिण्डेष्व् एव प्रत्यासत्तिर् नियामिका अपि तु समानोदकादिष्व् अप्य् अविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिर् एव नियामिकेत्य् अस्माद् एव वचनाद् अवगम्यत इति । मातापित्रोर् मातुर् एव प्रत्यासत्त्यतिशयाद् धनग्रहणं युक्ततरम् । तद् अभावे पिता धनभाक् ।

पित्रभावे भ्रातरो धनभाजः । तथा च मनुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । इति । (म्ध् ९.१८५)

यत् पुनर् धारेश्वरेणोक्तम्,

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ (म्ध् ९.२१७)

इति मनुवचनात्, जीवत्य् अपि पितरि मातरि वृत्तायां पितुर् माता पितामही धनं हरेन् न पिता । यतः पितृगृहीतं धनं विजातीयेष्व् अपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्व् एव गच्छतीति पितामह्य् एव गृह्नातीति । तद् अप्य् आचार्यो नानुमन्यते । विजातीयपुत्राणाम् अपि धनग्रहणस्योक्तत्वात्, “चतुस्त्रिद्व्येकभागाः स्युः” (य्ध् २.१२५)) इत्यादिनेति । यत् पुनः,

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । (म्ध् ९.१८९)

इति मनुस्मरणं तन् नृपाभिप्रायं, न तु पुत्राभिप्रायम् । भ्रातृष्व् अपि सोदराः प्रथमं गृह्नीयुः, भिन्नोदराणां मात्रा विप्रकर्षात् । “अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत्” (म्ध् ९.१८७) इति स्मरणात् ।

सोदराणाम् अभावे भिन्नोदरा धनभाजः । भ्रातॄणाम् अप्य् अभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणाम् अनधिकारः, भ्रात्रभावे भ्रातृपुत्राणाम् अधिकारवचनात् । यदा त्व् अपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणाम् अविशेषेण धनसंबन्धे जाते भ्रातृधनविभागात् प्राग् एव यदि कश्चिद् भ्राता मृतस् तदा तत्पुत्राणां पितृतो ऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे “पितृतो भागकल्पना” (य्ध् २.१२०) इति युक्तम् ।
भ्रातृपुत्राणाम् अप्य् अभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश् च । तत्र पितामही प्रथमं धनभाक्, “मातर्य् अपि च वृत्तायां पितुर् माता हरेत्” इति (म्ध् ९.२१७) मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते, पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्ये ऽनुप्रवेशाभावात्, “पितुर् माता धनं हरेत्” (म्ध् ९.२१७) इत्य् अस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वाद्, उत्कर्षे तत्सुतानन्तरं पितामही गृह्नातीत्य् अविरोधः । पितामह्याश् चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः, भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास् तत्पुत्राश् च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस् तत्पुत्रास् तत्सूनवश् चेत्य् एवम् आ सप्तमात् समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषाम् अभावे समानोदकानां धनसंबन्धः । ते च सपिण्डानाम् उपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदक्भावस् तु निवर्तेताचतुर्दशात् ॥
जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रम् उच्यते ॥ इति । (ध्को १५२७)
गोत्रजाभावे बन्धवो धनभाजः । बन्धवश् च त्रिविधाः- आत्मबन्धवः पितृबन्धवो मातृबन्धवश् चेति । यथोक्तम् ।
आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मतुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥ इति ॥ (ध्को १५२८–२९)

तत्र चान्तरङ्गत्वात्, प्रथमम् आत्मबन्धवो धनभाजस्, तदभावे पितृबन्धवस्, तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनाम् अभावे आचार्यः । तदभावे शिष्यः, “पुत्राभावे यः प्रत्यासन्नः सपिण्डस् तदभावे आचार्यः । आचार्याभावे ऽन्तेवासी” (आप्ध् २.१४.२–३) इत्य् आपस्तम्बस्मरणात् ॥

शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्माद् आचार्याद् उपनयनाध्ययनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्नीयात्, “श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्” (ग्ध् २८.४१) इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः ।
सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥ इति । (म्ध् ९.१८८)

न कदाचिद् अपि ब्राह्मणद्रव्यं राजा गृह्नीयात्,

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । (म्ध् ९.१८९)

इति मनुवचनात् । नारदेनाप्युक्तम् ।

ब्राह्मणार्थस्य तन्नाशे दायादश् चेन् न कश्चन ।
ब्राह्मणायैव दातव्यम् एनस्वी स्यान् नृपो ऽन्यथा ॥ इति ॥ (ध्को १५१२)

क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानाम् अभावे राजा हरेत्, न ब्राह्मणः । यथाह मनुः ।

इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः । इति ॥ (म्ध् ९.१८९) २.१३५ ॥ २.१३६ ॥

पुत्राः पौत्राश् च दायं गृह्नन्ति तदभावे पत्न्यादय इत्युक्तम् । इदानीं तदुभयापवादम् आह ।

वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । २.१३७अब्
**क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ २.१३७च्द् ॥ **

वानप्रस्थस्य यतेर् ब्रह्मचारिणश् च क्रमेण प्रतिलोमक्रमेणाचार्यः सच्छिष्यो धर्मभ्रात्रेकतीर्थी च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्टिकः, उपकुर्वाणस्य तु धनं मात्रादय एव गृह्नन्ति । नैष्टिकस्य तु धनं तदपवादतवेनाचार्यो गृह्नातीत्य् उच्यते । यतेस् तु धनं सच्छिष्यो गृह्नाति । सच्छिष्यः पुनर् अध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः, दुर्वृत्तस्याचार्यादेर् अपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्नाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासाव् एकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषाम् आचार्यादीनाम् अभावे पुत्रादिषु सत्स्व् अप्य् एकतीर्थ्य् एव गृह्नाति । ननु “अनंशास् त्व् आश्रमान्तरगताः” (वध् १७.५२) इति वसिष्ठस्मरणाद् आश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस् तद्विभागः । न च नैष्टिकस्य स्वार्जितधनसंबन्धो युक्तः, प्रतिग्रहादिनिषेधात् । “अनिचयो भिक्षुर्” (ग्ध् ३.११) इति गौतमस्मरणात् । भिक्षोर् अपि न स्वार्जितधनसंबन्धसंभवः । उच्यते । वानप्रस्थस्य तावत्,

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य निचयं कुर्यात् कृतम् आश्वयुजि त्यजेत् ॥ (य्ध् ३.४७)

इति वचनाद् धनसंबन्धो ऽस्त्य् एव । यतेर् अपि,

कौपीनाच्छादनार्थं वा वासो ऽपि बिभृयाच् च सः ।
योगसंभारभेदांश् च गृह्नीयात् पादुके तथा ॥

इत्यादिवचनाद्, वस्त्रपुस्तकसंबन्धो ऽस्त्य् एव । नैष्टिकस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धो ऽस्त्य् एवेति तद्विभागकथनं युक्तम् एव ॥ २.१३७ ॥

इदानीं स्वर् यातस्य पुत्रस्य पत्न्यादयो धनभाज इत्य् अस्यापवादम् आह ।

संसृष्टिनस् तु संसृष्टी २.१३८अ

विभक्तं धनं पुनर् मिश्रीकृतं संसृष्टं तद् अस्यास्तीति संसृष्टी । संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्रात्रा पितृव्येण वा । यथाह बृहस्पतिः ।

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥ इति । (ध्को १५५६)

तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातगर्भायां भार्यायां पश्चाद् उत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्ट्य् एवापहरेद् गृह्नीयान् न पत्न्यादिः ॥

“संसृष्टिनस् तु संसृष्टी” इत्य् अस्यापवादम् आह ।

सोदरस्य तु सोदरः । २.१३८ब्
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥ २.१३८च्द् ॥

संसृष्टिनः संसृष्टीत्य् अनुवर्तते । अतश् च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तद् अभावे अपहरेद् इति पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गॄह्नाति न भिन्नोदरः संसृष्ट्य् अपीति पूर्वोक्तस्यापवादः ॥ २.१३८ ॥

इदानीं संसृष्टिन्य् अपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे, कस्य धनग्रहणम् इति विवक्षायां द्वयोर् विभज्य ग्रहणे कारणम् आह ।

अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् । २.१३९अब्
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥ २.१३९च्द् ॥

अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न पुनर् अन्योदर्यो धनं हरेद् असंसृष्टी । अनेनान्वयव्यतिरेकाभ्याम् अन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणम् उक्तं भवति । असंसृष्टीत्य् एतद् उत्तरेणापि संबध्यते । अतश् चासंसृष्ट्य् अपि संसृष्टिनो धनम् आददीत । को ऽसाव् इत्य् अत आह “संसृष्टः” इति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणम् उक्तम्, संसृष्ट इत्य् उत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्य् अर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम् संसृष्ट्य् अप्य् अन्यमातृज एव संसृष्टिनो धनं नाददीतेति । एवं चासंसृष्ट्य् अपि वादद्याद् इत्य् अपिशब्दश्रवणात्, संसृष्टो नान्यमातृज एवेत्य् अवधारणनिषेधाच् चासंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यम् इत्य् उक्तं भवति । द्वयोर् अपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतद् एव स्पष्टीकृतं मनुना ।

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि । (म्ध् ९.२१०)
इति संसृष्टिविभागं प्रक्रम्य,
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भागिन्यश् च सनाभयः ॥ (म्ध् ९.२११–१२)

इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतो ऽंशप्रदाने । सार्वविभक्तिकस् तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथग् उद्धरणीयो न संसृष्टिन एव गृहीयुर् इत्य् अर्थः । तस्योद्धृतस्य विनियोगम् आह- “सोदर्या विभजेयुस् तम्” इति । तम् उद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूयो भगिन्यश् च विभजेयुः । समं विभज्य गृह्नीयुर् इति स्पष्टो ऽर्थः ॥ २.१३९ ॥

पुत्रपत्न्यादिसंसृष्टिनां यद् दायग्रहणम् उक्तं तस्यापवादम् आह ।

क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः । २.१४०अब्
**अन्धो ऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥ २.१४०च्द् ॥ **

क्लीबस् तृतीया प्रकृतिः । पतितो ब्रह्महादिः । तज्जः पतितोत्पन्नः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैर् उन्मादैर् अभिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगो ऽप्रतिसमाधेययक्षमादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाह वसिष्ठः “अनंशास् त्व् आश्रमान्तरगताः” (वध् १७.५२) इति । नारदेनापि ।

पितृद्विट् पतितः षण्धो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजः कुतः ॥ इति । (न्स्म् १३.२०)

मनुर् अपि ।

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ इति । (म्ध् ९.२०१)

निरिन्द्रियो निर्गतम् इन्द्रियं यस्माद् व्याध्यादिना स निरिन्द्रियः । एते क्लीबादयो ऽनंशाः रिक्थभाजो न भवन्ति । केवलम् अशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः,

सर्वेषाम् अपि तु न्यायं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ (म्ध् ९.२०२)

इति मनुस्मरणात् । अत्यन्तं यावज्जीवम् इत्य् अर्थः । एतेषां विभागात् प्राग् एव दोषप्राप्ताव् अनंशत्वम् उपपन्नं न पुनर् विभक्तस्य । विभागोत्तरकालम् अप्य् औषधादिना दोषनिर्हरणे भागप्राप्तिर् अस्त्य् एव,

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । (य्ध् २.१२२)

इत्य् अस्य समानन्यायत्वात् । पतितादिषु तु पुंल्लिङ्गत्वम् अविवक्षितम् । अतश् च पत्नीदुहितृमात्रादीनाम् अप्य् उक्तदोषदुष्टानाम् अनंशित्वं वेदितव्यम् ॥ २.१४० ॥

क्लीबादीनाम् अनंशित्वात् तत्पुत्राणाम् अप्य् अनंशित्वे प्राप्ते, इदम् आह ।

औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः । २.१४१ अब्

एतेषां क्लीबादीनाम् औरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्लैब्यादिदोषरहिता भागहारिणो ऽंशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्य् अन्येषाम् औरसा अपि । औरसक्षेत्रजयोर् ग्रहणम् इतरपुत्रव्युदासार्थं ॥

क्लीबादिदुहितॄणां विशेषम् आह ।

**सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ २.१४१च्द् ॥ **

एषां क्लीबादीनां सुता दुहितरो यावद् विवाहसंस्कृता भवन्ति तावद् भरणीयाः, चशब्दात् संस्कार्याश् च ॥ २.१४१ ॥

क्लीबादिपत्नीनां विशेषम् आह ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः । २.१४२अब्
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ २.१४२च्द् ॥

एषां क्लीबादीनाम् अपुत्राः पत्न्यः साधुवृत्तयः सदाचाराश् चेद् भर्तव्या भरणीयाः । व्यभिचारिण्यस् तु निर्वास्याः । प्रतिकूलास् तथैव च निर्वास्या भवन्ति भरणीयाश् च । अव्यभिचारिण्यश् चेत् न पुनः प्रातिकूल्यमात्रेण भरणम् अपि न कर्तव्यम् ॥ २.१४२ ॥

“विभजेरन् सुताः पित्रोः” (य्ध् २.११७) इत्य् अत्र स्त्रीपूंधनविभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस् तत्स्वरूपं तावद् आह ।

पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् । २.१४३अब्
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ २.१४३च्द् ॥

पित्रा मात्रा पत्या भ्रात्रा च यद् दत्तं यच् च विवाहकाले ऽग्नाव् अधिकृत्य मातुलादिभिर् दत्तं आधिवेदनिकं अधिवेदननिमित्तं “अधिविन्नस्त्रियै दद्यात्” (य्ध् २.१४८) इति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तम् एतत् स्त्रीधनं मन्वादिभिर् उक्तम् । स्त्रीधनशब्दश् च यौगिको न पारिभाषिकः, योगसंभवे परिभाषाया अयुक्तत्वात् । यत् पुनर् मनुनोक्तम्,

अध्यग्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ (म्ध् ९.१९४)

इति स्त्रीधनस्य षड्विधत्वम्, तन् न्यूनसंख्याव्यवच्छेदार्थं नाधिकसंख्याव्यवच्छेदाय ॥ अध्यग्न्यादिस्वरूपं च कात्यायनेनाभिहितम् ।

विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं नाम स्त्रीधनं तद् उदाहृतम् ॥
प्रीत्या दत्तं तु यत् किंचिच् छ्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते । (क्स्म् ८९५–९७)
ऊढया कन्यया वापि पत्युः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥ (क्स्म् ९०१) इति ॥ २.१४३ ॥

किं च ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च । २.१४४अब्

बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश् च यद् दत्तम् । शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनाद् अनु पश्चाद् आहितं दत्तम् । उक्तं च कात्यायनेन ।

विवाहात् परतो यच् च लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तु तद् द्रव्यं लब्धं पितृकुलात् तथा ॥ इति । (क्स्म् ८९९)

“स्त्रीधनं परिकीर्तितम्” इति गतेन संबन्धः ॥

एवं स्त्रीधनम् उक्तम् । तद्विभागम् आह ।

**अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः ॥ २.१४४च्द् ॥ **

तत् पूर्वोक्तं स्त्रीधनम् अप्रजस्य् अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियाम् अतीतायां बान्धवा भर्त्रादयो वक्ष्यमाणा गृह्नन्ति ॥ २.१४४ ॥

सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानीं विवाहभेदेनाधिकारिभेदम् आह ।

अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि । २.१४५अब्
**दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ २.१४५च्द् ॥ **

अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर् भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्व् आसुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तद् अप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वम् एवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्व् एव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां “मातुर् दुहितरः शेषम्” इत्य् अत्रोक्तत्वात्, अतश् च मातृधनं मातरि वृतायां प्रथमं दुहितरो गृह्नन्ति । तत्र चोढानूढासमवाये ऽनूढैव गृह्नाति । तदभावे च परिणिता । तत्रापि प्रतिष्ठिताप्रतिष्ठितासमवाये ऽप्रतिष्ठिता गृह्नाति । तदभावे प्रतिष्ठिता । यथाह गौतमः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” (ग्ध् २८.२४) इति । तत्र चशब्दात् प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच् च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणाम् एव, “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः” (ग्ध् २८.२५) इति गौतमवचनात् । सर्वासां दुहितॄणाम् अभावे दुहितृदुहितरो गृह्नन्ति, “दुहितॄणां प्रसूता चेत्” इत्यस्माद् वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना । “प्रतिमातृतो वा स्ववर्गेण भागविशेषः” (ग्ध् २८.१७) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिद् एव दातव्यं । यथाह मनुः ।

यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ इति ॥ (म्ध् ९.१९३)

दौहित्रीणाम् अप्य् अभावे दौहित्रा धनहारिणः । यथाह नारदः ।

मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः । इति । (न्स्म् १३.२)

तच्छब्देन संनिहितदुहितृपरामर्शात्, दौहित्राणाम् अभावे पुत्रा गृह्नन्ति । ताभ्य ऋते ऽन्वय इत्युक्तत्वात् । मनुर् अपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति-

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ इति । (म्ध् ९.१९२)

मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदरा भगिन्यश् च सम्भूय भजेरन्न् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावाद् अप्रतीतेः, विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेः । यथा देवदत्तः कृषिं कुर्याद् यज्ञदत्तश् चेति । समग्रहणम् उद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्य् उत्तमजातीयसपत्नीदुहिता गृह्नाति । तदभावे तदपत्यम् । यथाह मनुः ।

स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ इति । (म्ध् ९.१९८)

ब्राह्मणीग्रहणम् उत्तमजात्युपलक्षणम् । अतश् चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्नाति । पुत्राणाम् अभावे पौत्राः पितामहीधनहारिणः, “रिक्थभाज ऋणं प्रतिकुर्युः” (ग्ध् १२.४०) इति गौतमस्मरणात्, “पुत्रपौत्रेर् ऋणं देयम्” (य्ध् २.५०) इति पौत्राणाम् अपि पितामह्यृणापाकरणे ऽधिकारात् । पौत्राणाम् अप्य् अभावे पूर्वोक्ता भर्त्रादयो बान्धवा धनहारिणः ॥ २.१४५ ॥

स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिद् आह ।

**दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् । २.१४६अब् **

कन्यां वाचा दत्त्वापहरन् द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच् चापहारकारणाभावे । सति तु करणे “दत्ताम् अपि हरेत् कन्यां श्रेयांश् चेद् वर आव्रतेत्” (य्ध् २.६५) इत्य् अपहाराभ्यनुज्ञानान् न दण्ड्यः । यच् च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थं धनं व्ययीकृतं तत् सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥

अथ कथंचिद् वाग्दत्ता संकारात् प्राङ् म्रियते, तदा किं कर्तव्यम् इत्य् अत आह ।

**मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् ॥ २.१४६च्द् ॥ **

यदि वाग्दत्ता मृता यत् पूर्वम् अङ्गुलीयकादि शुल्कं वरेण दत्तं तद् वर आददीत । परिशोध्योभयव्ययम् । अभयोर् आत्मनः कन्यादातुश् च यो व्ययस् तं परिशोध्य विगणय्यावशिष्टम् आददीत । यत् तु कन्यायै मातामहादिभिर् दत्तं शिरोभूषणादिकं वा क्रमायातं तत् सहोदरा भ्रातरो गृह्नीयुः, “रिक्थं मृतायाः कन्याया गृह्नीयुः सोदरास् तदभावे मातुस् तदभावे पितुः” इति बौधायनस्मरणात् (नोत् इन् ब्ध् ओर् ध्को) ॥ २.१४६ ॥

मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद् भर्तुर् अभ्यनुज्ञाम् आह ।

दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके । २.१४७अब्
**गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ २.१४७च्द् ॥ **

दुर्भिक्षे कुटुम्बभरणार्थं, धर्मकार्ये अवश्यकर्तव्ये, व्याधौ च, संप्रतिरोधके बन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृह्नन् भर्ता न पुनर् दातुम् अर्हति । प्रकारान्तरेणापहरन् दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धन्ं केनापि दायादेन न ग्रहीतव्यम्,

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
तान् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ (म्ध् ८.२९)

इति दण्डविधानात् । तथा,

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ (म्ध् ९.२००)

इति दोषश्रवणाच् च ॥ २.१४७ ॥

आधिवेदनिकं स्त्रीधनम् उक्तं तद् आह ।

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् । २.१४८अब्
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥ २.१४८च्द् ॥

यस्या उपरि विवाहः साधिविन्ना साचासौ स्त्री चेत्य् अधिविन्नस्त्री तस्या अधिविन्नस्त्रिया आधिवेदनिकम् अधिवेदननिमित्तं धनं समं यावद् अधिवेदनार्थं व्ययीकृतं तावद् दद्यात् । यस्यै भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्धं दद्यात् । अर्धशब्दश् चात्र समविभागवचनो न भवति । अतश् च यावता तत् पूर्वदत्तम् आधिवेदनिकसमं भवति तावद् देयम् इत्य् अर्थः ॥ २.१४८ ॥

एवं विभागम् उक्त्वा इदानीं तत्संदेहे निर्णयहेतून् आह ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । २.१४९अब्
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ २.१४९च्द्

विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर् मातृबन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणैर् लेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौतकैः पृथक्कृतैर् गृहक्षेत्रैश् च । पृथक्कृष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गम् उक्तम् ।

विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥ इति । (न्स्म् १३.३६–३७)

तथापराण्य् अपि विभागलिङ्गानि तेनैवोक्तानि ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः कथंचन ॥ इति ॥ (न्स्म् १३.३९) २.१४९ ॥

**इति रिक्थविभागप्रकरणम् **