[[कौटलीयार्थशास्त्रसङ्ग्रहः नीतिसूत्राणि च Source: EB]]
[
***University of Mysore
*
Oriental Research Institute Publications
SANSKRIT SERIES No. 98
GENERAL EDITOR
SRI H. DEVEERAPPA, M.A.,
Director, Oriental Research Institute, Mysore
-
*
कौटलीयार्थशास्त्रसङ्ग्रहः
बृहस्पतिचाणक्यसोमदेवानां
नीतिसूत्राणि च
KAUTALĪYĀRTHASĀSTRASANGRAHA
AND
THE NĪTISŪTRAS
OF
BRIHASPATI, CHANAKYA AND SOMADEVA
EDITED BY
VIDWAN N. S. VENKATANATHACHARYA
MYSORE:
PRINTED BY THE SENIOR ASST. DIRECTOR, GOVT. BRANCH PRESS
1957
Price: Rs. 2nP. 25.
***University of Mysore
*
Oriental Research Institute Publications
SANSKRIT SERIES No. 98
GENERAL EDITOR
SRI H. DEVEERAPPA, M.A.,
Director, Oriental Research Institute, Mysore
-
*
कौटलीयार्थशास्त्रसङ्ग्रहः
बृहस्पतिचाणक्यसोमदेवानां
नीतिसूत्राणि च
KAUTALĪYĀRTHASĀSTRASANGRAHA
AND
THE NĪTISŪTRAS
OF
BRIHASPATI, CHĀNAKYA AND SOMADEVA
EDITED BY
VIDWAN N. S. VENKATANATHACHARYA
MYSORE:
PRINTED BY THE SENIOR ASST. DIRECTOR, GOVTBRANCH PRESS
1957
**अनुक्रमणिका
| १. | उपोद्धातः … … | … | V | XIX |
| २. | एतत्पुस्तकसङ्कलितप्रबन्धप्रकरणार्थ सूचनी | … | XXI | XXIV |
| ३. | कौटलीयार्थशास्त्रसङ्ग्रहः … | … | 1 | 34 |
| ४. | बृहस्पतिनीतिसूत्राणि … | … | 35 | 47 |
| ५. | चाणक्यनीतिसूत्राणि … | … | 1 | 24 |
| ६. | सोमदेवनीतिसूत्राणि … | … | 25 | 102 |
| ७. | कौटलीयार्थशास्त्रीयसुभाषितसङ्ग्रहः | … | 103 | 117 |
| ८. | परिशिष्टम् … … | … | 119 | 128 |
उपोद्धातः
अनन्तैराकारैर्जगति वितताः तत्त्वभरिताः
प्रतिव्यक्त्युद्वेलप्रसरहृदयान्ध्यप्रशमनीः।
सुरम्याः सन्नीतीः सुमनसि विचिन्त्योद्धृतवतः
नमस्यामः पूर्वान् भुवनतिलकान् वन्द्यचरितान्॥
लोकैरभ्यर्थ्यमानं सुखमयममरं जीवनं शान्तिपूर्ण
प्राप्यं ह्यध्यात्मवीथी परिचयकुशलैः नीतिवर्त्माध्वनीनैः।
इत्येवं दृष्टतत्त्वाः जगति सुमनसः त्रातुं आन्ध्यादपायात्
रम्याः नीतीर्व्यवृण्वन् स्वहृदयनिकषाःलोचनोन्मीलनोत्काः॥
यस्याः सा शीतला भा वितथमविरतं कानने सञ्चरन्तं
कर्मज्ञानाक्षजातं तदनुभवपथोद्बोधयेत् दुर्दमं द्राक्।
चार्व्या वा सृष्टिशक्तेःनियमविचयने कल्पयेत् स्वान्तमाढ्यं
वन्दे तां दीपरूपां सहृदयसुमनोदीपितां नीतिलक्ष्मीम्॥
सहृदयेषु किञ्चित्प्रमोदावेदनम् .
अयि सहृदयाः भारतीयास्सुमनसः ! अतिरोहितमिदं प्रायशोऽत्रभवतां सर्वेषाम् ; यत्—कौटल्यापरनामधेयेन श्रीमता विष्णुगुप्तेन त्रिकालधर्मविन्महर्षिहृदयानुरोधि प्रणीतं, अखिलपुरुषार्थ सम्पादनप्रवणसन्मनीषाधानपटुतरं सर्वानुभवबहुमतिन्याययुक्त्यादिगण्यं प्राचीनसकलनीतिशास्त्रार्थसारसङ्ग्रहरूपं च अर्थशास्त्राभिधानं भारतीयपवित्रनीतिप्रबन्धरत्नंजगदादर्शभूतं चकास्तीति। तस्य चास्य प्रप्रथममिहास्मदयिसंस्थाद्वारा प्रकटितस्य, पुनरपि पञ्चषैर्मासैः एतत्संस्थाया एवसुपरिष्कृतं प्रकटिष्यमाणस्य चार्थशास्त्रस्य सोपानप्रथमपर्वभूतमिमं लघुनिबन्धकुञ्जइदानीं प्रकटय्य नीतिप्रियाणामत्रभवतां करकमलयोरर्पणे सुसमयोऽयमास्माकीनस्समुपस्थित इति सत्यं प्रमोदक एवायं कश्चन विषयः॥
स्वतन्त्राणामस्माकं कियती नीत्यावश्यकता !
इह हि वयं सर्वत्र सर्वथा निरङ्कुशंस्वातन्त्र्यमवलम्ब्य कृतकृत्यंमन्या अपि, वस्तुतो विमृश्यमाने–पित्रोः पारतन्त्र्यमतिहाय कुटुम्बभारसर्वस्वप्रतिभुवस्सञ्जातास्तरुणा इव, यथानीति अस्मदीयसर्वविधरक्षणधुरन्धरस्य राजाभिषव्यक्तिविशेषस्य पारतन्त्र्यं निर्धूय अतिसीमभारवाहिन एवाऽभवाम। यद्यस्यामपि दशायां नीतिपारतन्त्र्यमपि त्यजेम, तर्ह्यसंशयं नदीमतिक्रम्य मृगतृष्णिकायां संक्रान्ता इव, वृश्चिकमयात्पलाय्याशीविषमुखे पतिता इव च स्याम॥
प्रयोजनसामान्यं कीदृशम् ? तद्विषये
नीतेः स्थानं च किम् ?
लोके हि यत्किमपि कर्मारभमाणो जनः तस्य यथा नीतितां आमूलं आफलं च विमृशेत्। कर्मणो हि परिणाम इति प्रयोजनमिति च द्वेधा फलं विभजनीयम्। यथाकारणं सहकार्यनुगुणं च सम्भवत्कार्यसामान्य परिणामः, सः सुखं दुःखं वा स्यात्। प्रयोजनं तु नैवंविधम्। प्रकृष्टं योजनमिति, प्रकर्षेण योजनमिति वा विगृह्य व्युत्पादनीयस्य तस्यार्थः — अलब्धाभिर्लम्भनीयाभिर्वा तत्त्वतस्स्वदृष्ट्या चोत्तमाभिः स्थितिगतिभिः आत्मानं संश्लिष्टं कुर्वत् सुखमयं फलमेवेति। प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति तु वक्तुं सुकरं, दुष्करमध्यवसितुम्। तेषामायतिर्हि तत्र साक्षिणी ! अस्तु। परं त्वेतादृशप्रयोजनविषये अप्रत्ययान्यथा प्रत्ययाभ्यां सम्भावन्याःकदध्वप्रवृत्तेः प्रतिनिवर्तनेन निष्कण्टकं कल्याणोदर्कंच सत्पथं दर्शयन्ती कापि दीपमाला दृक्छक्तिरेव वा नीतिरित्युच्यते। नीतिर्नयो नयनं नेत्रमित्यादयः एकधातुप्रसूताः शब्दा अपि पर्यायाः खलु !
नीतेर्व्याप्तिः, तत्परिगृहीतृभिः
अवधेयोंऽशश्च.
सर्वत्र सुविदितप्रचारविभवाः, बुधोमूढ इति वा साधुः खल इति वा धनी दुर्गत इति वा शूरो दुर्बल इति वा परिग्रहपरित्यागनियमदूराः, स्वलक्ष्याव्यभिचरितगतयो नीतयो हि लोकयात्रां निर्वहन्ति ! नीतीरवलम्ब्य हि परमर्षिप्रमुखा अपि स्वमाशयमावेदयन्त्या कीटपतङ्गपिपीलिकम्! व्यतिक्रमलेशमप्यसहमाना हि जागर्ति स्वस्वमतिविभवसमुचितपरिपाकफलाभिः शाखाभिर्नीतिमहीरुहविततिः ! तत्रावधेयोंऽशस्त्वेषः—न नीतय इत्येव सर्वाः सर्वत्र सर्वैः परिग्रहयोग्याः। एकत्र नीतिः अपरत्रानीतिरेव भवेत्। न हि हिंसानिषेधनीतिमात्रमवलम्ब्य स्तेनरिपुवृश्चिकसर्पव्याघ्रादयः उपेक्ष्यन्ते, न वा व्रीहियवादयो धान्यवर्गाः शाकवर्गाः फलवर्गा वा न भुज्यन्ते, नापि हि शिशोकर्णपूरघटने बद्धादरा जननी वेधसूचीहस्ता सुमुहूर्त इति परिषदुपागतेति सिद्धा सामग्रीति च हर्षपरम्परामनोरथपथेनैव विचरन्ती ’ न कलयापि शिशोर्वेधव्यथां जानाति ’ इति केनापि तर्ज्यमाना वा दृश्यते ! एवमेवान्यत्रापि देशकालाश्रयभेदेन भिन्नप्रवृत्तिषु नीतिषु उत्सर्गापवादभावः परं सुव्यवस्थो विजानता आश्रयणीयः इति।
भारतीयं सर्वमपि साहित्यं
अन्वर्थ नीतिमयमपि.
जगदुद्धरणद्वारभूतां इमां नीतिसन्ततिमेव, भगवल्लीलारूपायास्सर्वचेतनोद्धरणव्यापाररूपायाश्च जगत्सृष्टेस्तत्त्वं विजानन्तः कान्तदर्शिनो महर्षयः श्रुतिस्मृतीतिहासपुराणकाव्यानिबन्धेषु चतुष्षष्टिकलासु च तत्तत्प्रकृतिरुचीः देशकालकार्याधिकारान् कक्ष्याश्चानुसृत्य विविधं ओतप्रोतं परिवीय जगते किमप्यद्भुतं चक्षुः प्रादुः। अस्यैव च यथा—प्रकृति आध्यात्मिकाधिदैवकाधिभौतिकेष्वनुपद्रुतंसुखशान्तिमयमादर्शभूतं च जीवनपथं दर्शयतः भारतीयपवित्रनिबन्धमण्डलस्य व्यापकं साहित्यमिति नाम एतत्स्वरूपानुगुणमन्वर्थमविकलं सर्वांशसुन्दरं च प्रतिभाति। सहितयोर्भावो हि साहित्यम् ! जीवनपथेषु शरीरात्मनोरपायनिवारणे जागरूकान्, ऐहिकीरामुष्मिकीश्च नीतीस्सहितास्सङ्कलय्य मानवान् प्रबोध्य जागरूकयतश्च, कानू वा एतदन्यान् प्रबन्धान् कलयामः ?
पृथङ्नीतिशास्त्रस्योपयोगाः
अयमत्र विशेषः—तत्त्वत्तो लोचनरूपेष्वप्यमीषु निबन्धेषु, जनानां तदाभिमुख्ये तत्सम्पादने तदुपयोगे वा जायमाने, तत्तदाद्यपर्वसु कापि शिक्षणनीतिरावश्यकी किल ता एव नीतयः नीतिशास्त्रमिति व्यपदेशान्तरेण प्रवर्त्यन्त इति । प्रायशो ह्यर्थातुराः भोगलालसाश्च जनाः एवं- विधासु ज्ञानसम्पत्स्वेव नाभिमुखीभवन्तीति ; सम्पादितमपि च ज्ञानं सन्नीतिविधुरं चेत्, स्वरक्षणायैव दत्तोऽप्यसिः स्वस्य प्रातिवेशिकानां च वधायैव कल्पमान इव, स्वस्याहङ्कृतिपरेषां परिभवं चावश्यं साधयन्महत्किमपि रिक्थं पर्यवस्येतति च नैतत्तिरोऽहितं जनानाम्।
वस्तुतः सुपथप्रेप्सुभिर्जनैः अन्वेषणीयाः
गुरवः कीदृशाः भवेयुः ?
अज्ञा वा, कतिपयज्ञा अपि प्रायोगिकविमर्शेन तदगृह्णन्तो वा, स्वदुर्वासनामज्जनेनैव तद्गृह्णन्तो वा, विमृश्यैव गृह्णन्तोऽपि तस्य कासुप्रकृतिषु कथं समन्वयः इत्यविमृशन्तो वा, स्वानुभव एव सर्वैः संप्रतिपत्तव्यः इत्युत्सिञ्चन्तो वा, तत्तत्प्रकृतिमनुसृत्य परस्मै तद्दातुं सङ्कुचन्तोऽसहमाना वा ज्ञातमपि विषयं पक्षिभाषयेव दुर्बोधार्थेन वचसा परस्मै ददतो वा, तदेव सुबोधार्थमपि मताभिमानेन स्वमतान्येव सर्वेष्वपि जनेषु प्रचिचारयिषवो वा, स्वयमन्यत्किमपि सङ्गृह्य परेभ्योऽन्यस्किमपि ददतो वा; स्वगृहीतमेव साध्विति दुरभिमानेन ग्रहीतृष्वपि तदेव प्रवर्त्य अर्थादन्ततो जनान् दूषयन्तो वा, सम्यगेव प्रवर्त्यापि प्रातिभाव्यविहीनं प्रवर्तयन्तो वा, केवलं पङ्क्तिपारवश्येन प्रवर्तयन्तो वेत्यमी नीतिविहीनास्सर्वेऽपि कयाऽपि विधया कस्मा अपि परमार्थतो नोपयुज्येरन्॥
यस्तु तत्त्वतः स्वयं विज्ञाय सुप्रयोगनिर्विशयनिर्भरमनाः,स्वस्मिन् दोषलेशमप्यनवशेष्य यथाशक्ति परिष्कृत्य, यथास्वप्रकृति वा स्वस्मिन् दुर्वा रे दोषे सत्यपि परेषु तदसङ्क्रमणाय अवहितं विमृश्य देशकालप्रकृतिसन्निवेशवातावरणानि विज्ञाय तदर्हाधिकारिणे तत्कक्ष्याविज्ञानेन प्रदाय अन्यूनानतिरेकेण यावत्फलं तत्सूत्रधारस्सन् तमुद्धृत्य, तन्मुखेन च लोकानुद्धर्तुं प्रयत्य, स्वसाक्षिकमेव स्वमप्युज्जीवयन् लोककल्याणाभिनिवेशी भवति, स एव तत्त्वतः पण्डितः नीतियुतश्च गुरुः। तेनैव च लोकोऽयममरजीवनो भवेत्। स एव चान्वेषणीयः॥
शास्त्रमुपयोक्ष्यमाणैः प्रथमसम्पादनीयः कश्चिदंशः
वृद्धाः शास्त्रमपि दीपः इति वर्णयन्ति। वर्णना त्वियमन्वर्यैव। परं त्विमं शास्त्रदीपमुपयोक्तुं येन केनाप्यभिमानगन्धेनाप्यसंस्पृष्टं निर्मलं हृदयं नाम किमपि चक्षुरवश्यमपेक्ष्यत एव। अन्धो दुश्चक्षुर्वा दीपमुपयोक्ष्यमाणः दीपं स्वात्मानं चेत्युभयमपि ह्यवसादयेत् ! अतो वयं प्रथमं निर्मलं मनस्सम्पादयेम, तदैव किमपीदं शाकां सार्थक्यं लभेत॥
प्रकृतपरिदृश्य माननीतिशास्त्राणां सर्वेषामपि प्रायशः
कौटलीयार्थशास्त्रभावानुरोधिता.
अस्तु। एवंविधानामेव महात्मनां परमपावनासु पङ्किषु परिदृश्यमाना काचिन्महती व्यक्तिरेव श्रीमान् कौटल्यः इति, तदीयं अर्थशास्त्रमपि उक्तनीतिशास्त्रेषु मूर्धन्यं वर्तते इति च, तदीयमुदन्तमर्थशास्त्रं च कलयतां सुविज्ञेयमेव भवेत्। एवमिह वयं नीतिशास्त्रमिति यद्यत्पश्येम तदखिलमप्येतदर्थशास्त्रसूत्रान्न बहिरित्युच्यमानेऽपि प्रायशो नानुचितं स्यादिति च भाति।
एतदर्थशास्त्र संग्रहकरणोद्देशः रीतिश्च.
प्रकृते चास्मिन् पुस्तके तस्यास्य कौटलीयार्थशास्त्रस्य संग्रह एव प्रथमग्रन्थतयाऽस्माभिस्सममुद्र्यत।तस्यास्य संग्रहस्य कर्ता परं अहमेव। तथापि मामकीनमक्षरमात्रमपि न संयोजितम्। सर्वा अर्प्यथशास्त्रपङ्क्तय एव। ताः परं यथोचितं सङ्कलिताः। अर्थशास्त्रस्य विषयान् शैलीः नीतिरीतीश्च किञ्चिदपि वा संक्षेपरुचयोऽप्यास्वाद्य अवश्यं मूलार्थशास्त्रदिदृक्षवो भवेयुरित्याशंसयैवायं संक्षेपोऽप्यक्रियत॥
मूलार्थशास्त्रेण प्रकटिष्यमाणया तद्भूमिकया च
विज्ञेयानि विवरणानि.
अत्र च संग्रहे यथामूलं बहूनि धर्मार्थकामोदर्काणि कर्माणि अपेक्षितविवरणवर्जंपरं निर्दिष्टानि। तेषां च कर्मणां स्वरूपंकीदृशम् ? साधनानि कानि ? तानि कुतः क्रियेरन् ? को वा कदा कुत्र कुर्यात्? कास्तेषां त्रिधाः? उद्देशविवरणसमन्वयाश्च कीदृशाः? तात्कालिकव्यवहारे चासिद्धाः नूनतया साध्याश्च केंऽशाः? शास्त्रप्रवर्तककौटल्यस्य कक्ष्या का ? तस्य ध्येयं च किम्? च रीतिनीतयः स्थितिगतयश्च कस्यां कक्ष्यायां कतिविधाः तेन च जनानतोऽप्युत्तमां कक्ष्यां नेतुं के वा यत्नाः अकारिषत ? आसन् ?
प्रयोगतो वा कत्यंशाः व्यज्ञायन्त ? वयमपीत उत्तरं कास्काः रीतिनीतीरलवम्ब्य भारतमिमं मण्डलं वस्तुतो भारतमेव शेषयेम ? अद्य चास्माकीना कक्ष्या कीदृशी वर्तते ? आत्मानं च कथं रक्षेम ? इत्येवमादीनां अनन्तसमस्यानामपि यथाधिकारमुत्तरं अद्यैव प्रकटीभविष्यता मूलार्थशास्त्रेण तद्भूमिकया च सहृदयाः यथोचितं जानीयुरिति विश्वसिमि॥
भूमिकाविषये आधुनिकानां केषांचित्
अभिप्रायः तत्परिणामाश्च.
भूमिकाप्रसङ्गे ज्ञापनीयतया समापतितः कश्चिदंशः —
यत्—सामान्यतो हि पुस्तकारम्भे कविकाव्यपरिचयभूमिकोपोद्धातादिनाम्ना निरवलम्बं सालम्बंवा अभ्यूहमात्रेण वा मृषाशासनानि प्रदर्श्य वा कतिपयवचसामप्रवर्तने तत् पुस्तकं नैव गणनामर्हतीत्याधुनिकानां केषाञ्चिदभिप्रायो वर्तते। तथाविधा एव भूमिकाः प्रायशस्सन्दृश्यन्ते च। परं एवंविधाभिः भूमिकामिः किं प्रयोजनं जनो लभत इति परिशील्यमान-ताभिः केवलं ग्रन्थकर्तुः जातिकुले प्राच्यनव्यते चावगत्य तं ग्रन्थं स्वीयं चेन्मन्यते तत्पुस्तकं क्रीणाति, परकीयं चेन्मन्यते तस्मिन् असतोऽनर्हांश्च विमर्शान् टीकाटिप्पणीश्च प्रवर्तयति ; एवं तथाविधाः उपदशनिबन्धभूमिका अवलोक्य स्वविमर्शनाम्ना पुस्तकमेकं विलिखति, तासु स्वनासिकारोधिविषयानेव संगृह्य च समाजेषु उत्सवेषु चोपन्यस्य मतं प्रचारयति, अर्थं चार्जयति — इतीमान्येव फलानीति परिदृश्यन्ते ; न तु कश्चिदपि ताभिः निबन्धहृदयं परिचित्य, स्वामपि वा कक्ष्यां उत्तमयितुं प्रयतते पारयेद्वा।सत्यमिदं विषादस्थानमेवेति मन्ये !
तद्विषये प्राचीनरीतिः, तदौचित्यं च.
पुरा लिखितेषु बहुषु कोशेषु श्रुतिस्मृत्यादिषु च ग्रन्थकर्तुर्नामान्येव न पश्यामः। तदिदमाधुनिकानां हास्यकरमपि तदा रमणीयमेवास्तेति युक्तमुत्पश्यामः। नहि स्वारसिकपटुतरशक्तिमती रसनाभक्ष्यं किमप्यादाय ‘अस्य कः कर्ता ’ इति तन्नामधेयमवगत्यैव तत्स्वाद्वस्वादुते निर्णयेत् ! किन्तु स्वयं स्पर्शमात्रेणैव ते निर्णीय परिगृह्णीयात्परित्यजेद्वा। इदमेव ‘सन्तः परीक्ष्यान्यतरद्भजन्ते’ इति महाकविराचष्टे, तथाविधां शक्तिमनासादयन्ती परं कोऽस्य कर्ता इत्यादिकं निर्णीयैव तस्य स्वाद्वस्वादुते निर्णयेत्। एवं हि तदनुगुणहृदयशक्तिविहीनानां अधुनिकानां च केषांचित् पुरातनीं स्थितिं विलोक्य परिहासः यथायथं प्रवर्तमानः मृषामयकृत्रिमशिलाशासनादौ श्रद्धेयत्वाभिमानश्च नैव चित्रण। मर्हतीत्येवास्माभिः समाधेयम्॥
वस्तुतः भूमिका कीदृशी भवेत् ?
तत्त्वतः कविकाव्यादिपरिचयो नाम कवेर्हृदयं तदनुगुणमविकलं तद्वचसस्सौन्दर्यं तद्देशकालरमणीयतां च सुचित्रय्य, तेन प्रेक्षकहृदयस्य तन्निबन्धृकक्ष्याप्रापणमेव हि। एवंविधा च भूमिका वैज्ञानिकी च भवेदित्येवास्माकमप्यभिप्रायः ! न त्वस्माकं कविकाव्यतद्देशकालादिविमर्शे विद्वेषः तावदैदम्पर्यंवा। एनमेव भावमनुसृत्य प्रकटिष्यमाणं अर्थशास्त्रं यथोचितमेवंविधयैव भूमिकया संयोजयितुमुद्युज्यते ॥
सारतः सर्वेऽपि यथानीति ऐकमत्येन जीवन्तः यथाधिकारं सर्वविधसौख्यशान्तिसम्पदां भागिनो भूयास्मेत्येवैवंविधानां वाचां लेखनानां च परमोद्देशो वरीवर्तीति सारम् ॥ इति ॥
एतत्पुस्तके सङ्कलिताः ग्रन्थाः.
एवमस्मिन् पुस्तके—प्रथमं कौटलीयार्थशास्त्रसंग्रहं संयोज्य, तदनु त्रयः नीतिसूत्रप्रबन्धाः, अन्ते कौटलीयार्थशास्त्र सुभाषितसंग्रहश्वेत्याहत्य पञ्च निबन्धाः सङ्कलिताः ॥
तत्कर्तृषु प्रथमस्य बृहस्पतेः परिचयप्रयत्नः.
** **तत्राद्यः बृहस्पतिनातिसूत्रामिधःग्रन्थः। ग्रन्थकर्तुर्बृहस्पतेविषये न किंविधमपि निर्दिष्टं विषयं जानीमः।यः कोऽपि ह्यस्य विषये वाङ्मयं प्रवर्तयन्नपि ऊहकतां सन्दिग्धतां वा नातिक्रामेत्। तथैव च तैस्तैर्लिखितानां समुच्चये एवं सम्पद्यते॥
नीतिशास्त्रकर्त्रा बृहस्पत्या सह
चत्वारो बृहस्पतयः.
यथा—
सामान्यतो बृहस्पतिर्नाम कश्चित् राजनीतिशास्त्रं प्रणिनायेत्यंशे बहवोऽनुवादाः दृश्यन्ते। यथा—महाभारते शान्तिपर्वणि अष्टपञ्चाशेऽध्याये—
तानुवाच सुरान् सर्वान् स्वयम्भूर्भगवांस्ततः।
श्रेयोऽहं चिन्तयिष्यामि व्यतु वो भीः सुरोत्तमाः॥
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्।
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः॥
संचिक्षेप ततश्शास्त्रं महास्त्रं ब्रह्मणा कृतम्।
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत॥
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः।
मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात्॥
प्रजानां हितमन्विच्छन् संचिक्षेप पुरन्दरः।
सहस्रैः पञ्चभिस्तात ! यदुक्तं बाहुदन्तकम्॥
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः।
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते॥
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः॥ इति ;
एवमन्यत्रापि—
“नीतिं बृहस्पतिप्रोक्तां भ्रातॄन् मेऽग्राहयत्पुरा। " इति ;
“दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः।
वार्तामूलो ह्ययं लोकः तया वै धार्यते जगत्। " इति ;
“ब्रह्माध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्।
तन्नारदेन शुक्रेण गुरुणा भार्गवेण च।
भारद्वाजविशालाक्षभीष्मपाराशरैस्तथा।
संक्षिप्तं मनुना चैव तथा चान्यैर्महर्षिभिः। ” इति च ।
वात्स्यायनकामसूत्रे—
“प्रजापतिर्हि प्रजासृष्ट्वा तासां स्थितिबन्धनं त्रिवर्गस्य साधनं अध्यायानां शतसहस्रेणाग्रे प्रोवाच । तस्यैकदेशिकं मनुः स्वायम्भुवो धर्माधिकारं पृथक् चकार, बृहस्पतिरर्थाधिकारम्। नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं चकार॥ " इति।
कौटल्येनार्थशास्त्रारम्भे—
“ ॐ नमः शुक्रबृहस्पतिभ्याम्” इति।
भोजेन युक्तिकल्पतरौ—
“नीतिर्बृहस्पतिप्रोक्ता तथैवौशनसी परा।
उभयोरविरुद्धात्र निरूप्या नीतिरुत्तमा॥ " इति।
भासेन प्रतिमानाटके—
“काश्यपगोत्रोऽस्मि साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधातिथयशास्त्रं, प्राचेतसं श्राद्धकल्पं च " इति।
विष्णुशर्मणा पञ्चतन्त्रे—
सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च।
बृहस्पतेरविश्वासः नीतिसन्धिस्त्रिधा मतः॥ " इति।
अश्वघोषेन बुद्धचरिते—
“यद्राजशास्त्रं भृगुरङ्गिरा वा
न चक्रतुः वंशकरावृषी तौ।
तयोः सुतौ तौ च ससर्जतुस्तान्
कालेन शुक्रश्च बृहस्पतिश्च॥ ” इति।
सोमदेवेन यशस्तिलकचम्पूप्रबन्धे—
“न्यायादवसरमलभमानस्य चिरसेवकसमाजस्य विज्ञप्तय इव नर्मसचिवोक्तयः प्रतिपन्नकामचारव्यवहारेषु स्वैरविहारेषु च मम गुरुशुक्रविशालाक्षपरीक्षितपराशरभीमभीष्मभारद्वाजादिनीतिशास्त्रश्रवणसनाथं श्रुतिपथमभजन्त" इति च॥
किन्त्वयं बृहस्पतिः कः इत्यंशे तद्रचितत्वेन निर्णीत एव कश्चन ग्रन्थो वा, तन्मूलकः कश्चन निर्णयो नैव लभ्येत॥
बृहस्पतिनाम्ना परं चत्वारः प्रथन्ते ;—
तत्र प्रथमः बह्वृचाम्नायकः, यथा—
“बृहस्पते विश्वेषामिज्जनिता ब्रह्मणामसि।
बृहस्पतिः सामभिः क्वो अचतु" इति।
अयं ब्राह्मणे - ‘बृहस्पतेरिव बुद्धया’ इत्युक्तः।
श्रीमद्रामायणेऽपि श्रीरामलक्ष्मणाङ्गदानामुपमानतयायं निर्दिष्टः। अनेनायं धीविषये सर्वेषामादर्शभूतः सृष्टितत्त्ववेदी च कश्चन बृहस्पतिरिति ज्ञायते॥
द्वितीयः बार्हस्पत्यसंहिताकारः। एतत्संहितायाः मुद्रितनीतिसूत्राणां च कल्याप्यानुरूप्यं नास्ति॥
तृतीयः अङ्गिरःपुत्रयोः बृहस्पतिसंवर्तकयोरन्यतरः भरद्वाजपिता मनुशिष्यः शुक्राचार्यप्रतिपक्षः देवासुरयोधनेषु असुराणां नास्तिक्योपदेशप्रवृत्तः नास्तिकशिरोमणिरिति च प्रसिद्धः। अस्य मतमेव लोकायतमतमिति सर्वदर्शनसंग्रहप्राभाकरबृहत्योः व्यक्तीकृतम्। महाभारतेऽपि ‘बृहस्पतिस्तु भगवान् नायं धर्मं प्रशंसति’ इत्युक्तम्। हेमचन्द्रोऽपि ‘बृहस्पतिस्तु नास्तिकः’ इत्याह।
तुरीय एवास्मन्नीतिकारो बृहस्पतिरिति॥
** नीतिशास्त्रकर्ता बृहस्पतिर्नास्तिको वा ?**
सोमदेवस्तु यशस्तिलके ‘बृहस्पतिनीतय इवादेवमातृकाः’ इति वदति। तद्विवरणे च ’ यथा बृहस्पतिनीतयः चार्वाकशास्त्राणि देवं सर्वज्ञादिविशेषं न मन्यन्ते’ इत्यस्ति। एतदवलोकने एतौ द्वावपि बृहस्पतिशब्देन मनागिवाभ्राम्यतामिति ज्ञायते इति केचित्। सहृदयतयैव तद्विमर्शे-पङ्के जलाशये वा पतितान् समुद्धृत्य सुपथे गमयितुं प्रवृत्तः यः कोऽपि कूपे च स्वयमपि पतेदेवेतिवत्, ‘मायाचारो मायया इतिवच्च, आसुरप्रकृतीन् सुपथं प्रापयितुं अर्थशास्त्रप्रवर्तको बृहस्पतिरेव नास्तिकशास्त्रमपि प्रवर्तितवान् स्यात् इत्यपि वक्तुं शक्यम्।
चाणक्यसूत्राण्येव बृहस्पतिसूत्राणि
भवितुर्महन्ति वा ?
कथमपि वा स्यात् तत्त्वतः कौटलीयार्थशास्त्रमूलभूतानि नीतिसूत्राणि नोपलब्धानीति बाढं वक्तुं शक्यते। अद्योपलब्धानि बार्हस्पत्यसूत्रव्यपदिष्टानि तु बृहस्पतिनाम्ना नीतिज्ञेन केन चित्प्रणीतानीति; कालश्वास्य प्रायः A. D. 6-7 शतकेभ्यः प्राक् न भवेदिति च वदन्ति।
केरलत उपलब्धां मातृकामनुसृत्य, इह वयं बार्हस्पत्यसूत्राणीति मुद्रितानि नैव बार्हस्पत्यानि, किन्तु कौटलीयराजनीतिसूत्राणीतिद्वितीयप्रबन्धतथा मुद्रितान्येव बार्हस्पत्यसूत्राणि स्युः। तत्र हेतुं तेन शिरोलेखेन तत्सूत्रनिबन्धनोपलब्धिमेव ते वदन्ति। अस्मत्कोशागारस्थमातृकामनुसृत्य तु तेन शिरोलेखेन तान्यमुद्रयामेत्येव विषयः।
** चाणक्येनापि सूत्राणि कृतानि वा ?**
“नीतिशास्त्रामृतं श्रीमान् अर्थशास्त्र महोदधेः ।
य उद्दध्रेनमस्तस्मै विष्णुगुप्ताय वेधसे ॥”
इति कामन्दकीयवचसो दर्शने कौटल्योऽपि नीतिसूत्राणि प्रणीतवान् स्यादित्यभ्यूह्येत। परन्तु इमान्येव तानीति नैव वक्तुं पारयेम। अर्थशास्त्रगाम्भीर्यस्य एतत्सूत्र निबन्धशैल्याश्च सुबह्वेव तारतम्यं दृश्यते। अर्थशास्त्रमेव वा कामन्दकः नीतिशास्त्रमिति व्यपदिशेत्, अतोऽस्मिन् विषये पर्याप्तान्यवलम्बनानि नोपलभ्येरन्।
“ चकार सूत्र च भाष्यं च”
इत्यर्थशास्त्रोक्तसूत्रपदं तु प्रकरणाधिकरणसमुद्देशपरं इति न तद्विदां तिरोहितम्॥
सोमदेवनीतिवाक्यपरिचयः
तृतीयः प्रबन्धः सोमदेवविरचितनीतिसूत्राणि। निबन्धोऽयमतिसुन्दरः। निबन्धमेनं पठितुमुद्युञ्जानः सहृदयः कोऽपि नाकम्पितशिराः वर्तितुं शक्नुयात्। निबन्धेऽस्मिन् दर्शिताः दृष्टान्ताः अखिलाः अपि प्रत्यात्मव्यक्ति हृदयङ्गमास्सन्ति। निबन्धोऽयं भाषायां भावे च अभ्यर्हितां रीतिमाश्रितः अर्थशास्त्रस्य सत्यं प्राथमिकं पति वक्तुं शक्यते॥
सोमदेवपरिचयः.
अस्य च रचयिता जैनः सोमदेवसूरिः। एतदीयतया समुपलब्धौ द्वावेव प्रबन्धौ-प्रथमः अयं नीतिसूत्रप्रबन्धः, द्वितीयः यशास्तलकचम्पूः।अस्य परिचयश्च यथोचितं तदीययशस्तिलकचम्पूप्रबन्धतस्सम्भवति।
तत्र ह्येते श्लोकाः दृश्यन्ते—
श्रीमानस्ति स देवसङ्घतिलकः देवो यशःपूर्वकः
शिष्यस्तस्य बभूव सद्गुणनिधिः श्रीनेमिदेवाह्वयः।
तस्याश्चर्यतपःस्थितेः त्रिनवतेर्जेतुर्महावादिनां
शिष्योऽभूदिह सोमदेव इति यः तस्यैष काव्यक्रमः॥
दर्पान्धबोधबुधसिन्धुरसिंहनादे
वादिद्विपोद्दलनदुर्धरवाग्विवादे।
श्री सोमदेवमुनिपे वचनारसाले
वागीश्वरोऽपि पुरतोऽस्ति न वादकाले॥
असहायमनादर्शंरत्नं रत्नाकरादिव।
मत्तः काव्यमिदं जातं सतां हृदयमण्डनम्॥
मया वागर्थसम्भारे भुक्ते सारस्वते रसे ।
कवयोऽन्ये भविष्यन्ति नूनमुच्छिष्टभोजनाः ॥ इति ॥
एभिः अस्य सोमदेवस्याचार्यो नेमिदेवः, यशोदेवः प्राचार्यः इति, अयं महान् शास्त्रपण्डितस्सुकविश्चासीदिति च ज्ञायते।
प्रशस्तिपत्रैः अन्यैश्चावलम्बनैः अयं क्रैस्ताब्देषु नवमदशमशतकयोर्मध्यकालिकः निजामराजधानीभूतमान्यखेटवासी चाभवदिति, महेन्द्रदेवभट्टारकसोदर्य इति च ज्ञायत इति॥
निगमनम्
इमांस्त्रीनपि प्रबन्धान् अस्मदीयकोशागारस्थमातृकासाहाय्येन तत्र तत्र मुद्रितपुस्तकानां साहाय्येन च परिशोध्य उचितमिति भातंकञ्चनैकमेव पाठं इह अमुद्रयाम।पाठान्तराणां विशेषाटिप्पणीनां च संयोजनावश्यकत्वे सत्यपि तदनुगुणावसरालाभतस्ताः अस्यां आवृत्तौ व्यसृजाम।
**अन्ते च—**कौटलीयार्थशास्त्रे परिदृश्यमानानि सुवचांस्यखिलानि प्रायशस्सङ्गृह्य, विषयानुगुणं भागशो विभज्य च सममुद्रयाम।
तदनु च लध्वेकं परिशिष्टं सङ्कलय्य पुस्तकमिमं समापयाम॥
एवं नीतिसङ्ग्रहरूपः सम्पुटोऽयं यथार्हं राजनीतिसामान्यनीतीनां परिचयं संलगय्य सर्वान् परितोषयेदिति च दृढं विश्वसिमः॥
आशंसामहे च—
सेयं सन्नीतिदीप्तिः प्रभवतु नयने दुर्गतानां पदव्यै
धिक्कारे धर्मनिन्दासहजकुटिलतापूर्णजाल्मक्रियाणाम्।
आधाने सत्सु पूर्णाविहतसुखदसद्धर्मसम्पत्समृद्धेः
दिव्यायाः राज्यलक्ष्म्याः भरतभुवि सुसंस्थापनेऽप्येकताना॥ इति ॥
अपि च—
जयतु जगतां मूलं सत्यं सनातनमञ्जसा
जयतु सरसा दिव्या वाणी तदीयमनोऽनुगा।
जयतु विदुषां वर्गः तस्यास्सदातन आश्रयः
जयतु च निधिस्तेषां पूर्णा चिरन्तनभारती॥
मैसूरु,
22-2-1957.
इति प्रार्थयिता भवदीयः,
सदामोदसरससुमनोविलासलालसः,
एन्. एस्. वेङ्कटनाथशर्मा,
प्रकरणार्थानां सूचनी
———
विषयाः
| 1 कौटलीयार्थशास्त्रसङ्ग्रहः |
|---|
| 1. विनयाधिकारिकम् (राज्ञा विनयसम्परसम्पादनप्रकारः) |
| 2. अध्यक्षप्रचारः (तत्तत्कर्मसु अध्यक्षाणां प्रवर्तनम्) |
| 3. धर्मस्थीयम् (यथाधर्म व्यवहारनिर्णयक्रमः) |
| 4. कण्टकशोधनम् (दुर्गराष्ट्रयोः दुष्टानां शोधनं ) |
| 5. योगवृत्तम् (राजराज्ययोः दुष्टानां शोधनं ) |
| 6. मण्डलयोनिः ( षाड्गुण्यप्रकृतिनिरूपणम्) |
| 7.षाड्गुण्यम् (संध्यादिषड्गुणव्याख्याः) |
| 8. व्यसनाधिकारिकम् ( व्यसनानां निरूपणम्) |
| 9.अभियास्यत्कर्म (जयार्थ यास्थतां कर्माणि ) |
| 10.साङ्ग्रामिकं ( युद्धे आंश्रयणीयाः व्यवस्थाः) |
| 11. सङ्घवृत्तम् (सङ्घानां वशीकरणक्रमः) |
| 12.आबलीयसम् (प्रबलाक्रमणे दुर्बलकर्तव्यानि) |
| 13.दुर्गलम्भोपायः (शत्रुदुर्गाक्रमणोपायाः) |
| 14.औपनिषदिकम् (धर्मरक्षार्थाः मन्त्रमायाप्रयोगाः) |
| 15 तन्त्रयुक्तिः ( शास्त्रप्रयुक्तयुक्तीनां व्याख्याः) |
| 2.बार्हस्पत्यनीतिसूत्राणि |
|---|
| 1 प्रथमोऽध्यायः ( राजवृत्तविवरणम्) |
| 2.द्वितीयोऽध्यायः ( राजकर्तव्यानि, ध्येयांशाश्च ) |
| 3.तृतीयोऽध्यायः ( मतानां विभागः स्थानमानानि, देशकालविवरणं च ) |
| 4.चतुर्थोऽध्यायः (दिनचर्याः मन्त्रनिरूपणं च ) |
| 5.पञ्चमोऽध्यायः ( उपायनिरूपणम् ) |
| 6.षष्ठोऽध्यायः (कर्मणां नयानुगुण्यं, अर्थस्य स्थानं च |
| 3 चाणक्यनीतिसूत्राणि |
|---|
| 1. प्रथमोऽध्यायः ( राजनीतयः, दुर्व्यसनपरिणामाश्च) |
| 2. द्वितीयोऽध्यायः (कार्यसाधनप्रकाराः, धर्मार्थकामानां व्यवस्थाश्च) |
| 3. तृतीयोऽध्यायः (सङ्कीर्णाः सर्वसाधारणाः नीतयः) |
| 4. चतुर्थोऽध्यायः |
| 5. पञ्चमोऽध्यायः |
| 6. षष्ठोऽध्यायः |
| 7. सप्तमोऽध्यायः |
| 8. अष्टमोऽध्यायः |
[TABLE]
[TABLE]
| 5 अर्थशास्त्रीयसुभाषितसंग्रह |
|---|
| 1 आत्मवत्तासम्पादनावश्यकता, तदुपायाः, अनात्मवतां सम्भविनो दुष्परिणामाश्च |
| 2 उपदेशस्य शिष्यार्हतानुगुण्यावश्यकता |
| 3 विद्यास्वरूपहेतुफलानि, अविद्यातांसम्भविनोऽनश्च |
| 4 भरिषदुर्गस्वरूपहेतुदुष्फलानि तत्परिहारावश्यकता च |
| 5.धर्मादिकृत्स्नपुरुषार्थसम्पादनरक्षणाद्यावश्यकता, तेषु प्राबल्यदौर्बल्यादिविमर्शश्च |
| 6.राज्ञां तत्प्रकृतीनां च परस्परं नीत्या वर्तनक्रमः |
| 7 मन्त्रिणः, मन्त्रालोचनप्रकाराश्च |
| 8.दण्डमहिमा |
| 9 विश्वास्याः अविश्वास्याश्च |
| 10 वाक्प्रयोगविधाः |
| 11 भार्याः ब्राह्मणाः |
| 12युद्धप्रशंसा |
| 13 पुत्राः कीदृशाः भवेयुः |
| 14 सङ्घः कीदृशो भवेत् |
| 15 अनुजूनां गतिः कीदृशी |
| 16व्यवहारः |
| 17 अन्यानि कानिचिद्वाक्यानि |
सुभाषितसंग्रहसूचितानां अर्थशास्त्रस्थपुटपङ्क्तिनिर्देशकसंख्यानां शोधनिका
| परिशिष्टम् |
|---|
| 1 नीतिसूत्रेषु विवृतार्थानां पदानां अकारादिसूचनी |
| 2 नीतिसूत्रसूचितकथापात्रनाम्नां अकारादिसूचनी |
जय श्रीः !
कौटलीयार्थशास्त्रसङ्ग्रहः
[ वेङ्कटनाथशर्मणा सङ्कलितः ]
_____
ग्रन्थोपक्रमः
ॐ नमः शुक्रबृहस्पतिभ्याम्।
पृथिव्याः लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि, प्रायशस्तानि सङ्गृह्य एकमिदं अर्थशास्त्रं कृतम्। तस्यायं अधिकरणसमुद्देशः—१. विनयाधिकारिकम्। २. अध्यक्षप्रचारः। ३. धर्मस्थीयम्। ४. कण्टकशोधनम्। ५.योगवृत्तम्। ६. मण्डलयोनिः। ७. षाड्गुण्यम्। ८.व्यसनाधिकारिकम्। ९. अभियास्यत्कर्म। १०. साङ्ग्रामिकम्। ११. सङ्घवृत्तम्। १२. आबलीयसम्। १३. दुर्गलम्भोपायः। १४. औपनिषदिकम्। १५. तन्त्रयुक्तिः - इति। एतानि पञ्चदश एतदर्थशास्त्रीयाधिकरणानि॥
सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम्।
कौटल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम्॥
-
*
१. प्रथममधिकरणम् – विनयाधिकारिकम्.
१. विद्यासमुद्देशः। २. वृद्धसंयोगः। ३. इन्द्रियजयः। ४. अमात्योत्पत्तिः। ५.मन्त्रिपुरोहितोत्पत्तिः। ६. उपधामिश्शौचाशौचज्ञानममात्यानाम्। ७. गूढपुरुषोत्पत्तिः। ८ गूढपुरुषप्रणिधिः। ९. स्वविषये कृत्याकृत्यपक्षरक्षणम्। १०. परविषये कृत्याकृऽत्यपक्षोपग्रहः। ११.मन्त्राधिकारः। १२. दूतप्रणिधिः। १३. राजपुत्ररक्षणम्। १४. अवरुद्धवृत्तम्। १५. अवरुद्धे च वृत्तिः। १६. राजप्रणिधिः। १७. निशान्तप्रणिधिः। १८. आत्मरक्षितकम्—इत्यष्टादश प्रथमाधिकरणप्रकरणानि॥
त्रिकालधर्मविन्महर्षिहृदयारूढोऽयमर्थः-
“ज्ञानविज्ञानसम्पन्नैः शुद्धभावैर्महात्मभिः।
दीर्घदर्शिभिराचार्यैर्दत्तहस्तावलम्बनम्॥
आत्मसम्पद्गुणैर्युक्तं नीतिज्ञंयुक्तकारिणम्।
धार्मिकं प्राप्य राजानं सुखी लोकोऽभिवर्धते॥“इति॥
सेयमात्मसम्पत् योगविशेषसाध्या, योगः प्रज्ञया, प्रज्ञा च विद्यया। ताश्च विद्याः - आन्वीक्षिकी, त्रयी, वार्ता, दण्डनीतिश्चेति चतस्रः। तत्रान्वीक्षिकी – सर्वविद्यानां प्रदीपः, सर्वकर्मणामुपायः, सर्वधर्माणामाश्रयश्च ; त्रयी - चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापिका, वार्ताधान्य पशुहिरण्यकुण्यविष्टिप्रदात्री; दण्डनीतिः -अलब्धलाभार्था, लब्धपरिरक्षिणी, रक्षितविवर्धिनी, वृद्धस्य तीर्थेषु प्रतिपादनी च। ताभिः धर्मार्थौयद्वद्यात् तद्विद्यानां विद्यात्वम्। श्रुताद्धिप्रज्ञोपजायते, प्रज्ञया योगः, योगादात्मवत्तेति विद्यासामर्थ्यम्। आत्मवांस्तु अल्पदेशोऽपि प्रकृतिसंपदा युक्तः नयज्ञः पृथिवीं परिपालयति, जयत्येव, न च कदापि हीयते॥
नित्यश्चास्य विद्यावृद्धसंयोगः विनयवृद्ध्यर्थम्। विद्याविनीतो हि राजा प्रजानां विनये रतः सर्वभूतहिते रतश्च अनन्यां पृथिवीं भुङ्क्ते। अवश्येन्द्रियः चातुरन्तोऽपि राजा सद्यो विनश्यति। यथा— दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः; कोपात् जनमेजयः ब्राह्मणेषु विकान्तः, तालजङ्घश्चभृगुषुलोभात् ऐलः चातुर्वर्ण्यमत्याहारयमाणः, सौवीरश्चाजविन्दुः; मानात् रावणः परदारानप्रयच्छन्, दुर्योधनः राज्यादंशं च ;मदात् डम्भोद्भवः भूतावमानी, हैहयश्च अर्जुनः; हर्षात् वातापिः अगस्त्यमत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति। एते चान्ये च बहवः अजितेन्द्रियाः शत्रुषड्वर्गमाश्रिताः राजानः सबन्धुराष्ट्राः विनेशुः। शत्रुषड्वर्गमुत्सृज्य जितेन्द्रियौ जामदग्न्याम्बरीपौ तु चिरं महीं बुभुजाते। अतो विद्याविनयहेतुं इन्द्रियजयं अरिषड्वर्गत्यागेन कुर्वीत । वश्येन्द्रियश्च अधर्मसंयुक्तं अनर्थसंयुक्तं च व्यवहारं वर्जयेत्॥
मर्यादां स्थापयेत् आचार्यानमात्यान् वा—य एनं अपायस्थानेभ्यो वारयेयुः। पुरोहितमुदितोदितकुलशीलं षडङ्गे वेदे दैवे निमित्ते
१. विनयाधिकारिकम्
दण्डनीत्यां चाभिविनीतं आपदां दैवमानुषीणां प्रतिकर्तारं कुर्वीत। सहाध्यायिनो दृष्टशौचसामर्थ्यान् समानशीलव्यसनान् दृष्टगुणानुरागापदानान् नीतिविदो नवान् वा देशकालौ कर्म च विभज्यामात्यान्कुर्वीत। मन्त्रिणस्तु जानपदत्य दिविशेषगुणयुक्तान् परीक्ष्य कुर्वीत॥
एवं मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु अमात्यान्स्थापयित्वा धर्मार्थकामभयोपधाभिः शौचयेत्। शुद्धामात्यवर्गश्च कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्रितीक्ष्णरसदभिक्षुकीश्चगूढपुरुषान् उत्पादयेत्। तान् मन्त्री राजा चोत्साह्य ‘यस्य यदकुशलं पश्यथ तत्तदानीमेव प्रत्यादिशत’ इत्युक्ता अपसर्पयेताम्। एते च सत्तिसंस्थान्तवासिभिः राजोपजीविनां मन्त्रिप्रभृतीनां च चारसञ्चारं कारयेयुः । परेषु सम्पातचोरार्थं उभयवेतनाः कार्याः । स्वविषये कृत्यान् अकृत्यांश्च प्रधानान् क्षुद्रकानपि सत्तिभिः किंवदन्तीभिर्वा विदित्वाविचक्षणः परोपजापात् संरक्षेत् । परविषये च क्रुद्धभीतलुब्धमानिवर्गान् कृत्यानकृत्यांश्च उपजापनेन वशीकुर्यात्॥
एवं कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भांश्चिन्तयेत्। मन्त्रपूर्वास्सर्वारम्भाः । तदुद्देशः संवृतः कथानामनिःस्रावी पक्षिभिरप्यनालोक्यः स्यात्। श्रूयत हि शुक्रशारिकाभिः श्वभिरन्यैश्च तिर्यग्योनिभिः मन्त्रो भिन्नः इति। मन्त्रभेदो ह्ययोगक्षेमकरः इति रक्षेन्मन्त्रम्। देशकालकार्यानुगुणं एकेन द्वाभ्यां एको वा मन्त्रयेत। यथासामर्थ्यं मन्त्रिपरिषदं कुर्वीत, ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः॥
निर्धार्य मन्त्रं दूतान् प्रणिध्यात्। शासनहराश्च दूताः प्रश्नोत्तराण्यधीयानाः प्रविष्टपराधिष्ठानाः ज्ञाततदीयतुष्ट्यतुष्टयः नियतवृत्तयः उपायैरुपलब्धचाराश्चापसरेयुः॥
पूर्वं दारेभ्यः पुत्रेभ्यश्च तत आसन्नेभ्यः परेभ्यश्च रक्षितो राजा राज्यं रक्षति। सुपरिशोधितावरोधपरिशुद्धां देवीं यथाविधिपरिकल्पितान्तर्गृहगत एवं पश्येत्, न तु कांचिदभिगच्छेत्। देवीगृहे लीतो हि भ्राता भद्रसेनं जवान, मातुश्शय्यान्तर्गतश्च पुत्रः कारूशम्, लाजान्मधुनेति विषेण पर्यस्य देवी काशिराजम्, नूपुरेण वैरन्त्यम्, विषदिग्धेन मेखलामणिना सौवीरम्, जालूथमादर्शन,वेण्यां गूढं शस्त्रं कृत्वा देवी विडूरथं च जघान। तस्मादेतान्यास्पदानि परिहरेत्॥
पुत्राणां धर्ममर्थं चोपदिशेत्, अविनीतं सान्त्वयेत् त्रासयेत् भेदयेत् बध्नीयात् कर्मान्तेषु योजयेत् प्रवासयेद्वा। शयनयानासनभोजनादौ च यथाविधि निर्दुष्टपरिवारपरिवृतः आत्मवान् आसन्नपरबाधेभ्यः आत्मानं रक्षेत्॥
उत्थानं चात्मनः कुर्वीत। दिनयामिन्योः प्रविभागेन प्रजानामात्मीयानां आत्मनश्च हितानि कार्याणि पश्येत्॥
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्॥
____
२. द्वितीयमधिकरणम् – अध्यक्षप्रचारः.
१. जनपद विनिवेशः। २. भूमिच्छिद्रविधानम्। ३. दुर्गविधानम्। ४. दुर्गनिवेशः। ५. संनिधातृनिचयकर्म। ६. समाहर्तृसमुदयप्रस्थापनम्। ७. अक्षपटले गाणनिक्याधिकारः। ८. समुदयस्य युक्तापहृतस्य प्रत्यानयनम्। ९. उपयुक्तपरीक्षा। १०. शासनाधिकारः। ११.कोशप्रवेश्यरत्नपरीक्षा। १२. आकरकर्मान्तप्रवर्तनम्। १३. अक्षशालायां सुवर्णाध्यक्षः। १४. विशिखायां सौवर्णिकप्रचारः। १५. कोष्ठागाराध्यक्षः। १६. पण्याध्यक्षः। १७. कुप्याध्यक्षः। १८. अयुधागाराध्यक्षः। १९. तुलामानपौतवम्। २० देशकालमानम्। २१. शुल्काध्यक्षः। २२. सूत्राध्यक्षः। २३. सीताध्यक्षः २४. सुराध्यक्षः। २५. सूनाध्यक्षः। २६. गणिकाध्यक्षः। २७. नावध्यक्षः। २८. गोऽध्यक्षः। २९ अश्वाध्यक्षः। ३०. हस्त्यध्यक्षः। ३१. रथाध्यक्षः। ३२. पत्त्यध्यक्षः। ३३. सेनापतिप्रचारः। ३४. मुद्राध्यक्षः। ३५. विवीताध्यक्षः। ३६ समाहर्तृप्रचारः। ३७. गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः। ३८. नागरिकप्रणिधिः - इत्यष्टत्रिंशत् द्वितीयाधिकरणप्रकरणानि॥
स्थानीयादिपरिकर्मितं सारक्षिदुर्गपरिवृतं च ग्रामवृन्दं परिकल्प्य परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा जनपदं निवेशयेत्। जनपदान्ते चतुर्दिशं साम्परायिकाणि दैवौदकपार्वतधान्वनवन्यानि दुर्गाणि, मध्ये च सपरिखं सर्वप्रप्रकारादिकं स्थानीय पण्यपुटभेदनं च निवेशयेत् । दुर्गे च राजमार्गादिविभजनेन राजामात्यादिप्रकृतिभवनसंस्थानं निवेशयेत् । पुरमध्ये बहिश्च यथाव्यवस्थं देवालयं श्मशानं च कारयेत् ॥
कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत्। ब्रह्मदेयादीनि क्षेत्राणि परिकल्प्य दण्डविष्टिकराबाधादिभिः उपहतां कृषिं रक्षेत्। अकृष्यायां भूमौ विवीतब्रह्मसोमारण्यतपोवनमृगवनौषधिवनहस्तिवनानि कारयेत् ॥
सुगमान् वणिक्पथान् कल्पयेत्। अनाथान् बिभृयात्। धर्मबाह्याः नास्य जनपदमुपनिविशेरन्। व्ययक्रीडाः वारयेत्। अभिवृद्धिक्रियाश्च पूर्वकृताः रक्षेत्, नवांश्चाभिप्रवर्तयेत् । हस्त्यश्वरथपादातं चानेकमुख्यमवस्थापयेत् ॥
सन्निधाता यथाविधि कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहं आयुधागारं बन्धनागारं च कारयेत् तज्जातकरणाधिष्ठितश्च पुराणं नवं च रत्नं सारं फल्गु कुप्यं हिरण्यं धान्यं च प्रतिगृह्णीयात् । समाहर्ता दुर्ग राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत, आयव्ययशरीराणि तद्द्वाराणि च संचिन्तयेत् ॥
अध्यक्षः निबन्धपुस्तकस्थानं अक्षपटलं कारयेत् । तत्र अधिकरणसंख्यादीन् निबन्धेन प्रयच्छेत्। कर्मसंवत्सरादिप्रक्लृप्त्या कर्मसु तत्तज्जातिकं अध्यक्ष अपसर्पाधिष्ठितं प्रचारं च कुर्यात्। यथाकालं आयव्ययादिगणनाः पर्यवेक्षेत। कोशपूर्वास्सर्वारम्भा इति पूर्वं कोशमवेक्षेत । कोशवृद्धिक्षयापहरणद्वारेषु अप्रमत्तो भवेत् । कर्मसु नियुक्तानां सर्वाध्यक्षाणां नित्यं परीक्षां कारयेत्। कर्तारं करणं देशं कालं कार्यं प्रक्षेपमुदयं चैषु विद्यात्। ते यथासन्देशं असंहताः अवीगृहीताः संख्यायकलेखकरूपदर्शकनीवीग्राहकोत्तराध्यक्षसखाः कर्माणि कुर्युः। मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत्। बहुमुख्यमनित्यं चाधिकरणं स्थापयेत् । तत्र परीक्ष्य, राज्ञः प्रियहिते रताः न्यायस्थाः नित्याधिकाराः कार्याः ॥
सामाद्युपायप्रयोगैरनुष्ठेययोः सन्धिविग्रहयोः शासनमूलत्वात्, शासनार्थं आशुग्रन्थः चार्वक्षरः सर्वसमयवित् लेखनवाचनसमर्थः लेखकः स्यात्। स चाव्यग्रमनाः राज्ञः सन्देशं श्रुत्वा निश्चित्यार्थं समीक्ष्य कार्यं यथाविधि रमणीयान् प्रज्ञापनाज्ञापरिदानपरिहारनिसृष्टिप्रावृत्तिकप्रतिलेखसर्वत्रगान् लेखान् विदध्यात् ॥
कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गु कुष्यं वा तत्तत्प्रमाणमूल्यलक्षणजातिरूपनिधाननवकर्मपुराणप्रतिसंस्कारकर्मगुह्योपस्कर देशकालपरिभोगहिंस्रप्रतिक्रियादिपरिज्ञानेन तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात् ॥
आकाराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिसारज्ञः आकरान्परीक्ष्य तेभ्यः धातुं पण्यं मूल्यं विभागं व्याज परिघमत्ययं शुल्कं वैधरणं दण्डं रूपं रूपिकं च समुत्पादयेत्। सर्वेषु पण्येषु मुखसंग्रहं स्थापयेत्॥
सुवर्णाध्यक्षः विविधसुवर्णरजतक्रर्मान्तानां अक्षशालां, विशिखामध्ये प्रात्ययिकंशिल्पवन्तं अभिजात सौवर्णिकं च स्थापयेत्। सौवर्णिकःपौरजानपदानां रूप्यसुवर्णं आवेशनिभिः निर्दिष्टकालकार्यं कारयेत्। घनसुषिरादीनि षट् कारुकर्माणि, तुलाविषमादीन् षड्विंशतिहरणोपायांश्च पर्यवेक्षेत ॥
कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकसिंहनिकान्यजातव्ययप्रत्यायोपस्थानान्युपलभेत। धान्यस्नेहक्षारलवणमधुशुक्लफलाम्लद्रवाम्लकटुकशाकवर्गान् तत्संस्कारव्यवस्थिततदुपयोगादिपरिज्ञानेन॥
पण्याव्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथोपतानां सारफल्ग्वर्घान्तरं प्रियाप्रियतां विपसंक्षेपक्रयविक्रयप्रयोगकालान् राजोपदाः मूल्यं उदयं लाभं रक्षणविधाश्च विद्यात् परिकलायेच्च, वारिपथे च यानभाटकादीनि लाभालाभौ च परिशील्य व्यवहरेत् ॥
कुप्याध्यक्षः द्रव्यवनपालैः सारदारुवेणुवल्कपत्रपुष्पौषधिविषचर्मादीन् आनाययेत् ; द्रव्यवनकर्मान्तांश्च प्रयोजयेत् ॥
आयुधागाराध्यक्षः सांग्रामिकं दौर्गकर्मिकंपरपुरघातिकं चक्रयन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिःकृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्। स्वभूमौ स्थापनेन तानि रक्षेत्। कुप्यायुधकर्मान्तानां इच्छारम्भनिष्पत्तिप्रयोगव्याजोद्दयक्षयव्ययान् जानीयात्॥
पौतवाध्यक्षः तुलानां प्रस्थादिमानानां च स्वरूपादीन् परिज्ञाय अकृतान् कारयेत् कृतान् परिशोधयेच्च॥
मानाध्यक्षः देशकालानां मानानि विद्यात्॥
शुल्काध्यक्षः शुल्कशालां ध्वजं च महाद्वाराभ्याशे निवेशयेत्। शुल्कादायिनः चत्वारः पञ्च वा सार्थोपयातान् वणिजो लिखेयुः— ‘ के? कुतस्त्याः? कियत्पण्याः? क्व चाभिज्ञानमुद्रा वा कृताः? इत्यादि। नवपुराणानां च पण्यानां बाह्यमाभ्यन्तरं चातिथ्यं निष्काम्यं प्रवेश्यं शुल्कं च, अरकारतः अत्ययं च देशकालचरित्रतः व्यवस्थापयेत्॥
सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः तज्जातपुरुषैःकारुभिश्च कारयेत्। ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभिः रूपाजीवामातृकाभिः वृद्धराजदासीभिः व्युपरतोगस्थानदेवदासीभिश्च कर्तयेत्॥
सीताध्यक्षः कृषितन्त्रगुल्मशुल्बवृक्षायुर्वेदज्ञःतज्ज्ञसखो वा परिज्ञातसंवत्सरवृष्ट्यादिलक्षणप्रमाणादिः सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासानि बीजानि दासकर्मकरदण्डप्रतिकर्तृभिः तत्तद्नुगुणदेशकालेषु ससंस्कारं सकीटाद्युपद्रवप्रतीकार च यथाविधि वापयेत् परिवर्धयेच्च। यथाकालं च निष्पन्नं सस्यादि कोशं प्रवेशयेत्, न तु पलालमपि क्षेत्रे स्थापयेत्। प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवं आग्रयणार्थं च श्रोत्रियतपस्विनः, राशिमूलं उञ्छवृत्तयश्च हरेयुः॥
सुराध्यक्षः सुराकिण्वसन्धानविक्रयादिव्यवहारान् चोरसाहसिकाद्युपलम्भसाधनान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेत्। ग्रामादनिर्णयनं असम्पातं च सुरायाः स्थापयेत्।कुटुम्बिनः कृत्येषु श्वेतसुरां औषधार्थंवाअरिष्टमन्यदन्यद्वा कर्तुंयथोक्तप्रमाणं लभेरन्। सुराकिण्वविचयं स्त्रियः बालाश्च कुर्युः॥
सूनाध्यक्षः प्रदिष्टाभयान् अभयवनवासिनश्च वैहारिकान् मङ्गल्यान् अवध्यांश्च मृगपक्षिमत्स्यान् वधबन्धहिंसाबाधेभ्यः रक्षेत्। वध्यानां च सद्योहतं मांस विक्रीणीरन्। परिसूनं अशिरः पादास्थि विगन्धं स्वयंमृतं च न विक्रीणीरन्॥
गणिकाध्यक्षः गणिकान्वयां अगणिकान्वयां वा रूपयौवनशिल्पसंपन्नां गणिकां प्रतिगणिकां च स्थापयेत्।भोगं दायं आयव्ययं आयतिं च तस्याः स्थापयेत्।गणिकामकामां रुन्धतः निष्पातयतो वा, व्रणविदारणेन रूपं उपघ्नतो वा दण्डं स्थापयेत्। राजाज्ञया पुरुष मनभिगच्छन्ती गणिका शिफासहस्रं लभेत। गीतवाद्यादिकलाः गणिकादीन् ग्राहयतां राजमण्डलादाजीवं कल्पयेत्॥
नावध्यक्षः समुद्रसंयाननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत। शासक नियामकदात्ररश्मिग्राहकोत्सेचकाधिष्ठिताश्च नावः देशकालद्रव्याद्यनुगुणशुल्कतरपण्यादिपरिक्लृप्त्या सनियन्त्रणं प्रवर्तयेत्॥
गोऽध्यक्षः वेतनोपग्राहिकं करप्रतिकरं भग्नोत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसंजातं चोपलभेत गवादीनां हन्तृृन् घातयितॄन् हर्न्तृृन् हारयितृृंश्च वध्यात्। बालवृद्धव्याधितानां गवां गोपालकाः प्रतिकुर्युः। लुब्धकश्वगाणिभिरपास्तस्तेनव्यालपरबाधभयं ऋतुविभक्तं अरण्यं चारयेयुः। सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यंच बध्नीयुः। वर्षशरद्धेमन्तान् उभयकालं, शिशिरवसन्तग्रीष्मान् एककालं च दुह्युः॥
अश्वाध्यक्षः अश्वविभवेनायतायां चतुर्द्वारोपावर्तनमध्यायां सप्रमग्रीवायां प्रद्वारासनफलकयुक्तायां वानरमयूरपृषतनकुलचकोरशुकशारिकाभिराकीर्णायां शालायां, पण्यागारिकान् क्रयोपागतान् आहवलब्धान् अजातान् साहाय्यकागतान् पणस्थितान् अन्यांश्चाश्वान् प्रमाणकुलवयोवर्णचिह्नकर्मवर्गागमलेखनेन यथाविधि तत्तद्भेदोचिताहारव्यवहारोपचार नियोजनचिकित्साद्यनुकूलपरिवारपरिवृतान् रक्षेत् ॥
हस्त्यध्यक्षः हस्तिवनरक्षां, दस्यकर्मशान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धनोपकरणं साङ्ग्रामिकमलङ्कारं चिकित्सकानीकस्थोपस्थायुकवर्गंच व्यवस्थापयेत्॥
रथाध्यक्षः रथकर्मान्तान् कारयेत्॥
पत्यध्यक्षः मौलभृतश्रेणिमित्रांमित्राटवीबलानां सारफल्गुतां कर्मस्वायोगमयोगं च विद्यात्॥
सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतः हस्त्यश्वरथचर्यासंधुष्टः चतुरङ्गस्य बलस्य अनुष्ठानाधिष्ठानं विद्यात्॥
मुद्राध्यक्षः मुद्रां माषकेण दद्यात्॥
** **विवीताध्यक्षः विमार्गेण चरतां मुद्रां पश्येत्। चोरव्यालभयात् निम्नारण्यानि शोधयेत्। अनुदके कूपसेतुबन्धोत्सान् स्थापयेत् पुष्पवाटफलांश्च॥
समाहर्ता जनपदं विभज्य ग्रामाग्रंपरिहारकं आयुधीयं धान्यपशुहिरण्यविष्टिप्रतिकरं च इदमेतावदिति व्यवस्थापयेत्।गृहपतिकवैदेहकतापसव्यञ्जनैः प्रणिधिभिः ग्रामेषु सर्वविधं चारप्रचारं कारयेत्। गूढांश्च विषयान् विद्यात्॥
नागरिकश्च नगरं चिन्तयेत्। धर्मशालादेवालयादिषु नियुक्ताः पथिकोत्पथिकान् अन्यांश्च अधिकारिभ्यो निवेद्यैव तत्र तत्र वासयेयुः। रात्रिभयं अग्निभयं रथ्याकलुषीकरणं शवविषये नियमातिक्रमं आरक्षिणां अत्याचारं च वारयेत्। कारागृहबद्धेषु बालवृद्धव्याधितानाथान् जातनक्षत्रपौर्णमासीषु, अन्यांश्च अपूर्वदेशाधिगमे युवराज्याभिषेचने राशः पुत्रजन्मनि च मोचयेत्॥
अपराधं सहेताल्पं तुष्येदल्पेपि चोदये।
महोपकारांश्चाध्यक्षान् प्रग्रहेणाभिपूजयेत्॥
-
*
तृतीयमधिकरणम्—धर्मस्थीयम्.
१. व्यवहारस्थापना।२ विवादपदनिबन्धः।३. विवाहसंयुक्तम्। ४. दायविभागः। ५. वास्तुकम्। ६. समयस्यानपाकर्म। ७. ऋणादानम्। ८. औपनिधिकम्। ९. दासकर्मकरकल्पः।१०. सम्भूयसमुत्थानम्। ११. विक्रीतक्रीतानुशयः। १२. दत्तस्यानपाकर्म। १३. अस्वामिविक्रयः। १४. स्वस्वामिसम्बन्धः। १५. साहसम्। १६. वाक्पारुष्यम्। १७. दण्डपारुष्यम्। १८. द्यूतसमाह्वयम्। १९. प्रकीर्णकानि—इत्येकोनविंशतिः तृतीयाधिकरणप्रकरणानि॥
धर्मस्थाः त्रयस्त्रयोऽमात्याः जनपदसन्धिसंग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकानर्थान् कुर्युः। तिरोहितान्तरगारनक्तारण्योपध्युपह्वरकृतान् व्यवहारान् सिद्ध्यसिद्धी परिशील्य प्रतिषेधयेयुः। विवादेपु संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं, वेदकावेदकयोः कृतसमर्थावस्थयोःदेशग्रामजातिगोत्रनामकर्माणि चाभिविलिख्य वादिप्रतिवादिप्रश्नान् अर्थानुपूर्व्या निवेश्यावेचेत। सहेतुविमर्शंजयपराजयेषु धार्मिकान् निग्रहानुग्रहान् व्यवस्थापयेत्॥
विवाहपूर्वो व्यवहारः। ब्राह्मप्राजापत्यार्षदैवगान्धर्वासुरराक्षसपैशाचाः अष्टौ विवाह भेदाः। पितृप्रमाणाः चत्वारः पूर्वे धर्म्याः मातापितृप्रमाणाः शेषाः, वृत्तिराबन्ध्यं वा स्त्रीधनम्। धर्मकामायाः कुटुम्बकामाया वा स्त्रियाः सधवायाः विधवायाः सपुत्रायाः अपुत्रायाः वा धनं यथाविधि व्यवस्थापयेत्। अपुत्रां स्त्रियं यथाकालं निरिक्ष्य पुत्रार्थी द्वितीयां वृत्तिपरिकल्पनेन बह्वीरपि वा विन्देत।नीचत्वं गतः परदेशं प्रस्थितः राजकिल्बिषी प्राणाभिहन्ता क्लीबः पतितो वा पतिरपि त्याज्य एव॥
द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति, षोडपवर्षश्च पुमान्। भर्मण्यायाः स्त्रियाः यथापुरुषपरिवापं ग्रासाच्छादनानि दद्यात्। वाग्दण्डपारुष्याभ्यां विनयं ग्राहयेत्। दम्पत्योः परस्परं द्वेषे तु मोक्षं कारयेत्। अमोक्षो धर्मविवाहानाम्। अतिचारं निषिद्धोपकारं च वारयेत्। स्त्रियाः पतिकुलान्निष्पतने, निष्पतितायाः पथ्यनुसरणेच हेतुभिः दोषादौषौ व्यवस्थाप्य दण्डं विदध्यात्। हस्वदीर्घप्रवासिपतिनिरीक्षणकालेयत्तां परिकल्प्य तदनु तस्याः गतिंव्यवस्थापयेत्॥
पितृमन्तः पुत्राः अनीश्वराः। तेषां प्राप्तव्यवहाराणां ऊर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम्। स्वयमार्जितमविभाज्यं अन्यत्र पितृद्रव्यात्थितेभ्यः। अप्राप्तव्यवहाराणां धनं तु ग्रामवृद्धेषु मातृबन्धुषु वा स्थापयेत्। ऋणरिक्थयोः समो विभागः। पतितजडोन्मत्तान्धकुष्ठितस्त्वनंशाः। अपुत्रस्य द्रव्यं भ्रातरः सहजीविनः कन्या वा हरेयुः। मानुषोचिताः मानुषहीनाश्चैकबहुसवर्णासवर्ण स्त्रीपुत्राः सङ्करजातीयपुत्राः चातुर्वर्ण्यपुत्राः यमला भगिन्यश्च ज्यैष्ठ्यादिक्रमेण चतुष्पदामन्येषां च द्रव्याणां यथोक्तं अंशंहरेगुः। औरसः पुत्रिकापुत्रः क्षेत्रजः गूढजः अपविद्धः कानीनः सहोढः पौनर्भवः इति, दत्तः उपगतः कृतकः क्रीतः इति च पुत्रभेदाः। ब्राह्मणक्षत्रिययोरनन्तराः पुत्राः सवर्णाः, एकान्तराः असवर्णाः। एष्वेव अनुलोमाः प्रतिलोमाः अन्तरालाश्च जातयः। एवं देशजातिसङ्घधर्मोचितं दायं परिकल्पयेत्॥
सामन्तप्रत्ययाः वास्तुविवादाः।गृहं क्षेत्रं आरामः सेतुबन्धः तटाकं आधारो वा वास्तुः। अनुगृहं सेतुं अवस्करं भ्रमं उदपानं चक्रिचतुष्पदस्थानं अग्निष्ठं उदञ्जरस्थानं रोचनींकुट्टनीं आणद्वारं वातायनादिकं च कारयेत्। सामान्ये वेश्मनि सार्वजनिकं साहाय्यं परिकल्पयेत्। वास्तुविचिर्कीषायां ज्ञातिसामन्तधनिकाः बाह्या वा भूमिपरिग्रहान् यथाविधि केतुं अभ्याभवयुः। सीमाविवादं सामन्ता पञ्चग्रामी दशग्रामी वा निर्णयत्। क्षेत्रविवादं तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादांश्च सामन्तग्रामवृद्धानिर्णयेयुः॥
विवीतस्थलकेदारपण्डखलवेश्मवाहनकोष्ठानां पूर्वंपूर्वमाबाधं सहेत। देशहितान् सीमाबन्धान् पथि सङ्कमान् ग्रामशोभाः रक्षाश्च कुर्वतां सामयिकानां प्रियहितं चरेत्। धनधान्यानां ऋणप्रयोग वृद्ध्यंशं प्रतिनिवर्तनकालं कर्तारं साधनक्रमं साक्षिपरिशोधनं च सुव्यवस्थितं कारयेत्। औपनिधिकं साक्षिमदच्छन्नं सम्यग्विभाषितं देशकालाग्रवर्णतः कुर्यात्। आपदि आर्याणामन्येषां वा गर्भदासकर्मकराणां आधाने विक्रये च क्रियमाणे वर्णाद्यानुगुण्येन भरणवेतनदाननिष्क्रयमोक्षादिव्यवस्थां कारयेत्। अनृजून् दण्डयेत्॥
सङ्घ्रीभूताः सम्भूयसमुत्थातारो याजका वा यथासम्भाषितं समं वा वेतनं विभजेरन्। पण्यं विक्रीय अप्रयच्छतः, क्रीत्वा वा अप्रतिगृह्णतः दण्डयेत्—अन्यत्र दोषोपनिपाताविषह्येभ्यः। दाने क्रये वा यथा उभावपि नोपहृतौ स्यातां तथा अनुशयं सभासदः कुशलाः कल्पयेयुः। अस्वामिविक्रयं स्वस्वामिसंबन्धं च विचार्य व्यवस्थापयेत्॥
वृथाऽऽचारान् वारयेत्। साहसं - अन्वयवत्प्रसभकर्म, तत्र द्रव्यानुरूपं दण्डं विदध्यात्। उपवादः कुत्सनं अभिभर्त्सनमिति वाक्पारुष्यम्, स्पर्शनमवगूर्णनं प्रहतमिति दण्डपारुष्यम्। तेषां देशकालविषयसाधनाद्यानुगुण्येन दण्डं विदध्यात्। नास्त्यपकारिणो मोक्षः। द्यूतं समाह्वयं चैकमुखं व्यवस्थापयेत् गूढाजीविज्ञापनार्थम्॥
दुष्टानां यथादोषं दण्डं विदध्यात्। तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाध्वक्लान्तः तिरोजनपदः दण्डखेदी निष्किंचनश्चानुग्राह्याः। विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः पूज्याः॥
एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः।
समाः सर्वेषु भावेषु विश्वास्याः लोकसंप्रियाः॥
४. चतुर्थमधिकरणम्—कण्टकशोधनम्.
१. कारुकरक्षणम्। २. वैदेहकरक्षणम्. ३. उपनिपातप्रतीकारः। ४. गूढाजीविनां रक्षा। ५. सिद्धव्यञ्जनैर्माणवप्रकाशनम्। ६. शङ्कारूपकर्मामिग्रहः। ७. आशुमृतकपरीक्षा। ८. वाक्यकर्मानुयोगः। ९. सर्वाधिकरणरक्षणम्। १०. एकाङ्गवधनिष्क्रयः। ११. शुद्धश्चित्रश्च दण्डकल्पः। १२. कन्याप्रकर्म। १३. अतिचारदण्डः—इति त्रयोदश चतुर्थाधिकरणप्रकरणानि॥
प्रदेष्टारः त्रयस्त्रयो वा अमात्याः कण्टकशोधनं कुर्युः। अर्थ्यप्रकाराः कारुशासितारः सन्निक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणाः निक्षेपं गृह्णीयुः। निर्दिष्टदेशकालकार्य च कर्म कुर्युः। कालातिपातनं कार्यस्यान्यथाकरणं नाशं विनाशं च वारयेयुः। तन्तुवायानां वानवेतनव्यवस्थापनेन वृद्धिच्छेदंमानहीनं तुलाहीनं सूत्रपरिवर्तनं च वारयेयुः। रजकाः काष्ठफलकश्लक्ष्णशिलास्वेव वस्त्रंनेनिज्युः।रजकानां तुन्नवायानां सुवर्णकाराणां च प्रत्यर्पणकालावधिं वेतनं नष्टदानं क्रयशुद्धिं च व्यवस्थापयेयुः। रूपदर्शकस्य पणयात्रां न प्रकोपयेत्। कूटरूपकरणं रत्नापहारं च प्रतिषेधयेत्। खनिरत्ननिधिनिवेदकान् मानयेत्।भिषजः प्राणाबाधिकं आख्याय रोगिणः चिकित्सेरन्। कुशीलवाः चारणाः भिक्षुकाश्च नियतवृत्तयः वसेयुः॥
संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरविशुद्धानां आधानं विक्रयं वा व्यवस्थापयेत्।तुलामानदण्डानि चावेक्षेत पौतवापाचारात्। पण्येषु अजात्यं जात्यमिति, असारं सारमिति, अतज्जातं तज्जातमिति चोक्त्वाराढायुक्तानां उपधियुक्तानां परिवर्तितसमुद्गानां च विक्रयाधानकरणं, तुलामानयोः वैषम्यं, सम्भूय कर्मगुणापकर्षाजीवविक्रयक्रयोपघातानां समुत्थापनं, पण्यावरोधं, हीनक्रयविक्रयं, तुलामानान्तरं, अर्धवर्णान्तरं, समवर्णोपधानं, अर्धवर्धनंच वारयेत्। एवं अनोराख्यांश्चोरान् वणिक्कारुकुशीलवान् भिक्षुकान् अन्यांश्च कुहकान् देशपीडनाद्वारयेत्। सर्वत्र च प्रजानामनुग्रहेण व्यवहरेत्॥
दैवान्यष्टौ महाभयानि—अग्निः उदकं व्याधिः दुर्भिक्षं मूषिकाः व्यालाः सर्पाः रक्षांसीति। तैस्तैरुपकरणैः मायायोगविदां सिद्धतापसादीनां साहाय्येन च आभ्यः आपद्भ्यः प्रजाः रक्षेत्॥
समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्ररचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिक मौहूर्तिकचिकित्सकोन्मत्तमूकबधिरजडान्धवैदेहककारुशिल्पिकुशीलववेशशौण्डिकापूपिकपक्वमांसिकौदनिकव्यञ्जनैः सत्रिभिः अन्यैश्च धर्मस्थान् प्रदेष्टृन् ग्राममुख्यान् अध्यक्षांश्चोपदाग्राहकान् उत्कोचकान् कूटसाक्षिणःकूटश्रावणकारकान् संवननकारकान् कृत्याभिचारशीलान् रसदान् मदनयोगव्यवहारिणः कूटरूपकारकान् रागापहर्तृृन् कूटसुवर्णव्यवहारिणश्च परिशोधयेत्॥
सिद्धव्यञ्जनाः माणवाः प्रतिरोधकान् पारतल्पिकांश्च माणवविद्याभिः प्रलोभ्य तद्नु प्रवृत्तांस्तान् पुराणचोरव्यञ्जनादिसाहाय्येन ग्राहयेयुः। गृहीतांश्च पौरजानपदानां पुरतः आनाय्य राजा चोरजारग्रहणीं विद्यामधीते, तस्योपदेशादिमे चोराः जाराश्च गृहीता; भूयश्च ग्रहीष्यामि, वातिव्यो वः स्वजनः पापाचारः इत्युद्धोषयेत्। एवं शङ्काभिः विलोर्प्तैर्वस्तुभिः तैस्तैः कर्मभिश्च चोरान् पारद्वारिकांश्च विद्युः॥
आशुमृतकान् परीक्ष्य तैस्तैश्चिह्वैःपीडननिरुद्धोच्छ्वासहतान् उद्बन्धहतान् अवरोपितान् उदकहतान् काष्ठरश्मिहतान् अवक्षिप्तान् विषहतान् सर्पकीटहनान् मदनयोगहतान् दण्डभयादुद्बन्धनिकृत्तकण्ठान् हन्तॄन् वा विद्युः। परीक्ष्य घातं घातुकानन्विष्य दण्डयेत्। आत्मघातिनां प्रेतकार्यक्रियाविधिं प्रतिषेधयेत्॥
शङ्कयाभिगृहीतांश्च चोरजारादीन् वाक्यैः कर्मभिश्च सम्यगनुयुञ्जीत। दृश्यते ह्यत्रोरोऽपि कर्मक्लेशादिभयात् चोरोऽस्मीति ब्रुवाणः ! यथा माण्डव्यः। मन्दापराधंबालं वृद्धं व्याधितं मत्तमुन्मत्तं क्षुत्पिपासाध्वक्लान्तं अत्याशितं आमकाशितं दुर्बलं स्त्रियं गर्भिणीं सूतिकां मासावरप्रजातां वा आप्तदोषानपि न कर्म कारयेत्॥
व्यावहारिकाणां पापकर्मिणां च द्वाविंशतिदण्डकर्मणां यथा-खरपट्टं उपकरणप्रमाणप्रहरणप्रधारणावधारणान्यागमय्य दिवसान्तरं एकैकं समस्तं व्यस्तं अभ्यस्तं वा कर्म दुष्टान् कारयेत्। ब्राह्मणस्तु सर्वापराधेष्वपीडनीयः॥
समाहर्तृप्रदेष्टारः पूर्वंअध्यक्षाणां अध्यक्षपुरुषाणां च नियमनं कुर्युः। अर्थचरांश्च राजा दण्डेन शोधयेत्। ते च शुद्धाः पौरजानपदान् दमैः शोधयेयुः। प्रदेष्टा राज्ञः प्रकृतीनां चान्तरा स्थितः पुरुषं अपराधं कारणं गुरुलाघवं अनुबन्धं देशकालौ च समीक्ष्यदण्डकर्माणि उत्तमावरमध्यमान् परिकल्प्य तदनुगुणं शुद्धं चित्रं च दण्डं विदध्यात्॥
सवर्णांप्राप्ताप्राप्तफलां सकामामकामां अवरुद्धां कुमारीमकुमारींवा कन्यां प्रकुर्वतः अपहरतः विपर्यस्यतः सान्यशोणितां कुर्वतः संगृह्णतो वा धूर्तान् दण्डयेत्। दुर्गतां स्त्रिंय तु परोऽपि यथासम्भाषितं उपभुञ्जीत॥
अभक्ष्यग्रसनग्रासने, परगृहाभिगमनं, परिवार्यारोहणं, ग्रामारामवाटभेदनं मुषितप्रवासनं, जीर्णगृहाद्य समीकरणवृक्षादिच्छेदनादिनिमित्तपरहिंसां, हस्त्यादिना घातनं, पशुहिंसां, अगम्यागमनं, अयोनितिर्यग्योन्योर्गमनं च समीक्ष्य वारयेत्। अदण्ड्यांस्तु नैव दण्डयेत्॥
प्रजासंरक्षणं धर्मो धार्मिकस्य महीभृतः।
तस्मादसाधून् धर्माय निघ्नन् दोषैर्न लिप्यते॥
-
*
५. पञ्चममधिकरणम्—योगवृत्तम् .
१. दाण्डकर्मिकम्। २. कोशाभिसंहरणम्। ३. भृत्यभरणीयम्। ४. अनुजीविवृत्तम्। ५. सामयाचारिकम्। ६. राज्यप्रतिसन्धानम्। एकैश्वर्यम्—इति सप्त पञ्चमाधिकरणप्रकरणानि॥
दुर्गराष्ट्रयोः कण्टकशोधनमुक्तम्, राजराज्ययोर्वक्ष्यामः। राजानमवगृह्योपजीविनः शत्रुसाधारणा वा ये मुख्याः तेषु गूढपुरुषप्रणिधिः कृत्यपक्षोपग्रहो वा सिद्धिः। राज्योपघातिनस्तु वल्लभास्संहता वा ये मुख्याः प्रकाशमशक्याः प्रतिषेद्धुं दूष्याः, तेषु धर्मरुचिः यथोक्तान् उपांशुदण्डान् प्रयुञ्जीत। अभिचारशीलान् दूष्यान् रसेन लोहमुसलेर्वा घातयेत्। उभयदूष्यप्रतिषेधश्च कार्यः। तेषां पुत्रेषु अनुक्षिपत्सु यो निर्विकारः सः पितृदायं लभेत॥
कोशमकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात्। यथासारं जनपदं धान्यं याचेत। निविशमानाय धान्यपशुहिरण्यादिसाहाय्यकं दद्यात्। अरण्यजातं श्रोत्रियस्वं च परिहरेत्। यथाकालमुद्वापं कारयेत्। हरितपक्वादानं वारयेत्, अन्यत्र देवपितृदानार्थंगवार्थं वा। भिक्षुकग्रामभृतकार्थं राशिमूलं परिहरेत्। कर्षकेषु व्यवहारिषु योनिपोषकेषु च प्रणयेन उपायान्तरैर्वा धान्यसुवर्णादीन् पशूंश्च संगृह्णीयात्। दृष्येष्वधार्मिकेषु च यथोक्तान्यतिसन्धानान्याचरेत्। आरामात् पक्वंपक्वंफलमिव, राज्यादपि कोपकारकं आमं वर्जयित्वा पक्वंफलमाप्नुयात्॥
दुर्गजनपदशक्त्याभृत्यकर्म समुदायपादेन स्थापयेत्। कार्यसाधनसहेन वा भृत्यलाभेन शरीरमवेक्षेत। न धर्माथौ पीडयेत्। तत्तद्वेतनाध्यक्षनियोजनेन विद्याकर्माद्यनुगुणभक्तवेतनक्लृप्त्याविविधान् अधिकारिणः कर्मसु नियोजयेत्। कर्मसु मृतानां पुत्रदाराः भक्तवेतनं लभेरन्, तेषां बालवृद्धव्याधिताश्चानुग्रहम्। पत्त्यश्वरथद्विपेषु नित्ययुक्तो राजा तान् शिल्पयोग्यान् कारयेत्। आयुधीयानां शौचं सत्रिणः वेश्याः कारुकुशीलवाः दण्डवृद्धाश्च अतन्द्रिताः जानीयुः॥
लोकयात्रावित् आत्मद्रव्यप्रकृतिसम्पन्नं राजानं प्रियहितद्वारेणाश्रयेत। तत्र द्रव्यप्रकृतिहीनमध्याश्रयेत, न त्वेवानात्मसम्पन्नम्। अनात्मवान् हि नीतिशास्त्र विद्वेषात् अनर्थ्यसंयोगाद्वा प्राण्यापि महदैश्वर्यंन भवति। आत्मवति लब्धावकाशश्च शास्त्रानुयोगं दद्यात्। मतिकर्मसु पृष्टः तदात्वे आयत्यां च धर्मार्थसंयुक्तं समर्थं अपरिषद्भीरुः कथयेत्। ईप्सितश्च उभयरक्षां पणेत। दुर्व्यवहारान् अत्यन्तं वर्जयेत्। नियमान् पालयेत्। राजोपजीविनां हि वृत्तिः अग्नौ वृत्तिरिव। अग्निरपि शरीरमेकदेश वा दहेत्, राजा तु सपुत्रदारं घातयत् वर्धयेत वा। नियुक्तः कर्मसु व्ययविशुद्धमुदयं दर्शयेत्। आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यंइदमेवमिति विशेषयेत्। इङ्गिताकाराभ्यां प्रसादकोपौ परिज्ञाय अनुवर्तेत । वृत्तिविकारं चावेक्षताप्यमानुषाणाम्। अयमुश्चैः सिञ्चतीति हि कात्यायनः प्रवव्राज, क्रौञ्चोऽपसव्यमिति कणिङ्को भारद्वाजः, तृणमिति दीर्घश्चारायणः, शीता शाटीति घोटमुखः; हस्ती प्रत्यौकक्षीदिति किञ्जल्कः, रथाश्वं प्राशंसीदिति पिशुनः, प्रतिरवणे शुन इति पिशुनपुत्रश्चेति। अर्थमानावेक्षेपे च तं परित्यजेत्, स्वामिशीलमात्मनश्च किल्बिषमुपलभ्य प्रतिकुर्वीत वा॥
राजव्यसनमामात्यः प्रतिकुर्वीत।राशोऽस्वस्थतादशायां तु प्रागेवमरणबाधभयात् यथोक्ताः व्यवस्थाः स्वपरराष्ट्रयोः कारयितव्याः।राशि मृते तु कुमारं अभिषिक्तं दर्शयेत्, युवराजे वा राज्यभारमारोपयेत्, कुमारमभिषिच्य प्रतिव्यूहेत वा। एवमापत्प्रतीकारं कुर्यात्। राजपुत्रं आत्मसम्पन्नं राज्ये स्थापयेत्। सम्पन्नाभावे कुमारस्य विनयकर्मणि प्रयतेत। कन्यायां वा समानजातीयादपत्यमुत्पाद्याभिषिञ्चेत्॥
सिद्धव्यञ्जनरूपो वा योगमास्थाय पार्थिवम्।
लभेत, लब्ध्वा दूष्येषु दाण्डकार्मिकमाचरेत्॥
६. षष्ठमधिकरणम् मण्डलयोनिः.
१. प्रकृतिसम्पदः। २. शमव्यायामिकम्—इति द्वे षष्ठाधिकरणप्रकरणे।
स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः। स्वाम्यादयश्च यथोक्ततत्तदसाधारणसम्पद्गुणैर्युक्ता एव भवेयुः। आत्मसम्पद्गुणयुक्तश्च राजा असम्पन्ना अपि प्रकृतीः सम्पादयति। अनात्मवांस्तु विवृद्धाः अनुरक्ताः अपि प्रकृतीः हन्ति, हन्यते वा प्रकृतिभिः, द्विषतां वशं वा याति। द्विषन्तश्च यथोक्तामित्रसम्पदा युक्ताः सुखसमुच्छेद्या भवन्ति॥
शमव्यायामौ योगक्षेमयोर्योनिः। कर्मारम्भाणां योगाराधनो व्यायामः। कर्मफलोपभोगनां क्षेमाराधनः शमः। शमव्यायामयोः योनिः षाड्गुण्यम्। क्षयः स्थानं वृद्धिरित्युदयास्तस्य। उदयानां प्रापकं च कर्म द्विरूपम्—मानुषं दैवमिति। मानुषं नयापनयौ, दैवमयानयौ। दृष्टकारितं मानुषं, तस्मिन् योगक्षेमनिष्पत्तिः नयः, विपत्तिरपनयः, तत् चिन्त्यम्। अदृष्टकारितं दैवम्, तस्मिन् इष्टेन फलेन योगः अयः, अनिष्टेनानयः तदचिन्त्यम्॥
विजिगीष्वरिमध्यमोदासीनाख्यं चतुरवयवं मण्डलम्। राजा आत्मद्रव्यप्रकृतिसम्पन्नः नयस्याधिष्ठानं विजिगीषुः। अरिसम्पद्युक्तःसामन्तः शत्रुः।अरिविजिगोष्वोर्भूम्यनन्तरः संहतासंहतयोरनुग्रहसमर्थः निग्रहे चासंहतयोर्मध्यमः। अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानामरिविजिगीषुमध्यानां अनुग्रहे समर्थः निग्रहे च संहितानां उदासीनः। एतेषां प्रत्येकं आत्मा तन्मित्रं तन्मित्रमित्रं चेति तिस्रः प्रकृतयः। ताश्च एकैकशः अमात्यजनपददुर्गकोशदण्डैः द्रव्यप्रकृतिभिः संयुक्ताः आहत्य द्विसप्ततिः मण्डलभेदाः भवन्ति।
शक्ति सिद्धिं च घटेतात्मन्यावेशयितुम्। बलं शक्तिः, सुखं सिद्धिः।उभे अपि मन्त्रप्रभूत्साहभेदेन प्रत्येकं त्रिविधे। ताभिः अभ्युच्चितः ज्यायान् अपचितः हीनः, तुल्यः समः। कालविशेषेषु कुगली अमित्रस्यापि शक्ति सिद्धिं चेच्छेत्॥
रोचते सर्वभूतेभ्यः शशीवाखण्डमण्डलः।
विजिगीषुर्भवेत्तस्मात् शुद्धसम्पूर्णमण्डलः॥
अष्टशाखं चतुर्मूलं षष्टिपत्रं द्वये स्थितम्।
षट्पुष्पं त्रिफलं वृक्षं यो जानाति सनीतिवित्॥
७. सप्तममधिकरणम् – षाड्गुण्यम्.
१. षाड्गुण्यसमुद्देशः। २. क्षयस्थानवृद्धिनिश्चयः। ३. संश्रयवृत्तिः। ४. समहीनज्यायसां गुणाभिनिवेशः। ५. हीनसन्धयः। ६. विगृह्यासनम्। ७. सन्धायासनम्। ८. विगृह्ययानम्। सन्धाययानम्। १० सम्भूयप्रयाणम्। १५. यातव्यामित्रयोरभिग्रहचिन्ता। १२. क्षयलोभविरागहेतवः प्रकृतीनाम्। १३. सामवायिकविपरिमर्शः। १४. संहितप्रयाणिकम्। १५. परिपणितापरिपणितापसृताश्च सन्धयः। १६. द्वैधीभाविकास्सन्धिविक्रमाः। १७. यातव्यवृत्तिः। १८. अनुग्राह्यमित्रविशेषाः। १९.मित्रहिरण्यभूमिकर्मसन्धयः। २० पार्ष्णिग्राहचिन्ता।२१. हीनशक्तिपूरणम्। २२. बलवता विगृह्योपरोधहेतवः। २३. दण्डोपनतवृत्तम्। २४. दण्डोपनायिवृत्तम्। २५. सन्धिकर्म। २६ सन्धिमोक्षः। २७.मध्यमचरितम्। २८. उदासीनचरितम्। २९. मण्डलचरितम्। इत्येकोनत्रिंशत् सप्तमाधिकरणप्रकरणानि॥
षाड्गुण्यस्य प्रकृतिमण्डलं योनिः। सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम्। तत्र पणबन्धः सन्धिः, अपकारो विग्रहः, उपेक्षणं आसनं, अभ्युच्चयः यानम्, परार्पणं संश्रयः, सन्धिविग्रहोपादानं द्वैधीभावः । परस्माद्धीयमानः सन्दधीत, अभ्युच्चीयमानो विगृह्णीयात्, ‘न मां परो नाहं परमुपहन्तुं शक्तः’ इत्यासीत, गुणातिशययुक्तो यायात्, शक्तिहीनः संश्रयेत, सहायसाध्ये कार्ये द्वैधीभावं गच्छेत् ॥
यादृशगुणानुष्ठानेन—आत्मनः दुर्ग सेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माणि प्रवर्तयितुं परस्य चैतान्युपहन्तुं शक्ष्यामीति पश्येत् तद्वृद्धिः, स्वकर्मणामुपघातं पश्येत् नेतरस्य तत् क्षयः, स्वकर्मवृद्धिंक्षयं वा नाभिपश्येत् तत् स्थानम्। तुल्यकालफलोदयायां वृद्धौ क्षये स्थाने वा सन्धिमुपेत्य वृद्धिमातिष्ठेदित्याचार्याः। यथाविधि विमृश्य षडपि गुणानुपेत्य क्षयावस्थामुत्तीर्य अधिगतस्थानावस्थः वृद्धि मन्विच्छेदिति कौटल्यः।सन्धिविग्रहयोः आसनयानयोः द्वैधीभावसंश्रययोश्च तुल्यायां वृद्धौ आद्यानेवोपेयात्॥
बलवदेकशत्र्वभियोगे यद्बलः सामन्तः तद्विशिष्टबलं तदभावे अभियोक्तारमेव वा अश्रयेत। बलीयसोर्वा मध्यगतः त्राणसमर्थमाश्रयेत। द्वाभ्यामुच्छिन्नः मध्यमोदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिमाश्रयेत। एवमाश्रितः समयाकाङ्क्षी आत्मानमुद्धरेत्॥
विजिगीषुः शक्त्येपेक्षः षाड्गुण्यमुपयुञ्जीत।समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात्। विगृहीतो हि ज्यायसा हस्तिनापादयुद्धमिवाभ्युपैति। समेन च आमं पात्रमामेनाहतमिव उभयतः क्षयं करोति। कुम्भेनेवाश्मा हीनेनैकान्तसिद्धिमवाप्नोति। सन्धिविग्रहयोश्चत् परकर्शनमात्मोपचयं वा नाभिपश्येत् ज्यायानप्यासीत।परव्यसनमप्रतीकार्यंपश्येच्चत् हीनोऽव्यभियायात्। अप्रतीकार्यासन्नव्यसनो वा संश्रयेत, सन्धिनैकतो विग्रहेणैकतश्चेत्कार्यसिद्धिं पश्येत्। ज्यायानपि द्वैधीभूतः तिष्ठेत्, हीनस्तु प्रवृत्तचक्रेण बलवता आक्रान्तः अबलः कोशदण्डात्मभूमिभिः सन्धिभिः तूर्णमुपनमेत्। आत्मामिषात्मरक्षणादृष्टपुरुषाः, परिग्रहोपग्रहात्ययकपालाः, आदिष्टोच्छिन्नावक्रयपरदूषणाश्च क्रमेण दण्ड-कोश-देशोपनतसन्धयः। एते हीनसन्धयः॥
सन्धानकामयोः अरिविजिगीष्वोः उपहन्तुमशक्तयोः विगृह्यासनं सन्धाय वा अन्यैश्च विगृह्यासनहेतुभिः अभ्युच्चितः विगृह्ययायात् सन्धाय वा। यदा अवश्यं यातव्ये एकेन यातुमशक्यमिति पश्येत्, तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायात्॥
तुल्यसामन्तव्यसने अमित्रं, तयोरेव व्यसनवैषम्ये लघुव्यसनं, यातव्ययौगपद्ये विरक्तप्रकृति अपचरितप्रकृति सबलमन्यायवृत्तिं च यायात्। प्रकृतीनां क्षयलोभविरागकारणानि नोत्पादयेत्। उत्पन्नानि वा सद्यः प्रतिकुर्वीत। क्षीणाः खलु पीडनोच्छेदनभयात् सद्यस्सन्धि युद्धं निष्पतनं वा रोचयन्ते, लुब्धाः लोभेनासन्तुष्टाः परोपजापं लिप्सन्ते। विरक्ताः पराभियोगमभ्युत्तिष्ठन्ते। सामवायिकानामपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तौ सम्भूय यायात्॥
विजिगीषुः द्वितीयां प्रकृतिमेवमतिसन्दध्यात्। सामन्तं संहितप्रयाणे योजयत् ‘त्वमितो याहि अहमितो यास्यामि’ इति। लाभसाम्ये सन्धिः, वैषम्ये विक्रमः॥
अकृतचिकीर्षां, कृतविश्लेषणं कृतविदूषणं अवशीर्णक्रिया च सन्धिधर्माः। प्रकाशयुद्धं, तूष्णींयुद्धं कूटयुद्धमिति विक्रमधर्माः॥
परिपणितापरिपणितापसृताश्च सन्धयः। देशकालकार्याण्यनुरुध्य क्रियमाणः आद्यः, तद्विपरीतः द्वितीयः, आत्मानं कुतश्चिन्निमित्ताद्विहायापगतैः मित्रैः भृत्यैर्वा सह क्रियमाणः तृतीयः। तत्र भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानमवशीर्णक्रिया, तस्यां चत्वारो गतागताः संभवन्ति—कारणागतागतः, विपरीतः, कारणाद्गतोऽकारणादागतः, विपरीतश्चेति। तेषु अप्रमत्तो वर्तेत॥
द्वैधीभाविकानां सन्धिविक्रमाणां कारणानि परिशील्य, यतः श्रेयः ततो व्रजेत्। यातव्यस्य सामवायिकेषु यातव्यानां सामवायिकेषु च वृत्तिः यथोक्ता नीतियुता भवेत्। अरिविजिगीष्वोस्तु स्वं स्वं मित्रमनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यः मित्रेभ्य एव विशेषलाभः। त एते कृतार्थाः सुखेन प्रभूतं चोपकुर्वन्ति। अतः प्रतिलोमे नानुग्राह्याः॥
नित्यवश्यादिषट्प्रकारमित्रलाभेन, स्वर्णरजतादिहिरण्यलाभेन, मित्रामित्रादिभूमिलाभेन, दुर्गादिलाभेन च क्रियमाणेषु सन्धिषु तरतमभावं निरूप्य सन्दधीत। पार्ष्णिग्राहावस्थश्च विमृश्य युक्तमनुतिष्ठेत्॥
बहुभिरभियुक्तस्तु क्रमशः पक्षण मन्त्रेण द्रव्येण बलेन च सम्पन्नः आत्मनः परावग्रहं प्रतिनिर्गच्छेत्। बलवता विग्रहसंभवे यथोक्तान् हेतून् विमृश्य विशिष्टबलं तदभावे दुर्गंवा आश्रयेत। सन्धियतामात्मनः परस्य चोपलभ्य सन्दधीत, विपर्यये विक्रमेण सन्धिमपसारं वा लिप्सेत। सन्धेयस्य वा दूतं प्रेषयेत् तेन वा प्रेषितं अर्थमानाभ्यां सत्कृत्य ब्रूयात् ‘इदं राज्यं अहं च त्वदर्पणः इति। लब्धसंश्रयश्च दण्डोपनतः सामयाचारिकवद्भर्तरि वर्तेत।
दण्डोपनायी च तेषां महोपकारं निर्विकारं चानुवर्तयेत् तोषयेच्च। व्यसनेष्वनुग्रहं अर्थमानौ च कुर्यात्। परिभवापघातकुत्सातिवादांश्चैषु न प्रयुञ्जीत। दत्त्वा चाभयं पितेवानुगृह्णीयात्। यस्त्विमान् उपनतान् हत्वा बद्ध्वावा भूमिद्रव्यपुत्रदारानेषामभिमन्येत तस्योद्विग्नं मण्डलं अभावायोत्तिष्ठते॥
शमः सन्धिः समाधिरित्येकोऽर्थः। राज्ञां विश्वासोपगमः सन्धिः। सत्यं शपथः प्रतिभूः प्रतिग्रहः -इति सन्धयः। तत्र ‘संहिताः स्मः’ इति सत्यसन्धाः पूर्वे राजानः सत्येन संदधिरे। तस्यातिक्रमे शपथेन अग्न्युदकसीताप्राकारलोष्टहस्तिस्कन्नाश्वपृष्ठरथोपस्थशस्त्ररत्नबीजगन्धरससुवर्णान्यालेभिरे, “हन्युरेतानि त्यजेयुश्चैनं यश्शपथमतिक्रामेत् " इति। शपथस्याप्यतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः।बन्धुमुख्यप्रग्रहः प्रतिग्रहः। अभ्युच्चीयमानश्चेतरः समाधिमोक्षं यथोक्तैर्नानाविधैरुपायैः कारयेत्॥
विजिगीषुश्च मध्यमे उदासीने अरिमित्रात्मकमण्डले च यथाविधि वर्तेत।
एवमन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति।
सबुद्धिनिगलैर्बद्धैः इष्टं क्रीडति पार्थिवैः॥
८. अष्टममधिकरणम् – व्यसनाधिकारिकम् .
१. प्रकृतिव्यसनवर्गः। २. राजराज्ययोर्व्यसनचिन्ता। ३. पुरुषव्यसनवर्गः। ४. पीडनवर्गः। ५. स्तम्भनवर्गः। ६. कोशसङ्गवर्गः।७. बलव्यसनवर्गः। ८. मित्रव्यसनवर्गः—इत्यष्टौ प्रकरणान्यष्टमाधिकरणे ।
व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता। दैवं मानुषं वा प्रकृतिव्यसनं अनयापनयाभ्यां सम्भवति। गुणप्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम्। व्यस्यत्येनं श्रेयसः इति हि व्यसनम् ! स्वाम्यमात्यजनपददुर्ग कोशदण्डमित्रव्यसनानां पूर्वंपूर्वंगरीयः, प्रकृत्यवयवव्यसनस्य तु विशेषतः बहुभाव्योऽनुरागो वा सारो वा कार्यसाधकः॥
यत्र एकव्यसनात् शेषप्रकृतेः तत्प्रधानस्येतरस्य वा नाशो भवति तद्ध्वसनं गरीयः॥
राजा राज्यमिति प्रकृतिसंक्षेपः। राज्ञो ह्यहिभयोऽभ्यन्तरः कोपः बाह्यकोपात् पापीयान् अन्तरमात्यकोपश्च अन्तःकोपात्। तस्मात् कोशदण्डशक्तिमात्मसंस्थां कुर्वीत। द्वैराज्यात् वैराज्यं पापीयः। अन्धाद्राज्ञःचलितशास्त्रः पापीयान्। व्याधितान्नवः पापीयान्।नवेऽपि अभिजातादनभिजातः पापीयान्। मुष्टिवधात् प्रयासवधः सस्यवधः पापीयान्॥
अविद्याविनयः पुरुषव्यसनहेतुः। अविनीतो हि व्यसनहेतून् दोषांश्च न पश्यति ! वाक्पारुष्यं अर्थदूषणं दण्डपारुष्यामिति कोपजस्त्रिवर्गः। मृगया द्यूतं स्त्रियः पानमिति कामजश्चतुर्वर्गः। द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः।परिभवः द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायकवादकैश्चानर्थ्यैःसंयोगश्च कामः। तयोः कोप एव गरीयान्। तत्रापि वाक्पारुष्यादर्थदूषणं पापीयः, तस्माच्चदण्डपारुष्यं पापीयः। तथा मृगयायाः द्यूतं, द्यूतात् स्त्री, स्त्रियाः द्यूताच्च पानमिति पापीयांसि॥
सारतः वृद्धसेवी जितेन्द्रियः आत्मवांश्च सन् राजा व्यसनारम्भं मूलहरं कोपं कामं च परित्यजेत्॥
अग्निः उदकं व्याधिः दुर्भिक्षं मरकः इति चतस्रः दैवपीडाः। तत्र अग्न्यपेक्षया उदकं व्याध्यपेक्षया दुर्भिक्षं ततोऽपि मरकं च गरीयः॥
क्षुद्रक्षयात् प्रधानक्षयस्य, स्वचक्रपीडापेक्षया परचक्रपीडायाः, प्रकृतिविवादाद्राजविवादस्य, देशविहाराद्राजविहारस्य, कुमारविहारात् सुभगाविहारस्य, श्रेणीनिमित्तपीडापेक्षया मुख्यनिमित्तपीडायाः, सन्निधातृपीडापेक्षया समाहर्तृपीडायाः, अन्तपालपीडापेक्षया वैदेहकपीडायाः, प्रतिरोधकपीडापेक्षया आटविकपीडायाः, मृगवनपीडापेक्षया हस्तिवनपीडायाश्च गरीयस्त्वम्। अभिजातोपरुद्धभूम्यपेक्षया पशुव्रजोपरुद्धभूमिरेव पूर्वंमोक्षयितव्या॥
आभ्यन्तरो मुख्यस्तम्भः, बाह्यो मित्राटवीस्तम्भः। ताभ्यां यथोक्तैः पीडनैश्च पीडितः, मुख्येषु सक्तः, परिहारोपहतः, प्रकीर्णः, मिथ्यासंहृतः सामन्ताटवीहृतः इति कोशसङ्गाः। एषां पीडनानामनुत्पत्तौ उत्पन्नानां वारणे, स्तम्भसङ्गयोर्नाशे देशवृद्ध्यर्थं च यतेत॥
अमानितादीनि चतुस्त्रिंशद्बलव्यसनानि मित्रव्यसनानि च नोत्पादयेत्, उत्पन्नानि वा दोषोपघातिभिर्गुणैः प्रशमयेत्॥
यतोनिमित्तं व्यसनं प्रकृतीनामवाप्नुयात्।
प्रागेव प्रतिकुर्वीत तन्निमित्तमतन्द्रितः॥
-
*
९. नवममधिकरणम्—अभियास्यत्कर्म,
१. शक्तिदेशकालबलाबलज्ञानम्। २ यात्राकालाः। ३. बलोपादानकालाः। ४. सन्नाहगुणाः। ५ प्रतिबलकर्म। ६. पश्चात्कोपचिन्ता। ७. बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारः। ८. क्षयव्ययलाभविपरिमर्शः। ९. बाह्याभ्यन्तराश्चापदः। १०. दूष्यशत्रुंसंयुक्ताः ११. अर्थानर्थसंशययुक्ताः। १२ तासामुपायविकल्पजास्सिद्धयः—इति द्वादश नवमाधिकरणप्रकरणानि ॥
विजिगीषुःआत्मनः परस्य च शक्तिदेशकालयात्राकालबलसमुत्थानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा बलाबलं विशिष्टबलो यायात्, अन्यथा आसीत। उत्साहशक्त्यपेक्षया प्रभावशक्तिः, तदपेक्षया मन्त्रशक्तिश्च गरीयसी॥
देशः—आरण्यो ग्राम्यः पार्वतः औदकः भौमः समो विषम इति। कालः—शीतोष्णवर्षात्मा रात्रिरहः पक्षो मासः ऋतुरयनं संवत्सरो युगमिति । तेषु यथा स्वबलबुद्धिकरं कर्म प्रयुञ्जीत । शक्तिः देशः कालो वा तत्तद्विषयभेदेन श्रेयान् । तैरभ्युच्चितः यथानुकूलं यायात्॥
मौलभृतश्रेणीमित्रामित्राटवीबलान्युचितकालेषु नियोज्यानि। पूर्वंपूर्वंचैषां श्रेयः संनाहयितुम्। ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वंपूर्वंश्रेयः संनाहयितुमिति तु न युक्तम्; प्रणिपातेन हि ब्राह्मणबलं परोऽभिहारयेत्। प्रहरणविद्याविनीतं क्षत्रियबलं बहुलसारबलं वा वैश्यशूद्रबलं श्रेयः। परबलानुरूपं च प्रतिबलं कल्पयेत्॥
विजिगीषौ जयार्थं प्रस्थिते तद्राज्ये अमित्रैरुत्पाद्यमानः दाहलोपादिः—पश्चात्कोपः। मन्त्रिपुरोहितसेनापतियुवराजानां अन्यतमकोपः आभ्यन्तरकोपः। राष्ट्रमुख्यान्तपालाटविकदण्डोपनतानां अन्यतमकोपः बाह्यकोपः। पश्चात्कोपशङ्कायां बलवान् राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमादातुं यायात्। अल्पोऽपि पश्चात्कोपो गरीयान्। सूचीमुखा ह्यनर्थाः! आभ्यन्तरकोपशङ्कायां शङ्कितानादाय गायात्। बाह्यकोपशङ्कायां पुत्रदारमेषां आभ्यन्तरावग्रहं कृत्वा शून्यपालं अनेकबलवर्गं अनेकमुख्यं च स्थापयित्वा यायात्, न यायाद्वा । विमृश्योपायैः भेदनैरुपजापैर्वा आत्मनः एनान् कोपान् शमयेत्, परस्य चोत्पादयेत् ॥
क्षयव्ययलाभानां विपरिमर्शश्च कार्यः।युग्यपुरुषापचयः क्षयः। हिरण्यधान्यापचयः–व्ययः। ताभ्यां बहुगुणविशिष्टे लाभे यायात् । आदेयः प्रत्यादेयः प्रसादकः प्रकोपकः हृस्वकालः तनुक्षयः अल्पव्ययः महान् वृद्ध्युदयः कल्यः धर्म्यः पुरोगश्चेति लाभसम्पत् । तुल्ये लाभे देशकालौ शक्त्युपायौ प्रियाप्रियौ जवाजवौ सामीप्यविप्रकर्षौतदात्वानुबन्धौ सारत्वसातत्ये बाहुल्य बाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभमाददीत । कामः कोपः साध्वसं कारुण्यं ह्रीःअनार्यभावः मानः अनुक्रोशः परलोकापेक्षा दाम्भिकत्वं अत्यागित्वं दैन्यं असूया हस्तगतावमानः दौरात्मिकं अविश्वासः भयं अनिकारः शीतोष्णवर्षाणामाक्षम्यं मङ्गलतिथिनक्षत्रेष्टित्वमिति लाभविघ्नाः॥
सन्ध्यादीनां अयथोद्देशावस्थापनं अपनयः। तस्मादापदः संभवन्ति । बाह्योत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तरोत्पत्तिर्बाह्यप्रतिजापा, बाह्योत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तरोत्पत्तिरभ्यन्तरप्रतिजापा चेत्यापदः। यत्र बाह्याः अभ्यन्तरान् अभ्यन्तरा वा बाह्यानुपजपन्ति तत्र उभययोगे प्रतिजपतः सिद्धिः निर्विशेषवती । अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत, बाह्येषु भेददण्डौ । यत्र बाह्याः बाह्यानुपजपन्ति अभ्यन्तरान् वा अभ्यन्तराः तत्र एकान्तयोगे उपजपितुः सिद्धिर्विशेषवती । तत्र बाह्येषूपजपत्सु भेददण्डौ प्रयुञ्जीत, अभ्यन्तरेषु यथार्हमुपायान् । एतासां चतसृणां आपदां अभ्यन्तरमेव पूर्वं साधयेत् ॥
दूष्येभ्यः शत्रुभ्यश्चेति द्विविधाः शुद्धाः आपदः। दूष्यादृष्याणामाश्रितत्वादामिश्रा, मित्रामित्राणामेकीभावात्परमिश्रा चापदौ । दृष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत । शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामन्तादिभिः सिद्धिं लिप्सेत । आमिश्रायां अदूष्यतः सिद्धिः। परमिश्रायां मित्रतः सिद्धिः। मित्रं चेन्न सन्धिमिच्छेत् अभीक्ष्णमुपजपेत् । ततःसत्त्रिभिः अमित्राद्भेदयित्वा मित्रं, मित्रसङ्घस्य योऽन्तस्थायी तं, मध्यस्थायिनं वा लभेत । यथा चैषां आश्रयभेदः तथा उक्तप्रकारान् सामाद्युपायान् प्रयुञ्जीत ॥
कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः। तदुभयं आसुरी वृत्तिः। स्वजनविकारः कोपः। परवृद्धिहेतुष्वापत्–अर्थोऽनर्थः संशय इति । यः शत्रुवृद्धिं करोति, प्राप्तश्च प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्ययोदयो भवति सः आपदर्थः। स्वतःपरतो वा भयोत्पत्तिरित्यापदनर्थः। तयोः ‘अर्थो न वा’ इति, ‘अनर्थो न वा’ इति, ‘अर्थोऽनर्थ’ इति, ‘अनर्थोऽर्थः’ इति चापत्संशयः। अर्थोऽनर्थानुबन्धः, अर्थो निरनुबन्धः, अनर्थोऽनर्थानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थो अनर्थानुबन्धः इति अनुबन्धषड्वर्गः। तासां कार्यतः देशतः कालतश्च अर्थानर्थादिसम्बद्धाः व्यवस्थाः, सामदानाद्युपाय भेदप्रयोगनिबन्धनाः प्रतिक्रियाश्च परिशील्य आश्रयणीयाः ॥
अर्थस्य धर्ममूलत्वात् कामफलत्वाच्चधर्मार्थकामानुबन्धाया अर्थस्य सिद्धिः सा सर्वार्थसिद्धिः। दैवादग्निरुदकं व्याधिः प्रमारो विद्रवः दुर्भिक्षं आसुरी सृष्टिः वृष्टिरतिवृष्टिर्वा आपदः। तासां दैवतब्राह्मणप्रणिपाततः सिद्धिः॥
परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतःपरे ।
रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यामात्मा विपश्चिता ॥
-
*
१०. दशममधिकरणम् – साङ्ग्रामिकम् .
१. स्कन्धावारनिवेशः। २. स्फन्धावारप्रयाणम् । ३. बलव्यसनावस्कन्दकालरक्षणम् । ४. कूटयुद्धविकल्पाः। ५.स्वसैन्योत्साहनम् । ६. स्वबलान्यबलव्यायोगः। ७. युद्धभूमयः। ८. पत्यश्वरथहस्तिकर्माणि । ९.पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः। १०. सारफल्गुबलविभागः। ११. पत्त्यश्वरथहस्तियुद्धानि । १२. दण्डभोगमण्डलासंहृतव्यूहव्यूहनम् । १३. तस्य प्रतिव्यूहस्थापनम्—इति त्रयोदश दशमाधिकरणप्रकरणानि ॥
वास्तुकप्रशस्ते वास्तुनि नायकवर्धकिमौहूर्तिकाः स्कन्धावारं वृत्तं दीर्घं चतुरश्रं भूमिवशेनंवा चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः, खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च ॥
तत्र च यथाविधि राजवास्तुकं अन्तःपुरं अन्तर्वंशिकसैन्यावासं उपस्थानं कोशशासनकार्यकरणस्थानानि हस्त्यश्वरथस्थानानि शकटमेधीप्रततिस्तम्भसालपरिक्षेपान् मन्त्रिपुरोहितस्थानं कोष्ठागारं महानसं कुप्यायुधागारं अश्वरथसेनापतिमौलभृतानां स्थानं वणिजां रूपाजीवानां च स्थानं लुब्धकश्वगणिनां सतूर्याग्नीनां गूढारक्षाणां स्थानं च परिकल्पयेत् ॥
शत्रूणामापाते कूपकूटावपातकण्टकिनीश्च स्थापयेत् । अष्टादशवर्गाणामारक्षविपर्यासं कुर्यात् । दिवायामं च कारयेदपसर्पज्ञानार्थम् ॥
ग्रामारण्यानामध्वनि निवेशान् यवसेन्धनोधकवशेन परिसंख्याय स्थानासनगमनकालं च निर्णीय यथाविधि यात्रां यायात् । तत्प्रतीकारद्विगुणं भक्तोपकरणं वाहयेत् । मार्गशोधनादिनिमित्ते शनैर्यायात्, अन्यथा शीघ्रम् ॥
हस्त्यादिसाहाय्येन उदकं तारयेत् । अनुदके चक्रिचतुष्पदं चाध्वप्रमाणेन शक्त्योदकं वाहयेत् । दीर्घकान्तारादिबलव्यसनेभ्यः स्वसैन्यं रक्षेत् । परबलेयत्तां जानीयात् । आत्मनश्च तां गृहयेत् ॥
बलविशिष्टः कृतोपजापः प्रतिविहितर्तुःस्वभूम्यां प्रकाशयुद्धमुपेयात्, विपर्यये कूटयुद्धम् । प्रकाशयुद्धं–सङ्ग्रामः। स च निर्दिष्टकालः धर्मिष्ठः॥
संहत्य दण्डं प्रति ब्रूयात्–तुल्यवेतनोऽस्मि, भवद्भिः सह भोग्यमिदं राज्यम् । मयाभिहितः परोऽभिहन्तव्यः’ इति। मन्त्रिपुरोहिताभ्यां च “समाप्तदक्षिणानां यज्ञानां अवभृथेषु हि ‘सा ते गतिर्या शूराणाम्’ इत्युच्यते”इति योधान् प्रोत्साहयेत् । विजययुक्ताः स्वर्गीयाश्चशिषो वाचयेत् । ब्राह्मणेभ्यश्चात्मानमतिसृजेत् । स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् । सूतमागधाः शूराणां स्वर्गं, अस्वर्गं भीरूणां, जातिसङ्घकुलकर्मस्तवं च योधानां वर्णयेयुः। सेनापतिः अर्थमानाभ्यां अभिसंस्कृतं अनीकं आभाषणेन प्रोत्साहयेत् ॥
अदक्षिणामुखं पृष्ठतस्सूर्यं अनुलोमवातं अनीकं स्वभूमौ व्यूहेत । समायां भूमौ दण्डमण्डलव्यूहाः, विषमायां भोगसंहतव्यूहाः व्यामिश्रायां विषमव्यूहाः॥
विशिष्टबलं भङ्क्त्वा सन्धिं याचेत । समबलेन याचितः सन्दधीत, हीनमनुहन्यात् । न त्वेव त्यक्तात्मानं स्वभूमिप्राप्तं वा । जीविते निराशस्य हि पुनरावर्तमानस्य वेगः अधार्यो जायेत ! तस्माद्भग्नं न पीडयेत् ॥
स्वभूमिः पत्त्यश्वरथद्विपानां इष्टा युद्धेनिवेशे च । धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनामश्वानां च यथास्वमिष्टाः युद्धभूमयः कालाश्च ॥
भूमिवासवननिचयाद्यश्वकर्माणि पुरोयानादि हस्तिकर्माणि स्वबलरक्षादिरथकर्माणि सर्वदेशकालवहनादिपदातिकर्माणि शिबिरमार्गसेतुकूपतीर्थशोधनकर्मादिविष्टिकर्माणि यथाविधि प्रवर्तयेत् ॥
यथा चतुर्णामङ्गानां विभवः व्यूहानां सदृशोभवेत्, तथा यथाविधि ओजान् युग्मांश्च व्यूहान् कारयेत् । राजा तु द्वे शते धनुषां गत्वा प्रतिग्रहे तिष्ठेत् ॥
पक्षकक्षोरस्याः प्रकृतिव्यूहाः दण्डभोगमण्डलासंहताः चतुर्भेदाः इति केचित् । पक्षकक्षोरस्यैस्समं वर्तमानो दण्डः, विषमं वर्तमानः भोगः, तेषां एकीभावे मण्डलः, तेषां असंहतत्वे असंहतः।
प्रदरादयः दण्डव्यूहाः अष्टादश। सर्पसार्यादयः भोगव्यूहाः पञ्च । सर्वतोभद्रादी द्वौ मण्डलव्यूहौ । वज्रादयः षट् असंहतव्यूहाः॥
तेषु प्रदरादीन् दृढकादिना घातयेत् । पत्त्यश्वरथद्विपानां पूर्वं पूर्वं उत्तरेण घातयेत्, हीनाङ्गं अधिकाङ्गेन च । यन्त्रोपनिषन्मायादिप्रयोगैः परस्योद्वेगमाचरेत् । समे व्यूहे देशकालसारयोगात् सिद्धिः॥
एकं हन्यान्न वा हन्यात् इषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥
<MISSING_FIG href=”../../../books_images/U-IMG-1698378320Screenshot2023-10-27091438.png”/>
११. एकादशमधिकरणं—सङ्घवृत्तम् .
१. भेदोपादानानि । २. उपांशुदण्डः—इति प्रकरणद्वयं एकादशाधिकरणे ॥
सङ्घलाभः दण्डमित्रलाभानां उत्तमः। सङ्घा हि संहतत्वादधृष्याः परेषाम् । तदनुगुणान् भुञ्जीत सामदानाभ्याम्, विगुणान् भेददण्डाभ्याम् ॥
काम्बोजसुराष्ट्रक्षत्रियश्रेण्यादयः वार्ताशस्त्रोपजीविनः। लिच्छविकवजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयः राजशब्दोपजीविनः। सर्वेषां आसन्नाः सत्रिणः सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतिभेदमुपचारयेयुः॥
एवं स्कन्धावाराटवीभेदश्च कार्यः। सङ्घमुख्यांश्च कलहस्थानेषु, स्वयमुत्पन्नेतीक्ष्णैरुत्पादिते वा कलहे, भेदेनेन सङ्गेषु विक्रमयेत् प्रवासयेत् उन्मादयेत् घातयेच्च ॥
सङ्केष्वेवमेकराजो वर्तेत । सङ्घाश्चाप्येवमेकराजाः तेभ्योऽतिसन्धानेभ्यो रक्षयेयुः॥
सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिहितः प्रियः ।
दान्तो युक्तजनस्तिष्ठेत् सर्वचित्तानुवर्तकः ॥
<MISSING_FIG href=”../../../books_images/U-IMG-1698378164Screenshot2023-10-27091136.png"/>
१२. द्वादशमधिकरणम् – आबलीयसम्.
१. दूतकर्म । २. मन्त्रयुद्धम् । ३. सेनामुख्यवधः। ४. मण्डलप्रोत्साहनम् । ५. शस्त्राग्निरसप्रणिधयः। ६.वीवधासारप्रसारवधः। ७. योगातिसन्धानम् । ८. दण्डातिसन्धानम् । एकविजयः—इति नव द्वादशाधिकरणप्रकरणानि ॥
बलीयसाऽभियुक्तो दुर्बलः तद्विशिष्टं राजानं दुर्गमविषह्यं वा आश्रितः चेष्टेत ॥
त्रयोऽभियोक्तारः धर्मलोभासुरविजयिन इति । तेषां धर्मविजयी अभ्यवपत्त्या तुष्यति, तमभ्यवपद्येत परेषामपि भयात् । भूमिद्रव्यहरणेन लोभविजयी तुष्यति, तमर्थेनाभ्यवपद्येत । भूमिद्रव्यपुत्रदारप्राणहरणेन असुरविजयी तुष्यति तं भूमिद्रव्याभ्यामुपगृह्य अग्राह्यः प्रतिकुर्वीत । तेषामन्यतममुत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत ; शत्रुपक्षमस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम् । सर्वतः पार्ष्णि ग्राहयित्वा राज्यं वा घातयित्वा हारयित्वा चापकुर्याद्वा ॥
अपकारान्तेषु चास्य दूतं प्रेषयेत् । अनपकृत्य वा सन्धानं याचनीयम् । तथाप्यभिप्रयान्तं कोशदण्डयोः पादोत्तरं अहोरात्रोत्तरं वा सन्धिं याचेत । याचनानुगुणं दण्डपुत्रकोशभूमीश्च असाराः कुण्ठाः सापायाः महाक्षयव्ययहेतुभूताश्च दद्यात् । छिद्रे तु प्रहरेत् ॥
स चेत् सन्धौ नावतिष्ठेत धर्ममर्थं चास्मै सविस्तरं उपदिशेत् । तथापि प्रतिष्ठमानस्य प्रकृतिकोपं तीक्ष्णरसदप्रयोगं च कारयेत् ॥
बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्माद्य कलहानुत्पादयेयुः घातयेयुश्च । राजानं चामित्रं रसेनातिसन्दध्युः। महामात्रं विक्रमायापगमनाय वा योजयेयुः। शून्यपालात्पौरान्, समाहर्तुः जानपदांश्च भेदयेयुः॥
समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः। महामात्रादीन् राज्ञः, राजानं महामात्राच्चभेदयेयुः। बलवत्तराभियोक्तारं प्रति मण्डलं समुद्योजयेयुः। गूढांश्च शस्त्रविषाग्निप्रयोगान् कारयेयुः वीवधासारप्रसारांश्च हन्युः। तत्तदवसरेषु बहुविधान्गूढान् घातनप्रयोगान् प्रयुञ्जीत । स्वयं वा सुरङ्गाभिः गूढराजावासादिकमनुप्रविश्य अमित्रं हन्यात् । ततश्च गूढमेवापगच्छेत् । स्वजनसंज्ञां च प्ररोपयेत् । अन्ये च निगूढोपहितान् द्वाःस्थान् वर्षवरादिकान् तूर्यसंज्ञादिभिः आहूय द्विषच्छेषाणि घातयेयुः॥
यत् प्रसह्य हरेदन्यः तत् प्रयच्छेदुपायतः।
रक्षत् स्वदेहं न धनं का ह्यनित्ये धने दया ॥
-
*
१३. त्रयोदशमधिकरणम्—दुर्गलम्भोपायः.
१. उपजापः। २. योगवामनम् \। ३. अपसर्पप्रणिधिः। ४. पर्युपासनकर्म । ५. अवमर्दः। ६. लब्धप्रशमनम्—इति षट् त्रयोदशाधिकरणप्रकरणानि ॥
वीजगीषुः (विजिगीषुः)परग्राममवाप्तुकामः सर्वज्ञदैवतसंयोगख्यापनाभ्यां स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् । महता चोपजापाद्भुतेन परस्मात्परं भेदयेत् । भेदकानां च द्रव्यधान्यपरिग्रहैः साचिव्यं कुर्यात् । योगैश्च शत्रुं तद्दुर्गान्निष्कामयेत्, तांश्च योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषामुपदेशार्थं, ततः प्रयोजयेत् । योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात् ॥
हस्तिकामान् मृगयाकामान् द्रव्यस्त्रीलोलुपान् वा तत्तत्सहजोत्कटाभिलाषानुगुणं प्रलोभ्य घातयेत् । स पार्थिवश्च येषु देशेषु याः प्रेक्षाः स्वयं प्रेक्षते, यात्राविहारे रमते, अम्भसि वा क्रीडति, यत्र वा चाटूक्त्यादिषु यज्ञप्रहवणेषु सुतिकाप्रेतरोगेषु प्रीतिशोकभयेषु स्वजनोत्सवे वा विश्वासात् प्रमादं याति, यत्र वा अस्यारक्षिसञ्चारः, तत्र दुर्दिने सङ्कुलेषु विप्रस्थाने प्रदीप्ते निर्जनप्रवेशे वा तीक्ष्णैः तं घातयेत् ॥
गूढपुरुषांश्च परविषये वासयेत्, छिद्रेषु तैर्घातयेच्च ॥
कर्शनपूर्वं पर्युयासनकर्म । जनपदं यथानिविष्टं अभये स्थापयेत् । प्रसारवीवधच्छेदात् मुष्टिसस्यवधात् वमनात् गुढघाताच्च प्रकृतिक्षयो जायते । यथाकालं यथाविधि च शत्रुदुर्गं पर्युपासीत ॥
एवं परदुर्गं स्कन्धावारं वाऽवस्कन्द्य पतितपराङ्मुखाभिपन्नमुक्तकेशशस्त्रभयविरूपेभ्योऽयुध्यमानेभ्यश्चाभयं दद्युः। परदुर्गमवाप्य विशुद्धशत्रुपक्षः कृतोपांशुदण्डप्रतीकारं अन्तर्बहिश्च प्रविशेत् एवं उपजापः अपसर्पः वामनं पर्युपासनं अवमर्दः—इत्येते पञ्च दुर्गलम्भहेतवः॥
द्विविधं विजिगीषोः समुत्थानम् अटव्यादिकं एकग्रामादिकं च । त्रिविधश्चास्य लम्भः—नवो भूतपूर्वः पित्र्य इति । नवमवाप्य लम्भं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन च । स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत । यथा सम्भाषितं च सर्वंनिर्वर्तयेत् । अविश्वास्यो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च ॥
समानशीलवेषभाषाचारतां चोपगच्छेत् । देशदैवतसमाजोत्सवविहारेषु च भक्तिमनुवर्तेत । सर्वदेवताश्रमपूजनं विद्यावाक्येधर्मशूरपुरुषाणां भूमिद्रव्यपरिहारान् सर्वबन्धनमोक्षणं दीनानाथव्याघितानामनुग्रहं च कारयेत् । भूतपूर्वे येन दोषेणापावृत्तः तं प्रकृतिदोषं छादयेत् ; येन च गुणेनोपावृत्तः तं तीव्रीकुर्यात् । पित्र्ये पितृदोषांश्छादयेत्, गुणांश्च प्रकाशयेत् ॥
चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।
प्रवर्तयेन्न चाधर्म्यंकृतं चान्यैर्निवर्तयेत् ॥
-
*
१४. चतुर्दशमधिकरणम्—औपनिषदिकम्.
१. परघातप्रयोगः। २. प्रलम्भनम् । ३. स्वबलोपघातप्रतीकारः— इति त्रीणि चतुर्दशाधिकरणप्रकरणानि ॥
चातुर्वर्ण्यरक्षार्थ औपनिषदिकमधर्मिष्ठेषु प्रयुञ्जीत ॥
गूढाः कालकूटादिविषवर्गप्रयोगं, शस्त्रनिधानं अग्निनिधानं च कुर्युः। पुरुषाणां खराश्वानां हस्त्युष्ट्राणामन्येषां वा मास्यर्धमासे सद्यश्च वा प्राणहराः नेत्रघ्नाः उन्मादकराः कुष्ठप्रमेहशोषविषूचिकाज्वरमूकबधिरकराश्च चूर्णधूमाञ्जनादिप्रयोगाः उदकदूषणादिकर्माणि औषधेषु वीर्यवत्तरतासम्पादनविधयः वैधनदंशनादिप्रयोगाश्च कर्तव्याः॥
अर्धमासिकं मासिकं च क्षुद्योगं, चतुष्पदद्विपदादीनां विरूपकरणयोगान्, श्वेतीकरणयोगान्, कुष्ठयोगतत्प्रतीकारौ, गौरीकरणश्यामीकरणयोगौ, शरीरादावग्निप्रज्वलनयोगान्, अङ्गारेषु पादचारयोगान् उल्काप्रदर्शनाग्निशमनापाचनयोगान्, मुखादग्निधूमोत्सर्गयोगं, जलादाप्यग्निज्वलनयोगं, अग्न्यज्वलनयोगं, निगडभञ्जनयोगं, आशतयोजनादश्रान्तगमनयोगं, तमसि वस्तुदर्शनयोगान्, नष्टच्छायारूपेण सञ्चारयोगान्, पशुमृगपक्ष्यादीनां अन्तर्धानयोगान्, प्रस्थापनयोगान्, स्वयं द्वारापावरणयोगान्, तालोद्घाटनयोगान्, ज्याच्छेदनयोगं, नासिकाबन्धनमुखग्रहणयोगान्, आनाहकरणान्धीकरणमारणवृत्तिच्छेदोत्सादनापुरुषीकरणयोगान्, अन्नपानभाजनाक्षययोगान्, ग्रामगत सर्वनवनीतागमनयोगान्, वृक्षात् स्वयमेव फलागमनयोगान्, स्त्रीषु सेनासु च प्रयुक्तविषप्रतीकारयोगान्, मदनोन्मादप्रयोगप्रतीकारयोगान्, विषविशेषप्रतीकारयोगान्, अन्यांश्च मन्त्रभेषज्यसंयुक्तान् मायाकृतान् योगान् प्रयोगांश्चजानीयुः॥
एवमेवंविधैरनिष्टैःअद्भुतोत्पातैश्च परस्याराज्यायोद्वेगमाचरेयुः, परकृत्येभ्यश्च तेभ्यः आत्मानं स्वजनं चाभिपालयेयुः॥
-
*
१५. पञ्चदशमधिकरणं—तन्त्रयुक्तिः.
मनुष्याणां वृत्तिः–अर्थः–मनुष्यवती भूमिरित्यर्थः, तस्याः पृथिव्याः लाभपालनोपायः शास्त्रं अर्थशास्त्रमिति ॥
इदं चार्थशास्त्रं—अधिकरणं विधानं योगः पदार्थः हेत्वर्थः उद्देशः अपदेशः निर्देशः उपदेशः अतिदेशः प्रदेशः उपमानं अर्थापत्तिः संशयः प्रसंगः विपर्ययः वाक्यशेषःअनुमतं व्याख्यानंनिर्वचनं निदर्शनं अपवर्गः स्वसंज्ञा पूर्वपक्षः उत्तरपक्षः एकान्तः अनागतावेक्षणं अतिक्रान्तावेक्षणं नियोगः विकल्पः समुच्चयः ऊह्यं इत्येतदभिधानैः द्वात्रिंशत्तन्त्रयुक्तिभिः तांस्तानर्थान् उपपादयति निर्णयं करोति च ॥
-
*
ग्रन्थोपसंहारः
सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च ।
कौटल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ॥
एवं शास्त्रमिदं राज्ञां प्रजानां च प्रियं हितम् ।
धर्ममर्थं च कामं च प्रवर्तयति पाति च ॥
अधर्मानर्थविद्वेषान् निहन्त्यप्यशुभावहान् ।
इमान् परांश्च लोकान् स्वान् जयन्त्वेतेन भारताः ॥
-
*
एवं वेङ्कटनाथेन सङ्गृहीतं यथास्थितम् ।
संक्षेपरुचयोऽप्यर्थशास्त्रवर्त्म विदन्त्विति ॥
नीतिशास्त्रामृतं श्रीमान् अर्थशास्त्रमहोदधेः ।
य उद्दध्रेनमस्तस्मै विष्णुगुप्ताय वेधसे ।
ॐ नमः शुक्रबृहस्पतिभ्याम् ॥
नमो धर्माय महते
-
*
जय श्रीः !
बार्हस्पत्यानिनीतिसूत्राणि
-
*
प्रथमोऽध्यायः
1. बृहस्पतिरथाचार्यः इन्द्राय नीतिसर्वस्वमुपदिशति ।
2. आत्मवान् राजा ।
3. आत्मवन्तं मन्त्रिणमापादयेत् ।
4. दण्डनीतिरेव विद्या ।
5. धर्ममपि लोकविक्रुष्टं न कुर्यात्, करोति चेदाशास्यैनं बुद्धिमद्भिः।
6. समानैः सेव्यः।
7. स्त्रीबालवृद्धैः सह न वदेद्धर्मनीतिकृत्यानि ।
8. ऐन्द्रजालिकं न कुर्यात्, न मन्त्रवादोत्सवौ, नामयविषविध्वंसनानि, न भस्मधारणम्, नाग्निहोत्रवेदपाठादीनि, न तीर्थयात्राम्, न राजसेवाम् न स्त्रीसेवां च ।
9. न मद्यं पिबेत्, ब्राह्मणं न हन्यात्, स्तेयं न कुर्यात्, बहु न च स्रगनुलेपौ, न निषीदेत, न चातिकुप्येत् ।
10. अविषये लोभं अदानसंज्ञं ( वर्जयेत् ) ।
11. केदारे बीजानि वापयेत्, (पात्रे च) दानं कर्तव्यम् ।
12. तदसहिष्णुता लोभः, स्तेयं च लोभः।
13. स्वद्रव्यव्ययहेतुः कामः।
14. गुरुदेवप्राज्ञनृपादिहिंसाबुद्धिः क्रोधः, स्वशिरस्ताडनं च ।
15. बलादिषु च समं शत्रुं युद्धेन हन्यात् ।
16. अन्याभियोधिनः सामदानभेदमायोपेक्षादिभिः ।
17. मलवेषं न कुर्यात् ।
18. मृगयातिसङ्गं नाचरेत् ।
19. स्त्रीष्वतिसङ्गात् अयशो वर्धते, आयुश्च क्षीयते ।
20. द्यूतपरतापपरापवादपातकिसमागमे समन्त्रपदानि परच्छिद्राणि विद्यात्, व्यसनमपि रहस्येन ।
21. औषधोपयोगविण्मूत्रविसर्जनस्नानदन्तधावनमैथुनोपभोगदैवत पूजाः रहस्येन ( कुर्यात्) ।
22. वृथाधर्मध्वजिनं न विश्वसेत्, निन्देन्न च ।
23. उन्मत्तजडादीन् दृष्ट्वा न हसेत् ।
24. तुल्यशीलवयोभिः क्रीडितव्यं रहस्ये ।
25. गजाश्वक्रीडे व्यक्ते न द्विमूर्तम् ।
26. दूषयेन्न च स्वजातिजीवत्सु ।
27. अर्थेनानुरागेणाभिजन्मनौदार्येण च पूर्वेः भविष्ये अधिकत्वे इच्छा कर्तव्या ।
28. पूर्वाचरितं धर्मं, अनुजीविसख्यं, अगातृज्ञातिसुहृद्बान्धवांश्च समं पश्येत् ।
29. बहिरन्तर्दण्डदाने अनुजीविषु, सामभेददानानि मन्त्रिषु, सामभेददानार्थमायपिण्डानि ज्ञातिषु ।
30. अप्रियमपि वचनं शृणुयात् ।
31. दुर्दिनप्रहवैषम्यत्रिजन्मनक्षत्रे गुरुकार्यप्राप्तौ न च मङ्गलानि सेवेत ।
32. एकदेशकरूपिणीं अभिजातां स्त्रियं गमयेत् ।
33. नातिभेदयेत्, नातिसाम, नातिदानं, न च स्त्रीषु दण्डः, न च मायोपेक्षा कर्तव्या, न बहुवदेच्च ।
34. ग्रामयाचकस्तुतमागधवन्दिनटनर्तक्युपाध्यायासत्यवादिवटुविटवणिजगोपालवेश्याकुनृपेषु अनृताडम्बरः वक्तव्यः ( कर्तव्यः ) ।
35. संन्यासं नृपवेश्यामन्त्रवादोपजीविषु चिरं न सेवेत ।
36. आत्मप्रभुं सेवेत ।
37. आयत्यादीनति न सेवेत ।
38. स्त्रीद्यूतपानासक्तान् न सेवयेत् ।
39. पञ्चनाडिकाः इष्टदेवतापूजाजपादि, पञ्चनाडिकायामतीतायां आस्थानं, दशनाडिकाः विधिः, पञ्चनाडिकाः स्नानं, त्रिनाडिकाः भोजनं, पञ्चनाडिकाः हास्यक्रीडा स्निग्धैः, द्विनाडिका सन्ध्या, सप्तनाडिकाः नृत्तादयः, सप्तनाडिकाः मैथुनभोजनादयः, सप्तनाडिकास्सुप्तिः ।
40. स्वनियमं कुर्यादप्रमादेन, अश्वनियामक इव ।
41. शिरः कम्पनास्थानेन स्वागतेन शिष्टताम्बूलदानेन च ब्राह्मणोत्तमान् (मानयेत्) ।
42. दुर्ब्राह्मणं सोपायनमपि न शिरःकम्पेन ।
43.समानप्रभुं विद्येश्वरं वा स्वागतेनासनेन शिरःकम्पेन ताम्बूलदानेन हास्यकथया च ।
44. स्मितेन स्वागतेनान्यांस्त्रैवर्णिकान् ।
45. ईक्षणस्मितेन स्वागतेन शूद्वान् ( न ?) ।
46. अभीष्टद्रव्यदानेन बालवृद्धादीन् ।
47. अन्त्यपाषण्डादीन् वाङ्मात्रेणापि न ।
48. कार्यगुरुतया अनुगच्छेत्, अल्पं वदेत्, योगं दद्याच्च ।
49. वर्णिकापरिग्रहं न कुर्याद्रहस्ये ।
50. कर्मकरान्प्रतियोगिनोऽपि कार्यं रहस्ये न विचारयेत् ।
51.स्निग्धैः सह समानं वर्येन्मन्त्रित्वे ।
52. अन्त्यजं त्वनन्त्यजातिनम् अन्त्यजानां हि स्वार्थानिवेदकत्वं आज्ञाकर्त्वंच, तन्नातिलालयेत्, न विश्वसेच्च।
53. सर्वं ज्ञात्वा न कुर्यात् ।
54. धर्मगुप्तिः गृहयात्रागुप्तिः कार्यगुप्तिः वैरगुप्तिश्च ।
55. यशोभङ्गे सत्यमपि नेति वदेत् ।
56. चिकित्सकज्योतिषिकमन्त्रवादिनः संगृह्णीयात् वृत्तशीलसम्पन्नान् ।
57. सत्यमपि दुःखानर्थसाधनं न वदेत् ।
58. पञ्चविंशतिवर्षं यावत् क्रीडाविद्यां व्यसनात् कुर्यात्, अत उत्तरमर्थार्जनम् ।
59. आत्मानमनृणिनं कुर्यात्, ऋणवान् जायते त्रिभिः कामक्रोधलोभैः ।
60. शरीरं सर्वदा रक्षेत् ।
61. नित्यकर्म न यजेत् ।
62. जनघोषे सति क्षुद्रकर्म न कुर्यात् ।
63. नष्टे न स्थातव्यम्, दूरपरिहरणीयं गुरुतरमपि तद्राजकार्यम् ।
64. कुसुमान्तान् दण्डनायकान् नवान् न सेवेत ।
65. अल्पहानिः सोढव्या ।
66. यतो मातङ्गचोरव्यालसर्पव्याघ्रकुलं विपिने श्मशाने च वसति, तस्मात् परमनागतां ज्ञातिवैरं न कर्तव्यम् ।
67. राज्योपप्लवेतद्राज्यक्षेत्रं एकामिषश्वानवत् ।
68. नीतिः किल नदीदीरतरुवत् तन्नेहितव्यम् ।
69. भूतद्रोहिणः कुसुमान्तादयः ।
70. यशोवीर्यायुः श्रियो हरति कुसुमान्तसेवा।
71. कामक्रोधमदमात्सर्यपैशुन्यादीन् न कुर्यात् ।
72. अरिः शुभशीलः मित्रम् ।
73. सुहृदशुभशीलः शत्रुः ।
74.चन्द्रादित्ययोः एकरुचित्वात् शत्रुत्वम्, यदि चेन्नस्थितिस्तयोः ।
75.ज्ञातिषु यत्र वैरं तत्कुलं आमूलं नश्यति ।
76.यश्शास्त्रंदण्डनीतिं परित्यजति अनर्थकः, सः शलभ इव वह्निं प्रविशत्यज्ञानात्—इत्याह भगवानाचार्यः सुरेन्द्र गुरुः॥
* *
द्वितीयोऽध्यायः
1. गुणवतो राज्यम् ।
2.विद्यागुणोऽर्थगुणः सहायगुणाश्च ।
3. स्वकुलरञ्जनं च चारित्ररक्षणम् ।
4. कृषिगोरक्षवाणिज्यानि (अध्येयानि ) ।
5. सर्वथा लोकायतिकमेव शास्त्रमर्थसाधनकाले, कापालिकं कामसाधने, आर्हतं धर्मे ।
6. लोकायतिकमसेनार्थं क्षिप्रं नश्यति तत्, कापालिकार्हतबौद्धाश्च । एतेषु तिष्ठन् शलभवह्निवत्, फलानि श्रोत्रसलिलकल्पानि ।
7. अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्तवद्यदेच्छति, तदा लोकायतिकाभिधानपाषण्डी ।
8. यदा चण्डालः उदारसुरामांसादिकामेच्छुः तदा कापालिकामिधानपाषण्डी ।
9. यदा सन्ध्योपासनाद्यग्निहोत्रादि च परित्यज्य अहिंसाधर्मेच्छुः तदा क्षपणकाभिधानपाषण्डी ।
10. यदा वेदोक्त कर्मज्ञानं सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्यज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी ।
11. वृथाधर्मं वदत्यर्थसाधनं लोकायतिकः पिण्डादयश्चौर्यमिति च ।
12. सर्वमर्थार्थं करोति अग्निहोत्रसन्ध्याजपादीन् ।
13. स्वदोषंगूहितुं कामार्थ वेदं पठति ; अग्निहोत्रादीन् करोति सुरापानार्थं महिलामेहनार्थं चेति ।
14. विष्ण्वादयः सुरापानिनः इति कापालिकाः ।
**15. धर्मार्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः, शिवादयस्तथेति वदति च । स च परापवादार्थ वेदशास्त्रधर्मादीन् पठति । सर्वान्निन्दति महेश्वरविष्ण्वादीनपि, सोऽध्यशनार्थं वदति । **
16. वदनार्थं परान् स्तौति स बौद्धः ।
17. लोकायतिको मृतः भवति अर्थकामधर्ममोक्षविहीनः नारकी च, तत्कुलं च तत्पुत्रपौत्रान्तरे विनश्यति ।
18. कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकीभवति, तस्मिन् काल एव कुलं विनश्यति ।
19. क्षपणकः स्वकुलग्रामवासिभिर्निन्दितः भवति, त्रिकुलं विनश्यति ।
20. बौद्धसचिंत कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी ।
21. एवं पाषण्डिसम्पर्कं मनसापि न कुर्यात् ।
22. सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेणराज्यं परिपालयितुं न शक्यते ।
23. ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति ।
24. कार्यं निश्चित्य विषयाननुभवति यः स उत्तममर्थं साधयति ।
25. चेष्टया कार्यज्ञानी अर्थपर इति धर्मवानिति च लोकैर्यथा न ज्ञायते तथा कर्तव्यम्, ईश्वर इव चन्द्रादित्याविव च ।
26. स्वामिचित्तानुवर्तिभिः मत्यैक्यकारि कर्मैव मन्त्रम् ।
27. नीतेः फलं धर्मार्थकामावाप्तिः ।
28.धर्मेण कामार्थी परीक्ष्यौ, धर्मं धर्मेण, अर्थमर्थेन, कामं कामेन, मोक्षं मोक्षेण ।
29. गुरुशासनं कार्यमेव धर्मेण विरुद्धमपि, पाण्डवविवाह इव, अर्जुनसंन्यास इव, व्यासविधवागमनमिव कर्णोत्पादनमिव, राममातृवध इवेत्यादि ।
30. नीतिवियुक्तः पुत्र इव शत्रुः ।
31. बालं दुष्टं साहसिकमज्ञातशास्त्रं मन्त्रे न प्रवेशयेत् ।
32. मूढाः दुराचाराः तीक्ष्णाः आत्मबुद्धयः क्षिप्रक्रुद्वाः बालाः न मन्त्रायोग्याः ।
33. सर्वरत्नान्यपि दीयन्तां स्वकार्यजीवयशोरक्षणे।
34. मन्त्रकाले न प्रकोपयेत्।
35. धर्मः प्रधानं पुरुषार्थानाम् ।
36. अधर्मेण भुज्यमानं सुखमसुहृत् स्थितिवर्धनं च ।
37. अपथ्यभोजनः मृत्युप्रीतिकर इव ।
38.सत्यव्रतः शास्त्रेषु निष्ठितः पुरुषः सागरमपि शोषयेत् ।
39.स यदि क्रुद्धः ( सर्वे ) हतपौरुषाः त्रस्ता भवन्ति ।
40.एक एवदुर्जनः बहून् नाशयति ।
41.पौरुषे निष्ठितः देवः ।
42.यस्य स्वदाररतिः यस्य च आत्मदमने शक्तिः तस्य सदृशो न ।
43.सज्जनो न भयाद्व्यतिवर्तते ।
44.तस्मिन् काले हितं अवक्तव्यं अवाक्यज्ञैः सुहृद्भिः ।
45.उत्सिक्तहृदयं धर्मे चलितगौरवं अजितात्मानं शासितुं नोत्सहेत्।
46.दारुणकर्मभिः श्रान्तं अज्ञाननिद्रया सुप्तं च बालं धर्मवाक्यानिलैः शीतलैः प्रबोधयेत् ।
47.दुर्जनमध्ये सूर्यवत् प्रकाशते सुजनः ।
48.अधर्मव्यवस्थितान् न्यायवृत्तेन वारयेत् ।
49. अधर्मंअकीर्तिञ्च नार्जयेत्, न च कमपि मारयेत् ।
50. बोलाः निवार्यन्तां धर्मपाठाङ्कुशेन गजा इव ।
51. गुरुवचनमलङ्घनीयं नयानुगतं चेत् ।
52. गुरुमपि नीतिवियुक्तं निरासयेत्—इत्येतान् गुरुराहेति ।
-
*
तृतीयोऽध्यायः
1. जितक्लेशस्य पौरुषम् ।
2. देशान्तरवासेन जितक्लेशो भवति ।
3. सर्वबलकालदेशसामप्रकृतिसहायामवयसां ज्ञानं उपवासादिसहिष्णुत्वं च सम्पादयेत् ।
4. सुगन्धवासान् कोशान् कुर्यात् ।
5. बहुवादमपि मधुरमेव कुर्यात् ।
6. शमबुद्वीनू मणीन् सर्वान् सर्वदाऽऽराधयेत् ।
7. नवानि मन्त्राणि विद्यात् ।
8. तानि त्रिविधानि प्रमिन्नानि—शाक्तवैष्णवशैवानि ।
9. मोक्षपुर्याः द्वारं त्रयं—शाक्तं वैष्णवं शैवमिति ।
10. पोतयानमार्गवत् शाक्तं, महापथवद्वैष्णवम् ।
11. केवलप्रधानिकं शैवं अश्वरथयानवत् ।
12. लोकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्याटवी गुहामार्गवत् ।
13. एतान् निरूप्यैकमाश्रयेत् ।
14. ज्योतिर्नाथस्थितं सदा निरूपयेत् ।
15.चातुर्वर्ण्यंरक्षेत् ।
16. औषधानि सेवेत ।
17. बलवर्णतेजोमदबुद्विशौर्यदयावर्धनानि दोषधातुशमनानि ।
18. दानमानालङ्कारविद्याभिः सिद्धिं लभेत ।
19. अष्टादशतीर्थानि निरूपयेत् ।
20. षट्प्रकृतयस्तीर्थ शत्रुमिवोदासीनाश्च अन्तरश्शत्रुः अन्तर्मित्रं अन्तरुदासीन इति तेऽपि अनुजीविसखिसुहृदश्वभार्यापुत्रबान्धवाश्च; अन्येऽपि देवालयनृत्तगागभूमिसन्ध्यावापीचतुष्पथपाषण्डालयापणबालविद्यापीठशेखलूरीशालीचन्द्रदर्शनाद्युत्सववेश्यागृहसमुद्रतीरयतिसंनिधिराज्यसन्धिसुराविक्रयस्थानपान्थनिवासाश्च ।
21. शृङ्गारवेषं कुर्यात् ।
22. पुरद्वारे सर्वनिरोधनंकार्यम्, सर्वान् न निषेधयेच्च ।
23. इतिहासपुराणानि तत्पाकान् शाक्तागमन् वैखानसागमान् सांख्यान् शैवांश्च मानयेत् ।
24. सर्वानपि स्याध्यायं कुर्यात् कारयेच्च ।
25. ब्राह्मणं न हन्याद्दोषदुष्टमपि ।
26. निर्दयस्य दया कर्तव्या ।
27. ग्रामणीन् नगरेन्द्रांश्च सम्भावयेत् ।
28. दुर्बलमपि साम कुर्यात्, दानेन बहु, न स्वरूपं च, नोत्तमेषु गुणबाहुल्यक्रमेण ।
29.अक्षैर्दीव्यात्, नैव दीव्याच्च ।
30.सर्पादीन् हन्यात् ।
31.उत्तमान् नानामन्त्रसिद्धान् विद्याबहुलान् द्विजान् मानयेत् ।
32.अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीन् आत्मवत् सम्भावयेत् भोजनाच्छादनादिभिः।
33.शरणागतं सर्वपातकयुक्तमपि रक्षेत् ।
34.दुष्टनिग्रहं कुर्यात् शिष्टपरिपालनं च ।
35.ग्रामं नगरं देवालयानि च न बाधेत ।
36.आसवानि सेवयेत्, अति न, मांसानि च ।
37.घृणा कार्या, बौद्धादयो न ग्राह्याः।
38.न मत्तकाशिन्यः सेव्याः।
39. पञ्चाशत्कोटियोजना पृथ्वी, सप्तद्वीपवती च, सप्त समुद्रावृता च ।
40. कर्मभोगातिभोगदिव्यशृङ्गारसिद्धकैवल्या इति द्वीपाभिधानाः।
41. मध्यः कर्मभूमिः, तन्मध्ये मेरूराजम्बूः, तत्रोत्तरे हिमवान्, तस्य दक्षिणे नवसाहस्त्रीभूः।
42. तत्र दाक्षिणात्यो भारतः खण्डः, तत्र साक्षाद्धर्माधर्मफलाः सिद्ध्यन्ति ।
43. तत्र दण्डनीतिः पूर्वभारतीयैः पठितव्या भविष्यैर्वर्तमानैः चातुर्वर्णिकैश्च ।
44. दण्डनीत्या भगवान् भानुर्नृपतिः, वायुः सर्वे देवाश्च जन्तवश्च ।
45. सहस्रयोजना बदरिका सेत्वन्ता ।
46. द्वारकादि पुरुषोत्तमसालग्रामान्ता सप्तशतयोजना ।
47. तत्रापि रैवतकविन्ध्यसह्यकुमारमलयश्रीपर्वतपारियात्राः। सप्त कुलाचलाः।
48. गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमालाः कुलनद्यः।
49. अष्टादश विषयाः, अष्टादशसागराः नृपाः, अष्टादश पार्वतीयाः ।
50. रामसृष्टिः चत्वारिंशच्छतं दक्षिणोत्तरे आसां द्वादह्यं, विश्वामित्रसृष्टिरेकादश ।
51. नेपालं चतुश्शतं, पूर्वसमुद्रतो वरणतः समुद्रान्तं अष्टयोजनम्, पञ्चशतद्वितयं उत्तरलाटं पूर्वलाटञ्च, काशीपञ्चालद्वितयं अशीतिः, केकयसृञ्जयं सृष्टिः, मात्स्यमागधं शतम्, मालवशकुन्तमशीतिः, कोसलावन्तिः षष्टिः, सैह्यवैदर्भद्वितयं शतद्वितयम्, वैदेहकौरवं शतम्, काम्बोजदशार्णमशीतिः, एते महाविषयाः ; एते खलु चतुरश्राः।
52. आरट्टबाह्लीकौदक्षिणोत्तरतः शतमात्रौ पूर्वपश्चात् द्वादशौ, शाकसौराष्ट्रे चतुरश्रौ चत्वारिंशत्,अङ्गवङ्गकलिङ्गाः शतमात्राः चतुरश्राश्च, काश्मीरहूणाम्बष्टसिन्धवः शतमात्रश्चतुरश्राश्च, किरातसौवीरचोलपाण्ड्याःउत्तरे दक्षिणे स्थिताः शतोत्तरं षष्टिमात्राः, यादवकाञ्चीविषयं चत्वारिंशच्छतमात्रं, एत उपविषयाः।
53. सप्तकोङ्कणाः चतुश्शतमात्राः द्वादशषडष्टौ च अनूपाः, एते अनूपाः।
54. सह्याद्रौ चत्वारो गिरिविषयाः, श्रीपर्वते द्वयम्, रैवतक एकः विन्ध्ये पञ्च, कुमारे एकम्, महेन्द्रे त्रयम्, पारियात्रे त्रयम् ।
55. सर्वे दक्षिणोत्तरतः पञ्चाशन्मात्राः पूर्वतः पश्चात् पञ्चयोजनाः समाः।
56. म्लेच्छे यवनविषयाः पार्वतीयाः।
57. ग्रामनगरोद्यानादिभिरलङ्कृताः पुण्यक्षेत्रादिभिश्च अष्ट वैष्णवक्षेत्राः बदरिकासालग्रामपुरुषोत्तमद्वार- काबिल्वावाचलानन्तसिंहश्रीरङ्गाः ।
58.अष्टौ शैवाः अविमुक्तागङ्गाद्वारशिवक्षेत्ररामेश्वरयमुनाशिवसरस्वतीमध्यशार्दूलगजक्षेत्राः ।
59. शाक्ता अष्टौ च—ओग्घीणजालपूर्णकामकोल्लश्रीशैलकाञ्चीमहेन्द्राः।
60. एते महाक्षेत्राः सर्वसिद्धिकराश्च वन्द्याश्च ।
61. विन्ध्ये नित्यं वसति दुर्गा भद्रकाली च, कुमारे कुमारो वसति, सह्येगणपतिः, रैवतके शास्ता, महेन्द्रे गरुडः, पारियात्रे क्षेत्रपालः।
62. कर्मभूमौ भारते मनुष्यैः बहवो देवाः।
63. सुरासुरयक्षराक्षसभूतप्रेतविनायककूश्माण्डाः विकृताननाः निरूद्धाः भारवेषाः सौम्यभैरवाः योगिन्यश्च नागाश्च मानवैस्सह रूपरमा असंख्याताश्चरन्ति, मानवैः कृतपालनाश्च ।
64. तस्मिन्नमृतमध्यः ओषध्यः सन्ति ।
**65. अत्रयुगसंख्या कृतत्रेताद्वापरतिष्याश्च ; कृते–ज्ञानिनः दण्डनीति कोविदाः, त्रेतायां–कर्मिणः नीतिविशारदाः, द्वापरे–तान्त्रिकानुसाराः घनरसाश्च नीतिकोविदाश्व, तिष्ये–ज्ञानकर्मघनाः दण्डनीतिकोविदा नराः, तदुत्तरं विरुद्धधर्मवर्णवेषाः दण्डनीतिवर्जिताः पश्यन्ति प्रजा अनृतवादतत्पराश्चेत्याह गुरुः **
-
*
चतुर्थोऽध्यायः
1. ब्राह्मेमुहूर्ते उत्थाय धर्ममर्थञ्च चिन्तयेत् ।
2. कुक्कुटशब्दः शुभं, गजादिदर्शनं च, गजशब्दमङ्गलस्तुतिवेदपाठनानि च देवतापुण्यकथाश्च, राजन्यस्मरणं च, नेत्राञ्जनं च, आदर्शदर्शनं च ।
**3.अलङ्कारयेत्—ताम्बूलचर्वणं च, कर्पूरचन्दनागरुधूपञ्च । **
4. शङ्खकाहलविषाणाच्छिन्नवेणुवीणातन्त्रीमृदङ्गपणवाः तूर्यघोषाश्च, दिव्यप्रमदादर्शनं च, मागधभिन्नषड्जं च, जातिस्वरं च ।
5 सर्पिषि सितपुष्पाणि, मन्त्रतृप्तो वह्निः शतार्चिर्विष्णुलिङ्गधूमयुक्तो भवति ।
6. तदशुभं गवां सन्दर्शनं, गृध्रसंदर्शन च, सन्ध्याज्वलनं च, विरुद्वशिवादर्शनं च ।
7. क्रव्यादमृगाणां शब्दो ग्रामपुरद्वारे वा श्रूयते ।
8.देवताप्रतिमास्वेदश्च यस्मिन् दृश्यते तत्र प्रायश्चित्तं—अन्यत्र यानमेव प्रतीकारो नास्ति ।
9. अवश्यनिरूपणीयान्येतानि कर्माणि ।
10. मन्त्रमूलो विजयः।
11. त्रिविधाः पुरुषाः उत्तमाधममध्यमाः, मन्त्रेऽपि ।
12.बहुभिर्बान्धवैः हितैर्बहुश्रुतैः धीरैस्सह यत्कर्मारभते तदुत्तमम् ।
13.धर्मद्विविधे गुरौभक्तिश्च ।
14. अर्थपरैस्सह मन्त्रयित्वा य आरभते स उत्तमः।
15. गुणदोषागमं निश्चित्य मौर्ख्यबाहुल्यात् यः आरभते सोऽधमः।
16. ऐकमत्येन दण्डनीतिनेत्रेण धीरैर्मन्त्रिभिर्यो मन्त्रः स उत्तमः।
17. पूर्वंबहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः।
18. यत्र कलहः भर्त्सनं च एकस्य धर्मः, एकस्य अर्थः, स्त्रीबालवृद्धैस्सह एकस्य रुदितं, एकस्य क्रोधः यस्मिन् सोऽधमः।
19. पूर्वं स्वामिना कार्यनिवेदनम्, पुनर्वचसा कर्मणा मनसाञ्जलिना दण्डप्रणामेन यथा गुरुत्वं स्वामिनमभिवन्दयेत्।
20. वृद्धोवैश्रवणो वाचस्पतिर्वा यस्यान्नं भुञ्जते तं वन्देत।
21. यत्पुनः यथाक्रमं एकैकस्य मतं श्रोतव्यम् ।
22. स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम् ।
23. पूर्वं स्वामिगुणंसंकीर्त्य, स्वामिदोषं परदोषं च मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थापनं कुर्यात् ।
24. पुनः कार्याण्युपायानि निरूप्य स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम् ।
25. प्रमत्तेषु अभियुक्तेषु दैवोपहतेषु च न सिद्ध्यन्ति विक्रमाः।
26. अप्रमत्तं धर्मज्ञं जितेन्द्रियं विजिगीषुंबलिषुजातकोपं दुराधर्षं प्रति विक्रमो न कार्यः ।
27. शास्त्रवित् कथं कार्य न प्रजानातीति न वदेत् ।
28. बलिष्टान् शत्रून् कामादीन् ये जयन्ति ते सर्वानरीन् जयन्ति ।
29. पूर्वमुपकारं न कारयेत् उपकार नियतं कुर्याच्च।
30. नाभावि व्यसनं पूर्वंज्ञात्वा व्यसननतीकारं कार्यमिति गुरुराह ।
-
*
पञ्चमोऽध्यायः
1. चत्वारःउपायाः त्रयश्च, मायोपेक्षा वधश्च ।
2. सूरिषु साम, शङ्कितेषु सामभेदौ, लुब्धेषु सामदानभेदाः, कष्टेषु सामभेददानमायोपेक्षावधाः।
3. साम पूर्वं प्रयोक्तव्यम् ।
4. मनसोऽभिप्रायं वाचः प्रीतिकर्म च ।
5. ज्ञातीनां व्यसने ज्ञातयो हृष्यन्ति ।
6. ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति ।
7.सर्वभयेषु ज्ञातिभयं क्रूरम् ।
8.गोषु पयः, ब्राह्मणेकोपः, स्त्रीषु चापलं दूरत्वं, ज्ञातिषु सौहृदं च पत्रजलबिन्दुवत् ।
9. हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न शृणवन्ति कालचोदिताः, तान् सुपरिहृत्य अन्यत्र वसेत् ।
10.लोकविरुद्धं नाचरेत् ।
11.मन्त्रविद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र न कार्यं व्यसनानि च ।
12.दुर्जनं परिहृत्य वक्तव्यं, विद्यायुक्तोऽपि गुहाहिरिव ।
13.शत्रुपक्षादागतं न विश्वसेत्, गुणतः सङ्गृह्णीयात्, भावैः परीक्षयेत् ।
14.वीरोऽसारैः सहसा न ज्ञायते, बुद्धिमविज्ञाते सहसा परीक्षयेत् ।
15.इङ्गितैर्ज्ञातुं शक्यते, प्रसन्नो न ।
16.अशङ्कितमतिः स्वस्थः, अकोपनश्च बालादयोऽपि विवृण्वन्ति हितम् ।
17.स्वकुलस्य विनाशं ज्ञात्वा बुद्धिमांस्तत्र शत्रुपक्षमपि न युक्तमाश्रयेत् ।
18. हृदये यथावच्छुभाशुभं पूर्वमुदेति ।
19. न दुष्टाचारः सर्वत्र कारयेत् ।
20. चपला न बहुमान्याः, इत्याहाचार्यो बृहस्पतिः।
-
*
षष्ठोऽध्यायः
1. देशकालयोग्यं कर्म नयानयौ च वेदयेत्, न विपरीतं वेदवीर्यदर्पेण ।
2. हितानि निरूपयेत् ।
3. नवो मन्त्रिमिर्निरूप्य कार्येत ।
4. बुद्धिजीवनैरमात्यैस्सह कार्यमकार्यंच निरूपयेत् ।
5. अहितं विकारं यस्य प्रतिभाति स मन्त्रयोग्यः।
6. अर्थमार्जयेत् ।
7. यस्यार्थराशिरस्ति तस्य मित्राणि धर्मः विद्या गुणः विक्रमः बुद्धिश्च ।
8. अधनेनार्थमार्जयितुं न शक्यते, गजोऽगजेनेव ।
9. धनमूलं जगत्, सर्वाणि तत्र सन्ति ।
10. निर्धनो मृतश्चण्डालश्च ।
11. एवं धर्ममूलं च विद्यामार्जयेत् ।
12. विद्यामूलमिदं जगत्, विद्यापुनस्सर्वमित्याह गुरुः॥
इति बार्हस्पत्यनीतिसूत्राणि
समाप्तानि
-
*
जयश्रीः !
कौटलीयानि राजनीतिसूत्राणि
(चाणक्यनीतिसूत्राणि )
<MISSING_FIG href="../../../books_images/U-IMG-1698499051Screenshot2023-10-28184700.png"/>
प्रथमोऽध्यायः
[ सुराज्यसम्पादनस्य सर्वसुखहेतुता ]
1. सुखस्य मूलं धर्मः1।
2. धर्मस्य मूलमर्थः2।
3. अर्थस्य मूलं राज्यम् ।
4. राज्यस्य मूलमिन्द्रियजयः3।
5. इन्द्रियजयस्य मूलं विनयः4।
6. विनयस्य मूलं वृद्धोपसेवा5।
7. वृद्धोपसेवाया विज्ञानम्6 ।
8. विज्ञानेनात्मानं संपादयेत्7।
9. संपादितात्मा जितात्मा भवति ।
10. जितात्मा सर्वार्थैस्संयुज्यते ।
11. अर्थसंपत्प्रकृतिसंपदं8 करोति ।
12. प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते ।
13. प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान् ।
14. अविनीतस्वामिलाभात् अस्वामिलाभः श्रेयान् ।
[सन्मन्त्रणावश्यकता]
15. संपाद्यात्मानमन्विच्छेत् सहायान् ।
16. नासहायस्य मन्त्रनिश्चयः।
17. नैकं चक्रं परिभ्रमति9 ।
18. सहायः समसुखदुःखः ।
19.मानी प्रतिमानिनमात्मनि10 द्वितीयं मन्त्रमुत्पादयेत् ।
20. अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ।
21. श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत11 ।
22. मन्त्रमूलास्सर्वारम्भाः12।
23. मन्त्ररक्षणे कार्यसिद्धिर्भवति ।
24. मन्त्रनिःस्रावी13 सर्वमपि कार्यं नाशयति ।
25. प्रमादात् द्विषतां वशमुपयास्यति ।
26.सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः।
27.मन्त्रसंपदा राज्यं वर्धते ।
28.श्रेष्ठतमां मन्त्रगुप्तिमाहुः।
29.कार्यान्धस्य प्रदीपो मन्त्रः।
30. मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ।
31.मन्त्रकाले न मत्सरः कर्तव्यः।
32. कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः।
33. षटकर्णाद्भिद्यते मन्त्रः।
34. त्रयाणामैकवाक्ये एवासम्प्रत्ययः14।
[ मित्रसङ्ग्रहस्य राज्यतन्त्रहेतुता ]
35.आपत्सु स्नेहसंयुक्तं मित्रम्।
36. मित्रसङ्ग्रहेण बलं सम्पद्यते ।
37. बलवानलब्धलाभे प्रयतते ।
38. अलब्धलाभो नालसस्य ।
39. अलसेन लब्धमपि रक्षितुं न शक्यते ।
40. न चालसस्य रक्षितं विवर्धते ।
41. नासौ भृत्यान् पोषयति, न तीर्थं15 प्रतिपादयति च ।
42. अलब्धलाभादिचतुष्टयं16 राज्यतन्त्रम् \।
[ नीतिशास्त्रस्थानं राजतच्छत्रुमित्राणि च ]
43.तच्च राज्यतन्त्रमायत्तं नीतिशास्त्रेषु ।
44.राज्यतन्त्रेष्वायत्तौ17 तन्त्रावापौ18 ।
45. तन्त्रं स्वविषयकृत्येष्वायत्तम् ।
46. आवापो मण्डलनिविष्टः।
47. सन्धिविग्रहयोनिर्मण्डलः।
48.नीति19शास्त्रानुगो राजा ।
49. अनन्तरप्रकृतिश्शत्रुः20।
50. एकान्तरितं मित्रमिष्यते21 ।
51. हेतुतश्शत्रुमित्रे भविष्यतः।
[ षाड्गुण्यम् ]
52. हीयमानस्सन्धि कुर्वीत22।
53. तेजो हि सन्धानहेतुस्तदर्थानाम्23 ।
54. नातप्तलोहो लोहेन सन्धीयते ।
55.बलवान् हीनेन विगृह्णीयात्, न ज्यायसा समेन वा24 ।
56. गजेन पादयुद्धमिव बलवद्विग्रहः, आमपात्रमप्यामेन सह विनश्यति।
57.अरि प्रयत्नममिसमीक्षेत ।
58.सन्धायैकतो वा यायात् ।
59. अमित्रविरोधादात्मरक्षामावसेत् ।
60. शक्तिहीनो बलवन्तमाश्रयेत्25 ।
61. दुर्बलाश्रयो दुःखमावहति ।
62. अग्निवद्राजानमाश्रयेत्26 ।
63. राज्ञः प्रतिकूलं नाचरेत्27 ।
64.उद्धतवेषधरो न भवेत्
65.न देवचरितं चरेत्28 ।
66. द्वयोरपीर्ष्यतोः द्वैधीभावं29 कुर्वीत ।
[ दुर्व्यसनादिपरिणामाः]
67.न व्यसनपरस्य कार्यावाप्तिः।
68. इन्द्रियवशवती चतुरङ्गवानपि विनश्यति30 ।
69.नास्ति कार्यंद्यूतप्रवृत्तस्य ।
70.मृगयापरस्य31 धर्मार्थौ विनश्यतः।
71.न कामासक्तस्य कार्यानुष्ठानम् ।
72.अर्थेषणा न व्यसनेषु गण्यते32 ।
73.अर्थतोषिणं हि राजानं श्रीः परित्यजति ।
74.अग्निदाहादपि विशिष्टं वाक्पारुष्यम् ।
75. दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ।
76. अमित्रो दण्डनीत्यामायत्तः।
77. दण्डनीतिमधितिष्ठन् प्रजास्संरक्षति ।
78. दण्डस्सम्पदा योजयति ।
79. दण्डाभावे त्रिवर्गाभावः।
80.न दण्डादकार्याणि कुर्वन्ति ।
81.दण्डनीत्यामायत्तमात्मरक्षणम् ।
82.आत्मनि रक्षिते सर्वं रक्षितं भवति ।
83.आत्मायत्तौ वृद्धिविनाशौ ।
84. दण्डो हि विज्ञानेन प्रणीयते ।
85. दुर्बलोऽपि राजा नावमन्तव्यः।
86. नास्त्यग्नेदौर्बल्यम् ।
87. दण्डे प्रणीयते वृत्तिः33।
88. वृत्तिमूलमर्थलाभः।
89. अर्थमूलौ धर्मकामौ ।
इति प्रथमोऽध्यायः
-
*
अथ द्वितीयोऽध्यायः
[इष्टतत्तत्कार्यसाधनप्रकाराः]
1. अर्थमूलं सर्वं कार्यम्, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति ।
2. उपायपूर्वं कार्यं न दुष्करं स्यात् ।
3. अनुपायपूर्वं कार्यं कृतमपि विनश्यति ।
4.कार्यार्थिनामुपाय एव सहायः।
5.कार्यं पुरुषकारेण34 लक्ष्यं संपद्यते ।
6.पुरुषकारमनुवर्तते दैवम् ।
7. दैवं विनाऽतिप्रयत्वं यत् करोति तद्विफलम् ।
8. असमाहितस्य35 कार्यंन विद्यते ।
9. पूर्वंनिश्चित्य36 पश्चात् कार्यमारभेत ।
10. कार्यान्तरे37 दीर्घसूत्रता38 न कर्तव्या ।
11. न चलचित्तस्य कार्यावाप्तिः।
12.हस्तगतावमाननात् कार्यव्यतिक्रमो भवति ।
13.दोषवर्जितानि कार्याणि दुर्लभानि ।
14. दुरनुबन्धं39 कार्यं नारभेत ।
15. कालवित् कार्यं साधयेत् ।
16. कालातिक्रमात् काल एव फलं पिबति ।
17. क्षणं प्रति कालविक्षेपं न कुर्यात्सर्वकृत्येषु ।
18. देशकालविभागौ ज्ञात्वा कार्यमारभेत ।
19. दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति !
20. नीतिज्ञो देशकालो परीक्षेत ।
21.परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ।
22.सर्वाश्च संपदः सर्वोपायेन परिगृह्णीयात् ।
23. भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति ।
24. ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या ।
25. यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेन् ।
26. दुस्साधमपि सुसाधं करोत्युपायज्ञः।
27. अज्ञानिना कृतमपि न बहुमन्तव्यम्, यादृच्छिकत्वात् ।
28. कृमयोऽपि हि कदाचित् रूपान्तराणि कुर्वन्ति40 ।
29. सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ।
30.ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति ।
31.दैवं दोषंशान्तिकर्मणा प्रतिषेधयेत् ।
32. मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत् ।
33. कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः41।
34. कार्यार्थिनादाक्षिण्यं42 न कर्तव्यम् ।
35. क्षीरार्थी वत्सो मातुरूधः43प्रतिहन्ति ।
36. अप्रयत्नात् कार्यविपत्तिर्भवेत् ।
37. न दैवमात्रप्रमाणानां कार्यसिद्धिः।
38.कार्यबाह्यो44 न पोषयत्याश्रितान् ।
39.यः कार्यं न पश्यति सोऽन्धः।
40.प्रत्यक्षपरोक्षानुमानैः कार्याणि परीक्षेत ।
41.अपरीक्ष्यकारिणं श्रीः परित्यजति ।
42. परीक्ष्य तार्या विपत्तिः।
43.स्वशक्तिं ज्ञात्वा कार्यमारभेत ।
44. स्वजनं तर्पयित्वा यज्ञशेषभोजी सोऽमृतभोजी ।
45. सम्यगनुष्ठानादायमुखानि45 वर्धन्ते ।
46. नास्ति भीरोः कार्यचिन्ता ।
47.स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यंसाधयेत् ।
48.धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते ।
49.क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात् ।
50.आश्रितैरप्यवमन्यते मृदुस्वभावः46।
51. तीक्ष्णदण्डस्सर्वेषामुद्वेजनीयो भवति ।
52. यथार्हदण्डकारी स्यात् ।
53. अल्पसारं47 श्रुतवन्तमपि न बहुमन्यते लोकः।
54. अतिभारः पुरुषमवसादयति ।
55.यस्संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति ।
56. आत्मानमेव नाशयत्यनात्मवतां48कोपः।
57.नास्त्यप्राप्यं सत्यवताम् ।
58. न केवलेन साहसेन कार्यसिद्धिर्भवति ।
59. व्यसनार्तोविस्मरत्यवश्य कर्तव्यान् ।
60. नास्त्यनन्तरायः कालविक्षपे49।
61. असंशयविनाशात् संशयविनाशः श्रेयान्50 ।
[सामान्यतो नीतयः]
62. केवलं धनानि निक्षेप्तुः न स्वार्थं न दानं न धर्मः51।
63. नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते ।
64.यो धर्मार्थौन व्यर्धयति52 स कामः ; तद्विपरीतोऽनर्थसेवी53 ।
65. ऋजुस्वभाव54परो जनो दुर्लभः।
66.अवमानेनागतमैश्वर्यमवमन्यत एव साधुः।
67.बहूनपि हि गुणानेकदोषो प्रसति ।
68.महात्मना परं साहसं न कर्तव्यम् ।
69. कदाचिदपि चारित्रं न लङ्घयेत् ।
70. क्षुधाऽऽर्तौ न तृणं चरति सिंहः।
71.प्राणादपि प्रत्ययो55 रक्षितव्यः।
72. पिशुनो नेता56 पुत्रदारैरपि त्यज्यते ।
इति द्वितीयोऽध्यायः
-
*
अथ तृतीयोऽध्यायः
[ सङ्कीर्णाः सर्वसाधारणाः नीतयः ]
1. बालादपि युक्तमर्थं शृणुयात् ।
2.सत्यमप्यश्रद्धेयं57”) न वदेत् ।
3. नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ।
4. विपश्चित्स्वपि सुलभा दोषाः।
5.नास्ति रत्नमखण्डितम् ।
6. मर्यादातीतं58 न कदाचिदपि विश्वसेत् ।
7. अप्रिये कृते प्रियमपि द्वेष्यं भवति ।
8. नमन्त्यपि59 हि तुलाकोटिः60 कूपोदकक्षयं करोति ।
9. सतां मतं नातिक्रामेत् ।
10.गुणवदाश्रयान्निर्गुणोऽपि गुणी भवति ।
11.क्षीराश्रितं जलं क्षीरमेव भवति ।
12. मृत्पिण्डेऽपि पाटलिपुष्पं स्वगन्धमुत्पादयति ।
13. रजतं कनकसङ्गात् कनकं भवति ।
14. उपकर्तर्यपकर्तुमिच्छत्यबुधः।
15. न पापकर्मणामा61क्रोशभयम् ।
16. उत्साहवतां शत्रवोऽपि वशीभवन्ति ।
17. विक्रमधना हि राजानः।
18. नास्त्यलसस्यैहिकमामुष्मिकं वा ।
19. निरुत्साहाद्दैवंपतति ।
20. मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात् ।
21.अविश्वस्तेषु विश्वासो न कर्तव्यः।
22.विषं विषमेव सार्वकालम् ।
23.अर्थसमादाने62 वैरिणां सङ्ग एव न कर्तव्यः।
24.अर्थसिद्धौ वैरिणं न विश्वसेत् ।
25. अर्थाधीन एव नियतसंबन्धः।
26.शत्रोरपि सुतः सखा63 रक्षितव्यः।
27.यावच्छत्रोश्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः, छिद्रे तु प्रहरेत् ।
28. आत्मच्छिद्रं न प्रकाशयेत् ।
29. छिद्रप्रहारिणश्शत्रवोऽपि ।
30. हस्तगतमपि शत्रुं न विश्वसेत् ।
31. स्वजनस्य दुर्वृत्तं निवारयेत् ।
32. स्वजनावमानोऽपि मनस्विनां दुःखमावहति ।
33.एकाङ्गदोषः पुरुषमवसादयति64 ।
34. शत्रुं जयति सुवृत्तता65 ।
35. निकृति66प्रिया नीचाः।
36. नीचस्यमति67र्न दातव्या ।
37. नीचेषु विश्वासो न कर्तव्यः।
38. सुपूजितोऽपि दुर्जनः पीडयत्येव ।
39. चन्दनादीनपि दावो68ऽग्निदेहत्येव ।
40. कदाऽपि कमपि पुरुषं नावमन्येत ।
41. क्षन्तव्यमिति पुरुषंन बाधेत69 ।
42.भर्त्रा70ऽधिकं रहस्युक्तं वक्तुमिच्छन्त्यबुद्ध्यः।
43.अनुरागस्तु फलेन ( हितेन) सूच्यते ।
44.आज्ञाफलमैश्वर्यम् ।
45.दातव्यमपि बालिशः परिक्लेशेन दास्यति ।
46.महदैश्वर्यं प्राप्यापि अधृतिमान्71 विनश्यति ।
47.नास्त्यधृते72रैहिकमामुष्मिकं वा ।
48.न दुर्जनैस्सह संसर्गः कर्तव्यः।
49. शौण्ड73हस्तगतं पयोऽप्यवमन्यते जनः।
50. कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः।
51. मितभोजनं स्वास्थ्यम्74 ।
52. पथ्यमप्यपथ्याजीर्णे नाश्नीयात् ।
53.जीर्णभोजिनं75 व्याधिर्नोपसर्पति ।
54.जीर्णशरीरे76 वर्धमानं व्याधिं नोपेक्षेत ।
55. अजीर्णे भोजनं दुःखम् ।
56.शत्रोरपिविशिष्यते77 व्याधिः।
57.दानं निधान78मनुगामि ।
58. पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम्79 ।
59. तृष्णया मतिश्छाद्यते ।
60.कार्यबहुत्वे बहुफलमायतिकं80 कुर्यात् ।
61.स्वयमेवावस्कन्नं81कार्यंनिरीक्षेत ।
62. मूर्खेषु साहसं नियतम् ।
63. मूर्खेषु विवादो न कर्तव्यः।
64. मूर्खेषु मूर्खवदेव कथयेत् ।
65. आयसैरायस छेद्यम् ।
66. नास्त्यधीमतस्सखा ।
इति तृतीयोऽध्यायः
-
*
अथ चतुर्थोऽध्यायः
1.धर्मेण धार्यते लोकः।
2.प्रेतमपि धर्माधर्मावनुगच्छतः।
3. दया धर्मस्य जन्मभूमिः।
4. धर्ममूले सत्यदाने ।
5. धर्मेण जयति लोकान् ।
6. मृत्युरपि धर्मिष्ठं रक्षति ।
7.धर्माद्विपरीतं82 पापं यत्र यत्र प्रसज्यते तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ।
8. उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ।
9.आत्मविनाशं सूचयत्यधर्मबुद्धिः।
10.पिशुनवादिनो रहस्यं कुतः।
11.पररहस्यं नैव श्रोतव्यम् ।
12.वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम्83 ।
13.स्वजनेष्वप्यतिक्रमो न कर्तव्यः।
14.माताऽपि दुष्टा त्याज्या ।
15.स्वहस्तोऽपि विषदिग्धश्छेद्यः।
16. परोऽपि च हितो बन्धुः।
17.कक्षा84दप्यौषधं गृह्यते ।
18. नास्ति चोरेषु विश्वासः।
19. अप्रतीकारेष्वनादरो न कर्तव्यः।
20. व्यसनं मनागपि बाधते ।
21. अमरवदर्थजातमार्जयेत् ।
22. अर्थवान् सर्वलोकस्य बहुमतः।
23. महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः।
24. दारिद्र्यं खलु पुरुषस्य सजीवितं मरणम् ।
25. विरूपोऽप्यर्थवान् सुरूपः।
26. अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ।
27. अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः।
28. नास्त्यवमानभयमनार्यस्य ।
29. नोद्योगवतां वृत्तिभयम् ।
30. न जिनेन्द्रियाणां विषयभयम् ।
31. न कृतार्थानां मरणभयम् ।
32. कस्यचिदर्थंस्वमिव मन्यते साधुः85।
33. परविभवेष्वादरो न कर्तव्यः।
34.परविभवेष्वादरोऽपि नाशमूलम् ।
35. पलाल86मपि परद्रव्यं न हर्तव्यम् ।
36. परद्रव्यापहरणमात्मद्रव्यनाशहेतुः।
37. न चौर्यात् परं मृत्युपाशः।
38. यवागूरपि87 प्राणधारणं करोति काले ।
39. न मृतस्यौषधं प्रयोजनम् ।
40.समकाले88 प्रभुत्वस्य प्रयोजनं भवति ।
41. नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ।
42. पयःपानमपि विषवर्धनं भुजङ्गस्य, न त्वमृतं स्यात् ।
43. न हि धान्यसमो ह्यर्थः।
44.न क्षुधासमश्शत्रुः।
45.अकृतेर्नियता क्षुत्89 ।
46. नास्त्यभक्ष्यं क्षुधितस्य ।
47. इन्द्रियाणि प्रतिपदं नरान् जरावशान् कुर्वन्ति ।
48. सानुक्रोशं भर्तारमाजीवेत्90 ।
49. लुब्धसेवी पावकेच्छया खद्योतं धमति ।
50. विशेषज्ञं स्वामिनमाश्रयेत् ।
51. पुरुषस्य मैथुनं जरा ।
52. स्त्रीणाममैथुनं जरा \।
53. न नीचोत्तमयोर्वैवाहः।
54. अगम्यागमनादायुर्यशःपुण्यानि क्षीयन्ते ।
55. नास्त्यहङ्कारसमश्शत्रुः।
56. संसदि शत्रुं न परिक्रोशेत्91।
57. शत्रुव्यसनं श्रवणसुखम् ।
58. अधनस्य बुद्धिर्न विद्यते ।
59.हितमप्यधनस्य वाक्यं न गृह्यते ।
60.अधनः स्वभार्ययाऽप्यवमन्यते ।
61. पुष्पहीनं सहकारमपि नोपासते भ्रमराः।
इति चतुर्थोऽध्यायः
-
*
अथ पञ्चमोऽध्यायः
1.विद्या धनमधनानाम् ।
2.विद्या चोरैरपि न ग्राह्या ।
3.विद्यया सुलभा ख्यातिः।
4.यशश्शरीरं92 न विनश्यति ।
5.यः परार्थमन्यमुपसर्पति स सत्पुरुषः।
6.इन्द्रियाणां प्रशमं93 शास्त्रम् ।
7.अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति ।
8.नीचस्य विद्या नोपेतव्या ।
9.म्लेच्छभाषणं न शिक्षेत ।
10.म्लेच्छानामपि सुवृत्तं ग्राह्यम् ।
11.गुणे न मत्सरः कर्तव्यः।
12.शत्रोरपि सुगुणो ग्राह्यः।
13.विषादप्यमृतं ग्राह्यम् ।
14. अवस्थया94 पुरुषस्संमान्यते ।
15.स्थान एव नराः पूज्यन्ते ।
16.आर्यवृत्तमनुतिष्ठेत् ।
17.कदापि मर्यादां95 नातिक्रामेत् ।
18.नास्त्यर्घः पुरुषरत्नस्य ।
19.न स्त्रीरत्रसमं रत्नम् ।
20.सुदुर्लभं हि रत्नम् ।
21.अयशो भयं भयेषु96 ।
22. नास्त्यलसस्य शास्त्राधिगमः।
23. न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च ।
24. स्त्रियोऽपि स्त्रैणमवमन्यन्ते ।
25. न पुष्पार्थी सिञ्चति शुष्कतरुम् ।
26.अद्रव्यप्रयत्नो97 वालुकाक्वाथनादनन्यः ।
27.न महाजनहासः कर्तव्यः।
28. कार्यसंपदं निमित्तानि सूचयन्ति ।
29.नक्षत्रादपि98 निमित्तानि विशेषयन्ति ।
30. न त्वरितस्य नक्षत्रपरीक्षा ।
31. परिचये दोषा न छाद्यन्ते ।
32. स्वयमशुद्धः परानाशङ्कते ।
33. स्वभावो दुरतिक्रमः।
34.अपराधानुरूपो दण्डः।
35.प्रश्नानुरूपं प्रतिवचनम् ।
36.विभवानुरूपमाभरणम् ।
37. कुलानुरूपं वृत्तम् ।
38.कार्यानुरूपः प्रयत्नः।
39.पात्रानुरूपं दानम् ।
40.वयोऽनुरूपो वेषः।
41.स्वाम्यनुकूलो भृत्यः।
42.भर्तृवशवर्तिनी भार्या ।
43.गुरुवशानुवर्ती शिष्यः।
44.पितृवशानुवर्ती पुत्रः।
45.अत्युपचारश्शङ्कितव्यः।
46.स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ।
47. मातृताडितो वत्सो मातरमेवानुरोदिति ।
48. स्नेहवतस्स्वल्पो हि रोषः।
49.बालिशः आत्मच्छिद्रं न पश्यति, अपि तु परच्छिद्रमेव पश्यति ।
50. सदोपचारः कितवः।
51.काम्यैर्विशेषैरुपचारणमुपचारः99।
52.चिरपरिचितानामत्युपचारश्शङ्कितव्यः।
53. श्वसहस्रादेकाकिनी गौः श्रेयसी ।
54. श्वो मयूरादद्य कपोतो वरः।
55. अतिसङ्गो दोषमुत्पादयति ।
56. सर्वं जयत्यक्रोधः।
57.यद्यपकारिणि कोपः कर्तव्यः, तर्हि स्वकोपे एव कोपः कर्तव्यः100।
58. मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः।
59.नास्त्यपिशाचमैश्वर्यम्101 ।
60.नास्ति धनवतां सुकर्मसु श्रमः।
61.नास्ति गतिश्रमो यानवताम् ।
62. अलोहमयं निगडं कलत्रम् ।
63.यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः।
64.दुष्कलत्रं मनस्विनां शरीरकर्शनम्102 ।
65.अप्रमत्तो दारान् निरीक्षेत ।
66. स्त्रीषु किंचिदपि न विश्वसेत् ।
67. न समाधिः103 स्त्रीषु लोकज्ञता च ।
68. गुरूणां माता गरीयसी ।
69. सर्वावस्थासु माता भर्तव्या ।
70. वैरूप्यमलङ्कारेणाच्छाद्यते ।
71. स्त्रीणां भूषणं लज्जा ।
72. विप्राणां भूषणं वेदः।
73. सर्वेषां भूषणं धर्मः।
74. भूषणानां भूषणं सविनया विद्या ।
इति पञ्चमोऽध्यायः
-
*
अथ षष्ठोऽध्यायः
1.अनुपद्रवं देशमावसेत् ।
2.साधुजनबहुलो देशः आश्रयणीयः।
3.राज्ञो भेतव्यं सार्वकालम् ।
4. न राज्ञः परं दैवतम् ।
5. सुदूरमपि दहति राजवह्निः।
6. रिक्तहस्तो न राजानममिगच्छेत् गुरुं दैवं च ।
7. कुटुम्बिनो104 भेतव्यम् ।
8. गन्तव्यं च सदा राजकुलम् ।
9. राजपुरुषैस्संबन्धं कुर्यात् ।
10. राजदासी न सेवितव्या \।
11. न चक्षुषाऽपि राजानं निरीक्षेत105 \।
12. पुत्रे गुणवति कुटुम्बिनः स्वर्गः।
13. पुत्रा विद्यानां पारं गमयितव्याः।
14. जनपदार्थं ग्रामं त्यजेत् ।
15. ग्रामार्थं कुटुम्बस्त्यज्यते ।
16.अतिलाभः पुत्रलाभः।
17.दुर्गतेर्यः पितरौ रक्षति स पुत्रः।
18.यः कुलं प्रख्यापयति स पुत्रः।
19.नानपत्यस्य स्वर्गः।
20. या प्रसूते सा भार्या।
21. तीर्थसमवाये106 पुत्रवतीमनुगच्छेत् ।
22. न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति ।
23. न परक्षेत्रे बीजं विनिक्षिपेत् ।
24. पुत्रार्था हि स्त्रियः।
25. स्वदासी परिग्रहो हि स्वस्यैव दासभावापादनम्107 ।
26. उपस्थितविनाशः पथ्यवाक्यं न शृणोति ।
27.नास्ति देहिनां सुखदुःखाभावः।
28.मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति ।
29.तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः।
30. उपकारोऽनार्येष्वकर्तव्यः।
31. प्रत्युपकारभयादनार्यश्शत्रुर्भवति108 ।
32. स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्त्ति।
33. न कदाऽपि देवताऽमन्तव्या ।
34. न चक्षुषः समं ज्योतिरस्ति ।
35. चक्षुर्हि शरीरिणां नेता ।
36. अपचक्षुषः किं शरीरेण ?
37.नाप्सु मूत्रं कुर्यात् ।
38.न नग्नो जलं प्रविशेत् ।
39.यथा शरीरं तथा ज्ञानम्109 ।
40. यथा बुद्धिस्तथा विभवः।
41. अग्नावग्निं न निक्षिपेत् ।
42. तपस्विनः पूजनीया।
43. परदारान् न गच्छेत् ।
44. अन्नदानं भ्रूणहत्यामपि मार्ष्टि।
45. न वेदबाह्यो धर्मः।
46. कथंचिदपि धर्मंनिषेवेत ।
47.स्वर्गं नयति सूनृतम्110 ।
48.नास्ति सत्यात् परं तपः।
49.सत्यं स्वर्गस्य साधनम् ।
50.सत्येन धार्यते लोकः।
51.सत्याद्देवो वर्षति ।
52.नानृतात् पातकं परम् ।
53.न मीमांस्या गुरवः111।
54.खलत्वं नोपेयात् ।
55.नास्ति खलस्य मित्रं ।
56.लोकयात्रा दरिद्रं बाधते ।
57. अतिशूरो दानशूरः।
58.गुरुदेवब्राह्मणेषु भक्तिभूषणम् ।
59. सर्वस्य भूषणं विनयः।
60.अकुलीनोऽपि विनीतः कुलीनाद्विशिष्टः।
61. आचारा112दायुर्वर्धते कीर्तिः श्रेयश्च ।
62. प्रियमप्यहितं न वक्तव्यम् ।
63. बहुजनविरुद्धमेकं नानुवर्तेत ।
64. न कृतार्थस्य नीचेषु संबन्धः।
65. ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः ।
66.भूत्यनुवर्तनं पुरुषस्य रसायनम् ।
67.नार्थिष्वाज्ञा कार्या ।
68. दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः।
69.नाकृतज्ञस्य नरकान्निवर्तनम् ।
70. जिह्वायत्तौवृद्धिविनाशौ ।
71.विषामृतयोराकरी जिह्वा ।
72.प्रियवादिनो न शत्रुः।
73. स्तुता अपि देवतास्तुष्यन्ति ।
74. अनृतमणि दुर्वचनं चिरं तिष्ठति ।
75. राजद्विष्टं न वक्तव्यम् ।
76.श्रुतिसुखात् कोकिलालापादपि तुष्यन्ति जनाः।
77.स्वधर्म हेतुस्सत्पुरुषः।
78.नास्त्यर्थिनो गौरवम् ।
79.स्त्रीणां भूषणं सौभाग्यम् ।
80. शत्रोरपि न पातनीया वृत्तिः113।
81. अप्रयत्नोदकं क्षेत्रम् \।
82. एरण्डमवलम्ब्य कुञ्जरं114 न कोपयेत् ।
83. अतिप्रवृद्धापि शाल्मली वारणस्तम्भो115 न भवति ।
84.अतिदीर्घोऽपि कर्णिकारो116 न मुसली भवति ।
85. अतिदीप्तोऽपि खद्योतो न पावकः।
86. न प्रवृद्धत्वं गुणहेतुः।
87.सुजीर्णोऽपि पिचुमन्दो117 न शङ्कुलायते ।
88. यथा बीजं तथा निष्पत्तिः।
89. यथा श्रुतं तथा बुद्धिः।
90. यथा कुलं तथाऽऽचारः।
91. संस्कृतः पिचुमन्दो न सहकारो भवति ।
92. न चागतं सुखं त्यजेत् ।
93. स्वयमेव दुःखमधिगच्छति ।
94. रात्रिचारणं न कुर्यात् ।
95. न चार्धरात्रं स्वपेत् ।
96. तद्विद्वद्भिः118 परीक्षेत ।
97.परगृहमकारणतो न प्रविशेत् ।
98.ज्ञात्वाऽपि दोषमेव करोति लोकः।
99. शास्त्रप्रधाना लोकवृत्तिः।
100. शास्त्राभावे शिष्टाचारमनुगच्छेत् ।
101. नाचरिताच्छास्त्रं गरीयः।
102. दूरस्थमपि चारचक्षुः पश्यति राजा ।
103. गतानुगतिको लोकः।
104. यमनुजीवेत् तं नापवदेत् ।
इति षष्ठोऽध्यायः
-
*
अथ सप्तमोऽध्यायः
1. तपस्सार इन्द्रियनिग्रहः।
2. दुर्लभः स्त्रीबन्धनान्मोक्षः119।
3.स्त्री नाम सर्वाशुभानां क्षेत्रम् ।
4.न च स्त्रीणां पुरुषपरीक्षा120 ।
5.स्त्रीणां मनः क्षणिकम् ।
6.अशुभद्वेषिणः121 स्त्रीषु न प्रसक्ता भवेयुः।
7.यज्ञफलज्ञास्त्रिवेदविदः।
8.स्वर्गस्थानं न शाश्वतं, अपितु यावत्पुण्यफलम् ।
9.न च स्वर्गपतनात् परं दुःखम् ।
10.देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ।
11.दुःखानामौषधं निर्वाणम्122 ।
12. अनार्यसंबन्धाद्वरमार्यशत्रुता ।
13.निहन्ति दुर्वचनं123 कुलम् ।
14.न पुत्रसंस्पर्शात् परं सुखम् ।
15.विवादे धर्ममनुस्मरेत् ।
16.निशान्ते124 कार्यंचिन्तयेत् ।
17.प्रदोषे न संयोगः कर्तव्यः।
18.उपस्थितविनाशः दुर्नयं शुभं मन्यते ।
19.क्षीरार्थिनः किं करिण्या ।
20.न दानसमं वश्यम् ।
21.परायत्तेषूत्कण्ठां न कुर्यात् ।
22.असत्समृद्धिरसद्भिरेव भुज्यते ।
23.निम्बफलं काकैर्हि भुज्यते ।
24.नाम्भोधिस्तृष्णामपोहति ।
25. वालुका अपि स्वगुणमाश्रयन्ते ।
26. सन्तोऽसत्सु न रमन्ते ।
27.हंसः प्रेतवने न रमते ।
28.अर्थार्थं प्रवर्तते लोकः।
29.आशया बध्यते लोकः।
30.न चाशापरैश्श्रीस्सह तिष्ठति ।
31. अशापरे न धैर्यम् ।
32. दैन्यान्मरणमुत्तमम् ।
33. आशा लज्जां व्यपोहति ।
34.न मात्रा सह वासः कर्तव्यः125।
35.आत्मा न स्तोतव्यः।
36.न दिवा स्वप्नं126 कुर्यात् ।
37.न चासन्नमपि पश्यत्यैश्वर्यान्धः, नापि शृणोतीष्टं वाक्यम् ।
38. स्त्रीणां न भर्तुः परं दैवतम्, तदनुवर्तनं तासामुभयसौख्यम्127 ।
39.अतिथिमभ्यागतं च पूजयेद्यथाविधि ।
40.नास्ति हव्यस्य व्याघातः।
41.शत्रुर्मित्रवत् प्रतिभाति ।
42.मृगतृष्णा जलवद्भाति हि ।
इति सप्तमोऽध्यायः
-
*
अथाष्टमोऽध्यायः
1.दुर्मेधसोऽसच्छास्त्रं मोहयति ।
2. सत्सङ्गः स्वर्गवासः।
3.आर्याः स्वमिव परं मन्वते ।
4.रूपानुवर्ती गुणः।
5.यत्र सुखेन वर्तते तदेव स्थानम् ।
6.विश्वासघातिनो न निष्कृतिः।
7.दैवायत्तं न शोचेत् ।
8. आश्रितदुःखमात्मन इव मन्यते साधुः।
9. हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः।
10. बुद्धिहीनः पिशाचतुल्यः।
11. असहायः पथि न गच्छेत् ।
12. पुत्रो न स्तोतव्यः128।
13. स्वामी स्तोतव्योऽनुजीविभिः।
14.धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ।
15. राजाज्ञां नातिलङ्घयेत् ।
16.यथाऽऽज्ञप्तं तथा कुर्यात् ।
17.नास्ति बुद्धिमतां शत्रुः।
18.आत्मच्छिद्रं न प्रकाशयेत् ।
19.क्षमावानेव सर्वं साधयति ।
20.आपदर्थं धनं रक्षेत् ।
21.साहसवतां प्रियं कर्तव्यम् ।
22. श्वः कार्यमद्य कुर्वीत ।
23. आपराह्निकं पूर्वाह्णएव कर्तव्यम् ।
24. व्यवहारानुलोमो धर्मः।
25. सर्वज्ञता लोकज्ञता ।
26. शास्त्रज्ञोऽप्यलोकज्ञो मूर्खतुल्यः।
27. शास्त्रप्रयोजनं तत्त्वदर्शनम्129 ।
28. तत्त्वज्ञानं कार्यमेव प्रकाशयति130 ।
29. व्यवहारे पक्षपातो न कार्यः।
30. धर्मादपि व्यवहारो गरीयान् ।
31. आत्मा हि व्यवहारस्य साक्षी ।
32. सर्वसाक्षी ह्यात्मा ।
33. न स्यात् कूटसाक्षी131 ।
34. कूटसाक्षिणो नरके पतन्ति ।
35. प्रच्छन्नपापानां साक्षिणो महाभूतानि ।
36. आत्मनः पापमात्मैव प्रकाशयति132 ।
37. व्यवहारेऽन्तर्गतमाकारस्सूचयति ।
38. आकारसंवरणं देवानामप्यशक्यम् \।
39. चोरराजपुरुषेभ्यो वित्तं रक्षेत् ।
40. दुर्दर्शना हि राजानः प्रजा नाशयन्ति ।
41. सुदर्शना राजानः प्रजा रक्षन्ति ।
42. न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः।
43. तादृशः स राजा इह सुखं ततस्स्वर्गं चाप्नोति ।
44. अहिंसालक्षणो धर्मः।133
45. स्वशरीरमपि परशरीरं मन्यते साधुः।
46. मांसभक्षणमप्ययुक्तं सर्वेषाम् ।
47. न संसारभयं ज्ञानवताम्134 ।
48. विज्ञानदीपेन संसारभयं निवर्तयति ।135
49. सर्वमनित्यं भवति136 ।
50.कृमिशकृन्मूत्रभाजनं शरीरं पुण्यपापजन्म हेतुः137।
51.जन्ममरणादिषु तु दुःखमेव ।
52.तपसा स्वर्गमाप्नोति ।
53.क्षमायुक्तस्य तपो138 विवर्धते ।
54.तस्मात्139 सर्वेषां सर्वकार्यसिद्धिर्भवति ।
इत्यष्टमोऽध्यायः
इति कौटलीयानि नीतिसूत्राणि
-
*
जयश्रीः !
सोमदेवीयानि राजनीतिसूत्राणि.
(नीतिवाक्यामृतम्)
<MISSING_FIG href="../../../books_images/U-IMG-1698847697Screenshot2023-10-29130447.png"/>
१. धर्मसमुद्देशः
1.धर्मार्थकाममोक्षरूपसर्वपुरुषार्थफलमिदं राज्यम् ।
2.यतोऽभ्युदयनिःश्रेयस140 अभ्युदयः आमुष्मिकं श्रेयः निःश्रेयसम्.")सिद्धिः स धर्मः।
3.अधर्मः पुनरेतद्विपरीतफलः ।
4.आत्मवत् परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्यागतपसी च धर्माधिगमोपायाः।
5.सर्वसत्वेषु हि समता सर्वाचरणानां परममाचरणम् ।
6. न खलु भूतद्रुहां कापि क्रिया प्रसूते श्रेयांसि ।
7. परत्राजिघांसुमनसां व्रतरिक्त141मपि चित्तं स्वर्गाय जायते ।
8. स खलु त्यागो देशत्यागाय, यस्मिन् कृते भवत्यात्मनो दौःस्थित्यम्142 ।
9. सखल्वर्थी परिपन्थी143, यः परस्य दौः स्थित्यं जानन्नपि तस्मिन् अभिलषत्यर्थम् ।
10.तद्वतमाचरितव्यं, यत्र न संशयतुलामारोहतः शरीरमनसी ।
11.ऐहिकामुत्रिकफलार्थं अर्थव्ययः त्यागः।
12. भस्मनि हुतमिवापात्रेष्वर्थव्ययः।
13. पात्रं च त्रिविधम्, धर्मपात्रं कार्यपात्रं कामपात्रं चेति ।
14.किं तया कीर्त्या? या आश्रितान्न बिभर्ति, न प्रतिरुणद्धि वाऽधर्मम् ।
15. भागीरथीश्रीपार्वतीवत्144 भावानामन्यदेव प्रसिद्धेः कारणं, न पुनस्त्यागः; यतो145 न खलु गृहीतारो व्यापिनः सनातनाश्च146 ।
16.स खलु कस्यापि मा भूदर्थः, यत्रासंविभागः शरणागतानाम् ।
17.अर्थिषु संविभागः स्वयमुपभोगश्चार्थस्य हि द्वे फले ।
18.नास्त्यौचित्यमेकान्तलुब्धस्य ।
19. दानप्रियवचनाभ्यां अन्यस्य हि सन्तोषोत्पादनं औचित्यम् ।
20. स खलु लुब्धः147, यः सत्सु विनियोगादात्मना सह जन्मान्तरेषु नयत्यर्थम् ।
21. अदातुः प्रियालापः अन्यत्र लाभस्यान्तरायः।
22. सदैव दुःस्थितानां को नाम बन्धुः ?
23. नित्यमर्थयमानात् को नाम नोद्विजते ?
24. इन्द्रियमनसोर्नियमानुष्ठानं तपः।
25.विहिताचरणं निषिद्धपरिवर्जनं च नियमः।
26.विधिनिषेधौ ऐतिह्या148यत्तौ ।
27. तत् खलु सद्भिः श्रद्धेयमैतिह्यं यत्र न प्रमाणबाधा पूर्वापरविरोधो वा ।
28. हस्तिस्नानमिव विफलं सर्वमनुष्ठानं अनियमितेन्द्रियमनोवृत्तीनाम् ।
29.दुर्भगाभरणमिव केवलं देहखेदावहमेव ज्ञानं स्वयमनाचरतः।
30.सुलभः खलु कथक149 इव परस्य धर्मोपदेशे लोकः।
31. प्रत्यहं किमपि नियमेन प्रयच्छतस्तपस्यतो वा भवन्त्यवश्यं महीयां सः परे लोकाः।
32. कालेन सञ्जीयमानः परमाणुरपि हि जायते मेरुः।
33. धर्मश्रुतधनानां लवोऽपि प्रतिदिनं सङ्गृह्यमाणः भवति समुद्रादप्यधिकः।
34. धर्माय नित्यमजाग्रतां आत्मवञ्चनं भवति ।
35. कस्य नामैकदैव सम्पद्यते पुण्यराशिः ?
36. स्वयमनाचरतां मनोरथाः स्वप्नराज्यसमाः।
37.धर्मफलमनुभवतोऽप्यधर्मानुष्ठानमनात्मज्ञस्य ।
38. कः सुधीः भेषजमिवात्महितं धर्मंपरोपरोधादनुतिष्ठति ?
39. धर्मानुष्ठाने भवत्यप्रार्थितमपि प्रातिलोम्यं150 लोकस्य ।
40. अधर्मकर्मणि को नाम नोपाध्यायः पुरश्चरी वा ?
41. कण्ठगतैरपि प्राणैर्नाशुभं कर्म समाचरन्ति कुशलमतयः।
42. स्वव्यसनतर्पणाय धूर्तैःदुरीहितवृत्तयः151 क्रियन्ते श्रीमन्तः।
43. खलसंसर्गः किं नाम न करोत्यनिष्टम् ?
44. अग्निरिव स्वाश्रयमेव दहन्ति दुर्जनाः।
45. वनगज इव तदात्वसुखलुब्धः को नाम न भवत्यास्पदमापदाम् ?
46.धर्मातिक्रमाल्लुब्धं परेऽनुभवन्ति, स्वयं तु पापस्य भाजनं सिंह इव सिन्धुरवधात्152 ।
47.बीजभोजिनः153 कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि शुभम्
48. यः कामार्थावुपहत्य धर्ममेवोपास्ते, स पक्वंक्षेत्रं परित्यज्योषरं कृषति ।
49.स खलु सुखी, योऽमुत्र सुखाविरोधेन सुखमनुभवति ।
50.इदमिह परमाश्चर्यं यदन्यायसुखलवादिहामुत्र चानवधि154र्दुःखानुबन्धः।
51.सुखदुःखादिभिःप्राणिनामुत्कर्षापकर्षौधर्माधर्मयोर्लिङ्गम् ।
52.किमपि हि नास्ति तद्वस्तु, यत्र नैश्वर्य155मदृष्टाधिष्ठात्र्याः।
**इति धर्मसमुद्देशः
२. अर्थसमुद्देशः
1. यतः सर्वप्रयोजनसिद्धिः सोऽर्थः।
2. सोऽर्थस्य भाजनं योऽर्थानुबन्धेनार्थमनुभवति ।
3.अलब्धलाभः लब्धपरिरक्षणं रक्षितविवर्धनं वृद्धस्य तीर्थेषु प्रतिपादनं चार्थानुबन्धः।
4. तीर्थमर्थेनासंभावयन् मधुच्छत्रमिव सर्वात्मना विनश्यति ।
5. धर्मसमवायिनः कार्यसमवायिनश्च पुरुषाः तीर्थम् ।
6. तादात्विकमूलहरकदर्येषु नासुलभः प्रत्यवायः।
7. यः किमप्यसञ्चित्य उत्पन्नमर्थमपव्ययति सः तादात्विकः।
8. यः पितृपैतामहमर्थं अन्यायेन भक्षयति स मूलहरः।
9. यः भृत्यात्मपीडाभ्यामर्थं सञ्चिनोति स कदर्यः।
10. तादात्विकमूलहरयोः आयत्यां नास्ति कल्याणम् ।
11. कदर्यस्यार्थसंग्रहः राजदायादतस्कराणामन्यतमस्य निधिः।
**इत्यर्थसमुद्देशः
३. कामसमुद्देशः
1.आमिमानिकरसानुविद्वा यतः सर्वेन्द्रियप्रीतिः स कामः।
2.धर्मार्थाविरोधेन कामं सेवेत, न निःसुखः स्यात् ।
3.समं वा त्रिवर्गं सेवेत ।
4.एको ह्यत्यासेवितो धर्मार्थकामानां आत्मानमितरौ च पीडयति ।
5.परार्थं भारवाहिन इव आत्मसुखं निरुन्धानस्य धनोपार्जनम् ।
6. इन्द्रियमनःप्रसादनफला हि विभूतयः।
7. नाजितेन्द्रियस्य कापि कार्यसिद्धिः।
8.इष्टेऽर्थेऽनासक्तिः विरुद्धे चार्थेऽप्रवृत्तिः इन्द्रियजयः, अर्थशास्त्राध्ययनं156 वा ।
9. योऽनङ्गेनापि जीयते स कथं पुष्टाङ्गानरातीन् जयेत् ।
10. न कामासक्तस्यास्ति चिकित्सितम् ।
11. न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रिष्वत्यासक्तिः।
12.विरुद्धकामवृत्तिः समृद्धोऽपि न चिरं नन्दति ।
13. धर्मार्थकामानां युगपत्समवाये157 पूर्वः पूर्वो गरीयान् ।
14.कालसहत्व158 पुनरर्थ एव, धर्मकामयोरर्थमूलत्वात् ।
**इति कामसमुद्देशः
४. अरिषड्वर्गसमुद्देशः
1. अयुक्तितः प्रणीताः कामक्रोधलोभमदमानहर्षाः क्षितीशानामन्तरङ्गोऽरिषड्वर्गः।
2. परपरिगृहीतासु अनूढासु च स्त्रीषु दुरमिसन्धिः कामः।
3. अविचार्य परस्यात्मनो वा अपायहेतुः क्रोधः।
4. दानार्हेषु स्वधनाप्रदानं, अकारणं वा परधनग्रहणं लोभः।
5. कुलबलैश्वर्यरूपविद्याभिः आत्माहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः।
6. दुरमिनिवेशामोक्षः यथोक्ताग्रहणं वा मानः।
7. निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्यार्थसंचयेन वा मनःप्रतिरञ्जनः हर्षः।
**इत्यरिषड्वर्गसमुद्देशः
५. विद्यावृद्धसमुद्देशः
1.योऽनुकूलप्रतिकूलयोरिन्द्रयमस्थानं159 स राजा ।
2.राज्ञो हि दुष्टनिग्रहः शिष्टपरिपालनं च धर्मः, न पुनः शिरोमुण्डन जटाधारणादिकं वा ।
3. राज्ञः पृथिवीपरिपालनोचितं कर्म राज्यम् ।
4. वर्णाश्रमवती धान्यहिरण्यपशुकुप्यवि (ष्टि) शिष्टफलदा च पृथ्वी ।
5.ब्राह्मणाः क्षत्रियाः विशः शूद्राश्च वर्णाः ।
6. ब्रह्मचारी गृहस्थो वानप्रस्थः यतिरित्याश्रमाः।
7.सः उपकुर्वाणको ब्रह्मचारी, यो वेदमधीत्य स्नायात् ।
8.स्नानं विवाहदीक्षाभिषेकः।
9.स नैष्ठिको ब्रह्मचारी यस्य प्राणान्तिकमदारकर्म ।
10.य उत्पन्नः पुनीते वंशं स पुत्रः।
11. अपुत्रः पुमान् पितॄणामृणभाजनम्, अनध्ययनो ब्रह्मणः, अयजनो देवानाम् अहन्तकरो160 मनुष्याणाम् ।
12. आत्मा वै पुत्रो नैष्ठिकस्य, अयं ह्यात्मनात्मानमात्मनि सन्दधानःपरां पूततां प्रतिपद्यते ।
13.नित्यनैमित्ताकानुष्ठानस्थो गृहस्थः।
14.ब्रह्मदेवपित्रतिथिभूतयज्ञा हि नित्यमनुष्ठानम्, दर्शपौर्णमासादि नैमित्तिकम् ।
15. ( वैवाहिकः शालीनः जायावरोऽघोर इति गृहस्थाः। )
16. यः खलु यथाविधि जानपदमाहारं संसारव्यवहारंच परित्यज्य सकलत्रोऽकलत्रो वा वने प्रतिष्ठते स वानप्रस्थः।
17. (वालखिल्यः औदुम्बरः वैश्वानरः सद्यः प्रक्षल्यकश्चेति वानप्रस्थाः।)
18. यः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय यतते स यतिः।
19. ( कुटीरकबह्वोदकहंसपरमहंसाः यतयः। )
20. राज्यस्य मूलं क्रमो161 विक्रमश्च ।
21. आचारसम्पत्तिः क्रमसम्पत्तिं करोति ।
22. अनुत्सेकः खलु विक्रमस्यालङ्कारः।
23. क्रमविक्रमयोरन्यतरमात्रपरिग्रहेण राज्यस्य दुष्करः परिणामः।
24. क्रमविक्रमयोरधिष्ठानं बुद्धिमान् आहार्यबुद्धिर्वा ।
25. यो विद्याविनीतमतिः स बुद्धिमान् ।
26. सिंहस्येव केवलं पौरुषावलम्बिनः न चिरं कुशलम् ।
27.अशस्त्रश्शूर इव अशास्त्रः प्रज्ञावानपि भवति विद्विषां वशः।
28. अलोचनगोचरे ह्यर्थे शास्त्रं तृतीयं लोचनं पुरुषाणाम् ।
29. अनधीतशास्त्रः चक्षुष्मानपि पुमान् अन्ध एव ।
30. न ह्यज्ञानिनोऽन्यः पशुरस्ति ।
31. वरमराजकं भुवनं, न तु मूर्खो राजा ।
32. अकृतसंस्कारं रत्नमिव सुजातमपि राजपुत्रं न नायकपदायानयन्ति साधवः।
33.न दुर्विनीताद्राज्ञः प्रजाविनाशादपरोऽस्त्युत्पातः।
34. यः युक्तायुक्तयोरविवेकी विपर्यस्तमतिर्वा स दुर्विनीतः।
35. यत्र सद्भिराधीयमाना गुणाः सङ्क्रामन्ति तद्द्रव्यम् ।
36. द्रव्यं हि क्रिया162 विनयति नाद्रव्यम् ।
37. द्रव्याद्रव्यप्रकृतिरपि कश्चित् पुरुषः, सङ्कीर्णगजवत्163।
38.शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशाः बुद्धिगुणाः।
39. श्रोतुमिच्छा शुश्रूषा ।
40. श्रवणं आकर्णनम् ।
41. ग्रहणं शास्त्रार्थोपादानम् ।
42. धारणं कालान्तरेष्वप्यविस्मरणम् ।
43. मोहसन्देहविपर्यासव्युदासेन ज्ञान विज्ञानम् ।
44. विज्ञातमर्थमवलम्ब्य अन्येषु व्याप्त्यातथविधानां वितर्कणं ऊहः ।
45. उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसम्भावनया व्यावर्तनं अपोहः ।
46. अथवा सामान्यज्ञानं ऊहः, विशेषज्ञानं अपोहः ।
47. विज्ञानोहापोहानुगमविशुद्धमिदमित्थमेवेति निश्चयः तत्त्वाभिनिवेशः ।
48. याः समधिगम्यात्मनो हितमवैति, अहितं चापोहति ताः विद्याः ।
49. आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति चतस्रो राजविद्याः ।
50. अधीयानो ह्यान्वीक्षिकींकार्याकार्याणां बलाबलं हेतुभिर्विचारयति, व्यसनेषु न विषीदति, नाभ्युदयेन विकार्यते, समधिगच्छति च प्रज्ञावाक्यक्रियावैशारद्यम्164 ।
51. त्रयीं पठन् वर्णाचारेष्वतीव165 प्रगल्भते, जानाति च समस्तामपि धमाधर्मस्थितिम् ।
52. युक्तितः प्रवर्तयन् वार्तां सर्वमपि जीवलोकमभिनन्दयति, लभते च स्वयं सर्वानपि कामान् ।
53. यम इवापराधिषु दण्डप्रणयने राज्ञि न प्रजाः स्वमर्यादामतिक्रामन्ति, प्रसीदन्ति च त्रिवर्गफलाः विभूतयः ।
54. अन्वीक्षिकी अध्यात्मविषया, त्रयी वेदयज्ञादिषु, वार्ता कृषिकर्मादिषु, दण्डनीतिः साधुपालने दुष्टनिग्रहे च।
55. विद्यावृद्धसेवायामुत्सहेत ।
56. अजातविद्यावृद्धसंयोगो हि राजा निरङ्कुशो गज इव सद्यो विनश्यति ।
57. अनधीयानोऽप्यान्वीक्षिकीं विशिष्टजनसंसर्गात् परां व्युत्पत्तिमवाप्नोति ।
58. अन्यैव खलु छाया उपजलतरूणाम् ।
59. वंशवृत्तविद्याभिजनविशुद्धा हि राज्ञामुपाध्यायाः ।
60. शिष्टेषु नीचैराचन्नरपतिः इह लोके स्वर्गे च महीयते ।
61. राजा हि परमं दैवतम् । नासौ कस्मैचित् प्रणमति अन्यत्र गुरुजनेभ्यः।
62. वरमज्ञानं, नाशिष्टजनसेवया विद्या ।
63. अलं तेनामृतेन, यत्रास्ति विषसंसर्गः।
64. गुरुजनशीलमनुसरन्ति प्रायेण शिष्याः।
65. नवेषु मृद्भाजनेषु लग्नः संस्कारः ब्रह्मणाप्यन्यथा कर्तुं न शक्यते ।
66. अन्ध इव वरं परप्रणेयो राजा, न ज्ञानलवदुर्विदग्धः।
67. नीलीरक्ते वस्त्रे इव को नाम दुर्विदग्धे राज्ञि रागान्तरमाधत्ते ?
68. यथार्थवादो विदुषां श्रेयस्करः 166यदि न राजा गुणप्रद्वेषी ।
69. वरमात्मनो मरणं, नाहितोपदेशः स्वामिषु ।
**इति विद्यावृद्धसमुद्देशः
६. आन्वीक्षिकीसमुद्देशः
1. आत्ममनोमरुत्तत्त्वसमसमायोगलक्षणो167 ह्यध्यात्मयोगः।
2. अध्यात्मज्ञो हि राजा सहजशारीरमानसागन्तुमिर्दोषैः न बाध्यते ।
3. इन्द्रियाणि मनो विषयाः (ज्ञानं ) भोगायतनमित्यात्मारामाः168।
4. यत्राहमित्यनुपचरितः169 प्रत्ययः स आत्मा ।
5. असत्यात्मनि, प्रेत्यभावे विदुषां विफलं खलु सर्वमनुष्ठानम् ।
6. यतः स्मृतिः प्रत्यवमर्शनं170 ऊहापोहौ शिक्षालापक्रियाग्रहणं च भवति तन्मनः।
7. आत्मनः विषयानुभवद्वाराणि इन्द्रियाणि ।
8. शब्दस्पर्शरूपरसगन्धा विषयाः।
9. समाधीन्द्रियाभ्यां171 विप्रकृष्टसंनिकृष्टावबोधः172 ज्ञानम् ।
10. सुखं प्रीतिः।
11. तत् सुखमपि न सुखं, यत्र नास्ति मनोनिर्वृतिः।
12. अभ्यासामिमानसंप्रत्ययविषयाः सुखस्य कारणानि ।
13. क्रियातिशयः परिपाकहेतुः अभ्यासः।
14. प्रश्रयसत्कारादिलाभेन173 आत्मनः उत्कर्षसंभावनं अभिमानः।
15. अतद्गुणे वस्तुनि तद्गुणत्वेनाभिनिवेशः संप्रत्ययः।
16. इन्द्रियमनस्संतर्पणो भावो विषयः।
17. दुःखं अप्रीतिः।
18. तद्दुःखमपि न दुःखं, यत्र न संक्लिश्यते मनः।
19. दुःखं चतुर्विधं सहजं दोषजं आगन्तुकं अन्तरङ्गजं चेति ।
20. सहजं क्षुत्तृषा मनोभू174भवम् ।
21. दोषजं वातपित्तकफवैषम्यसम्भूतम् ।
22. आगन्तुकं वर्षातपादिजनितम् ।
23. न्यक्कारावज्ञेच्छाविघातादिसमुत्थं अन्तरङ्गजम् ।
24. न तस्य ऐहिकमामुष्मिकं वा फलमस्ति, यः क्लेशायासाभ्यां भवति विक्लवप्रकृतिः।
25. स किं पुरुषः ? यस्य महाभियोगेषु175 सुवंशधनुष इवाधिकं न जायते बलम् ।
26. आगामिक्रियाहेतुः अभिलाषो वा इच्छा ।
27. आत्मनः प्रत्यवायेभ्यः प्रत्यावर्तन हेतुः अनभिलाषो वा द्वेषः।
28. हिताहितप्राप्तिपरिहार हेतुः उत्साहः।
29.परनिमित्तको176 भावः प्रयत्नः।
30. अतिशयाधानं संस्कारः।
31. अनेककर्माभ्यासवासनावशात् सद्योजातादीनां स्तन्यपिपासादिकं येन क्रियते सोऽपि संस्कारः।
32. भोगायतनं शरीरम् ।
33. ऐहिकव्यवहारप्रसाधनपरं लोकायतिकं मतम् ।
34. अधीतलोकायतमतो हि राजा राष्ट्रकण्टकानुच्छेत्तुं कल्पते177 ।
35. न खल्वेकान्ततो यतीनामप्यनवद्याऽस्ति क्रिया ।
36. एकान्तेन178 कारुण्यपरः करतलगतमप्यर्थं रक्षितुं न क्षमः।
37. प्रशमैकचित्तं को नाम न परिभवति ? ।
38. अपराधिषु प्रशमः यतीनां भूषणम्, न महीपतीनाम् ।
39. धिक् ! तं पुरुषम्, यस्यात्मशक्त्यान स्तः कोपप्रसादौ ।
40. स जीवन्नपि मृत एव, यो न विक्रामति प्रतिकूलेषु ।
41. भस्मनीव निस्तेजसि को नाम निश्शङ्कं पदं न दधाति ?
42. तत् पापमपि न पापं, यत्र महान् धर्मानुबन्धः179; अन्यथा पुनः राज्यमपि नरकाय स्यात् ।
43. बन्धनान्तो नियोगः180।
44. विपदन्ता खलमैत्री ।
45. मरणान्तः स्त्रीषु विश्वासः ।
**इत्यान्वीक्षिकीसमुद्देशः
७. त्रयीसमुद्देशः
1. चत्वारो वेदाः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षडङ्गानि181, इतिहासपुराणन्यायमीमांसाधर्मशास्त्राणि चेति चतुर्दश विद्यास्थानानि (त्रयी) ।
2. त्रयीतः खलु वर्णाश्रमाचाराणां धर्माधर्मव्यवस्था ।
3. त्रयीत एव स्वस्वपक्षानुरागप्रवृत्ताः सर्वेऽपि 182समयाः लोकव्यवहारेष्वधिक्रियन्ते ।
4. धर्मशास्त्राणि स्मृतयश्च वेदार्थसङ्ग्रहरूपत्वाद्वेदा एव ।
5. अध्ययनं यजनं दानं च ब्रह्मक्षत्रविशां समानो धर्मः।
6. ब्रह्मक्षत्र विशः त्रयो वर्णा द्विजातयः।
7. अध्यापनं याजनं प्रतिग्रहश्च ब्राह्मणानामेव ।
8. भूतसंरक्षणं शस्त्राजीवः सत्पुरुषोपकारः दीनोद्धरणं रणेऽपलायनं च क्षत्रियाणाम् ।
9.वार्ताजीवनं183आवेशिकपूजनं 184सत्रप्रपापुण्यारामादिनिर्मापणं185 च वैश्यानाम् ।
10. त्रिवर्णोपजीवनं 186कारुकुशीलवकर्म शकटोपवाहनं च शूद्राणाम् ।
11. सकृत्परिणयव्यवहाराः सच्छूद्राः।
12. आचारानवद्यत्वं शुचिरुपस्कारः 187शारीरशुद्धिश्च करोति शूद्रानपि देवद्विजतपस्विपरिकर्मसु योग्यान् ।
13. आनृशंस्यं188 अमृषाभाषित्वं परस्वनिवृत्तिः इच्छानियमः प्रतिलोमाविवाहः निषिद्वासु च स्त्रीषु ब्रह्मचर्यंइति सर्वेषां समानो धर्मः।
14. आदित्यालोक इव धर्मः खलु सर्वसाधारणः, विशेषानुष्ठाने तु नियमः।
15. निजागमोक्तमनुष्ठानं समस्तयतीनां स्वो धर्मः।
16. धर्मव्यतिक्रमे यतीनां निजागमोक्तमेव प्रायश्चित्तम् ।
17. यो यस्मिन् देवे श्रद्धावान् स तं देवं प्रतिष्ठापयेत् ।
18. अभक्तैः कृतः पूजोपचारः सद्यः शापाय ।
19. वर्णाश्रमाणां स्वाचारप्रच्युतौ त्रयीतो विशुद्धिः।
20. स्वस्वधर्मासङ्करः प्रजाः राजानं च त्रिवर्गेणोपसंधत्ते189 ।
21. स किं राजा, यो न रक्षति प्रजाः?
22. स्वधर्ममतिकामतां सर्वेषां पार्थिवो गुरुः।
23. परिपालको हि राजा सर्वेषां धर्मषष्ठांशमवाप्नोति ।
24. उच्छषड्भागप्रदानेन वनस्था अपि तपस्विनः राजानं सम्भावयन्ति – “तस्यैतत् भूयात् योऽस्मान् गोपायति”इति ।
25.तदमङ्गलमपि नामङ्गलं, यत्रास्त्यात्मनो भक्तिः।
26. संन्यस्याग्निं अग्निपरिग्रहांश्चास्पृशन्नुपासीत ।
27. स्नात्वा प्राग्देवोपासनात् न कञ्चन स्पृशेत् ।
28. देवागारगतः सर्वान् यतीन् आत्मसम्बन्धिनीः जरतीश्च पश्येत् ।
29. देवाकारोपेतः पाषाणोऽपि नावमन्येत, किं पुनर्मनुष्यः ?
30. राजशासनस्य मृत्तिकायामिव लिङ्गिषु को नाम विचारः।
31. स्वयं मलिनोऽपि खलः190 प्रवर्धयत्येव सितं क्षीरं धेनूनाम् ।
32. न खलु परेषामाचारः स्वस्य पुण्यमारभते, नापि मनोविशुद्धिम् ।
33. दीना प्रकृतिः प्रायेण ब्राह्मणानाम् ।
34. बलात्कारस्वभावः क्षत्रियाणाम् ।
35. निसर्गतः शाठ्यं किरातानाम् ।
36. ऋजुवक्रशीलता191 सहजा कृषीवलानाम् ।
37. दानावसानः कोपो ब्राह्मणानाम् ।
38. प्रणामावसानः कोपो गुरूणाम् ।
39. प्राणावसानः कोपः क्षत्रियाणाम् ।
40.प्रियवचनावसानः कोपः वणिग्जनानाम् ।
41. विश्वस्तैः सह व्यवहारः वणिजां निधिः।
42. उद्धारप्रदानेनापि192 कोपोपशमो वैश्यानाम् ।
43. दण्डभयोपधिभिःवशीकरणं नीचजात्यानाम् ।
**इति त्रयीसमुद्देशः
* * **
८. वार्तासमुद्देशः
1. कृषिःपशुपालनं वणिज्या च वार्ता ।
2. वार्तासमृद्धौ हि सर्वाः समृद्धयो राज्ञाम् ।
3. तस्य खलु संसारे सुखं, यस्य कृषिः धेनवः शाकवाट्यः193सद्मन्युदपानं194 च ।
4. राज्ञस्तन्त्रपोषणे195नियोगिनामुत्सवः, महांश्च कोशक्षयः।
5. नित्यं हिरण्यव्ययेन मेरुरपि हि क्षीयते ।
6. तत्र सदैव दुर्भिक्षं, यत्र राजा विसाधयति196 ।
7. समुद्रस्य पिपासायां कुतो हि जगति जलानि ?
8. प्रजानां स्वयं197 जीवधनमदर्शयतो राज्ञः महती हानिः मनस्तापः क्षुत्पिपासाऽप्रतीकारात् पापं च ।
9. वृद्धबालव्याधितक्षीणान् पशून् बान्धवानिव पोषयेत् ।
10. अतीव भारः महान् मार्गश्च पशूनां अकाण्डे मरणकारणम् ।
11. शुल्कवृद्धिः बलात्पण्यग्रहणं च देशान्तरभाण्डानामप्रवेशे हेतुः।
12. काष्ठपात्र्यामेकदैव पदार्थो रद्ध्यते ।
13. तुलामानयोरव्यवस्था व्यवहारं दूषयति ।
14. वणिक्कृतोऽर्घः स्थितान् आगन्तुकांश्च पीडयति ।
15. देशकालभाण्डापेक्षया वा सर्वार्धो भवेत् ।
16. पण्यतुलामान विशुद्धौ राजा स्वयं जागृयात् ।
17. न वणिग्भ्यः सन्ति परे पश्यतोहराः।
18. स्पर्धया वृद्धं मूल्यं भाण्डेषु राज्ञः, यथोचितं मूल्यं विक्रेतुः।
19. अल्पद्रव्येण महाभाण्डं गृह्णतः मूल्याविनाशेन तद्भाण्डं राज्ञः।
20. अन्यायोपेक्षया सर्वे विनश्यन्ति ।
21. चोरचरटान्वयधमन मन्नपधमन राजवल्लभाटविक तलार किराताक्षशालिक नियोगि ग्रामकण्टक वार्द्धुषिका हि राष्ट्रस्य कण्टकाः।
22. ते हि प्रतापवति कण्टकशोधनाधिकरणज्ञे राज्ञि न प्रभवन्ति ।
23. अन्यायवृद्वितो वार्द्धुषिकाः तन्त्रं कोशं देशं च नाशयन्ति ।
24. कार्याकार्ययोर्नास्ति दाक्षिण्यं वार्द्धुषिकाणाम् ।
25. अप्रियमप्यौषधं पीयते ।
26. अहिदष्टा स्वाङ्गुलिरपि च्छिद्यते ।
**इति वार्तासमुद्देशः
-
*
३. चरटःगुप्तो दूतः राज्यान्निःसारितो राजेति केचित्. अन्वयधमनाः चारणादयः. मन्नपा–मापकाः, धमनाः–भाण्डपतेमूल्यनिर्णयकाः. तलारः सामन्तराजतयावस्थितः नियोगिनः तत्तदधिकारिणः ग्रामकण्टकः कपटप्रधानो गणकादिःवार्धुषिकः वणिग्बन्धुः. ये च प्रभूतमन्नसङ्ग्रहं कृत्वा दुर्भिक्षं वान्छन्ति तेऽपि वार्धुषिकाः
९. दण्डनीतिसमुद्देशः
1. चिकित्साऽऽगम इव दोषविशुद्धिहेतुर्दण्डः।
2. यथादोषं दण्डप्रणयनं दण्डनीतिः।
3. प्रजापालनाय राज्ञा दण्डः प्रणीयते, न धनार्थम् ।
4. स किं राजा वैद्यो वा ? यः स्वजीवनाय प्रजासु दोषमन्वेषयति ।
5. दण्डद्यूताहवमृत विस्मृत चोर पारदारिक प्रजाविप्लवजानि द्रव्याणि न राजा स्वयमुपयुञ्जीत ।
6. दुष्प्रणीतो हि दण्डःकामक्रोधाभ्यां अज्ञानाद्वा सर्वजनविद्वेषं करोति ।
7. अप्रणीतो हि दण्डः मात्स्यन्यायमुद्भावयति ।
8. बलीयानबलं ग्रसत इति हि मात्स्यन्यायः।
**इति दण्डनीतिसमुद्देशः
१०. मन्त्रिसमुद्देशः
1. मन्त्रिपुरोहितसेनापतीनां यो युक्तमुक्तं करोति स अहार्यबुद्धिः198।
2. असुगन्धमपि सूत्रं कुसुमसंयोगात् किं नारोहति देवशिरांसि ?
3. महद्भिः प्रतिष्ठितोऽश्मापि भवति देवः, किं पुनर्मनुष्यः ?
4. तथा चानुश्रयते —विष्णुगुप्तानुग्रहात्किल अनधिकृतोऽपि चन्द्रगुप्तः साम्राज्यपदमवापेति ।
5. ब्राह्मणक्षत्रियविशामन्यतमं स्वदेशजं आचाराभिजनविशुद्धं अध्यसनिनं अव्यभिचारिणं अधीताखिलव्यवहारतन्त्रं अस्त्रज्ञं अशेषोपधाविशुद्धं199") च मन्त्रिणं कुर्वीत ।
6. समस्तपक्षपातेषु स्वदेशपक्षपातो200 महान् ।
7. विषनिषेक इव दुराचारः सर्वान् गुणान् दूषयति ।
8. दुष्परिजनः मोहेन कुतोऽप्वकृत्यान्न जुगुप्सते ।
9. सव्यसनसचिवो राजा आरूढव्यालगज इव सुलभापायः।
10. किं तेन केनापि ? यो विपदि नोपतिष्ठते ।
11. पात्रेसमितो201 हि सुलभो लोकः !
12. किं तस्य भक्त्या? यो न वेत्ति स्वामिनो हितोपायं अहितप्रतीकारं वा ।
13. किं तेन सहायेनास्त्रज्ञेन ? यस्यात्मरक्षणेऽप्यस्त्रं न प्रभवति ।
14. धर्मार्थकामभयेषु व्याजेन परचित्तपरीक्षणं उपधा ।
15. अकुलीनेषु नास्त्यपवादाद्भयम् ।
16. अलर्कविषवत्202 कालं प्राप्य विकुर्वते विजातयः ।
17. तदमृतस्य विषत्वं, यत् खलु कुलीने दोषसम्भवः।
18. घटप्रदीपवत् तज्ज्ञानं, यत् न परप्रतिबोधाय ।
19. तेषां शस्त्रमिव शास्त्रमपि निष्फलं, येषां प्रतिपक्षदर्शनात् भयमन्वयन्ति चेतांसि ।
20. तच्छस्त्रं शास्त्रं वा आत्मपरिभवाय, यत् न हन्ति परेषां प्रसरम् ।
21. न हि गलिर्बलीवर्दः203भारकर्मणि केनापि युज्यते ।
22. मन्त्रपूर्वो हि सर्वोऽप्यारम्भः क्षितिपतीनाम् ।
23. अनुपलब्धस्य ज्ञानं, उपलब्धस्य निश्चयः, निश्चितस्य बलाधानं अर्थद्वैधस्य संशयच्छेदनं, एकदेशदृष्टस्याशेषोपलब्धिरिति मन्त्रसाध्यमेतत् ।
24. अकृतस्यारम्भं आरब्धस्यानुष्ठानं अनुष्ठितस्य विनियोग विशेषसम्पदं च कर्मसु ये कुर्युः ते मन्त्रिणः ।
25. कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः204 कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः।
26. आकाशे205 प्रतिशब्दवति चाश्रये मन्त्रं न कुर्यात् ।
27. मुखविकारकरामिनयाभ्यां प्रतिध्वानेन वा मनःस्थमप्यर्थमभ्यूहन्ति विचक्षणाः।
28. आ कार्यसिद्धेः मन्त्रो रक्षितव्यः।
29. दिवा नक्तं वाऽपरीक्ष्य मन्त्रयमाणस्य अभिमतः प्रच्छन्नो वा भिनत्ति मन्त्रम् ।
30. श्रूयते किल – रजन्यां वटवृक्षे प्रच्छन्नो वररुचिः ‘अप्रशिखे’त्यस्य पिशाचेभ्यो वृत्तान्तमुपलभ्य चतुरक्षरैराद्यैः श्लोकमेकं चकारेति206।
31. न तैः सह मन्त्रं कुर्यात्, येषां पक्षीयेष्वपकुर्यात् ।
32. अनायुक्तो207 मन्त्रकाले न तिष्ठेत् ।
33. श्रूयते हि — शुकसारिकाभ्यामन्यैश्च तिर्यग्भिः मन्त्रभेदः कृत इति ।
34. मन्त्रभेदादुत्पन्नं व्यसनं दुष्प्रतिविधेयं स्यात् ।
35. इङ्गितं आकारः मदः (प्रमोदः) प्रमादः निद्रा च मन्त्रभेद कारणानि ।
36. इङ्गितं अन्यथावृत्तिः।
37. कोपप्रसादजनिता शारीरवृत्तिः आकारः।
38. पानस्त्रीसङ्गादिजनितो हर्षः मदः।
39. प्रमो (मा) दः गोत्रस्खलनादिहेतुः ।
40. अन्यच्चिकीर्षतोऽन्यथा वृत्तिः (वा) प्रमादः।
41. जल्पाङ्गविकारहेतुः निद्रा ।
42. उद्धृतमन्त्रो208 न दीर्घसूत्रः209 स्यात् ।
43. अननुष्ठाने केवलेन किं मन्त्रेण ?
44. न ह्यौषधिपरिज्ञानादेव व्याधिप्रशमः।
45. नास्त्यविवेकात् परः प्राणिनां शत्रुः।
46. आत्मसाध्यमन्वेन कारयन् औषधमूल्यादेव व्याधिं चिकित्सति ।
47. यो यत्प्रतिबद्धः स तेन सहोदयव्ययी210 ।
48. स्वामिनाऽधिष्ठितो मेषोऽपि सिंहायते ।
49. मन्त्रकाले मन्त्रिभिर्वादः स्वैरालापश्च न कर्तव्यः।
50. लघुनोपायेन महतः कार्यस्य सिद्धिः मन्त्रफलम् ।
51. न खलु तथा हस्तेनोत्थाप्यते ग्रावा, यथा दारुणा ।
52.स मन्त्री शत्रुः, यः नृपेच्छया211 अकार्यमपि कार्यरूपतया अनुशास्ति ।
53. वरं स्वामिनो दुःखं, न पुनरकार्योपदेशेन तद्विनाशः।
54. क्षीरमपिबतो बालस्य किं न क्रियते कपोलहननम् ?
55. मन्त्रिणो राजहृदयत्वात् ते न केनचित्सह संसर्गं कुर्युः।
56. राज्ञोऽनुग्रहनिग्रहावेव मन्त्रिणामनुग्रहनिग्रहा ।
57.स दैवस्यापराधः न मन्त्रिणाम् यत्सुघटितमपि कार्यंविघटेत ।
58. न खल्वसौ राजा, यो मन्त्रिणोऽतिक्रम्य वर्तते ।
59. सुविवेचितान्मन्त्रात् भवत्येव कार्यसिद्धिः, यदि न स्वामिनो दुराग्रहः स्यात् ।
60. अविक्रामतो नीतिःवणिक्खड्गयष्टिरिव212 ।
61. दृष्टिरिव213 नीतिः यथावस्थितमर्थमुपलम्भयति ।
62 हिताहितप्राप्तिपरिहारौ तु पुरुषकारायत्तौ ।
63. अकालसहं कार्यं अद्यश्वीनं न कुर्यात् ।
64. कालातिक्रमात् नखच्छेद्यमपि कार्यं भवति कुठारच्छेद्यमच्छेद्यं वा ।
65. को नाम सचेतनः सुखसाध्यं कार्यं कृच्छ्रसाध्यमसाध्यं वा कुर्यात् ?
66. एको मन्त्री न कर्तव्यः।
67. एको हि मन्त्री निरवग्रहश्चरति, मुह्यति च कृच्छ्रेषु कार्येषु ।
68. द्वावपि मन्त्रिणौ न कर्तव्यौ ।
69. द्वौ हि मन्त्रिणौ संहतौ सह भक्षयतः, विगृहीतौ तं विनाशयतः।
70. त्रयः पञ्च सप्त वा मन्त्रिणः कार्याः।
71. विषमपुरुषसङ्घे हि दुर्लभमैकमत्यम् ।
72. बहवो हि मन्त्रिणः परस्परं स्वमतीरुत्कर्पयन्ति, स्वच्छन्दाश्च न विजृम्भन्ते ।
73. यद्बहुगुणं अनपायबहुलं च भवति तत्कार्यमनुष्ठेयम् ।
74. तदेव भुज्यते यदेव परिणमति214 ।
75. यथोक्तगुणसमवायिनि एकस्मिन् युगले वा मन्त्रिणि न कोऽपि दोषः।
76. न हि महानप्यन्धसमुदायः रूपमुपलभते ।
77. अवार्यवीर्यौद्वौ धुर्यौकिं महति भारे न नियुज्येते ?
78. बहुसहाये राज्ञि प्रसीदन्ति सर्व एव मनोरथाः।
79. एको हि पुरुषः केषु केषु नाम कार्येष्वात्मानं विभजते ?
80. किमेकशाखस्य शाखिनो महती भवति च्छाया ?
81. कार्यकाले दुर्लभः पुरुषसमवायः।
82. दीप्ते गृहे कीदृशं कूपखननम् ?
83. न धनं पुरुषसङ्ग्रहात् बहु मन्तव्यम् ।
84. सुक्षेत्रेषूप्तं बीजमिव कार्यपुरुषेषु दत्तं धनं शतशः फलति ।
85. बुद्धावर्थे युद्धे च ये सहायाः ते कार्यपुरुषाः।
86. खादनवेलायां कः कस्य न सहायः?
87. श्राद्ध इवाश्रोत्रियस्य, न मन्त्रे मूर्खस्याधिकारोऽस्ति ।
88. किं नामान्धः पश्येत् ?
89. न चान्धेनाऽऽकृष्यमाणोऽन्धः समं पन्थानं प्रतिपद्यते ।
90. तदन्धवर्तकीयं काकतालीयं वा, यन्मूर्खमन्त्रात् कार्यसिद्धिः215।
91. स घुणाक्षरन्यायः, यन्मूर्खेषु मन्त्रकार्यपरिज्ञानम् ।
92. अनालोकं लोचनमिव अशास्त्रं मनः कियत् पश्येत् ?
93. स्वामिप्रसादः सम्पदं जनयति, न पुनराभिजात्यं पाण्डित्यं वा ।
94. हरकण्ठलग्नोऽपि कालकूटः काल एव ।
95. स्ववधाय कृत्योत्थापनमिव216 मूर्खेषु राज्यभारारोपणम् ।
96. अकार्यवेदिनः किं बहुनापि शास्त्रेण ?
97. गुणहीनं217 धनुः पिञ्जनादपि218 साधनविशेषः") निकृष्टम् ।
98. चक्षुष्मत इव मन्त्रिणोऽपि यथार्थदर्शनमेवात्मगौरवहेतुः।
99. शस्त्राधिकारिणो न मन्त्राधिकारिणः स्युः ।
100. क्षत्रियस्य परिहरतोऽप्यायात्युपरि भण्डनम्219 ।
101. शस्त्रोपजीविनां कलहमन्तरेण भक्तमपि भुक्तं न जीर्यति ।
102. मन्त्राधिकारः स्वामिप्रसादः शस्त्रोपजीवमं चेत्येकैकमपि पुरुषमुत्सेकयति, किंपुनस्समुदायः?
103. न220 लम्पटोऽधिकारी ।
104. मन्त्रिणोऽर्थग्रहणलालसायां मतौ न राज्ञः कार्यमर्थो वा ।
105. वरणार्थं प्रेषित एव यदि कन्यां परिणयति तदा वरयितुः तप एव शरणम् !
106. स्थाल्येव चेद्भक्तमश्नाति ततः कुतो र्भोक्तुर्भुक्तिः?
107. तावत् सर्वोऽपि शुचिर्निस्पृहो वा, यावत् न परवरस्त्रीदर्शनमर्थागमो वा ।
108. अतिप्रवृद्धः कामः तन्नास्ति यन्न करोति ।
109. श्रूयते किल कामपरवशः प्रजापतिरात्मदुहितरि, हरिर्गोपवधूषु, हरश्शन्तनुकलत्रेषु, सुरपतिः गौतमभार्यायां, चन्द्रः बृहस्पतिपत्न्यांच मनश्चकारेति ।
110. अर्थेषूपभोगरहिताः तरवोऽपि साभिलाषाः, किंपुनर्मनुष्याः?
111. कस्य नाम धनलाभान्नलोभः प्रवर्तते ?
112. स खलु प्रत्यक्ष दैवं, यस्य परस्वेष्विव परस्त्रीषु निःस्पृहं चेतः।
113. अदुष्टस्य दूषणं सुप्तव्यालप्रबोधनमिव ।
114. सकृद्विघटितं चेतः स्फटिकवलयमिव कः सन्धातुमीश्वरः ?
115. न महताप्युपकारेण चित्तस्य तथाऽनुरागः, यथा अल्पेनाऽप्यपकारेण विरागो भवति ।
116. सूचीमुखसर्पा221 इव नापकृत्य विरमन्त्यपराद्वाः।
117. समायव्ययः कार्यारम्भो राभसिकानाम्222 ।
118. बहुक्लेशेनाल्पफलः कार्यारम्भो महामूर्खाणाम् ।
119. दोषभयात् कार्यानारम्भः कापुरुषाणाम् ।
120. मृगास्सन्तीति किं कृषिर्न क्रियते ?
121. अजीर्णभयात् किं भोजनं परित्यज्यते ?
122. स खलु किं कोऽपीहाभूदस्ति भविष्यति वा ? यस्य कार्यारम्भेषु प्रत्यूहा223 न भवन्ति ।
123. आत्मसंशयेन कार्यारम्भो बालहृदयानाम् ।
124.दूरभीरुत्वमासन्नशूरत्वं च गुणो महापुरुषाणाम् ।
125. जलवन्मार्दवोपेतः पृथूनपि भूभृतो भिनत्ति ।
126. प्रियंवदः शिखीव सदर्पानपि द्विषत्सर्पानुत्सादयति ।
127. स महान्, यो विपत्सु धैर्यमवलम्बते ।
128. उत्तापकत्वं224 हि सर्वकार्येषु सिद्धीनां प्रथमोऽन्तरायः।
129. शरद्धना इव न खलु वृथा घनगर्जितं कुर्वन्ति कुलीनाः।
130. नाविधाय परेषामर्थमनर्थं वा स्वहृदयं प्रकाशयन्ति महानुभावाः।
131. क्षीरवृक्षवत् फलसम्पादक एव महतामालापः।
132. दुरारोहपादप इव दण्डामियोगेन फलप्रदो भवति नीचप्रकृतिः।
133. न स्वभावेन किमपि वस्तु सुन्दरमसुन्दरं वा, किन्तु यद्यस्यप्रकृतितः प्रियं भाति तदेव तस्य सुन्दरम् ।
134. न तथा कर्पूररेणुना प्रीतिः केतकीनां225 (कीटकानां वा), यथाऽमेध्येन ।
135.अतिक्रोधनस्य प्रभुत्वं अग्नौ पतितं लवणमिव शतधा विशीर्यते ।
136. सर्वान् गुणान्निहन्त्यनुचितज्ञः ।
137. परस्मै मर्मकथनं आत्मविक्रय एव ।
138. तदजाकृपाणीयं यः परेषु विश्वासः।
139. क्षणिकचित्तः किमपि न साधयति ।
140. स्वतन्त्रः सहसाकारित्वात् सर्व विनाशयति ।
141. अलसः सर्वकर्मणामनधिकारी ।
142. प्रमादवान् भवत्यवश्यं विद्विषां वशः।
143. कमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ।
144. प्राणादपि प्रत्ययो226 रक्षितव्यः ।
145. आत्मशक्तिमजानतो विग्रहः क्षयकाले पिपीलिकानां पक्षोत्थानमिव ।
146. कालमलभमानोऽपकर्तरि साधु वर्तेत ।
147. किं नु खलु लोको न वहति मूर्ध्ना दग्धुमिन्धनम् ?
148. नदीरयो हि तीरतरूणामङ्घ्रीन् क्षालयन्नप्युन्मूलयति ।
149. उत्सेकः हस्तगतमपि कार्यं विनाशयति ।
150. नाल्पं महद्वा कार्यमुपायज्ञस्य ।
151. सरित्पूरः सममेवोन्मूलयति तीरजतृणान्द्रुमांश्च ।
152. युक्तमुक्तं वचो बालादपि गृह्णीयात् ।
153. रवेरविषयं किं न प्रकाशयति दीपः?
154. अल्पमपि हि वातायनविवरं बहूनप्युपलम्भयति227।
155.पतिंवरा इव परार्थाः खलु वाचः ! ताश्च निरर्थकं प्रकाश्यमानाः शपयन्त्यवश्यं जनयितारम् ।
156. तत्र युक्तमप्युक्तं अनुक्तसमं, यो न विशेषज्ञः।
157. स खलु पिशाचकी पातकी वा, यः परेऽनर्थिनि वाचमुदीरयति ।
158. विध्यायतः228 प्रदीपस्येव नयहीनस्य बुद्धिः (वृद्धिः) ।
159. जीवोत्सर्गः स्वामिपदममिलषतामेव ।
160. बहुदोषेषु क्षणदुःखप्रदोऽपायः अनुग्रह एव ।
161. स्वामिदोषस्वदोषाभ्यामपहृतवृत्तयः क्रुद्धभीतलुब्धावमानिनः कृत्याः।
162. अनुवृत्तिरभयं त्यागः सत्कृतिश्च कृत्यानां वशोपायाः।
163. क्षयलोभविरागकारणानि प्रकृतीनां न कुर्यात् ।
164. सर्वकोपेभ्यः प्रकृतिकोपो गरीयान् ।
165. अचिकित्स्यदोषदुष्टान् खनिदुर्गसेतुबन्धाकरकर्मान्तेषु क्लेशयेत् ।
166. अपराद्धैरपराधकैश्च सह गोष्ठीं न कुर्यात् ; ते हि गृहप्रविष्टसर्पवत् सर्वव्यसनानामागमनद्वारम् ।
167. न कस्यापि क्रुद्धस्य पुरतः तिष्ठेत् ।
168. क्रुद्धो हि सर्प इव यमेवाग्रे पश्यति तत्रैव रोषविषमुत्सृजति ।
169. अप्रतिविधातुरागमनात्229 वरमनागमनम् ।
**इति मन्त्रिसमुद्देशः
११. पुरोहितसमुद्देशः
1. पुरोहितं उदितोदितकुलशीलं, षडङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चामिविनीतं, आपदां दैवमानुषीणां च प्रतिकर्तारं कुर्वीत ।
2. राज्ञो हि मन्त्रिपुरोहितौ मातापितरौ, अतस्तौ न केषुचिद्वान्छितेषु विदूरयेत् दुःखयेद्दुर्विनयेद्वा ।
3. अमानुषोऽग्निः अवर्षं अतिवर्षं मारकः दुर्भिक्षं सस्योपघातः जन्तुसर्गः व्याधिः भूतपिशाचशाकिनी सर्पव्यालमूषकक्षोभाश्चेत्यापदः।
4. शिक्षालापक्रियाक्षमो राजपुत्रः सर्वासु लिपिषु प्रसंख्याने पदप्रमाणप्रयोगकर्मणि नीत्यागमेषु रत्नपरीक्षायां सम्भोगप्रहरणोपवाह्यविद्यासु230 च साधु विनेतव्यः।
5. अस्वातन्त्र्यं उक्तकारित्वं नियमो विनीतता च गुरूपासनकारणानि ।
6. व्रतविद्यावयोऽधिकेषु नीचैराचरणं विनयः।
7. पुण्यावाप्तिः शास्त्ररहस्यपरिज्ञानं सत्पुरुषामिगम्यत्वं च विनयफलम् ।
8. अभ्यासः कर्मसु कौशलमुत्पादयत्येव, यद्यस्ति तज्ज्ञेभ्यः सम्प्रदायः।
9. गुरुवचनमनुल्लङ्घनीयं अन्यत्राऽधर्मानुचिताचारऽऽत्मप्रत्यवायेभ्यः।
10. युक्तमयुक्तं वा गुरुरेव जानाति, यदि न शिष्यः प्रत्यर्थी वादी वा स्यात् ।
11. गुरुजनरोषे अनुत्तरदानं अभ्युपपत्तिश्चौषधम्231 ।
12. शत्रूणामभिमुखः पुरुषः श्लाघ्यः, न पुनर्गुरूणाम् ।
13. आराध्यं न प्रकोपयेत्, यद्यसावाश्रितेषु कल्याणाशंसी ।
14. बहुभिरुक्तं नातिक्रमितव्यं, यदि नैहिकामुत्रिकफलविलोपः।
15. सन्दिहानो गुरुमकोपयन् पृच्छेत् ।
16. गुरूणां पुरतः न यथेष्टमासितव्यम् ।
17. नानभिवाद्योपाध्यायाद्विद्यामाददीत, यद्यस्ति जातिव्रताभ्यामाधिक्यं समानत्वं वा ।
18. अध्ययनकाले व्यासङ्गं232 पारिप्लवं233अन्यमनस्कतां च न भजेत् ।
19. सहाध्यायिषु बुद्ध्यतिशयेन नाभ्यसूयेत् ।
20. प्रज्ञयाऽतिशयानो न गुरुमवज्ञायेत ।
21. स किमभिजातः ? मातरि यः परुषः, शूरो वा पितरि ।
22. अननुज्ञातो न क्वचिद्व्रजेत् ।
23. मार्गमचलं जलाशयं च नैकोऽवगाहेत ।
24. पितरमिव गुरुमुपचरेत् ।
25. गुरुपत्नीं जननीमिव मन्येत ।
26. गुरुवद्गुरुपुत्रं पश्येत् ।
27. सब्रह्मचारिणि बान्धव इव स्त्रिह्येत् ।
28. ब्रह्मचर्यमाषोडशाद्वर्षात्, ततो गोदानं234 दारकर्म च ।
29. समविद्यैः सहाधीतं सर्वदाऽभ्यस्येत् ।
30. गृहदौस्थित्यं आगन्तुकानां पुरतो न प्रकाशयेत् ।
31. परगृहेषु हि सर्वोऽपि विक्रमादित्यायते !
32. स खलु महान्, यः स्वकार्येष्विव परकार्येष्वप्युत्सहते ।
33. परकार्येषु को नाम न शीतलः ?
34. राजासन्नः को नाम न साधुः ?
35. अर्थपरेष्वनुनयः केवलं दैन्याय ।
36. को नाम अर्थार्थी प्रणामेन तुष्यति ?
37. आश्रितेषु कार्यतो विशेषकरणेऽपि, प्रियदर्शनालापाभ्यां सर्वत्र समवर्तनं तन्त्रं वर्धयत्यनुरञ्जयति च प्रजाः।
38. तनुधनादर्थग्रहणं मृतमारणमिव ।
39. अप्रतिविधातरि कार्यनिर्वेदन अरण्ये रुदितभिव ।
40. दुराग्रहस्य हितोपदेशः बधिरस्याग्रतो गानमिव ।
41. अकार्यज्ञस्य शिक्षणं अन्धस्य पुरतो नर्तनमिव ।
42. अविचारकस्य युक्तिकथनं तुषकण्डनमिव ।
43. नीचेषूपकृतं उदके विशीर्णलवणमिव ।
44. अविशेषज्ञे प्रयासः शुष्कनदीतरणमिव।
45. परोक्षे किलोपकृतं सुप्तसंवाहनमिव ।
46. अकाले विज्ञप्तं ऊषरे कृष्टमिव ।
47. उपकृत्योद्धाटनं वैरकरणमिव ।
48. अफलवतः प्रसादः काशकुसुमस्येव ।
49. गुणदोषावनिश्चित्य अनुग्रहनिग्रहविधानं ग्रहाभिनिवेश इव ।
50. उपकारापकारासमर्थस्य तोषरोषकरणं आत्मविडम्बन235मिव।
51. ग्राम्यस्त्रीविद्रावणकारि गलगर्जितं ग्रामशूराणां, न रणशूराणाम् ।
52. स विभवो मनुष्याणां, यः परोपभोग्यः।
53. स ननु व्याधिः ! यः स्वस्यैवोपभोग्यः।
54. स किं गुरुः पिता सुहृद्वा ? यः अभ्यसूयागर्भंबहुषु दोषं प्रकाशयन् शिक्षयति ।
55. स किं प्रभुः ? यः चिरसेव केष्वेकमध्यपराधं न सहते ।
इति पुरोहितस मुद्देशः
<MISSING_FIG href="../../../books_images/U-IMG-16987586673DotEndingLine.png"/>
१२. सेनापतिसमुद्देशः
** 1. अभिजनाचारप्रज्ञानुरागसत्यशौचशौर्यसम्पन्नः, प्रभाववान्, बहुबान्धवपरिवारः, निखिलनयोपायप्रयोगनिपुणः, समभ्यस्तसमस्तवाहनायुधलिपिभाषा236ऽऽत्मस्वरूपस्थितिः, सकल237तन्त्रसामन्ताभिमतः, साङ्ग्रामिकाभिगामिकाकारशरीरः238, भर्तुरादेशाभ्युदयहितवृत्तिषु निर्विकल्पः, स्वामिना आत्मवत् मानार्थप्रतिपत्तिराजचिन्हैः सम्भावितः, सर्वक्लेशायाससहः,स्वैः परैश्चाप्रधृष्यप्रकृतिः—इति सेनापतिगुणाः.**
** 2. स्त्रीजितत्वं औद्धत्यं व्यसनिता क्षयव्ययप्रवासोपहतत्वं तन्त्राप्रतीकारः सर्वैस्सहविरोधः परपरीवादः परुषभाषित्वं अनुचितज्ञताअसंविभागित्वं स्वातन्त्र्यात्मसम्भावनोपहतत्वं स्वामिकार्यव्यसनापेक्षा सहकारिकृतकार्यविनाशः राजहितवृत्तिषु चेर्ष्या लुब्धत्वम् इति सेनापतिदोषाः.**
3. स चिरंजीवी राजपुरुषः, यो नगरनापित इवानुवृत्तिपरः सर्वासु प्रकृतिषु.
**इति सेनापतिसमुद्देशः
* * **
१३. दूतसमुद्देशः
1. अनासन्नेष्वर्थेषु दूतो मन्त्री ।
2 स्वामिभक्तिः अव्यसनिता दाक्ष्यं शुचित्वं अमूर्खता प्रागल्भ्यं प्रतिभानवत्वं क्षान्तिः परमर्मवेदित्वं जातिश्चेति प्रथमा दूतगुणाः.
3. स239 च त्रिविधः —निसृष्टार्थः परिमितार्थः शासनहरश्चेति ।
4. यत्कृतौ स्वामिसन्धिविग्रहौ प्रमाणं सः निसृष्टार्थः, यथा –कृष्णः पाण्डवानाम् .
5. अविज्ञातो दूतः परस्थानं न प्रविशेन्निर्गच्छेद्वा ।
6. मत्स्वामिनमतिसन्धातुकामः परो मां विलम्बयितुमिच्छतीति240अविज्ञातोऽपि दूतः अपसरेत् गूढपुरुषानपसर्पयेद्वा ।
7. परेणाशुसंप्रेषणेदूतः कारणं विमृशेत् ।
8. कृत्योपग्रहः अकृत्योत्थापनं सुतदायादावरुद्धोपजापः स्वमण्डलप्रविष्टगूढपुरुषपरिज्ञानं अन्तभूमिपालाटविकसम्बन्धः कोशदेशतन्त्रमित्रावबोधः कन्यारत्नवाहनविनिःस्रावणं स्वाभीष्टपुरुषप्रयोगात्परप्रकृतिक्षोभकरणं च दूतकर्म ।
9. मन्त्रिपुरोहितसेनापतिप्रतिबद्धाप्तजनोपचारविस्त्रम्भाभ्यां शत्रोरिति कर्तव्यतां अन्तःसारतां च विद्यात् ।
10. स्वयमशक्तः परेणोक्तमनिष्टं सहेत ।
11. गुरुषु स्वामिषु वा परिवादेनास्ति शान्तिः।
12. स्थित्वापि यास्यतोऽवस्थानं केवलमपक्षयहेतुः।
13. वीरपुरुषपरिवृतः शूरपुरुषान्तरितान् परदूतान् पश्येत् ।
14. श्रूयते हि किल – चाणक्यः तीक्ष्णदूतप्रयोगेणैकं नन्दं जघानेति ।
15. शत्रुप्रहितं शासनमुपायनं च स्वैः अपरीक्षितं नोपादीत ।
16. श्रूयते हि स्पर्शविषवासिताद्भुतवस्त्रोपायनेन करहाटपतिः कैटभः वसुनामानं राजानं, आशीविषविषधरोपेतरत्नकरण्डकप्राभूतेन च करवालः करालं च जघानेति ।
17. महत्यपकारेऽपि न दतमुपहन्यात् ।
18. उद्धृतेष्वपि शस्त्रेषु दूतमुखा वै राजानः, तेषा241 मन्तावसायिनोऽप्यवध्याः, किमङ्ग पुनर्ब्राह्मणाः !
19. अवध्यभावात् दूतः सर्वमेव जल्पति ।
20. कः सुधीः दूतवचनात् परोत्कर्षं स्वापकर्षं च मन्येत ?
21. तदाशयरहस्यपरिज्ञानार्थं परदूतः स्त्रीभिः उभयवेतननैः तद्गुणाचारशीलानुवर्तिभिर्वा प्रणिधातव्यः।
22. चत्वारि वेष्टनानि खड्गमुद्रा च प्रतिपक्षलेखानाम् ।
**इति दूतसमुद्देशः
१४. चारसमुद्देशः
1. स्वपरमण्डलकार्याकार्यावलोकने चाराश्चक्षूंषि क्षितिपतीनाम् ।
2. अलौल्यं अमान्द्यं अमृषाभाषित्वं अभ्यूहकत्वं चेति चारगुणाः ।
3. तुष्टिदानमेव चाराणां वेतनम् ।
4. ते हि तल्लोभात् स्वाभिकार्येष्वतीव त्वरन्ते ।
5. सन्दिग्धविषये त्रयाणामैकवाक्ये सम्प्रत्ययः।
6. अनपसर्पो हि राजा स्वैःपरैश्चातिसन्धीयेत ।
7. किमस्त्ययामिकस्य निशि कुशलम् ?
8. कापटिकोदास्थित गृहपतिक वैदेहक तापस कितवकिराताक्षशालिक यमपट्टिकाहितुण्डिकशौण्डिकशौमिक पाटच्चर विटविदूषक पीठमर्दक नटनर्तक गायक वादक वाग्जीवकगणक शाकुनिक मिषगैन्द्रजालिक नैमित्तिक सूदारालिक संवाहक तीक्ष्ण क्रूर रसद जड मूक बधिरान्धच्छमानः स्थायियायिभेदेनापसर्पवर्गः।
9. परमर्मज्ञः प्रगल्भः छात्रः कापटिकः।
10. यं कञ्चन समयमास्थाय प्रतिपन्नाचार्यामिषेकः प्रभूतान्तेवासी प्रज्ञातिशययुक्तः राजपरिकल्पितवृत्तिः उदास्थितः,
11. गृहपतिकवैदेहकौ ग्रामकूटश्रेष्ठिनौ ।
12. बाह्यव्रतविद्याभ्यां लोकविडम्बनहेतुः तापसः।
13. कितवः द्यूतकारः।
14. अल्पाखिलशरीरावयवः किरातः ।
15. आक्षशालिकः प्रतिगृहं चित्रपटदर्शी ।
16. यमपट्टिकः गलत्रोटिकः।
17. अहितुण्डिकः सर्पक्रीडाप्रसरः।
18. शौण्डिकः कल्पपालः।
19. शौभिकः जपायां काण्डपटावरणेन नानारूपदर्शी ।
20. पाटच्चरः चेरो बन्दिकारो वा ।
21. व्यसनिनां प्रेषणाजीवः विटः।
22. सर्वेषां प्रहसनपात्र विदूषकः।
23. कामशास्त्राचार्यः पीठमर्दकः ।
24. गीताङ्गप्रावरणेन नृत्यवृत्याजीवी नटः।
25. नाटकामिनयरङ्गनर्तकः नर्तकः।
26. रूपाजीवावृत्युपदेष्टा गायकः।
27.गीतप्रबन्धगतिविशेषवादकः चतुर्विधातोयप्रचारकुशलः वादकः।
28. वाग्जीवकः वैतालिकः सूतो वा ।
29. गणकः सङ्ख्यावित् दैवज्ञो वा ।
30. शाकुनिकः शकुनवक्ता ।
31. भिषक् आयुर्वेदवित् वैद्यः शस्त्रकर्मविच्च।
32. ऐन्द्रजालिकः तन्त्रयुक्तया मनोविस्मयकरः मायावी च ।
33. नैमित्तिकः लक्ष्यवेधी दैवज्ञो वा ।
34. माहानसिकः सूदः।
35. विचित्रभक्ष्यप्रणेता आरालिकः।
36. अङ्गमर्दनकलाकुशलः भारवाहको वा संवाहकः।
37. द्रव्यहेतोः कृछ्रेण कर्मणा यः जीवितविक्रयी सः तीक्ष्णः असहनो वा ।
38. सदा बन्धुषु निःस्नेहः कूरः।
39. रसदः विषप्रयोक्ता ।
40. लोकव्यवहारानभिज्ञः जडः।
41. जिह्वाश्रवणनयनहीनाः मूकबधिरान्धाः।
इति चारसमुद्देशः
-
*
१५.विचारसमुद्देशः
1. नाविचार्य किमपि कार्यंकुर्यात् ।
2. प्रत्यक्षानुमानागमैः यथावस्थितवस्तुव्यवस्थापनहेतुः विचारः।
3. स्वयं दृष्टं प्रत्यक्षम् ।
4. न ज्ञानमात्रात् प्रेक्षावतां प्रवृत्तिर्निवृत्तिर्वा ।
5. स्वयं दृष्टेऽपि मतिर्मुह्यति संशेते विपर्यस्यति वा, किं पुनर्न परोपदिष्टे ।
6. स खलु विचारज्ञः, यः प्रत्यक्षेणोपलब्धमपि साधु परीक्ष्यानुतिष्ठति ।
7. अतिरभसात् कृतानि कार्याणि कं नामानर्थं न जनयन्ति ?
8. अविचार्याचरिते कर्मणि पश्चात् प्रतिविधानं गतोदके सेतुबन्धनमिव ।
9. कर्मसु कृतेनाकृतावेक्षणमनुमानम् ।
10. सम्भावितैकदेशः अवशिष्टं विद्यात् ।
11. आकारः शौर्यं प्रज्ञासम्पत्तिः आयतिः विनयश्च राजपुत्राणां भाविनो राज्यस्य लिङ्गानि ।
12. प्रकृतेर्विकृतिदर्शनं हि प्राणिनां भविष्यतः शुभस्याशुभस्य च लिङ्गम् !
13. एकस्मिन् कर्मणि दृष्टबुद्धिः पुरुषकारः कथं नाम न कर्मान्तरे समर्थः?
14. आप्तपुरुषोपदेशः आगमः।
15 यथानुभूतानुमितश्रुतार्थाविसंवादिवचनः पुमान् आप्तः।
16. सावागुक्ताप्यनुक्तसमा, यत्र नास्ति तद्युक्तिः।
17. वक्तुर्गुणगौरवात् वचनगौरवम् न स्वतः।
18. किं मितम्पचेषु धनेन ? चण्डालसरसि वा जलेन ? यत्र सतां नोपभोगः।
19. लोकस्तु गतानुगतिकः, यतोऽसौ सदुपदेशिनीमपि कुट्टिनीं धर्मेषु न तथा प्रमाणयति, यथा गोघ्नमपि ब्राह्मणम् ॥
इति विचारसमुद्देशः
-
*
१६. व्यसनसमुद्देशः
1. व्यस्यति प्रत्यावर्तयत्येनं श्रेयसः इति व्यसमम् ।
2. व्यसनं द्विविधं सहजमाहार्यंच ।
3. सहजं व्यसनं धर्मसम्भूताद्भुताभ्युदयहेतुमिः अधर्मजनितमहाप्रत्यवायप्रतिपादनैरुपाख्यानैः योगपुरुषैश्च प्रशममेत् ।
4. परचित्तानुकूल्येन तदभिलषितेषु व्यसनेषु उपायेन विरक्तिजननहेतवः योगपुरुषाः।
5. शिष्टसंसर्गदुर्जनासंसर्गाभ्यां पुरातनमहापुरुषचरितोत्थिताभिश्च कथाभिः आहार्यंव्यसनं प्रतिबध्नीयात् ।
6. स्त्रियं अतिभजमानः भवत्यवश्यं तृतीयाप्रकृतिः।
7. सौम्यधातुक्षयः सर्वधातुक्षयं करोति ।
8. पानशौण्डः चित्तभ्रमात् मातरमप्यभिलषति ।
9. मृगयासक्तिः स्तेनव्यालद्विषद्दायादानां आमिषं पुरुषं करोति ।
10. नास्त्यकृत्यं द्यूतासक्तस्य मातर्यपि हि मृतायां दीव्यत्येव हि कितवः !
11. पिशुनः सर्वेषामविश्वासं जनयति ।
12. दिवास्वापः सुप्तव्याधिव्यालानां उत्थापनदण्डः, सकलकार्यान्तरायश्च ।
13. म परपरिवादात् परं सर्वविद्वेषणभेषजमस्ति ।
14. तौर्यत्रिकासक्तिः कं नाम प्राणार्थमानैर्न वियोजयति ?
15. मृषोद्या नाविधाय कमप्यनर्थं विरमति ।
16. अतीवेर्ष्यालुं पुरुषं स्त्रियः त्यजन्ति घ्नन्ति वा ।
17. परपरिग्रहाभिगमः कन्यादूषणं वा साहसं दशमुखदाण्डक्यादिविनाश हेतुः प्रसिद्धमेव ।
18. यत्र नाहमित्यध्यवसायः तत्साहसम् ।
19. अर्थदूषणः कुचेरोऽपि भवति भिक्षाभाजनम् ।
20. अतिव्ययः अपात्रव्ययश्च अर्थस्य दूषणम् ।
21. हर्षामर्षाभ्यां अकारणं तृणाङ्कुरमपि नोपहन्यात्, किं पुनर्मनुष्यम् ।
22. श्रूयते हि — निष्कारणं भूतावमानिनौ वातापिरिल्वलश्चासुरौ अगस्त्यस्यात्यासादनाद्विनेशतुरिति ।
23. यथादोषं कोटिरपि गृहीता न दुःखायते, अन्यायेन तृणशलाकापि गृहीता प्रजाः खेदयति ।
24. तरुच्छेदेन फलोपभोगः सकृदेव ।
25. प्रजाविभवो हि स्वामिनः द्वितीयं भाण्डागारं, अतो युक्तितः तमुयुञ्जीत ।
26. राजपरिगृहीतं तृणमपि परेण गृहीतं चेत् काञ्चनीभवति, जायते च पूर्वसंचितस्यार्थस्यापहारः।
27. वाक्पारुष्यंशस्त्रपातादपि विशिष्यते ।
28. जातिवयोवृत्तविद्याविभवानुचितं हि वचनं वाक्पारुष्यम् ।
29. स्त्रियं अपत्यं भृत्यं वा तथोक्त्या विनयं ग्राहयेत् — यथा हृदयप्रविष्टात् शल्यादिव वचनतो न ते दुर्मनायन्ते ।
30. वधः क्लेशः अर्थहरणं वा व्युत्क्रमेण दण्डपारुष्यम् ।
31. एकेनापि व्यसनेनोपहतः चतुरङ्गवानपि राजा त्रिनश्यति, किं पुनर्नाष्टादशभिः ?
इति व्यसनसमुद्देशः
१७. स्वामिसमुद्देशः
1. धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान् नयानुगतवृत्तिश्च स्वामी ।
2.कोपप्रसादयोः स्वतन्त्रता आत्मातिशयवर्धनं वा यस्यास्ति स स्वामी.
3. स्वामिमूलाः सर्वाः प्रकृतयो भवन्त्यभिप्रेतप्रयोजनाः, नास्वामिकाः।
4. अस्वामिकाः प्रकृतयः समृद्धाअपि निस्तरितुं न शक्नुवन्ति ।
5. अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ?
6. असत्यवादिनो विनश्यन्ति सर्वे गुणाः।
7. वञ्चकेषु न परिजनो न धनं नापि चिरमायुः।
8. स प्रियो लोकानां यो ददात्यर्थम् ।
9. स दाता महान्, यस्य नास्ति प्रत्याशोपहतं चेतः।
10. इयमुञ्चधियामलौकिकी
महती कापि कठोरचित्तता ।
उपकृत्य भवन्ति निस्पृहाः
परतः प्रत्युपकारभीरवश्च ॥
11. प्रत्युपकर्तुरुपकारः सवृद्धिकोऽर्थन्यास इव ।
12. तजन्मान्तरेषु न केषामृणं ? येषामप्रत्युपकारि परार्थानुभवनम् ।
13. किं तया गवा ? या न क्षरति क्षीरम्, न गर्भिणी वा ।
14. किं तेन स्वामिप्रसादेन ? यो न पूरयत्याशाम् ।
15. क्षुद्रपरिषत्कः सर्पवानाश्रय इव न कस्यापि सेव्यः।
16. अकृतज्ञस्य व्यसनेषु न सन्ति सहायाः।
17. अविशेषज्ञः शिष्टैर्नाश्रीयते ।
18. अत्मम्भरिः242 कलत्रेणापि त्यज्यते ।
19. अनुत्साहः सर्वव्यसनानां आगमनद्वारम् \।
20. शौर्यंअमर्षः शीघ्रकारित्वं तत्कर्मप्रवीणत्वमित्युत्साहगुणाः।
21. अन्यायप्रवृत्तेर्नचिरं सम्पदः243।
22. यत्किञ्चिनकारी244 स्वैः परैर्वा हन्यते ।
23. आज्ञाफलमैश्वर्यम् ।
24. राजाज्ञा हि सर्वेषामलङ्घ्यःप्राकारः।
25. आज्ञाभङ्गकारिणं सुतमपि न सहेत ।
26. कस्तस्य चित्रगतस्य च राज्ञो विशेषः ? यस्याज्ञा नास्ति ।
27. राजाज्ञावरुद्धस्य245 पुनस्तदाज्ञाऽप्रतिपादने उत्तमः साहसद्ण्डः; सम्बन्धाभावे तद्दण्डदातुश्च ।
28. परमर्मस्पर्शकरं अश्रद्धेय असत्यं अतिमात्रं च न भाषेत ।
29. वेषमाचारं वाऽनभिजानन् न कमपि भजेत ।
30. प्रभौ विकारिणि को नाम न विकुरुते ?
31. अधर्मपरे राज्ञि को नाम नाधर्मपरः ?
32. राज्ञावज्ञातः सर्वैरवज्ञायते ।
33. पूजितं हि पूजयन्ति लोकाः !
34. प्रजाकार्यं स्वयमेव पश्येत् ।
35. यथावसरमप्रतीहारसंग द्वारं कारयेत् ।
36. दुर्दर्शोहि राजा कार्याकार्यविपर्यासमासन्नैःकार्यते, अतिसन्धीयते च द्विषद्भिः।
37. वैद्येषु श्रीमतां व्याधिवर्धनादिव न नियोगिषु भर्तुर्व्यसनादपरोऽस्ति जीवनोपायः।
38. कार्यार्थिनः पुरुषान् लंचलुंचनिशाचराणां भूतबलिं कुर्यात् ।
39. लञ्चो हि सर्वपातकानामागमनद्वारम् ।
40. मातुः स्तनमपि लुनन्ति लञ्चोपजीचिनः।
41. लञ्चेन कार्यकारिभिः उरभ्रवत् स्वामी विक्रीयते ।
42. लञ्चेन राज्ञोऽर्थलाभः प्रासादविध्वंसनेन लोहकीलकलाभ इव ।
43. राज्ञो लञ्चेन कार्यकरणं कस्य नाम कल्याणम् ?
44. देवतापि यदि चोरेषु मिलति, कुतः प्रजानां कुशलम् ?
45. लञ्चेनार्थोपायं दर्शयन् दैशं कोशं मित्रं तन्त्रं च भक्षयति ।
46. राज्ञोऽन्यायकरणं, समुद्रस्य मर्यादालङ्घनं, आदित्यस्य तिमिरपोषणं, मातुः स्वापत्यभक्षणमिति कलिकालविजृम्भितानि ।
47. राजा विशिष्टस्य कालस्य कारणम् ।
48. न्यायतः परिपालके राज्ञिप्रजानां कामदुघा भवन्ति सर्वा दिशः, काले च वर्षति मघवान्, सर्वा श्चेतयः246 प्रशाम्यन्ति, राजानमनुवर्तन्ते सर्वेऽपि लोकपालाः; तेनेमं मध्यममप्युत्तमं लोकपालं राजानमाहुः।
49. अव्यसनेन क्षीणधनान् कुटुम्बिनः मूलधनप्रदानेन सम्भावयेत् ।
50. राज्ञो हि समुद्रावधिर्मही स्वकुटुम्बं कलत्राणि तु वंशवर्धनक्षेत्राणि ।
51. अर्थिनां उपायनं247 अप्रतिकुर्वाणो न गृह्णीयात् ।
52. आगन्तुकैः असहनैश्च सह नर्म248 न कुर्यात् ।
53. पूज्यैस्सह नाधिरुह्य249 वदेत् ।
54. भर्तुमशक्यं अप्रयोजनं च जनं नाऽऽशया क्लेशयेत् ।
55. पुरुषो हि न पुरुषस्य दासः, किन्तु वित्तस्य ।
56. को नाम धनहीनो न लघुः ?
57. सर्वधनेषु विद्यैव धनं प्रधानं, अनपहार्यत्वात् सहानुयायित्वाच्च।
58. सरित् समुद्रमिव नीचमुपगतापि विद्या दुर्दर्शमपि राजानं सङ्गमयति, फलन्तु भाग्यानां व्यापारः।
59. सा खलु विद्या विदुषां कामधेनुः, यतो भवति समस्तजगतः स्थितिज्ञानम् ।
60. लोकव्यवहारज्ञो हि सर्वज्ञः, अन्यस्तु प्राज्ञोप्यवज्ञायत एव ।
61. ते खलु प्रज्ञापारमिताः पुरुषाः, ये कुर्वन्ति परेषां प्रतिबोधनम् ।
62. अनुपयोगिना महताऽपि किं जलधिजलेन ?
**इति व्यसनस मुद्देशः
१८. अमात्यसमुद्देशः
1. चतुरङ्गयुतोऽपि नानमात्यो राजास्ति, किं पुनरन्य ?
2. नैकस्य कार्यसिद्धिरस्ति, नैकं चक्रं परिभ्रमति ।
3. किमवातः सेन्धनोऽपि वह्निर्ज्वलति ?
4. स्वकर्मोत्कर्षापकर्षाभ्यां दानमानाभ्यां राज्ञा सह सम्पत्तिविपत्तीयेषां तेऽमात्याः।
5. आयो व्ययः स्वामिरक्षा तन्त्रपोषणं चामात्यानामधिकारः।
6. आयव्ययमुखयोर्मुनिकमण्डलुरेव निदर्शनम् 250।
7. आयः द्रव्यस्योत्पत्तिमुखम् ।
8. यथास्वामिशासनं अर्थस्य विनियोगः व्ययः ।
9. आयमनालोच्य व्ययमानः वैश्रवणोऽव्यवश्यं श्रमणायते251 ।
10. राज्ञः शरीरं वाक्यं धर्मः कलत्रं अपत्यानि च स्वामिशब्दार्थाः252।
11. तन्त्रं चतुरङ्गबलम् ।
12. तीक्ष्णं अशुचिं व्यसनिनं अशुद्धाभिजनं बलवत्पक्षं अशक्यप्रत्यावर्तनं अतिव्ययशीलं अल्पायं अन्यदेशायातं अतिचिक्कणं253 चामात्यं न कुर्वीत ।
13. तीक्ष्णोऽमियुक्तः स्वयं म्रियते, मारयति वा स्वामिनम् ।
14. बलवत्पक्षः नियोग्यभियुक्तः जलकल्लोल इव मत्तगज इव च समूलं नृपाङ्घ्रिमुन्मूलयति ।
15. अल्पायो महाव्ययः राजार्थं भक्षयति ।
16. अल्पायमुखः महाजनं परिग्रहं254 च पीडयति ।
17. नागन्तुकेष्वर्थाधिकारः प्राणाधिकारो वास्ति, यतस्ते स्थित्वाऽपि गन्तारोऽपकर्तारो वा ।
18. स्वदेशजेष्वर्थः कूपे पतित इव कालान्तरेऽपि लब्धुं शक्यते ।
19. अतिचिक्कणादर्थलाभः पाषाणाद्वल्कलोत्पाटनमिव।
20. सोऽधिकारी, यः सति दोषे स्वामिना ( नं ) सुखेन निगृहीतुं अनुगृहीतुं वा शक्यते ।
21. ब्राह्मणः क्षत्रिय सम्बन्धी वा नाधिकारी कर्तव्यः।
22. ब्राह्मणः जातिबलात् सिद्धमप्यर्थं कृच्छेण प्रयच्छति, न प्रयच्छति वा ।
23. क्षत्रियोऽभियुक्तः खड्गं दर्शयति ।
24. ज्ञातिभावेनातिक्रम्य सामवायिकान्255 सर्वमप्यर्थं ग्रसते बन्धुः सम्बन्धी ।
25. सम्बन्धः त्रिविधः - श्रौतो मौखो ( मैत्रः) यौनश्चेति ।
26. सहदीक्षितः सहाध्यायी पितृपैतामहाद्यागतो वा श्रौतः।
27. मुखेन परिज्ञातो मौखः । (आत्मना प्रतिपन्नो मैत्रः इत्यादिः)
28. सयोनेर्जातो यौनः ।
29. वाचिके सम्बन्धे नास्ति256सम्बन्धान्तरानुवृत्तिः ।
30. न तं कमप्यधिकारिणं कुर्यात्, सत्यपराधे यमुपहत्यानुशयीत257 ।
31. मान्यधिकारी258 राजाज्ञामवज्ञाय निरवग्रहश्चरति259 ।
32. चिरसेवको नियोगी नापराधेऽप्याशङ्कते ।
33. उपकर्ताऽधिकारी उपकारमेव ध्वजीकृत्य सर्वमेवार्थमवलुम्पति ।
34. सहपांसुक्रीडितोऽमात्यः अतिपरिचयात् स्वयमेव राजायते ।
35. अन्तर्दुष्टो नियुक्तः सर्वमनर्थमुत्पादयति, शकुनिशकटालौ260 अत्र दृष्टान्तौ ।
36. सोऽधिकारी चिरं नन्दति, यः स्वामिप्रसादेन नोत्सेकं प्राप्नोति ।
37. सुहृदि नियोगिनि भवत्यवश्यं धनमित्रत्वयोर्नाशः।
38. मूर्खस्य नियोगे भर्तुर्धर्मार्थयशसां सन्देहः, निश्चितौ चानर्थनरकपातौ ।
39. किं तेन परिच्छदेन ? यत्र आत्मक्लेशेनैव सुखं स्वामिनः।
40. का नाम निर्वृतिः261 स्वयं ऊढतृणभोजिनो गजस्य ?
41. अश्वसधर्माणः पुरुषाः कर्मसु नियुक्ताः विकुर्वते तस्मादहन्यहनि तान् परीक्षेत ।
42. मार्जारेषु दुग्धरक्षणमिव नियोगिषु विश्वासकरणम् ।
43. ‘ऋद्धिश्चित्तविकारिणी नियोगिनाम्’इति सिद्धानामादेशः।
44. सर्वोऽप्यतिसमृद्धो भवत्यायत्यामसाध्यः कृच्छ्रसाध्यः स्वामिपदाभिलाषी वा ।
45. भक्षणं उपेक्षणं प्रज्ञाहीनत्वं उपरोधः प्राप्तार्थाप्रवेशः द्रव्यविनिमयश्चेत्यमात्यदोषाः।
46. बहुमुख्यमनित्यं च करणं262 स्थापयेत् ।
47. स्त्रीष्वर्थेषु च मनागप्यधिकारे नान्यजातिसम्बन्धः कार्यः।
48. स्वपरदेशजत्वावनपेक्ष्यानित्यश्चाधिकारः263 ।
49. आदायक264निबन्धकप्रतिकण्टकनीवीग्राहकराजाध्यक्षाः करणानि ।
50. आयव्ययविशुद्धं द्रव्यं नीवी ।
51. नीवीनिबन्धपुस्तकग्रहणपूर्वकं आयव्ययौ विशोधयेत् ।
52. आयव्ययविप्रतिपत्तौ कुशलकरणकार्यपुरुषेभ्यः तद्विनिश्चयः।
53. नित्यपरीक्षणं कर्मविपर्ययः265 प्रतिपत्तिदानं च नियोगिष्वर्थग्रहणोपायाः।
54 . नापीडिता नियोगिनः दुष्टव्रणा इवान्तस्सारमुद्वमन्ति ।
55. पुनःपुनरभियोगः266नियोगिषु महीपतीनां267 वसुधारा ।
56. सकृन्निपीडितं स्नानवस्त्रं किं जहाति सार्द्रताम् ?
57. देशमपीडयन् बुद्धिपुरुषकाराभ्यां पूर्वनिबन्धमधिकं कुर्वन् अर्थमानौ लभेत ।
58. यो यत्र कर्मणि कुशलः तं तत्र नियोजयेत् ।
59. न खलु स्वामिप्रसादः सेवकेषु कार्यनिबन्धने हेतुः, किन्तु बुद्धिपुरुषकारावेव ।
60. शास्त्रविदपि अदृष्टकर्मा कर्मसु विषादं गच्छेत्268 ।
61. अनिवेद्य भर्तुर्न कञ्चिदारम्भं कुर्यात्, अन्यत्रापत्प्रतीकारेभ्यः।
62. सहसोपचितार्थः मूलधनमात्रेणावशेषयितव्यः।
63. नियोगिषु परस्परकलहः भूभुजां निधिः।
64. नियोगिषु लक्ष्मीः क्षितीश्वराणां द्वितीयः कोशः।
65. सर्वसंग्रहेषु धान्यसंग्रहो महान्, यन्निबन्धनं जीवितं सकलः प्रयासश्च ।
66. न खलु मुखे निक्षिप्तं महदपि द्रव्यं प्राणत्राणाय, यथा धान्यम् !
67. धान्येषु चिरजीविनः कोद्रवाः269।
68. अनवं नवेन वर्धयितव्यं व्ययितव्यं च ।
69. लवणसङ्ग्रहः सर्वरसानामुत्तमः।
70. सर्वरसमप्यन्नमलवणं गोमयायते ॥
**इत्यमात्यसमुद्देशः
१९. जनपदसमुद्देशः
1. पशुधान्यहिरण्यसम्पदा राजते =शोभत इति राष्ट्रम् ।
2. भर्तुर्दण्डकोशवृद्धिं दिशति =ददातीति देशः।
3. विविधवस्तुप्रदानेन स्वामिनः सद्मनि गजान् वाजिनश्च विषिणोति =बध्नातीति विषयः।
4. सर्वकामदुधत्वेन नरपतिहृदयं मण्डयति= भूषयतीति मण्डलम् ।
5. जनस्य – वर्णाश्रमलक्षणस्य द्रव्योत्पत्तेर्वा पर्द= स्थानमिति जनपदः ।
6. निजपतेरुत्कर्षजनकत्वेन शत्रुहृदयं दारयति = भित्तीति दरत् (दारकः) ।
7. आत्मसमृद्धया स्वामिनं सर्वव्यसनेभ्यो निगमयति=निर्गमयतीति निगमः।
8. अन्योन्यरक्षकः खन्याकरद्रव्य270 नागवनवान् अनतिवृद्धानतिहीनग्रामः बहुसारविचित्रधान्यपण्योत्पत्तिः अदेवमातृकः पशुमनुष्यहितः श्रेणिशूद्रकर्षकप्रायशः=इति जनपदगुणाः।
9. विषतृणोदकोषरपाषाणकण्टकगिरिगर्तगह्वरप्रायभूमिः भूरिवर्षाजीवनः व्याललुब्धकम्लेच्छबहुलः स्वल्पसस्योत्पत्तिः तरुफलाभाव—इति देशदोषाः।
10. तत्र सदा दुर्भिक्षमेव, यत्र जलदजलेनैव सस्यनिष्पत्तिः, असुकृष्टभूमिकश्चारम्भः।
11. क्षत्रियप्राया हि ग्रामाः स्वल्पास्वपि बाधासु प्रतियुध्यन्ते ।
12. म्रियमाणोऽपि द्विजलोकः न खलु सान्त्वेन प्रयच्छति सिद्धमप्यर्थम् ।
13. स्वभूमिकं271 भूतपूर्वमभूतपूर्वंवा जनपदं स्वदेशाभिष्यन्दवामनाभ्यां परदेशोपवाहनेन वा वासयेत् ।
14. स्वल्योऽपि वापेषु272 प्रजोपद्रवः महान्तमर्थं नाशयति ।
15. कणिशेषु273 क्षीरिषु सिद्धादायः जनपदमुद्वासयति ।
16. लवनकाले सेनाप्रचारः दुर्भिक्षमावहति ।
17. सर्वा अपि बाधाः प्रजानां कोशं कर्षयन्ति ।
18. दत्तपरिहारान् पितेवानुगृह्णीयात् ।
19. मर्यादाऽतिक्रमेण274 फलवत्यपि भूमिर्भवत्यरण्यानी ।
20. क्षीणजनसंभावनं, तृणशलाकाया अपि स्वयमग्रहः, कादाचित्कं चोपजीवनं इति परमाः प्रजानां संवर्धनोपायाः।
21. न्यायेन रक्षिता पण्यपुटभेदिनी275 पिण्ठा276 राज्ञां कामधेनुः।
22. राज्ञश्चतुरङ्गबलाभिवृद्धिहेतवो भवेयुः भूयांसो भक्तग्रामाः277।
23. सुमहच्च गोमण्डलं हिरण्याऽऽययुक्तं शुल्कं च कोशवृद्धिहेतुः ।
24. देवद्विजप्रदेया गोरुतप्रमाणा भूमिः दातुरादातुश्च सुखनिर्वाहा ।
25. क्षेत्रवप्रखण्डगृहधर्मायतनानां 278उत्तरः पूर्वंबाधेत, न पुनरुत्तरं पूर्वः।
26. नामुद्रहस्तोऽशोधितो279 वा कश्चित् स्वमण्डले निर्विशेन्निर्गच्छेद्वा ।
27. श्रूयते हि किल—हूणाधिपतिः पण्यपुटवाहिभिः सुभटैश्चित्रकूटं जग्राह ; खेटखड्गसहायश्च भद्रः काञ्चीपतिमिति ।
28. न हि भर्तुरभियोगात्परः सर्वजनविशुद्धिहेतुरस्ति ।
**इति जनपदस मुद्देशः
२०. दुर्गसमुद्देशः
1. यस्याभियोगात् परे दुःखं गच्छन्ति तद्दुर्गम् ।
2. दुर्जनोद्योगविषयाद्वा स्वस्य विजिगीषोरापदो गमयतीति दुर्गम् ।
3. तद्द्विविधं—स्वाभाविकं आहार्यं चेति ।
4. वैषम्यं280 पर्याप्तावकाशः यवसेन्धनोदकभूयस्त्वं281 च स्वस्य, परेषां तदभावः; बहुधान्यरससंग्रह प्रवेशापसारौ वीरपुरुषाश्चेति दुर्गसम्पत्; अन्यद्दुर्गं बन्दिशालेव ।
5. अदुर्गो देशः कस्य नाम न परिभवास्पदम् ।
6. अदुर्गस्य राज्ञः, पयोधिमध्ये पोतच्युतपक्षिवत् आपदि नास्त्याश्रयः।
7. उपायतो गमनं282 उपजापः चिरमनुबन्ध283: अवस्कन्दः284 तीक्ष्णपुरुषप्रयोगश्चेति दुर्गलम्भनोपायाः।
**इति दुर्गसमुद्देशः
२१. कोशसमुद्दशः
1. यः विपदि सम्पदि च स्वामिनस्तन्त्राभ्युदयं कोषयति-संश्लेषयति स कोषः।
2. अतिशयितरत्नहिरण्यरजतप्रायः व्यावहारिकनाणकबहुलः महापदि व्ययसहश्चेति कोशगुणाः।
3. कोशं संवर्धयन् उत्पन्नमर्थमुपयुञ्जीत ।
4. कुतस्तस्यायत्यां श्रेयांसि ? यः प्रत्यहं काकिण्यापि कोशं न वर्धयति ।
5. कोशो हि महीपतीनां जीवितं, न प्राणाः।
6. क्षीणकोशो हि राजा पौरजानपदानन्यायेन ग्रसते, ततो राष्ट्रमेव भवेच्छून्यम् ।
7. कोशो हि राजेत्युच्यते, न भूपतीनां शरीरम् ।
8. यस्य हस्ते द्रव्यं स जयति ।
9. धनहीनः कलत्रेणापि त्यज्यते; किं पुनर्नान्यैः ?
10. न खलु कुलाचाराभ्यां पुरुषः सेव्यतामेति, किन्तु वित्तेनैव ।
11. स खलु महान् कुलीनश्च, यस्यास्ति धनमन्यूनम् ।
12. किं तया महत्तया कुलीनतया वा ? या न सन्तर्पयतिपरान् ।
13. किं तस्य सरसो महत्त्वेन ? यत्र न जलानि ।
14. देवद्विजवणिजां धर्माध्वरपरिजनानुपयोगिद्रव्यभागैः, आढ्यविधवा नियोगि ग्रामकूट285 गणिकासङ्घ पाषण्डि विभवांश प्रत्यादानैः, समृद्धपौरजानपदद्रविणसंविभागप्रार्थनैः, अनुपक्षयश्रीक मन्त्रिपुरोहित श्रोत्रियमित्र सामन्तान्तपालानुनय गृहगमनाभ्यां च क्षीणकोशः कोशममिवर्धयेत् ॥
**इति कोशसमुद्देशः
२२. बलसमुद्देशः
1. द्रविणदानप्रियभाषणाभ्यां अरातिनिवारणेन च स्वामिनं सर्वास्ववस्थासु बलते संवृणोतीति बलम् ।
2. बलेषु हस्तिनः प्रधानमङ्गम् ते यथास्वैरवयवैरष्टाप्यायुधानि भवन्ति, न तथान्यद्बलम् ।
3. हस्तिप्रधानो विजयो राज्ञाम्, यदेकोऽपि हस्ती सहस्रं योधयति न सीदति286 प्रहारसहस्रेणापि ।
4. जातिः कुलं वनं तत्प्रचारश्च न हस्तिनां प्रधानं, किन्तु शरीरं बलं शौर्यंशिक्षा च ।
5. अशिक्षिता हि हस्तिनः केवलं नृपाणामर्थप्राणहराः।
6. सुखेन यानं आत्मरक्षा परपुरावमर्दनं अरिव्यूहव्याघातः जलेषु सेतुबन्धः वचनादन्यत्र सर्वविनोदहेतवश्चेति हस्तिगुणा ।
7. अश्वबलं सैन्यस्य जङ्गमः प्राकारः।
8. अश्वबलप्रधानस्य हि राज्ञः कदनकन्दुकक्रीडाः287 प्रसीदन्ति श्रियः, दूरस्था अपि शत्रवः करस्था भवन्ति, आपत्सु च सर्वेऽपि मनोरथाः सिद्ध्यन्ति ।
9. सरणं अपसरणं अवस्कन्दः परानीकभेदनं चेत्येतत् तुरङ्गमैकसाध्यम् ।
10. समा भूमिः, धनुर्वेदविदो रथारूढाः प्रहर्तारश्च यदि, तदा किं नाम भवेदसाध्यं नृपाणाम् ?
11. रथैरवमर्दितं परबलं सुखेन जीयते ।
12. मौल-भृतक - श्रेणी- मित्रामित्राटविकेषु बलेषु पूर्वपूर्व बलं भर्तुंसंनाहयितुं च यतेत ।
13. अथान्यत्सप्तममौत्साहिकं बलम्, यत् विजिगीषोः विजययात्राकाले परराष्ट्रविलोडनार्थमेव मिलति ।
14. सुहृत्त्वं क्षत्रसारत्वं288 अस्त्रज्ञत्वं स्वभावशूरत्वं अनुरक्तत्वं चेति बलस्य गुणाः।
15. मौलबलाविरोधेनान्यद्बलमर्थ मानाभ्यामनुगृह्णीयात् ।
16. मौलं ह्यापद्यनुगच्छति, दण्डितमपि न द्रुह्यति, भवति चापरेषामभेद्यम् ।
17. न तथाऽर्थः पुरुषान् योधयति, यथा प्रभुसम्मानः।
18. स्वयमनवेक्षणं देयांशहरणं कालयापनं व्यसनाप्रतीकारः विशेषविधावसम्भावनं च तन्त्रस्य विरक्तिकारणानि ।
19. स्वावेक्षणीयं परैरवेक्षयन् अर्थतन्त्राभ्यां हीयते ।
20. आश्रितभरणे स्वामिसेवायां धर्मानुष्ठाने पुत्रोत्पादने च न खलु सन्ति प्रतिहस्ताः289 ।
21. तावद्देयं, यावता आश्रिताः (न) सम्पूर्णतामाप्नुवन्ति ।
22. न हि स्वद्रव्यमव्ययमानो राज्ञो दण्डनीयः।
23.को नाम सुचेताः स्वगुडं चौर्यात् खादेत् ?
24. किं तेन जलदेन ? यः काले न वर्षति ।
25. स किं स्वामी ? य आश्रितेषु व्यसने290 न प्रतिविधत्ते ।
26. अविशेषज्ञे291 राज्ञि को नामार्थप्राणव्ययेनोत्सहेत ?
**इति बलसमुद्देशः
२३. मित्रसमुद्देशः.
1. सम्पदीव विपद्यपि मेद्यति= स्निह्यतीति मित्रम् ।
2. यः कारणमन्तरेण रक्ष्यो रक्षको वा भवति तन्नित्यं मित्रं भवति ।
3. तत्सहजं मित्रं, यत्र पूर्वपुरुषपरम्परया समायातः श्लाघ्यः सम्बन्धः।
4. यत् वृत्तिजीवितहेतोः आश्रितं तत् कृत्रिमं मित्रम् ।
5. व्यसनेषूपस्थानं, अर्थेष्वविकल्पः, स्त्रीषु परमं शौचं, कोपप्रसादविषयेष्वप्रतिपक्षत्वम्—इति मित्रगुणाः।
6. दानेन प्रणयः, स्वार्थपरत्वं, विपद्युपेक्षणं, अहितसम्प्रयोगः, विप्रलम्भनगर्भः292 प्रश्रयश्च—इति मित्रदोषाः।
7. स्त्रीसङ्गतिः, विवादः, अभीक्ष्णयाचनं, अप्रदानं, अर्थसम्बन्धः, परोक्षे दोषग्रहणं, (पुरोभागिता293) पैशुन्याकर्णनं च—इति मैत्रीभेदकारणानि ।
8. न हि क्षीरात्परं महदस्ति, यत्सङ्गतिमात्रेण करोति नीरमात्म समम् !
9. न नीरात्परं महदस्ति, यन्मिलितमात्रेण संवर्धयति रक्षति च स्वक्षयेणापि क्षीरम् !
10. येन केनाप्युपकारेण तिर्यञ्चोऽपि प्रत्युपकारिणः अव्यभिचारिणश्च294 भवन्ति; न पुनः प्रायेण मनुष्याः।
11. तथा चोपाख्यानकम्—अटव्यां किल अन्धकूपे पतितेषु कपिसर्पसिंहाक्षशालिकसौवर्णिकेषु कृतोपकारः कङ्कायननामा कश्चित् पान्थः विशालायां पुरि तस्मादक्षशालिकाद्व्यापादनमवाप, नाडीजङ्घश्च गौतमात् इति ।
**इति मित्रसमुद्देशः
२४. राजरक्षासमुद्देशः
1. राज्ञि रक्षिते सर्वंरक्षितं भवतीति स्वेभ्यः परेभ्यश्च राजा नित्यं रक्षितव्यः।
2. उक्तं हि नयविद्भिः—“पितृपैतामहं महासम्बन्धानुबन्धं सुशिक्षितं अनुरक्तं कृतकर्माणं च जनं आसन्नं295 कुर्वीत; न त्वन्यदेशीयमकृतार्थमानं, स्वदेशीयं चापकृत्योपगृहीतम् ”इति ।
3. चित्तविकृतेर्नास्त्यविषयः।
4. किं न भवति मातापि राक्षसी ?
5. अस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरितुं296 न शक्नुवन्ति ।
6. गतायुषि सकलाङ्गेऽपि297 देहिनि किं करोति धन्वन्तरिरपि वैद्यः ?
7. राज्ञस्तावत् आसन्नाः स्त्रियः आसन्नतराः दायादाः, आसन्नतमाश्च पुत्राः ; अतो राज्ञः प्रथमं स्त्रीभ्यो रक्षणम्, ततो दायादेभ्यः, ततः पुत्रेभ्यः।
8. आवण्ठादाचक्रवर्तिनः298 सर्वोऽपि स्त्रीसुखाय क्लिश्यति ।
9. निवृत्तस्त्रीसङ्गस्य धनपरिग्रहः मृतमण्डनमिव ।
10. सर्वाः स्त्रियः क्षीरोदवेला इव प्रायेण विषामृतस्थानम् ।
11. मकरदंष्ट्रा इव स्त्रियः स्वभावादेव वक्रशीलाः।
12. स्त्रीणां वशोपायः देवानामपि दुर्लभः।
13. कलत्रं रूपवत् सुभगं अनवद्याचारं अपत्यवत् इति महतः पुण्यस्य फलम् ।
14. कामदेवोत्सङ्गस्थापि स्त्री पुरुषान्तरमभिलषत्येव ।
15. न हि मोहो299 भयं लज्जा च स्त्रीणां रक्षणं, किन्तु परपुरुषादर्शनं यथेष्टं सम्भोगः साधारणता300 च ।
16. दानदर्शनालापैः समवृत्तौ हि पुंसि स्त्रियो नापराध्यन्ति, भवन्ति च कामधेनव इव मनीषितरतयः।
17. परिगृहीतासु स्त्रीषु प्रियत्वमप्रियत्वं वा न मन्येत ।
18. कारणवशान्निम्बोऽप्यनुभूयत एव ।
19. चतुर्थदिवसस्त्राता स्त्री तीर्थम् ।
20. तीर्थोपरोधः महानधर्मानुबन्धः ।
21. ऋतावपि स्त्रियमुपेक्षमाणः पितॄणामृणभाजनं स्त्रीदूषकश्च भवति ।
22. अवरूद्धाः301 स्त्रियः स्वयं नश्यन्ति नाशयन्ति वा पतिम् ।
23. न स्त्रीणामकर्तव्ये मर्यादास्ति ।
24. वरमविवाहः, नोढोपेक्षणम् ।
25. अकृतरक्षस्य किं कलत्रेण ? अकृषतश्च किं क्षेत्रेण ?
26. सपत्नीविधानं पत्युरसमञ्जसत्वं विमाननं अपत्याभावः चिरविरहश्च स्त्रीणां विरक्तिकारणानि ।
27. न स्त्रीणां सहजो गुणो दोषो वास्ति, किन्तु नद्यः समुद्रमिव यादृशं पतिमाप्नुवन्ति तादृश्यो भवन्ति स्त्रियः।
28. स्त्रीणां दौत्यं स्त्रिय एव कुर्युः।
29. तैरश्चोऽपि302 पुंयोगः स्त्रियं दूषयति, किं पुनर्मानुष्यः ?
30. वंशविशुद्ध्यर्थं अनर्थपरिहारार्थं च स्त्रियो रक्ष्यन्ते, भोगार्थम् ।
31. यथाकामं कामिनीनां वेश्यानां वा सङ्ग्रहः, परं अनीर्ष्यावान् प्रक्रमः कल्याणावहः।
32. अदौवारिके द्वारि को नाम प्रविशति ?
33. भोजनभाजनवत् सर्वसमानाः पण्याङ्गनाः, कस्तासु हर्षामर्षयोरवसरः ?
34. मात्रमिजनविशुद्धाः उदवसितोपस्थायिन्यः303 स्त्रियः राज्ञा संभोक्तव्याः।
35. दर्दुरस्य304 सर्पबिलप्रवेश इव स्त्रीगृहप्रवेशो महीपतीनाम् ।
36. न स्त्रीगृहादायातमापद्यपि किञ्चित् स्वयमनुभवनीयम् ।
37. नापि स्वयमनुभवनीयेषु स्त्रियो नियोक्तव्याः।
38. संवननं305 स्वातन्त्र्यं चानुभवन्त्यः स्त्रियः किं नाम न कुर्युः ?
39. श्रूयते हि किल—आत्मनः स्वच्छन्दवृत्तिमिच्छन्ती विषदूषितमद्यगण्डूषेण मणिकुण्डला महादेवी यवनेषु निजतनुजराज्यार्थं जघान राजानमज (ङ्ग) राजम्, विषालक्तकदिग्धेनाधरेण वसन्तमतिः शूरसेनेषु सुरतविलासम्, विषोपलिप्तेन मेखलामणिना वृकोदरी दशार्णेषु मदनार्णवम् निशितनेमिना मुकुरेण मदिराक्षी मगधेषु मन्मथविनोदम्, कबरीनिगूढेनासिपत्रेण306 चण्डरसा पाण्ड्येषु पुण्डरीकं चेति
40. अमृतसुरावाप्य307 इव क्रीडासुखोपकरणं स्त्रियः ; कस्तासां कार्याकार्यावलोकनेऽधिकारः ?
41. अपत्यपोषणे गृहकर्मणि शरीरसंस्करणे308भर्तुः शयनावसरे च स्त्रीणां स्वातन्त्र्यं, नान्यत्र ।
42. अतिप्रसक्तं हि स्त्रोस्वातन्त्र्यं करपत्रमिव309 पत्युर्नाविदार्यहृदयं विश्राम्यति ।
43. स्त्रीवशः पुरुषः नदीप्रवाहपतितः पादप इव न चिरं नन्दति ।
44. पुरुषमुष्टिस्था हि स्त्री खड्गयष्टिरिव कमुत्सवं न जनयति ?
45. नातीव स्त्रियो व्युत्पादनीयाः, यतः स्वभावसुभगोऽपि शास्त्रोपदेशः स्त्रीषु शस्त्रीषु310 पयोलव इव विषमतां प्रतिपद्यते ।
46. वेश्यासक्तिः कस्य न प्राणार्थमानहानिं करोति ?
47. धनमनुभवन्ति वेश्याः, न पुरुषम् ।
48. धनहीने कामदेवेऽपि न प्रीतिं बध्नन्ति वेश्याः।
49. स पुमान्न भवत्यायतिसुखी, यस्याननुशयं311 वेश्यासु दानम् ।
50. स पशोरपि पशुः यः स्वधनेन परेषामर्थवतीं करोति वेश्याम् ।
51. अध्रुवेणाधिकेनाप्यर्थेन वेश्यामनुभवन् पुरुषः न चिरमनुभवति सुखम् ।
52. आचित्तविश्रान्तेर्वेश्यापरिग्रहः श्रेयान् ।
53. विसर्जनाऽऽकारणाभ्यां312 तदनुभवे महाननर्थः।
54. यथा सुरक्षिताऽपि वेश्या स्वां प्रकृतिं न मुञ्चति, तथा लोभोपहताऽसती च परपुरुषान् भजते ।
55. या यस्य प्रकृतिः सा तस्य देवैरप्यपनेतुं न शक्यते ।
56. सुभोजितोऽपि श्वा किमशुचीन्यस्थीनि परिहरति ?
57. क्षीराज्यशर्करया भोजितोऽप्यहिः न कदाचिद्विषं परित्यजति ।
58. न खलु शिक्षाशतेनापि कपिः चापल्यं परिहरति !
59. इक्षुरसेनापि सिक्तो निम्बः कटुरेव ।
60. तारुण्यमवैकृत्यं च संस्काराहारोपयोगादिजन्यं313 शरीरस्य रमणीयत्वम्, न पुनः स्वभावः।
61.सम्मानादवसादः 314कुल्यानामपरिग्रहहेतुः315।
62. तन्त्रकोशवर्धिनी वृत्तिः दायादान् विकारयति ।
63. भक्तिविश्रम्भादेशाव्यमिचारिणं316 कुल्यं पुत्रं वा संवर्धयेत्, विनियुञ्जीत चोचितेषु कर्मसु ।
64. भर्तुरादेशं न विकल्पयेत् अन्यत्र प्राणबाधाबहुजनविरोधपातकेभ्यः।
65. बलवत्पक्षपरिग्रहेषु दायिषु आप्तपुरुषपुरस्सरो विश्वासः वशीकरणं गूढपुरुषनिक्षेपः प्रणिधिर्वा ।
66. दुर्बुद्धौ सुते दायिनि वा सम्यग्युक्तिभिर्दुर्बुद्धिमवतारयेत्317 ।
67. साधुषूपचर्यमाणेषु विकृतिभजनं स्वहस्तादङ्गाराकर्षणमिव ।
68. क्षेत्रबीजयोर्वैकृत्यमपत्यानि विकारयति ।
69.कुलविशुद्धिः उभयतःप्रीतिः मनःप्रसादः अनुपहतसमयः318श्रीसरस्वत्यावाहनमन्त्रपूतपरमान्नोपयोगश्च गर्भाधाने पुरुषोत्तममवतारयति ।
70. गर्भशर्मजन्मकर्म319 अपत्येषु परिशुद्धदेहलाभात्मलाभयोः320परमं कारणम् ।
71. स्वजातियोग्यसंस्कारहीनानां राज्ये वा प्रव्रज्यायां321 वा नास्यधिकारः।
72. असति योग्येऽन्यस्मिन् अङ्गविहीनोऽपि पितृपदमर्हत्यापुत्रोत्पत्तेः।
73. साधुसम्पादितो हि राजपुत्राणां विनयः अन्वयं नयमभ्युदयं च न दूषयति ।
74. घुणजग्धं काष्ठमिव अविनीतराजपुत्रं राजकुलं अभियुक्तमात्रं भज्येत322 ।
75. आप्तविद्यावृद्धोपरुद्धाः सुखोपरुद्धाश्च राजपुत्राः पितरं नाभिद्रुह्यन्ति ।
76. मातापितरौ राजपुत्राणां परमं दैवम्, यत्प्रसादादात्मलाभो राज्यलाभश्च ।
77. मातापितृभ्यां मनसाप्यवमन्यमानेष्वभिमुखा अपि श्रियः विमुखी भवन्ति ।
78. किं तेन राज्येन ? यत्र दुरपवादोपहतं जन्म ।
79. क्वचिदपि कर्मणि पितुराज्ञां न लङ्घयेयुः।
80. किं खलु रामः क्रमेण विक्रमेण वा हीनः ? यः पितुराज्ञया वनमाविवेश ।
81. यः खलु पुत्रः अभीप्सितकर्मणि परम्पराभिर्लभ्यते सकथमुपहन्तव्यः ?
82. कर्तव्यमेवाशुभं कर्म, यदि हन्यमानस्य विपद्विधानमात्मनो न भवेत्।
83. ते खलु राजपुत्राः सुखिनः ! येषां पितरि राज्यभारः।
84.अलं तया श्रिया, या न किमपि सुखं जनयन्ती व्यासङ्गपरम्पराभिः323 शतशो दुःखमेवानुभावयति ।
85. निष्फलो ह्यारम्भः कस्य नामोदर्के324 सुखावहः ?
86. परक्षेत्रे कृषतः कर्षयतो वा वृथा श्रमः ; फलं हि तस्यैव, यस्य तत् क्षेत्रम् ।
87. सुतसोदरसपत्नपितृव्यकुल्यदौहित्रागन्तुकेषु पूर्वपूर्वाभावे भवत्युत्तरोत्तरस्य राज्यपदावाप्तिः।
88. शुष्कश्यामवक्त्रता वाक्स्तम्भः वाग्भेदः325 स्वेदः विजृम्भणं अतिमात्रवेपथुः प्रस्खलनं बाह्यविप्रेक्षणं326 आस्यप्रेक्षणं आवेगः स्वकर्मणि स्वभूमौ चानवस्थानं – इति दुष्कृतं कृतवतः करिष्यतो वा लिङ्गानि ॥
इति राजरक्षासमुद्देशः
-
*
२५. दिवसानुष्ठानसमुद्देशः
1. ब्राह्मेमुहूर्ते उत्थाय इतिकर्तव्यतायां 327समाधिमुपेयात् ।
2. सुखनिद्राप्रसन्ने हि मनसि प्रतिफलन्ति सर्वा बुद्धयो यथार्थाः।
3. उदयास्तमनसन्धिषु धर्मकार्यातिक्रमः दोषाय \। [ उदयास्तमनशायिषु भवति धर्मकालातिक्रमः ।]
4. आत्मवक्त्रं आज्ये दर्पणे वा निरीक्षेत ।
5. न वर्षधरं328 विकलाङ्गं वा प्रातः पश्येत् ।
6. सन्ध्यास्वधौतमुखपादं ज्येष्ठा देवता329 नानुगृह्णाति ।
7. नित्यमदन्तधावनस्य नास्ति मुखशुद्धिः।
8. न कार्यव्यासङ्गेन शारीरं कर्मोपहन्यात् ।
9. न खलु युगैरपि तरङ्गविगमात् सागरे स्नानम् \।
10. वेगव्यायामस्वापस्नानभोजनस्वच्छन्दवृत्तिकालान् नोपरुन्ध्यात् ।
11. शुक्लमलमूत्रमरुद्वेगसंरोधः अश्मरीभगन्दरगुल्मार्शसां330 हेतुः।
12. गन्धलेपावसानं शौचमाचरेत् ।
13. बहिरागतो नानाचम्य गृहं प्रविशेत् ।
14. गोसर्गे व्यायामः331 रसायनम्, अन्यत्र क्षीणाजीर्णवृद्धवातकिरूक्षभोजिभ्यः।
15. शरीरायासजननी क्रिया व्यायामः।
16. शस्त्रवाहनाभ्यासेन व्यायामं सफलयेत् ।
17. आदेहस्वेदं व्यायामकाल332 मुशन्त्याचार्याः।
18. बलातिक्रमेण व्यायामः कां नाम नापदं जनयति ।
19. अव्यायामशीलेषु कुतोऽग्निदीपनं333 उत्साह देहदार्ढ्यंच ।
20. इन्द्रियात्ममनोमरुतां सूक्ष्मावस्था स्वापः ।
21. यथानियमं स्वापाद्भुक्तान्नपाको भवति, प्रसीदन्ति चेन्द्रियाणि ।
22. अघट्टितमपिहितं च भाजनं न खलु साधु साधयत्यन्नानि ।
23. [ नित्यं स्नानं द्वितीयकमुत्सादनं तृतीयकमायुष्यं चतुर्थकं प्रत्यायुष्यकमित्यहीनं सेवेत ।]
24. धर्मार्थकामाशुद्ध (द्धि) दुर्जनस्पर्शाः स्नानस्य कारणानि ।
25. श्रमस्वेदालस्यविगमः स्नानस्य फलम् ।
26. जलचरस्येव तत् स्त्रानं, यत्र न सन्ति देवगुरुधर्मोपासनानि ।
27. प्रादुर्भवतक्षुत्पिपासः अभ्यङ्गस्त्रानं न कुर्यात् ।
28. आतपसंतप्तस्य जलावगाहः दृङ्मान्द्यं शिरोव्यथां च करोति ।
29. बुभुक्षाकाल एव भोजनकालः।
30. अक्षुषितेनामृतमप्युपभुक्तं विषं भवति ।
31. जाठराग्निंवज्राग्निं334कुर्वन् आहारस्यादौ सदैव वज्रकं335 कबलयेत् ।
32. निरनस्य सर्वंद्रवद्रव्यं अग्निं नाशयति ।
33. अतिश्रमपिपासोपशान्तौ न पेयायाः परं कारणमस्ति ।
34. घृताधरोत्तरं336 भुञ्जानः अग्निं337 दृष्टिं च लभते ।
35. सकृद्भूरिनीरोपयोगः वह्निमवसादयति ।
36. क्षुत्कालातिक्रमात् अन्नद्वेषः देहसादश्च338 भवति ।
37. विधमिते वह्नौकिं नामेन्धनं कुर्यात् ?
38. यो मितं भुङ्क्ते स बहु भुङ्क्ते ।
39. अप्रमितं असुखं विरुद्धं अपरीक्षितं असाधुपाकं अतीतरसं अकालं चान्नं नानुभवेत् ।
40. फल्गुभुजं339 अननुकूलं क्षुषितं अतिक्रूरं च न भुक्तिसमये सन्निधापयेत् ।
41. गृहीतग्रासेषु सहभोजिषु आत्मने परिवेषयेत् ।
42. तथा भुञ्जीत, यथा सायमन्येद्युश्च न विपद्यते वह्निः।
43. न भुक्तिपरिमाणे सिद्धान्तोऽस्ति ।
44. वह्न्यभिलाषायत्तं हि भोजनम् !
45. अतिमात्रभोजी देहमग्निं च विधुरयति ।
46. दीप्तो वह्निः लघुभोजनात् बलं क्षपयति ।
47. अत्यशितुः दुखेनान्नपरिणामः।
48. श्रमार्तस्य पानं भोजनं च ज्वराय340छर्दये वा ।
49. न जिहत्सुः341 न प्रस्रोतुमिच्छुः342 नासमञ्जसमनाः नानपनीय पिपासोद्रेकं चाश्नीयात् ।
50. भुक्त्वा व्यायामव्यवायौ343 सद्योव्यापत्तिकारणम् ।
51. आजन्म सात्मीकृतं विषमपि पथ्यम् ।
52. असात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यमप्यपथ्यम् ।
53. सर्वंबलवतः पथ्यमिति मत्वा न कालकूटं सेवेत ।
54. सुशिक्षितोऽपि विषतन्त्रज्ञः म्रियत एव कदाचिद्विषात् ।
55. संविभज्यातिथिष्वाश्रितेषु च स्वयमाहरेत् ।
56. देवान् गुरून् धर्मं चोपचरन् न व्याकुलमतिः स्यात् ।
57. व्याक्षेपभूर्मनोनिरोधोऽपि मन्दयति सर्वाणीन्द्रियाणि ।
58. स्वच्छन्दवृत्तिः पुरुषाणां परमं रसायनम् ।
59. यथाकामसमीहाः किल काननेषु करिणः न भवन्त्यास्पदं व्याधीनाम् ।
60. सततं सेव्यमाने द्वे एव वस्तुनी सुखाय, सरसः सत्सु संलापः ताम्बूलभक्षणं च ।
61. चिरायोर्ध्वजानुः जड (र) यति रसवाहिनीः स्नसाः।
62. सततमुपविष्टः जठरमाध्मापयति प्रतिपद्यते च तुन्दिलताम्344 ।
63. वाचि मनसि शरीरे वा अतिमात्रं खेदः पुरुषमकालेऽपि जरया योजयति ।
64. नादैवौ देवदेहप्रासादौ कुर्यात् ²।
65. देवगुरुधर्मरहिते पुंसि नास्ति प्रत्ययः।
66. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः देवः।
67. तस्यैवैतानि खलु विशेषनामानि —अर्हन् अजः अनन्तः शम्भुः बुद्धः तमोऽन्तकः ब्रह्मेति ।
68. आत्मसुखानुरोधेन कार्याय नक्तमहश्च विभजेत् ।
69. कालानियमेन कार्यानुष्ठानं हि मरणसमम् ।
70. आत्ययिके345 कार्ये नास्त्यनवसरः ।
71. अवश्यं कर्तव्ये कालं न यापयेत् ।
72. आत्मरक्षायां कदाचिदपि न प्रमाद्येत् ।
73. सवत्सां धेनुं प्रदक्षिणीकृत्य धर्मासनं यायात् ।
74. अनधिकृतः अनभिमतश्च न राजसभां प्रविशेत् ।
75. आराध्यमुत्थायाभिवादयेत् ।
76. देवगुरुधर्मकार्याणि स्वयं पश्येत् ।
77. कुहकाभिचारकर्मकारिभिस्सह न सङ्गच्छेत ।
78. प्राण्युपघातेन कामक्रीडां न प्रवर्तयेत् ।
79. जनन्यापि परस्त्रिया सह रहसि न तिष्ठेत् ।
80. अतिक्रुद्धोऽपि न मान्यमतिक्रामेदवमन्येत वा ।
81. नाप्ताशोधितं परस्थानमुपेयात्346 ।
82. नाप्तजनैरनारूढं वाहनमध्यासीत ।
83. न स्वैरपरीक्षितं तीर्थं सार्थं तपस्विनं वाऽभिगच्छेत् ।
84. न याष्टिकैरविविक्तं मार्गं भजेत ।
*
*
** 2 किन्तु सदैवमेव कुर्यादितिभावः अत्र च शिलःलोहादिभयविग्रहचित्रपटादिमात्रस्थापनेन वा ग्रसनेन वा मांसचक्षुर्विषयतदाकारस्मरणमात्रेण वा न देवप्रासाददेहप्रासादयोः सदैवतासिद्धिः, किन्तु ज्ञानविज्ञान पूर्णसद्गुरुदिव्यशक्त्यैवेति, सा च आनुभविक्येवेति च ध्येयम्.**
85. न विषापहारौषधिमणीन् क्षणमप्युपासीत ।
86. न सदैव 347जाङ्गलिकीं विद्यां कण्ठे धारयेत् ।
87. मन्त्रिमिषङ्नैमित्तिकरहितः कदाचिदपि न प्रतिष्ठेत ।
88. वहावन्यचक्षुषि च भोज्यमुपभोग्यं च परीक्षेत ।
89. अमृते348 मरुति प्रविशति सर्वदा चेष्टेत ।
90. भुक्तिसुरतसमरार्थी दक्षिणे मरुति स्यात् ।
91. परमात्मना समीकुर्वन् न कस्यापि भवति द्वेष्यः।
92. मनःपरिजनशकुनपवनानुलोम्यं भविष्यतः कार्यस्य सिद्धेर्लिङ्गम् ।
93. नैको नक्तं दिवा वा हिण्डेत349 ।
94. नियमितमनोवाक्कायः प्रतिष्ठेत ।
95. अहनि सन्ध्यामुपासीता नक्षत्रदर्शनात् ।
96. “चतुः पयोधिपयोधरां धर्मवत्सवतीं उत्साहवालधिं वर्णाश्रमखुरां कामार्थश्रवणां नयप्रतापविषाणां सत्यशौचचक्षुषं न्यायमुखीमिमां गां अहं गोपयामि, तमहं मनसापि न सहे-योऽपराध्येत्तस्यै”इतीमं मन्त्रं समाधिस्थो जपेत् ।
97. कोकवद्दिवाकामः निशि स्निग्धं भुञ्जीत ; चकोरवन्नक्तंकामः दिवा च ।
98. पारावतकामः वृष्यान्नयोगां350 श्चरेत् ।
99. बष्कयणीनां351 सुरभीणां पयः सिद्धं माषदलपरमानं परो योगः स्मरसंवर्धने ।
100. नावृषस्यन्तीं352स्त्रियमभियायात् ।
101. उष्णप्रकर्षवान् प्रदेशः परमं रहस्यमनुरागे प्रथमप्रकृतीनाम्353, सशाद्वलमृदुपवनप्रदेशः द्वितीयप्रकृतीनाम्, सर्वत्र तृतीयप्रकृतीनां सुरतोत्सवः त एते धर्मार्थस्थाने लिङ्गोत्सवं लभन्ते ।
102. स्त्रीपुंसयोर्न समसमायोगात्354 परं वशीकरणमस्ति ।
103. प्रकृतिः उपदेशः स्वाभाविकं च प्रयोगवैदग्ध्यमिति समसमायोगकारणानि ।
104.क्षुत्तर्षपुरीषामिष्यन्दार्तस्य अभिगमः नापत्यमनवद्यं करोति ।
105.न सन्ध्यासु न दिवा नाप्सु न देवायतने मैथुनं कुर्वीत ।
106.पर्वणि पर्वसन्धौ उपहते वाऽह्नि कुलस्त्रियं न गच्छेत् ।
107.न तद्गृहाभिगमनेन कामपि स्त्रियमधिशयीत ।
108.वंशवयोवृत्तविद्याविभवानुरूपः वेषः समाचारो वा न कं विडम्बयति ?
109. अपरीक्षितमशोधितं च राजकुले न किञ्चित्प्रवेशयेन्निष्कासयेद्वा ।
110. श्रूयते हि – स्त्रीवेषधारी कुन्तलनरेन्द्रप्रयुक्तः गूढपुरुषः कर्णनिहितेनासिपत्रेण पल्लवनरेन्द्रं, हयपतिश्च मेषविषाणनिहितेनविषेण कुशस्थलेश्वरं जघानेति ।
111. सर्वत्र विश्वस्ते नास्ति काचित् क्रिया ॥
इति दिवसानुष्ठानसमुद्देशः
२६. सदाचारसमुद्देशः
1. लोभप्रमादविश्वासैः बृहस्पतिरपि पुरुषो वध्यते वञ्चयते वा ।
2. बलवताऽवष्टब्धस्य विदेशगमनं355 तदनुप्रवेशो वा श्रेयान्, यद्यन्यथा नास्ति क्षेमोपायः ।
3. विदेशवासोपहतस्य को नाम पुरुषकारः ?
4. यो येनाविज्ञातस्वरूपः पुमान् स तस्य महानपि लघुरेव ।
5. अलब्धप्रतिष्ठस्य निजान्वयेनाहङ्कारः कस्य न लाघवं करोति ?
6. आर्तः सर्वोऽपि भवति धर्मबुद्धिः ।
7. स नीरोगः, यः स्वयं धर्माय समीहते ।
8. व्याधिग्रस्तस्य धैर्यादृते न परमौषधमस्ति ।
9. स महानुभावः, यस्य न दुरपवादोपहतं जन्म ।
10. पराधीनेष्वर्येषु स्वोत्कर्षसम्भावनं मन्दमतीनाम् ।
11. न भयेषु विषादः प्रतीकारः, किन्तु धैर्यावलम्बनम् ।
12. स किं धन्वी तपस्वी वा ? यो रणे मरणे शरसन्धाने मनःसमाधाने च मुह्यति ।
13.कृतेः प्रतिकृतिमकुर्वतः नैहिकफलमस्ति नामुत्रिकं च ।
14. शत्रुणाऽपि सूक्तमुक्तं न दूषयितव्यम् ।
15. कलहजननं अप्रीत्युत्पादनं च दुर्जनानां धर्मो न सज्जनानाम् ।
16. न तस्य श्रीरभिमुखी, यो लब्धार्थमात्रेण सन्तुष्टः ।
17. भीतेष्वभयदानात् परं न दानमस्ति ।
18. तस्य कुतो वंशवृद्धिः ? यो न प्रशमयति वैरानुबन्धम् ।
19.स्वस्यासम्पत्तौ न चिन्ता कामितमर्थंदुग्धे, किन्तुत्साहः ।
20. स खलु स्वस्यैवापुण्योदयः अपराधो वा, यत् सर्वेषु कल्पवृक्षवत् फलन्नपि स्वामी भवत्यात्मनि356वन्ध्यः ।
21.स सदैव दुःखितः, यो मूलधनमसंवर्धयन्ननुभवति।
22.मूर्खदुर्जनपतितैः सह सङ्गः कस्य नाम श्रेयस्करः ?
23.किं तेन प्रीतेन, यस्य हरिद्राराग357इव चित्तानुरागः ?
24. आत्मानमविज्ञाय विक्रमः कस्य नाम पराभवं न करोति ?
25. न क्षान्तिः पराभियोगस्योत्तरं, किन्तु युक्त्युपन्यासः ।
26. अस्थाने कुप्यतां कुतः परिजनः ?
27.न मृतेषु रोदितव्यं; अश्रुपातमा हि किल पतन्ति तेषां हृदयेष्वङ्गाराः !
28.अतीते वस्तुनि शोकः श्रेयानेव, यदि पुनः तत्समागमः स्यात् !
29. शोकमात्मनि चिरमनुवासयन् त्रिवर्गमनुशोषयति ।
30.स किं पुरुषः ? योऽकिञ्चनस्सन् करोति विषयाभिलाषम् ।
31. अपूर्वेषु प्रियपूर्वंसम्भाषणं स्वर्गच्युतानां लिङ्गम् ।
32.न ते मृताः, येषामिहास्ति शाश्वती कीर्तिः ।
33.स केवलं भूभाराय जातः, यस्य यशोभिर्न धवलितानि भुवनानि ।
34. परोपकारोद्यतानां का नाम शरणागतेषु परीक्षा ?
35. अभिचारेण परोपघातः महापातकिनां, न महासत्त्वानाम् ।
36. तस्य भूपतेः कुतोऽभ्युदयो विजयो वा, यस्य द्विषत्सभासु विद्वत्सभासु च नास्तिगुणग्रहणे प्रागल्भ्यम् ।
37. तस्य गृहे कुटुम्बं स्थापनीयं, यत्र न भवति परेषामामिषंविप्लुतं358 वा ।
38. परस्त्रीद्रव्ययोः रक्षणेन नात्मनः किमपि फलं, विप्लवे तु भवेन्महाननर्थसंबन्धः ।
39. आत्मानुरक्तं कथमपि न त्यजेत्, यद्यस्ति359 दत्ते तस्य संतोषः ।
40. आत्मसंभावनः परेषामसहनश्च भृत्यः बहुपरिजनमपि स्वमिनमेकाकिनं करोति ।
41. अपराधानुरूपो दण्डः पुत्रेऽपि प्रणेतव्यः ।
42. देशानुरूपः करो ग्राह्यः ।
43. प्रतिपाद्यानुरूपं वचनमुदाहर्तव्यम् ।
44. आयानुरूपो व्ययः कार्यः ।
45.ऐश्वर्यानुरूपः प्रासादो विधातव्यः ।
46. सहायानुरूपं कर्म आरब्धव्यम् ।
47. धनश्रद्धानुरूपः त्यागोऽनुसर्तव्यः ।
48. स पुमान् सुखी यस्यास्ति संतोषः ।
49. रजस्वलाभिगामी चण्डालादप्यधमः ।
50. सलज्जं निर्लज्जं न कुर्यात् ।
51.स पुमान् सवस्त्रोऽपि नग्न एव, यस्य नास्ति सच्चरित्रमावरणम् ।
52.स नग्नोऽप्यनग्न एव, यो भूषितः सच्चरित्रेण ।
53.सर्वत्र संशयानेषु नास्ति कार्यसिद्धिः ।
54.न क्षीरघृताभ्यामन्यत् परं रसायनमस्ति ।
55. परोपघातेन वृत्तिः निर्भाग्याणाम् ।
56. वरमुपवासः न पराधीनं भोजनम् ।
57. स देशोऽनुसर्तव्यः यत्र नास्ति वर्णसङ्करः ।
58. स जात्यन्धो यः परलोकं न पश्यति ।
59. व्रतं विद्या सत्यं आनृशंस्यं अलोलता शक्तिविशेषश्च ब्राह्मण्यं, नपुनर्जातिमात्रम् ।
60.निःस्पृहाणां का नाम परापेक्षा ?
61. कं नाम पुरुषं आशा न क्लेशयति ?
62.स संयमी गृहाश्रमी वा तत्पदमर्हति, यस्याविद्यातृष्णाभ्यामनुपहतं चेतः ।
63. शीलमलङ्कारः पुरुषाणां, न देहखेदावहो बहिराकल्पः360 ।
64. कस्य नाम नृपतिर्मित्रम् ?
65.अप्रियकर्तुः न प्रियकरणात्परं मारणकारणमस्ति ।
66. अप्रयच्छन्नर्थिने न परुषं ब्रूयात् ।
67.सा श्रीः [स स्वामी] मरुभूमिः, यत्रार्थिनो न भवन्त्याप्तकामाः ।
68. प्रजापालनं हि राज्ञो यज्ञः, न पुनः भूतानामालम्भः361 ।
69. नानपराधिसत्त्वव्यावृत्तये नृपाणां बलं धनुर्वा, किन्तु शरणागतरक्षणाय ॥
इति सदाचारसमुद्देशः
-
*
२७. व्यवहारसमुद्देशः
1. कलत्रं नाम नराणां अनिगडमपि दृढं बन्धनमाहुः ।
2. त्रीण्यवश्यं भर्तव्यानि - मातापितरौ कलत्रं अप्राप्तव्यवहाराणि चापत्यानि ।
3.दानं तपः362 प्रायोपवेशनं नियमव्यवस्थापनं वा तीर्थोपासनस्यफलम् ।
4. तीर्थोपवासिषु363 देवस्वपरिहरणं क्रव्यादेषु कारुण्यमिव, स्वाचारच्युतेषु पापभीरुत्वमिव ।
5. अधार्मिकत्वं अतिनिष्ठुरत्वं वञ्चकत्वं च प्रायेण तीर्थवासिनांप्रकृतिः ।
6. मूषिकगृहे मोदकन्यास इव हि धर्मरहितेषु देवपूजाद्युपयोगायधनार्पणम् ।
7. स किं प्रभुः ? यः कार्यकाल एव न सम्भावयति भृत्यान् ।
8. स किं भृत्यः सखा वा ? यः कार्यमुद्दिश्यार्थंयाचते, करोतिचाङ्गाकृष्टिम्364 ।
9.साकिं भार्या ? या अर्थेन प्रणयिनी ।
10. स किं देशः ? यत्र नास्त्यात्मनो निर्वृतिः365 ।
11. स किं बन्धुः ? यः व्यसनेषु नोपतिष्ठते ।
12. तत् किं मित्रं ? यत्र नास्ति विस्रम्भः366 ।
13. स किं गृहस्थः ? यस्य नास्ति सत्कलत्रसम्पत्तिः ।
14. तत् किं दानं ? यत्र नास्ति सत्कारः
15. तत् किं भुक्तं ? यत्र नास्त्यतिथिसंविभागः ।
16. तत् किं प्रेम ? यत्रास्ति कार्यवशात् प्रवृत्तिः ।
17. तत् किमाचरणं ? यत्रास्ति वाच्यता मायाव्यवहारो वा367 ।
18. तत् किमपत्यं ? यत्र नाध्ययनं विनयो वा ।
19. तत् किं ज्ञानं ? यत्र मदेनान्धता चित्तस्य ।
20. तत् किं सौजन्यं ? यत्र परोक्षे पिशुनभावः ।
21. सा किं श्रीः ? यथान सन्तोषः सत्पुरुषाणाम् ।
22. तत् किं कृतं ? यत्रोक्तिरुपकृतस्य ।
23. तयोः को नाम निर्वाहः ? यौ द्वावपि प्रभूतमानिनौ पण्डितौस्पर्धिनौ वाचालौहेतुकौ लुब्धौ मूर्खौअसहनौ साहङ्कारौउच्छृङ्खलौ प्रबलौ अतत्त्वदर्शिनौ च ।
24. स्ववान्त इव स्वदत्ते नाभिलाषं कुर्यात् ।
25. उपकृत्य मूकभावः अभिजातानाम् ।
26. परदोषश्रवणे बधिरभावः सत्पुरुषाणाम् ।
27. परकलत्रदर्शने अन्धभावो महाभाग्यानाम् ।
28. शत्रावपि गृहायाते सम्भ्रमः कर्तव्यः, किं पुनर्न महति ?
29. अन्तर्धनसार इव स्वयं स्वस्य धर्मः न प्रकाशयितव्यः ।
30. मदप्रमादजे दोषे गुरुषु निवेदनं अनुशयः प्रायश्चित्तंप्रतीकारः ।
31. श्रीमतः कायक्लेशः न देवगुरुद्विजातिथीन् प्रीणयति, किन्तु विभव368संविभाग एव ।
32. चणका इव नीचाः उदरस्थापिता अपि नाविकुर्वाणास्तिष्ठन्ति ।
33. स पुमान् वन्द्यचरितः, यः प्रत्युपकारमनवेक्ष्य परोपकारंकरोति ।
34. अज्ञानिनो369 वैराग्यं, मिक्षोर्विटत्वं, अधनस्य विलासः, वेश्यारतस्यशौचं, अविदितवेदितव्यस्य तत्त्वपरिग्रहः (साग्रहस्तत्त्वविचारः)इति पञ्च न कस्य शिरश्शूलानि ?
35. स हि पञ्चमहापातकी, यः अशस्त्रंअशास्त्रं वा पुरुषमभियुञ्जीत ।
36. उपश्रुतिं श्रोतुमिव कार्यवशान्नीचमपि लोकं स्वयमुपसर्पेत् ।
37. अर्थी कमपि दोषं न पश्यति ।
38. गृहदास्यभिगमः गृहं गृहपतिं गृहिणीं च प्रत्यवसादयति ।
39. वेश्यापरिग्रहः देवद्विजगुरुगृहिणीबन्धूनां उच्चाटनमन्त्रः ।
40. अहो ! लोकस्य पापम् यत् निजस्त्री रतिरता रतिरपि निम्बसमा, परपरिगृहीता शुनक्यपि रम्भासमा ।
41. स सुखी, यस्यैक एव दारपरिग्रहः ।
42. व्यसनिनो यथाऽभिसारिकासु सुखं, न तथाऽर्थवतीषु ।
43. महान् हि धनव्ययः तदिच्छानुवर्तनं दैन्यं चार्थवतीषु ।
44.आस्तरणं कम्बलः जीवधनं गदर्भः परिग्रहः घोटी सर्वकर्मीणाःसुभृत्याः - इति कस्य नाम न सुखावहानि स्कन्धावारोपकरणानि ?
45. यति ठक्कुर370 वेश्या वरण्ड371 भण्डानां परिस्पन्दो महान्, अर्थतस्तु न किञ्चन ।
46. लोभवति भवन्ति विफलाः सर्वेऽपि गुणाः ।
47.अर्थयाचना कं नाम न लघयति ?
48. न दारिद्रयात् परं लाघवकारणमस्ति, यतो महानपि भवत्यन्यदोषेण शङ्कनीयः, यत्सङ्गेन च सर्वे गुणाः निष्फलतां यान्ति।
49. अलब्धार्थोऽपि हि लोको धनवति भण्डो भवति !
50.धनिनो यतयोऽपि चाटुकाराः ।
51.न रत्नहिरण्यपूताजलात् परं पावनमस्ति ।
52. स्वयं मेध्या आपो वह्नितप्ता विशेषतः ।
53.स एवोत्सवः, यत्र बन्दीमोक्षः दीनोद्धरणं च ।
54. तान्येव पर्वाणि, येष्वतिथिपरिजनयोः प्रकामं सन्तर्पणम् ।
55. तास्तिथयः, यासु धर्माचरणम् ।
56.सा तीर्थयात्रा, यस्यामकृत्यनिवृत्तिः ।
57. तत् पाण्डित्यं, यत्र जातिवयोविद्योचितमनुष्ठानम् ।
58. तच्चातुर्यं, यत्परप्रीत्या स्वकार्यसाधनम् ।
59.तल्लोकवित्त्वं, यत्सर्वजनादेयत्वम् ।
60. तत्सौजन्यं वाग्मिता च, यत्र नास्ति परोद्वेगः ।
61. तद्धीरत्वं, यदनपवादं यौवनम् ।
62. तत् सौभाग्यं, यददानेन वशीकरणम् ।
63.सा सभाऽरण्यानी, यस्यां न सन्ति विद्वांसः ।
64.किं तेनात्मनः प्रियेण ? यस्य स्वयं न भवति प्रियः ।
65.स किं प्रभुः ? यो न सहते परिजनसम्बाधम्372 ।
66.न लेखाद्वचनं प्रमाणम् ।
67.अनभिज्ञाते लेखे नास्ति सम्प्रत्ययः ।
68.त्रीणि पातकानि सद्यः फलन्ति - स्वामिद्रोहः स्त्रीवधः बालवधश्चेति ।
69.अप्लवस्य समुद्रावगाहनमिव अबलस्य बलवता सह विग्रहाय टिरिटिल्लितम्373 ।
70.बलवन्तमाश्रित्य374 विकृतिभजनंसद्यो मरणकारणम् ।
71. प्रवासः चक्रवर्तिनमपि सन्तापयति, किं पुनर्नान्यम् ?
72. बहुपाथेयं, मनोऽनुकूलः परिजनः, सुविहितश्चोपस्करः इतिप्रवासेषु दुःखोत्तरणतरण्डको वर्गः ।
इति व्यवहारसमुद्देशः
-
*
२७. विवादसमुद्देशः
1.गुणदोषयोस्तुलादण्डसमो राजा ।
2.स्वगुणदोषाभ्यां जन्तुषु गौरवलाघवे, राजा तु परं समवर्तीतत्फलमनुभावयति ।
3. आदित्यवद्यथावस्थितार्थप्रकाशनपराः सभ्याः ।
4. अदृष्टश्रुतव्यवहाराः प्रत्यर्थिनः सामिषाश्च न सभ्याः ।
5. लोभपक्षपाताभ्यामयथार्थवादिनः सभ्याः सभापतेः सद्यो मानार्थहानिं लभेरन् ।
6. तत्रालं विवादेन, यत्र स्वयमेव सभापतिः प्रत्यर्थी ।
7. सभ्यसभापत्योरसामञ्जस्ये न्यायस्य कुतो जयः ?
8.किं बहुभिःछगलः375 श्वा न क्रियते ?
9. विवादमास्थाय सभायां नोपतिष्ठते, समाहूतोऽपसरति, पूर्वोक्तमुत्तरोक्तेन बाधते, निरुत्तरः परोक्तेषु, युक्तमुक्तं न प्रतिपद्यतेस्वदोषमनुद्धृत्य परदोषमुपालभते, यथार्थवादेऽपिद्वेष्टि376सभाम् – इति पराजितलिङ्गानि377 ।
10.छलेन378 अप्रतिभानेन वचनाकौशलेन चार्थहानिः ।
11.भुक्तिसाक्षिशासनेषु379 पूर्वंपूर्वंप्रमाणम् ।
12.भुक्तिः सापवादा, साक्रोशाः विप्रतिपन्नाश्च साक्षिणः, शासनं चकूटलिखितमिति न विवादं समापयन्ति ।
13.बलात् कृतं अन्यायकृतं राजोपधिकृतं380 च न प्रमाणम् ।
14. वेश्या कितवयोरुक्तं381 ग्रहणकानुसारितया प्रमाणयितव्यम् ।
15.असत्यङ्कारे व्यवहारे नास्ति विवादः ।
16.नीवीन्यासेषु विवादः पुरुषप्रामाण्यात् सत्यापमितव्यः, दिव्यक्रियया वा ।
17.यादृशे तादृशे वा साक्षिणि नास्ति दैवी क्रिया, किं पुनरुभयसंमते ?
18.श्रूयते हि — वनस्पतिवनमार्जाराभ्यां साक्षिभ्यामर्थसिद्धिः ।
19. यः परद्रव्यमभियुञ्जीत अभिलुम्पेत वा तस्य शपथः क्रोशोदिव्यं वा ।
20. अभिचारयोगैर्विशुद्धस्याभियुक्तार्थसम्भावनायां प्राणावशेषोऽर्थापहारः ।
21. लिङ्गिविटनास्तिकस्वाचारच्युतानङ्गपतितानां न दैवी क्रियाऽस्ति,तेषां युक्तितोऽर्थस्य सिद्धिरसिद्धिर्वा ।
22. पत्रस्थं382भाषोत्तरे विचार्य परिच्छिन्द्यात्383 ।
23. परस्परविप्रलापे न युगैरपि विवादसमाप्तिः, आनन्त्याद्विप्रकृतोक्तीनाम्384 ।
24. सभायां परभूमिं नाभिनिविशेत, न वा मिथस्संजल्पं कुर्वीत ।
25. ग्रामे पुरे वा वृत्तैर्व्यवहारैस्सति विवादे राजानमुपेयात् ।
26. राज्ञा दृष्टे व्यवहारे नास्त्यनुबन्धः385 ।
27. राजाज्ञां मर्यादां वाऽतिक्रामन् सद्यः फलेन दण्डेनोपहन्तव्यः ।
28. न दुर्वृत्तानां दण्डादन्योऽस्ति विनयनोपायः, यतोऽग्निसंयोग एववक्रं काष्ठं सरलयति ।
29. ऋजुं सर्वे परिभवन्ति ।
30. न हि तथा वक्रतरुश्छिद्यते यथा सरलः ।
31. या शक्तस्यापराधिषु क्षमा, सा तस्यात्मनस्तिरस्कारः ।
32. अतिक्रम्य वर्तिषु निग्रहकर्तुः राज्ञः सर्पादिव दृष्टप्रत्यवायाः सर्वेऽपिजनाः बिभ्यति ।
33. अनायकां बहुनायकां वा सभां न प्रविशेत् ।
34. गणपुरश्चारिणः सिद्धे कार्ये स्वस्य न किञ्चिदपि, असिद्धे ध्रुवमात्मनः प्रत्यवायः ।
35. न सा गोष्ठी प्रस्तोतव्या, यत्र परेषां प्रतापः ।
36. स्वोपालम्भपरिहारेण परमुपालभेत386 ।
37. स्वामिनमुत्कर्षयन् गोष्ठीमवतारयेत् ।
38.न भर्तुरभियोगात्परं सत्यमसत्यं वा वदन्तमवगृह्णीयात् ।
39. नानभियुक्तः कमप्यभियुञ्जीत ।
40. अर्थसम्बन्धः सहवासश्च नाकलहः सम्भवति ।
41.निधिः आकस्मिको वाऽर्थलाभः सह प्राणैः सञ्चितमप्यर्थमपहारयति ।
42.ब्राह्मणानां हिरण्ययज्ञोपवीतयोः स्पर्शनं शपथः, शस्त्रास्त्ररत्नभूमिवाहन पल्ययनानां387 तु क्षत्रियाणाम्, वैश्रवणपोतयोः388काकिणीहिरण्ययोर्वा वैश्यानाम्, क्षीरबीजयोर्वल्मीकस्य वाशूद्राणाम् येन कर्मणा जीवति तत्कर्मोपकरणानां तु कारूणाम् ।
43.व्रतिनामन्येषां च इष्टदेवतापादस्पर्शनप्रदक्षिणीकरणदिव्यकोशदण्डतुलारोहणैर्विशुद्धिः ।
44.व्याधानां धनुर्लङ्घनं शपथः, अन्त्यावसायिनामार्द्रचर्मारोहणम् ।
45.वेश्या महिला, भृत्यो भण्डः, श्रेणिर्नियोगः, नियोगी च मित्रं इतिचत्वार्यशाश्वतानि ।
46.क्रीतेष्वाहारेष्विव पण्यस्त्रीषु क आस्वादः ?
47. यस्य यावान् परिग्रहः तं तावानेव संतापयति ।
48. गजे गर्दभे च राजरजकयोस्सम एव चिन्ताभारः ।
49. मूर्खस्याऽऽग्रहः नापायमनवाप्य निवर्तते ।
50. कार्पासाग्नेरिव मूर्खस्योपशान्तौ उपेक्षणमेवौषधम् ।
51. मूर्खस्याभ्युपपत्तिकरणं उद्दीपनपिण्डः389 ।
52. क्रोधाग्निज्वलितेषु तत्क्षणप्रशमाग्रहः घृताग्निष्वाहुतिनिक्षेप इव ।
53 जलसंसिच्यमान (पण) गुणग्रन्थिरिव अनुनयेन कर्कशो मूर्खः ।
54. अनभिज्ञोऽन्धोऽन्धानिव ध्रियमाणो मूर्खकरमाकर्षति ।
55. स्वयमगुणं वस्तु न खलु पक्षपाताद्गुणवद्भवति !
56. न खलु गोपालकस्नेहादुक्षा390 क्षीरं क्षरति !
इति विवादसमुद्देशः
२९. षाड्गुण्यसमुद्देशः
1. शमव्यायामौ व्यतिक्रमेण391 योगक्षेमयोर्योनिः ।
2. कर्मारम्भाणां योगसाधनो व्यायामः ।
3. कर्मफलोपभोगानां क्षेमसाधनः शमः ।
4. दैवं मानुषं च कर्म लोकं यापयति ।
5. दैवं धर्माधर्मौ, मानुषं नयानयौ, तच्चिन्त्यम् ; अचिन्त्यं दैवम् ।
6. अतर्कितोपस्थितार्थानर्थसम्बन्धः दैवायत्तः ।
7. बुद्धिपूर्वं हिताहितप्राप्तिपरिहारसम्बन्धः मनुष्यायत्तः ।
8. सत्यपि दैवेऽनुकूले न निष्कर्मणो भद्रमस्ति ।
9.न खलु दैवमेवेहमानस्य कृतमप्यन्नं मुखे प्रविशति ।
10.न खलु दैवमेवावलम्बमानस्य धनुः स्वयमेव शरान् सन्धत्ते ।
11. पौरुषावलम्बिनोऽर्थानर्थयोः सन्देहः, निश्चित एवानर्थो दैवमात्रपरस्य ।
12.आयुरौषधयोरिव दैवपौरुषयोः परस्परानुबन्धो हि समीहितमर्थंसाधयति ।
13. तत्तत्फलमनुभावयन्392अनुष्ठीयमानो न कश्चिद्धर्मोऽधर्ममनुबध्नाति ।
14. योगक्षेमयोर्निष्पत्त्युपायो नयः, विपत्तिहेतुरनयः ।
15. त्रिपुरुषमूर्तित्वान्न भूभुजः परं प्रत्यक्षं दैवमस्ति ।
16. प्रतिपन्नप्रथमाश्रमो हृदयगुहाज्योतिषि भगवति परे ब्रह्मणि निष्णातमतिः, उपासितगुरुकुलः सम्यग्विद्यायामधीती, कौमारं वयोऽलङ्कुर्वन् क्षत्रपुत्रो भवति ब्रह्मा ।
17. सञ्जातराज्यलक्ष्मीदीक्षाभिषेकं, स्वैर्गुणैः प्रजास्वनुरागं जनयन्तं,राजानं नारायणमाहुः, न ह्यविष्णुः पृथिवीपतिरिति ।
18. प्रवृद्धप्रतापतृतीयलोचनानलः परममैश्वर्यमातिष्ठमानः राष्ट्रकण्टकानसुरान् द्विषद्दानवांश्चोच्छेत्तुं यतमानः विजिगीषुर्भूपतिःभवति पिनाकपाणिः ।
19. उदासीनमध्यस्थविजिगीष्वरिमित्रपार्ष्णिग्राहाक्रन्दासारान्तर्धयःयथासम्भवं गुणगणविभवतारतभ्यात् मण्डलानामधिष्ठातारः ।
20.अग्रतः पृष्ठतः पार्श्वतः कोणतो वा सन्निकृष्टे विप्रकृष्टे वा मण्डलेस्थितः, मध्यमादीनां विगृहीतानां विग्रहे संहतानामनुग्रहे चसमर्थोऽपि केनचित्कारणेनान्यस्मिन् भूपतौ विजिगीषमाणे यउदास्ते स उदासीनः ।
21. उदासीनवदनियतमण्डलः, परभूपापेक्षया स्वयं समधिकबलोऽपि कुतश्चित्कारणादन्यस्मिन्नृपतौविजिगीषमाणे यो मध्यस्थभावमवलम्बते स मध्यस्थः ।
22. राजात्मदैवद्रव्यप्रकृतिसम्पन्नः नयविक्रमयोरधिष्ठानं विजिगीषुः ।
23. य एव स्वस्याहितानुष्ठानेन प्रातिकूल्यं बिभर्ति स एवारिः ।
24. मित्रलक्षणमुक्तं पुरस्तात् ।
25.यो विजिगीषौ प्रस्थिते प्रतिष्ठमाने वा पश्चात्कोपं जनयति सपार्ष्णिग्राहः ।
26. पश्चाद्विजिगीषोर्मित्रमाक्रन्दः ।
27. पार्ष्णिग्राहमित्रं आसारः आक्रन्दमित्रं वा ।
28. अरिविजिगीषोर्मण्डलान्तर्विहितवृत्तिः उभयवेतनः पर्वताटवीकृताश्रयश्चान्तर्धिः ।
29.अराजबीजी लुब्धः क्षुद्रः विरक्तप्रकृतिः अन्यायपरः व्यसनीविप्रतिपन्नमित्रामात्यमन्त्रिसामन्तसेनापतिः शत्रुः अमियोक्तव्यः ।
30.अनपाश्रयो दुर्बलाश्रयो वा शत्रुरुच्छेदनीयः, विपर्ययः पीडनीयःकर्षणीयो वा ।
31. समाभिजनः सहजशत्रुविरुद्धः विरोधयिता वा कृत्रिमः शत्रुः ।
32. अनन्तरः शत्रुः, एकान्तरं मित्रम्’ इति नैष एकान्ततः;कार्य हि मित्रत्वामित्रत्वयोः कारणं, न पुनर्विप्रकर्षसन्निकर्षौ।
33. बुद्धिशक्तिरात्मशक्तेरपि गरीयसी, शशकेन सिंहव्यापादनमत्रदृष्टान्तः ।
34.कोशदण्डबलं प्रभुशक्तिः, शूद्रकशक्तिकुमारौ दृष्टान्तौ ।
35. विक्रमः बलं चोत्साहशक्तिः, अत्र रामो दृष्टान्तः ।
36.शक्तित्रयोपचितः ज्यायान्, शक्तित्रयापचितः हीनः, समानशक्तित्रयः समः ।
37.सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् ।
38.पणबन्धः सन्धिः ।
39.अपकारो विग्रहः ।
40.अभ्युच्च (द ) यो यानम् ।
41.उपेक्षणमासनम् ।
42.परस्यात्मार्पणं संश्रयः ।
43.एकेन सह सन्धाय अन्येन सह विग्रहकरणं, एकत्र वा शत्रौसन्धानपूर्वो विग्रहः द्वैधीभावः ।
44.प्रथमपक्षे सन्धीयमानो विगृह्यमाणो विजिगीषुरिति आश्रयःद्वैधीभावः, द्वितीये तु द्व्याश्रयः ।
45.हीयमानः पणबन्धेन सन्धिमुपेयात्, यदि नास्ति परेषां परिपणितेऽर्थे मर्यादोल्लङ्घनम् ।
46.अभ्युच्चीयमानः परं विगृह्णीयात्, यदि नास्त्यात्मबलेषु क्षोभः ।
47. गुणातिशययुक्तो यायात्, यदि न सन्ति राष्ट्रकण्टकाः, न भवति वापश्चात्कोपः ।
48.स्वमण्डलमपरिपालयतः परमण्डलाभियोगः विवसनस्य शिरोवेष्टनमिव (अन्धस्य रज्जुवलनमिव ) ।
49. न मां परो हन्तुं नाहं परं हन्तुं च शक्तः इत्यासीत, यद्यायत्यामस्तिकुशलम् ।
50. शक्तिहीनः संश्रयं कुर्यात्, यदि न भवति परेषामामिषम् ।
51. बलवद्भयादबलवदाश्रयणं हस्तिभयादेरण्डाश्रयणमिव ।
52. स्वयमस्थिरेणास्थिराश्रयणं नद्यां वहमानेन वहमानस्याश्रयणमिव ।
53.वरं मानिनो मरणं, न परेच्छानुवर्तनादात्मविक्रयः ।
54.आयतिकल्याणे सति कस्मिंश्चित्सम्बन्धे परसंश्रयः श्रेयान् ।
55. न राजकार्येषु कालनियमोऽस्ति, मेघवदुत्थानं हि राजकार्याणाम् ।
56. अन्यत्र शत्रौ च सन्धिविग्रहाभ्यां द्वैधीभावं गच्छेत्, यद्यन्योऽवश्यमात्मना सहोत्सहते ।
57. बलवदुभयमध्यस्थः शत्रुः उभयसिंहमध्यगतः करीव भवतिसुखसाध्यः ।
58. भूम्यर्थिनां भूफलप्रदानेन सन्दध्यात्, यतो न भुवां फलदानमस्ति नित्यमिति ; न तु भुवा, परेषु हि गता भूमिर्गतैव ।
59. अवज्ञयापि भूमावारोपितस्तरुः भवति बद्धमूलः किं पुनर्नभूपतिः ?
60. उपायोपपन्नविक्रमः अनुरक्तप्रकृतिः अल्पदेशोऽपि भूपतिःसार्वभौमो भवति ।
61. न हि कुलागता कस्यापि भूमिः, किन्तु वीरभोज्या वसुन्धरा !
62. सामोपप्रदानभेददण्डाः उपायाः ।
63. तत्र पञ्चविधं साम - गुणसङ्कीर्तनं सम्बन्धोपाख्यानं परस्परोपकारसन्दर्शनं आयतिप्रदर्शनं आत्मोपनिधानमिति ।
64. यन्मम द्रव्यं तत् भवता स्वकृत्येषु प्रयुज्यतामित्यात्मोपनिधानम् ।
65. बह्वर्थसंरक्षणायाल्पार्थदानेन परप्रसादनं उपप्रदानम् ।
66. योगतीक्ष्णगूढपुरुषोभयवेतनैः परबलस्य परस्परशङ्काजननं निर्भर्त्सनं वा भेदः ।
67. वधः परिक्लेशः अर्थहरणं वा दण्डः ।
68. शत्रोरागतं साधु परीक्ष्य कल्याणबुद्धिमनुगृह्णीयात् ।
69. किमरण्यजमौषधं न भवति क्षेमाय ?
70. गृहप्रविष्टः कपोत अल्पोऽपि शत्रुसम्बन्धी लोकः तन्त्रमुद्वासयति ।
71. मित्रहिरण्यभूमिलाभानां उत्तरोत्तरो लाभः श्रेयान्, हिरण्यं भूमिलाभाद्भवति, मित्रं च हिरण्यलाभादिति ।
72. स्वयमसहायश्चेत् भूमिः हिरण्यलाभाय न प्रभवति, तदा मित्रंगरीयः ।
73. सहायानुयायि मित्रं स्वयं चास्थास्नुर्भूमिरिति ताभ्यां हिरण्यंगरीयः ।
74. शत्रोर्मित्रभावे कारणं विमृश्य तथाऽऽचरेत्, यथा न वञ्चयते ।
75. गूढोपायेन सिद्धकार्यस्यासंवृतिकरणं सर्वशङ्कां दुरपवादं चकरोति ।
76. अभयप्रदानमान्योपदेशाभ्यां दुर्जनं शमयेत् ।
77. गृहीतपुत्रदारान् उभयवेतनान् कुर्यात् ।
78. शत्रुमपकृत्य तद्दायादान् भूमिदानेनात्मनः सफलयेत् क्लेशयेद्वा ।
79. अन्यस्य भूः अन्यस्य महता प्रयत्नेन परिणमति न परिणमति वा ।
80. परविश्वासजनने सत्यं शपथः प्रतिभूः प्रधानपुरुषप्रतिग्रहो वा हेतुः ।
81. सहस्रैकीयः पुरस्ताल्लाभः, शतैकीयः पश्चात्कोप इति न यायात् ।
82. सूचीमुखा ह्यनर्था भवन्ति, अल्पेनापि सूचीमुखेन महत्सूत्रजालंप्रविशति ।
83. योग्यपुरुषापचयः क्षयः ।
84. हिरण्यधान्यापचयः व्ययः ।
85. तमात्मनो लाभमिच्छेत् येन सामिषः क्रव्याद इव न परैरवरुद्ध्येत ।
86. गृहागतमर्थं केनापि कारगेन नावधीरयेत् ।
87.यदार्थागमः तदैव सर्वतिथिनक्षत्रग्रहबलम् ।
88.गजेन गजबन्धनमिव अर्थेनार्थोपार्जनम्, न केवलाभ्यां बुद्धिपौरुषाभ्याम् ।
89.महतो जनस्य सम्भूयोत्थाने सङ्घातविघातेन दण्डं प्रणयेत्,शतमवध्यं सहस्रमदण्ड्यमिति न प्रणयेत् ।
90. सा राजन्वती भूमिः, यस्यां नासुरवृत्तिः परप्रणेयश्च राजा ।
91. अपरीक्षितार्थमानप्राणो हि राजा असुरवृत्तिः ।
92. परकोपप्रसादानुवृत्तिः परप्रणेयः ।
93. तत्स्वामिनश्छन्दानुवर्तनं श्रेयः, यन्न भवत्यायत्यामहिताय ।
94. निरनुबन्धं अनर्थानुबन्धं चार्थं न गृह्णीयात् ।
95. नासावर्थः, यत्रायत्यां महाननर्थानुबन्धः ।
96. लाभस्त्रिविधः - नवः भूतपूर्वः पित्र्यश्चेति ।
इति षाड्गुण्यसमुद्देशः
-
*
३०. युद्धसमुद्देशः
1. स किं मन्त्री मित्रं वा ? यः प्रथममेव युद्धोद्योगं भूमित्यागं चोपदिशति ।
2. स किं सहायः ? योऽसौ व्याहरति महान्तमनर्थं संशयं वास्वामिनः सङ्ग्रामे ।
3.को नामात्मवान् आदावेव स्वामिनं प्राणसन्देहतुलामारोहयति ?
4.भूम्यर्थं नृपाणां नयः विक्रमश्च, न तु भूमित्यागाय ।
5.बुद्धियुद्धेन परान् जेतुमशक्तः शस्त्रयुद्धमारभेत्।
6.न तथेषवः प्रभवन्ति, यथा प्रज्ञावतां प्रज्ञाः ।
7.दृष्टेऽप्यर्थे भवन्त्यपराद्धेषवो धनुष्मन्तः, अदृष्टमप्यर्थं साधु साधयति प्रज्ञावान् ।
8.श्रूयते किल– दूरस्थोऽपि माधवपिता कामन्दकीय प्रयोगेण माघवाय मालतीं साधयामासेति ।
9.प्रज्ञा ह्यमोघं शस्त्रं कुशलबुद्धीनाम् ।
10. प्रज्ञाहताः कुलिशहता इव न पुनः प्रादुर्भवन्ति भूभृतः ।
11. परैः स्वस्याभियोगमपश्यतो भयं, नदीमपश्यत उपानत्परित्यजनमिव ।
12.अतितीक्ष्णो बलवानपि शरभ इव न चिरं नन्दति ।
13. प्रहरतोऽपसरतो वा समे विनाशे वरं प्रहारः, यत्र नैकान्तिकोविनाशः ।
14. कुटिला हि गतिर्देवस्य -यत् मुमूर्षुमपि जीवयति, जिजीविषुमपिमारयति ।
15. दीपशिखायां पतङ्गवत् ऐकान्तिके विनाशे तु अविचारमपसरेत् ।
16. जीवतो हि संभवेद्दैवोदयात् कालबलम् !
17. वरमल्पमपि सारं बलम्, न तु भूयसी मुण्डमण्डली ।
18. असारबलभङ्गः सारबलभङ्गं करोति ।
19. नाप्रतिग्रहो युद्धमुपेयात् ।
20. राजव्यञ्जनं पुरस्कृत्य पश्चात् स्वाम्यधिष्ठितस्य सारबलस्य निवेशनं प्रतिग्रहः ।
21.सप्रतिग्रहं बलं साधु युद्धयोत्सहते ।
22.पृष्ठतः सदुर्गजला भूमिः बलस्य महानाश्रयः ।
23. नद्या नीयमानस्य तटस्थपुरुषदर्शनमपि जीवितहेतुः ।
24.निरन्नमपि सप्राणमेव बलं, यदि जलं लभेत ।
25.बलवता विगृहीतस्य तद्दायादपरिग्रहः श्वमण्डले शिखिमण्डकप्रवेश इव ।
26.आत्मशक्तिमविज्ञायोत्साहः शिरसा पर्वतभेदनमिव ।
27. सामसाध्यं युद्धसाध्यं न कुर्यात् ।
28.गुडादभिप्रेतसिद्धौ को नाम विषं भुञ्जीत ?
29. अल्पव्ययभयात् सर्वनाशं करोति मूर्खः ।
30.को नाम कृतधीः शुल्कभयात् भाण्डं परित्यजति ?
31.स किं व्ययः ? यो महान्तमर्थं रक्षति ।
32.पूर्णसरः सलिलस्य हि न परीवाहादपरोऽस्ति रक्षणोपायः ।
33.अप्रयच्छतो बलवान् प्राणैस्सहार्थं गृह्णाति ।
34.बलवति सीमाधिपेऽर्थं प्रयच्छन् विवाहोत्सवगृहागमनादिमिषेणप्रयच्छेत् ।
35. अमिषमर्थं प्रयच्छतः निरवधिः स्यान्निबन्धः शासनेन ।
36. स्वयमल्पबलकोशदेशदुर्गभूमिः, अप्रतिविधेयश्च शत्रुः स्वदेशंन परित्यजेच्च, तदा कृतसंघातविघातोऽरिभिःसाधयेत् ।
37. विशीर्णयूथो वनगज इव कस्य वा न भवति साध्यः ?
38. विनिःस्रावितजले सरसि विषमोऽपि ग्राहः जलव्यालो वा छगलइव !
39. वनविनिर्गतः सिंहोऽपि सृगालायते !
40.विच्छिन्नोपान्तप्रताने वंशे किमस्त्याकर्षकस्य क्लेशः ?
41.नास्ति सङ्घातस्य निःसारता ।
42किं न स्खलयति मत्तमपि वारणं तृणसङ्घातः ?
43. संहतैर्बिसतन्तुमिः दिग्गजोऽपि नियम्यते ।
44. दण्डसाध्ये शस्त्रौउपायान्तरं अग्नावाहुतिप्रदानमिव ।
45. यन्त्रशस्त्राग्निक्षारप्रतीकारे व्याधौ किं नामान्यदौषधं कुर्यात् ?
46. अविज्ञातकरणवृत्तः सर्वोऽपि भवति शूरः ।
47. अदृष्टान्यसामर्थ्यः को नाम न भवति सदर्पः ?
48.अतिप्रवृद्धा श्रीः कं न दर्पयति ?
49. कृतार्थापहारः विघटिततन्त्रश्च परः रुष्यन्नपि किं कुर्यात् ?
50. उत्पाटितदंष्ट्रः सर्पोऽपि रज्जुरेव ।
51. प्रतिहतप्रतापोऽङ्गारः संपतितोऽपि किं कुर्यात् ?
52. विद्विष्टानां चाटुकारं न बहुमन्येत ।
53. जिह्वया लिहन् खड्गो मारयत्येव ।
54. तन्त्रावापौ नीतिशास्त्रम् ।
55.स्वमण्डलपालनामियोगः तन्त्रम् ।
56.परमण्डलावाप्त्यभियोगः आवापः ।
57.बहूनेको न विगृह्णीयात् ।
58.सदर्पोऽपि सर्पः व्यापाद्यत एव पिपीलिकाभिः।
59. नाशोधितायां परभूमौ प्रविशन्निष्क्रमेद्वा ।
60.विग्रहकाले परस्मादागतं कमपि न गृह्णीयात् ।
61. गृह्णन् वा सह न वसेत् अन्यत्र दायादेभ्यः ।
62.श्रूयते हि - निजस्वामिना सह कूटकलहं विधाय आप्तविश्वासः कृकलासो नामानीकपतिः आत्मविपक्षं विरूपाक्षं जघानेति ।
63. बलमपीडयन् परानभिषेणयेत् ।
64. दीर्घप्रयाणोपहतं बलं अनायासेन भवति परेषां साध्यम् ।
65. न दायादादपरः परबलस्याकर्षणमन्त्रोऽस्ति ।
66. यममिगच्छेत्तस्यावश्यं दायादानुत्थापयेत् ।
67. कण्टकेन कण्टकमिव परेणैव परमुद्धरेत् ।
68. बिल्वेन बिल्वं हन्यमानं उभयथाप्यात्मनो लाभाय ।
69. यावत्परेणापकृतं तावतोऽधिकमपकृत्य सन्धिं कुर्यात् ।
70. नातप्तं लोहं लोहेन संधत्ते ।
71. तेजो हि सन्धानकारणं, नापराधस्य क्षान्तिरुपेक्षा वा ।
72. उपचीयमानः घटेनेवाश्मा हीनेन सहापि विग्रहं कुर्यात् ।
73. दैवानुलोम्यं युग्यपुरुषोपचयः अप्रतिपक्षता च विजिगीषोरुदयः ।
74. पराक्रमकर्कशः प्रवीरानीकश्चेत्हीनः सन्धाय साधूपचरितव्यः ।
75. दुःखामर्षजं तेजो विक्रमयति ।
76. स्वजीविते हि निराशस्य अवार्यो भवति वीर्यवेगः ।
77. लघुरपि सिंहशाबःहन्त्येव दन्तिनम् ।
78.न चातिभग्नंपीडयेत् ।
79.शौर्यैकधनस्योपचारः मनसि तच्छगलस्य पूजेव ।
80. समस्य समेन सह विग्रहे निश्चितं मरणं, जये च सन्देहः ।
81.आमं हि पात्रं आमेनाभिहतं उभयतः क्षयं करोतिI
82. ज्यायसा सह विग्रहः हस्तिना पदातियुद्धमिव ।
83. स धर्मविजयी राजा, यो विधेयतामात्रेणैव सन्तुष्टः प्राणार्थमानेषुनापकरोति ।
84. स लोभविजयी राजा, यो द्रव्येण कृतप्रीतिः प्राणार्थमानेषु नापराध्यति ।
85. सोऽसुरविजयी राजा, यः प्राणार्थमानोपघातेन महीमभिलषति ।
86. असुरविजयिनः संश्रयः सूनागारे मृगप्रवेश इव ।
87. यादृशस्तादृशो वा यायिनः स्थायी बलवान्, यदि साधुचारसञ्चारः सन्नद्धश्च ।
88. रणेषु चरणपतितं भीतं अशस्त्रंच हिंसन् ब्रह्महा भवति ।
89. सङ्ग्रामवृत्तेषु यायिषु सत्कृत्य विसर्गः, स्थायिषु संसर्गश्च सेनापत्यायत्तः श्रेयान् ।
90.मतिनदीयं नाम सर्वेषां प्राणिनामुभयतो वहति पापाय धर्माय च,तत्राद्यं स्त्रोतोऽतीव सुलभं, दुर्लभं तद्वितीयम् ।
91.सत्येनापि शप्तव्यं, महतामभयप्रदायिवचनमेव शपथः ।
92.सतामसतां च वचनायत्ताः खलु सर्वे व्यवहाराः ।
93.स एव सर्वलोकमहनीयः, यस्य वचनमन्यमनस्कतयाप्यायातंभवति शासनम् ।
94.नास्याप्रेरिता वाक् देवतया वदति, सत्या ह्येषा सरस्वती ।
95 व्यभिचारिवचनेषु नैहिकी पारलौकिकी वा क्रिया समस्ति ।
96. न विश्वस्तघातात्परं पातकमस्ति ।
97. विश्वासघातकः सर्वेषामविश्वासं करोति ।
98. असत्यसन्धेषु विश्वासः कृतान्यकृतानि च हन्ति ।
99. असत्यवादिनो मृतस्यापि दुर्यशो न विनश्यति ।
100.सकृदुत्थिता अपप्रसिद्धिः देवैरपि न निवारयितुं शक्यते ।
101.तथा हि धर्मपुत्रः असत्यमभाषत, अपाच्च मद्यमित्यद्याप्यस्तिदुष्प्रसिद्धिः ।
102.यशोवधः प्राणवधाद्गरीयान् ।
103. बलं बुद्धिः भूमिः ग्रहानुलोम्यं परोद्योगस्य प्रत्येकं बहुविकल्पदण्डमण्डलाभोगाश्च संहतव्यूहरचनायाः हेतवः ।
104. साधु रचितोऽपि व्यूहः तावत्तिष्ठति, यावन्न परबलदर्शनम् ।
105. न हि शस्त्रशिक्षाक्रमेण योद्धव्यं, किन्तु परप्रहाराभिप्रायेण ।
106. व्यसनेषु प्रमादेषु वा परेष्वमिषेणनमवस्कन्दः ।
107.अन्याभिमुखं प्रयाणमुपक्रम्य अन्योपघातकरणं कूटयुद्धम् ।
108 विषविषमपुरुषौपनिषदिकयोगोपजापैः परोपघातानुष्ठानं तूष्णींदण्डः ।
109.एकं बलस्याधिकृतं न कुर्यात्, भेदापराधशङ्कायामेकः समर्थोजनयति महान्तमनर्थम् ।
110. राजा राजकार्येषु मृतानां सन्ततिमपोषयन् ऋणभागी स्यात्,साधु च नोपचर्येत तन्त्रेण सर्वेभ्यो धार्मिकेभ्यश्च ।
111. धार्मिकेभ्योऽपि परा गतिर्हि शूराणाम् !
112. युधि पृष्ठगं ब्रह्महणमाहुः ।
113. युद्धे स्वामिनः पुरस्सरणं अश्वमेधसममाहुः ।
114.युधि स्वामिनं परित्यजतो नास्तीहामुत्र च कुशलम् ।
115. विग्रहायोच्चलितस्य अर्धं बलं सर्वदा सन्नद्धमासीत ।
116. प्रयाणमावासनं च कुर्वतः चतुर्दिशमनीकानि अनतिदूरेण संचरेयुस्तिष्ठेयुश्च ।
117.धूमाग्निरजोविषाणध्वनिव्याजेन आटविकाः प्रणिधयः परबलान्यागच्छन्ति निवेदयेयुः ।
118.पुरुषप्रमाणोत्सेधं अबहुजननिवेशं चरणापसरणयुक्तं अग्रतो महामण्डपावकाशं च तदङ्गमध्यस्य सर्वदा स्थानं दद्यात् ।
119. सर्वसाधारणभूमिकं तिष्ठतः नास्ति शरीररक्षा ।
120.भूचरो दोलाचरः तुरङ्गचरो वा न कदाचित्परभूमौ प्रविशेत् ।
121. करिणं यन्त्रयानं वाध्यासीने न प्रभवन्ति क्षुद्रोपद्रवाः ॥
इति युद्धसमुद्देशः
-
*
३१. विवाहसमुद्देशः
1.द्वादशवर्षा स्त्री, षोडशवर्षः पुमांश्च प्राप्तव्यवहारौ भवतः ।
2. विवाहपूर्वो व्यवहारः चातुर्वर्ण्यं कुलीनतां नयति ।
3. युक्तितो वरणविधानं, अग्निदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहः ।
4. स ब्राह्मो विवाहः, यत्र वरायालङ्कृत्य कन्या प्रदीयते ।
5. स दैवो विवाहः, यत्र यज्ञार्थमृत्विजे कन्याप्रदानमेव दक्षिणा ।
6. गोमिथुनपुरस्सरं कन्यादानादार्षः ।
7. ‘त्वं भवास्य महाभागस्य प्रेयसी सहधर्मचारिणी’ इति विनियोगेन कन्याप्रदानात् प्राजापत्यः ।
8. एते चत्वारो धर्म्या विवाहाः ।
9. मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथस्समवायाद्गन्धर्वः ।
10. पणबन्धेन कन्याप्रदानादासुरः ।
11. कन्यायाः प्रसह्यादानात् (प्रसह्य हरणात् ) राक्षसः ।
12. सुप्तप्रमत्तकन्याहरणात् पैशाचः ।
13. एते चत्वारः अधमा अपि नाधर्म्याः, यद्यस्ति वधूवरयोरनपवादं परस्परसंभाव्यत्वम् ।
14. उन्नतत्वं कनीनयोः, लोमशत्वं जङ्घयोः, अमांसलत्वमूर्वोः,अचारुत्वं कटिनाभिजठरकुचयुगलेषु, सिरालुत्वं अशुभसंस्थानत्वं च बाह्वोः, कृष्णत्वं तालुजिह्वाऽधरेषु, विरलविषमभावोदशनेषु, सकूपत्वं कपोलयोः, पिङ्गलत्वमक्ष्णोः, स्थपुटत्वंललाटे, दुःसन्निवेशवं श्रवणयोः, स्थूलकपिलपरुषातिदीर्घभावः केशेषु, अतिदीर्घातिलघुन्यूनाधिकता, विकटकुब्जवामनकिराताङ्गत्वं, जन्मदेहाभ्यां स्वेन समानताऽधिकत्वं चेतिकन्यादोषाः ।
15. सहसा तद्गृहे गतस्य स्वयमाहूतगतस्य वा अग्रे अभ्यता (व्यक्ता )( भुक्ता ) - व्याधिमती, रुदती - पतिघ्नी, सुप्ता - स्तोकायुष्का,बहिर्गता - कुलटा, अप्रसन्ना - दुःखिता, कलहोद्यता-परिजनोद्वासिनी, अप्रियदर्शना - दुर्भागा च भवेदिति नैतां वृणीत कन्याम् ।
16. शिथिले पाणिग्रहणे वरः कन्यया परिभूयते ।
17. मुखमपश्यतो वरस्य सन्निधौ अनिमीलितदर्शना कन्याभवतिप्रचण्डा ।
18. सह शयने तूष्णीं भवन् पशुवन्मन्येत, बलवदाक्रमणं कुर्वन्जन्मविद्वेष्यो भवति ।
19.धैर्यचातुर्यायत्तं हि कन्याविस्रम्भणम् ।
20. समविभवाभिजनयोः असगोत्रयोश्च विवाहसम्बन्धः ।
21. कन्या हि महतः पितुरैश्वर्यात् अल्पं पतिमवगणयति ।
22. अल्पस्य कन्या पितुर्दौर्बल्यान्महताऽवज्ञायते ।
23.अल्पस्य महता सह संव्यवहारे महान् व्ययः अल्पश्चायः ।
24. वरं वेश्यासङ्ग्रहोऽपि, न त्वविशुद्धकन्यापरिग्रहः ।
25.वरं जन्मनाशोऽपि, न तु कन्यायाः अकुलीनेष्ववक्षेपः ।
26.सम्यग्वृत्तापि कन्या तावत् सन्देहास्पदं, यावन्न पाणिग्रहणम् ।
27. विकृतप्रत्यूढाऽपि पुनर्विवाहमर्हतीति स्मृतिकाराः ।
28. आनुलोम्येन चतुस्त्रिद्विवर्णाः कन्याभाजनाः ब्राह्मणक्षत्रियविशः ।
29. देशापेक्षो मातुलसम्बन्धः ।
30.धर्मसन्ततिः, अनुपहता रतिः, गृहवार्तासु विहितत्वं, अभिजात्याचारविशुद्धिः, देवद्विजातिथिबान्धवसत्कारानवद्यत्वं,निःश्रेयसमार्गेष्वसङ्कुचितः सञ्चारः साधकानां हस्तावलम्बनविधानं च दारकर्मणः फलम् ।
31. गृहिणी गृहमुच्यते, न पुनः कुड्यकटसङ्घातः ।
32. गृहकर्म विनियोगः परिमितार्थत्वं अस्वातन्त्र्यं सदाचारः मातृव्यञ्जनस्त्रीजनावरोधः स्वरसतः स्वान्तस्य सद्विषयोन्मुखतापादनं चेति कुलवधूनां रक्षणोपायः ।
33. रजकशिलाकुर्कुरखर्परसमा हि वेश्याः ! कस्तास्वभिजातोऽनुरज्येत ?
34.दानैरपि दौर्भाग्यं, संस्कृत्य संस्कृत्य परोपभोग्यत्वं, उपभोक्तुरशक्तौ परिभवो मारणं वा, महोपकारेऽप्यनात्मीयत्वं, बहुकालसम्बन्धमपि त्यक्ता तदैव पुरुषान्तरगामित्वं - इति वेश्यानांकुलागता धर्माः ।
35.वेश्या वेश्येति न जातिरन्वेष्टव्या, पतिहृदयात् स्वहृदयं व्यभिचारयन्ती सर्वापि वेश्यैव ।
36. विटो जार इति न जातिरन्वेष्टव्यः, सतीहृदयात् स्वहृदयंव्यभिचारयन् सर्वोऽपि विट एव, जार एव ॥
इति विवाहसमुद्देशः
३२. प्रकीर्णकसमुद्देशः
1. अथप्रकीर्णकमुच्यते- समुद्र इव विप्रकीर्णसूक्तिरत्नविन्यासनिबन्धनं प्रकीर्णकम् ।
2.वर्णपदवाक्यप्रमाणयोगविज्ञाननिष्णातमतिः सुमुखः सुव्यक्तगम्भीरमधुरध्वनिः प्रगल्भः प्रतिभानवान् सम्यागूहावधारणागमकशक्तिसपन्नः सम्प्रज्ञातसमस्तलिपिभाषावर्णाश्रमसमयस्वपरव्यवहारस्थितिः आशुलेखनवाचनसमर्थश्च - इति सान्धिविग्रहिका गुणाः ।
3. कथाविच्छेदः व्याकुलत्वं मुखे वैरस्यं अनवेक्षणं स्थानत्यागः साध्वाचरितेऽपि दोषोद्भावनं विज्ञप्ते च मौनं अक्षमा कालयापनअदर्शनं मृषाऽभ्युपगमश्च - इति विरक्तलिङ्गानि ।
4. दूरादेवेक्षणं, मुखप्रसादः, संप्रश्नेष्वादरः,प्रियवस्तुस्मरणं,परोक्षे गुणग्रहणं, तत्परिवारस्य तदनुनयवृत्तिः इति अनुरक्तलिङ्गानि ।
5. श्रुतिसुखत्वं अपूर्वाविरुद्धार्थातिशययुक्तत्वं उभयालङ्कारसंपन्नत्वंअन्यूनाधिकवचनत्वं अभिव्यक्तान्वयत्वमिति काव्यस्य गुणाः ।
6. अतिपरुषवचनविन्यासत्वं अनन्वितगतार्थत्वं दुर्बोधानुपपन्नपदोपन्यासत्वं अयथार्थयतिविन्यासत्वं अमिधानाभिधेयातिशयशून्यत्वं इति काव्यस्य दोषाः ।
7. वचनकविः अर्थकविः उभयकविः चित्रकविः वर्णकविः दुष्करकविः अरोचकी सतुषाभ्यवहारी च-इत्यष्टौ कवयः ।
8. मनःप्रसादः, कलासु कौशलं, सुखेन चतुर्वर्गविषया व्युत्पत्तिः,आसंसारं च यशः, निगूढसत्संस्कारोद्बोधश्च इति कविसंग्रहस्यफलम् ।
9. आलापशुद्धिः माधुर्यातिशयः प्रयोगसौन्दर्यवैदग्ध्ये अतीवमसृणता स्थानकम्पितकुह ( का ) रितादिभावः रागान्तरसङ्क्रान्तिःपरिगृहीतरागनिर्वाहः सहृदयहृदयग्राहिता स्वास्थ्यजननंचेति गीतस्य गुणाः ।
10. समत्वं तालानुयायित्वं गेयाभिनयानुगतत्वं श्लक्ष्णत्वं प्रव्यक्तयतिप्रयोगत्वं श्रुतिसुखावहत्वं च - इति वाद्यस्य गुणाः ।
11.दृष्टिहस्तपादक्रियासु समसमायोगः सङ्गीतकानुगतत्वं सुश्लिष्टललिताभिनयाङ्गहारप्रयोगभावः रसभाववृत्तिलावण्यभावः- इति नृत्यगुणाः ।
12. स खलु महान्, यः खल्वार्तोऽपि न दुर्वचनं ब्रूते !
13. स किं गृहाश्रमी ? यत्राऽऽगत्य अर्थिनो न भवन्ति कृतार्थाः ।
14. ऋणग्रहणेन धर्मः सुखंसेवा वणिज्या च आयतिहीनवृत्तीनांतादात्विकानाम् ।
15. द्रव्यं विद्यमानमर्थिभ्यो देयं, नाविद्यमानम् ।
16. ऋणदातुरासन्नंफलं - परोपास्तिः कलहः परिभवः प्रस्तावेऽर्थालाभश्च ।
17. अदातुस्तावत् स्नेहः सौजन्यं प्रियभाषणं साधुता च यावन्नार्थावाप्तिः ।
18. तदसत्यमपि नासत्यं, यत्र न सम्भाव्याऽर्थहानिः ।
19. प्राणवधे संप्राप्ते नास्ति कश्चिदसत्यवादः । ( प्राणावधिर्नास्तिकस्यासत्यवादः ।)
20. अर्थीय मातरमपि लोको हिनस्ति ! किं पुनरसत्यं न भाषते ?
21. सत्कलासत्योपासनं हि विवाहकर्म, दैवायत्तस्तु वधूवरयोःनिर्वाहः ।
22. रतिकाले तन्नास्ति, यन्न कामार्तो ब्रूते पुमान् ; न चैतत्प्रमाणम् ।
23. तावत् स्त्रीपुरुषयोः परस्परं प्रीतिः, यावन्न प्रातिलोम्यं कलहोरतिकैतवं च ।
24. तादात्विकबलस्य कुतो रणे जयः, प्राणार्थस्त्रीषु कल्याणं वा ?
25. तावत्सर्वः सर्वस्थानुनयवृत्तिपरः, यावन्न भवति कृतार्थः ।
26. सहसम्भवो देहोऽपि नामुत्र सहानुयायी, किं पुनरन्यः ?
27. अशुभस्य कालहरणमेव प्रतीकारः ।
28.पक्वान्नादिव स्त्रीजनात् देहतापोपशान्तिरेव प्रयोजनं; किं तत्रानुरागविरागाभ्याम् ?
29. तृणेनापि प्रयोजनमस्ति, किं पुमर्न पाणिपादवता मनुष्येण ?
30. न कस्यापि लेखमवमन्येत; लेखप्रधाना हि राजानः ! तन्मूलत्वात्सन्धिविग्रहयोः सकलस्य राज्यव्यापारस्य च ।
31. पुष्पयुद्धमपि नीतिविदो नेच्छन्ति, किं पुनश्शस्त्रयुद्धम् ?
32. स प्रभुः, यः बहून् बिभर्ति ।
33. किमर्जुनतरोः फलसम्पदा ? या न भवति परेषामुपभोग्या ।
34. स त्यागी, यः मार्गपादप इव सर्वेषां सहते सम्बाधम् ।
35. पर्वता इव राजानः केचन दूरतः सुन्दराः ।
36. लोकवार्तामात्ररमणीयाः प्रायशः सर्वेऽपि देशाः ।
37. अधनस्य अबान्धवस्य च जनस्य मनुजपूरितापि भूमिर्महाटवी ।
38. श्रीमतो ह्यरण्यान्यपि राजधानी !
39. सर्वस्याप्यासन्नविनाशस्य भवति मतिः प्रायेण विपर्यस्ता ।
40. पुण्यवतः पुरुषस्य न क्वचिदप्यस्ति दौःस्थ्यम् ।
41. दैवमनुकूलं चेत् का वा सम्पदो न करोति, न विघटयति वा विपदः ?
42. असूयकः पिशुनः कृतघ्नः दीर्घरोषणः - इति कर्मचण्डालाः ।
43. औरसः क्षेत्रजः दत्तः कृत्रिमः गूढोत्पन्नः अपविद्धः इति षट्पुत्राः दायादाः पिण्डदाश्च ।
44. कानीनः सहोढःक्रीतः पौनर्भवः स्वयंदत्तः शौद्रश्च - इति षट्पुत्राःन दायादाः नापि पिण्डदाश्च ।
45. देशकालकुलापत्यस्त्रीसमयापेक्षः दायादविभागः अन्यत्र यतिराजकुलाभ्याम्, तत्र ह्येक एव भवति तत्पदार्हः।
46. अतिपरिचयः कस्यावज्ञां न जनयति ?
47. भृत्यापराधे स्वामिनो दण्डः, यदि तं भृत्यं न मुञ्चति ।
48. अलं तस्य महत्तया समुद्रस्येव, यः लघु शिरसा वहति, अधस्ताच्चनयति गुरुम् ।
49. रतिमन्त्रहोमाहारकालेषु न कमप्युपसेवेत ।
50. सुष्ठुपरिचितेष्वपि तिर्यक्षु विश्वासं न गच्छेत्।
51. मत्तवारणारोहिणः जीवितव्ये सन्देहः, निश्चितश्चापायः ।
52. अत्यर्थं हयविनोदः अङ्गभङ्गमनापाद्य न तिष्ठति ।
53. ऋणमददानो दासकर्मणा निर्हरेत्, अन्यत्र ब्राह्मणयति(क्षत्रिये)भ्यः ।
54. तस्यात्मदेह एव वैरी ! यो यस्य यथालाभमशनं शयनं च न सहते ।
55. तस्य किमसाध्यं नाम ? यो महामुनिरिव सर्वान्नीनः सर्वक्लेशसहःसर्वत्र सुखशायी च ।
56. स्त्रीप्रीतिरिव कस्य नामेयं स्थिरा लक्ष्मीः ?
57.परपैशुन्योपायेनैव प्रायेण राज्ञो वल्लभो भवति लोकः ।
58. परापवादेनारमोत्कर्षं मन्यते नीचः ।
59. न खल्वन्यपरमाणूनामल्पत्वेन मेरुर्महान् भवति, किन्तु स्वगुणेन ।
60. न खलु निर्निमित्तं महान्तो भवन्ति कलुषितमनीषाः !
61. स खलु वह्नेप्रभावः, यत् प्रकृत्या शीतलमपि जलं भवत्युष्णम् !
62. सुचिरस्थायिनं कार्यार्थी वा साधूपचरेत् ।
63. स्थितैः सहार्थोपचारेण व्यवहारं न कुर्यात् ।
64. सत्पुरुषपुरश्चारितया शुभमशुभं वा कुर्वतः नास्त्यपवादः प्राणव्यापादो वा, समयेषु परं संभवी नीतिवादः ।
65. सम्पत् सम्पदमनुबध्नाति, विपञ्च विपदम् ।
66.को नाम दुग्धार्थीव, कार्यार्थी, गोरिव परस्याचारं विचारयति ?
67. शास्त्रविदः स्त्रियश्चानुभूतगुणाः परमात्मानं रञ्जयन्ति ।
68.चित्रगतमपि राजानं नावमन्येत, क्षात्रं हि तेजो महत् सत्पुरुषदेवतास्वरूपेण तिष्ठति !
69.कार्यमारभ्य पर्यालोचनं शिरोमुण्डनमनु नक्षत्रप्रश्न इव ।
70. ऋणशेषाद्रिपुशेषादिव अवश्यं भवत्यायत्यां भयम् ।
71.नवः सेवकः को नाम न भवति विनीतः भीतो वा ? यथाप्रतिज्ञंनिर्वाहस्तु दुर्लभः ।
72.अप्राप्तेऽर्थे भवति सर्वोऽपि त्यागी, प्राप्ते तु स एवान्यः परिणमति ।
73.अर्थी न परेषु नीचैराचरणादुद्विजेत, किं नाधो व्रजति कूपेजलार्थी ?
74. स्वामिनोपहतस्य तदाराधनमेव निर्वृतिहेतुः ।
75. दैवेनोपहतस्य दैवाराधनमेव निर्वृतिहेतुः ।
76.जनन्या कृतविप्रियस्यापि बालस्य जनन्येव हि भवति जीवितव्यकारणम् !
77.सारतः सर्वोऽपि सर्वास्वप्यवस्थासु नीतिपथमात्मपथंच न विस्मरेत्, तदध्वनीनश्च भवेत् ।
78. जयन्त्वेवं धर्मसम्पसमृद्धाः राजानः प्रजाश्च भारतीयाः !
इति प्रकीर्णकसमुद्धेशः
इति सोमदेवीयानि राजनीति सूत्राणि
-
*
॥ जयश्रीः ! ॥
कौटलीये अर्थशास्त्रे प्रसङ्गेषूपन्यस्तानां
सुभाषितानां सङ्ग्रहः
-
*
१. आत्मवत्तासम्पादनावश्यकता, तदुपायाः,
अनात्मवतां सम्भविनो
दुष्परिणामाश्च.
1. श्रुताद्धि प्रज्ञोपजायते, प्रज्ञया योगः, योगादात्मवत्ता । (*11-2)
2. रक्षेदात्मानमात्मवान् । (48-18 )
3. रक्ष्यः स्वेभ्यः परेभ्यश्च नित्यमात्मा विपश्चिता । (369-11)
4. आत्मरक्षा हि सततं पूर्वंकार्या विजानता । अग्नाविव हिसंप्रोक्ता वृत्ती राजोपजीविनाम् । (262-9)
5.सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान् नृपः ।विवृद्वाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्सवान् । ( 273 - 10 )
6.नृपो हि दुष्टप्रकृतिः चातुरन्तोऽप्यनात्मवान् । हन्यते वा प्रकृतिभिःयाति वा द्विषतां वशम् ।( 273–12)
7.आत्मवांस्त्वल्पदेशोऽपि युक्तःप्रकृतिसम्पदा । नयज्ञः पृथिवींभुङ्क्ते जयत्येव न हीयते । ( 273- 14 )
8. लोकयात्रावित् राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत । ( 260-24)
9. द्रव्यप्रकृतिहीनमप्याश्रयेत, न त्वेवानात्मसम्पन्नम् । अनात्मवान्हि नीतिशास्त्रविद्वेषादनर्थ्यसंयोगाद्वा प्राप्यापि महदैश्वर्यं नभवति । (261 - 1)
10.पक्वंपक्वमिवारामात् फलं राज्यादवाप्नुयात् आत्मच्छेदभयादामं वर्जयेत् कोपकारकम् । (257-26)
11. शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुम् । (275-22)
12. नार्हत्यात्मक्षयेण मित्रमुखानमित्रान् वर्धयितुम् । (321-1)
___________________________________________________________
* सूचना —— अनयोराधः पुटाङ्कः, द्वितीयः पङ्क्त्यङ्क्तःइति शेयम् एवमग्रेऽपि.**
२. उपदेशस्य शिष्यार्हतानुगुण्यावश्यकता.
1. क्रिया द्रव्यं हि विनयति, नाद्रव्यम् । (10–6 )
2. शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वामिनिविष्टबुद्धिं विद्याविनयति नेतरम् । (10-7)
3. नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत्तदाचूषति, एवमयंनवबुद्धिः यद्यदुच्येत तत्तच्छास्त्रोपदेशमिवाभिजानाति ।(36-20)
-
*
३. विद्यास्वरूपहेतुफलानि, अविद्यावतां
सम्भविनोऽनर्थाश्च.
1. ताभिर्धर्मार्थौयद्विद्यात् तद्विद्यानां विद्यात्वम् । (6 - 16 )
2. विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः पूज्याः । (208 -11)
3.मन्त्रशक्तिहीनः प्राज्ञपुरुषोपचयं विद्यावृद्धिसंयोगं वा कुर्वीत ।तथा हि सद्यः श्रेयः प्राप्नोति । (322-7).
4. विक्रमाधिकोऽपि हस्तिनमिव लुब्धकः प्राज्ञः शूरमतिसन्धत्ते ।(329-13)
5.एकं हन्यान्नवा हन्यादिषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिःक्षिप्ता हन्यात् गर्भगतानपि । (401-18)
6.नित्यश्चास्य विद्यावृद्धसंयोगःविनयवृद्ध्यर्थम्, तन्मूलत्वाद्विनयस्य । ( 10-14 )
7. विद्यानां तु यथास्वमाचार्यप्रामाण्याद्विनयो नियमश्च । ( 10-8)
8. विद्याविनीतो राजा हि प्रजानां विनये रतः । अनन्यां पृथिवींभुङ्क्ते सर्वभूतहिते रतः । ( 11-4)
9. संवरणमात्रं हि त्रयी लोकयात्राविदः इति बार्हस्पत्याः(6-12)
10. व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः । त्रय्या हि रक्षितोलोकः प्रसीदति न सीदति । ( 8 - 17 )
11. धर्माधर्मौत्रय्यां, अर्थानर्थौवार्तायां, नयापनयौ दण्डनीत्यां,एतासां बलाबले हेतुमिरन्वीक्षमाणा आन्वीक्षिकी लोकस्योपकरोति, व्यसने अभ्युदये च बुद्धिमवस्थापयनि, प्रज्ञावाक्यक्रियावैशारद्यंच करोति । ( 7-4)
12. प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयस्सर्वधर्माणांशश्वदान्वीक्षिकी मता । ( 7-7)
13. यथा मदान्धो हस्ती मत्तेनाधिष्ठितः यद्यदासादयति तत्सर्वंप्रमृद्गाति एवमयमशास्त्रचक्षुरन्धो राजा अन्धेन मन्त्रिणाधिष्ठितः । (27-14)
14. काष्ठमिव हि घुणजग्धं राजकुलं अविनीतमभियुक्तमात्रं भज्यते ।(36-8)
15. महादोषमबुद्धबोधनम् । (36-20 )
16. यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुमर्हति । एवमश्रुतशास्त्रार्थःन मन्त्रं श्रोतुमर्हति । ( 32-4 )
17. अशास्त्रचक्षुरन्धः यत्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वाभवति । (343- 11 )
18. अविद्याविनयः पुरुषव्यसन हेतुः । अविनीतो हि व्यसनदोषान् नपश्यति । (344-20)
19. कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः । ( 11-12)
20. शास्त्राविददृष्टकर्मा कर्मसु विषादं गच्छेत् । (14-15 ) कार्यसामथ्यार्द्धि पुरुषसामर्थ्यं कल्प्यते । ( 14-21 )
21. ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् । जयत्यजितमत्यन्तं शास्त्रानुगमशस्त्रितम् । ( 16- 7 )
22. श्रुताद्धि प्रज्ञोपजायते, प्रज्ञया योगः, योगादात्मवत्ता - - इतिविद्यासामर्थ्यम् (11-2 )
23. एवं शास्त्रमिदं युक्तं एताभिः तन्त्रयुक्तिभिः। अवाप्तौ पालने चोक्तंलोकस्यास्य परस्य च । (461-27)
24. धर्ममर्थ च कामं च प्रवर्तयति पाति च। अधर्मानर्थविद्वेषानिदंशास्त्र निहन्ति च । (161-29)
-
*
४.अरिषड्वर्गस्वरूपहेतु दुष्फलानि,
तत्परिहारावश्यकता च.
1.कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः । तद्विरुद्धवृत्तिः अवश्येन्द्रियःचातुरन्तोऽपि राजा सद्यो विनश्यति । ( 11 - 16)
2.प्रायश्च कोपवशाः राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयव्यसननिमित्तमरिव्याधिभिः । (345-2)
3. सुमहताप्यर्थेन न कश्चन शरीरविनाशमिच्छेत् । (346-1 )
4. सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः,कृच्छ्रे च प्रतिपृष्टः कुप्यति । (346-17)
5. तस्मात् कोपं च कामं च व्यसनारम्भमात्मवान् । परित्यजेन्मूलहरं वृद्धसेवी जितेन्द्रियः । (347-18 )
6. यतो निमित्तं व्यसनं प्रकृतीनामवाप्नुयात् । प्रागेव प्रतिकुर्वीततन्निमित्तमतन्द्रितः । (355-10)
7. पराक्रमो हि व्यसनमपहन्ति । (409-9)
8. षड्वर्गवशगा बहवो राजानो विनष्टाः । तेषामनात्मवतां नार्हतिमार्गमनुगन्तुम् । धर्ममर्थं चावेक्षस्व । ( 411-5)
9. सर्वेषामपि हि स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्था समवायो वा विवादपदानामन्यतमं वा रोषस्थानं,रोषनिमित्तो घातः । (229-3)
10. राज्यकारणाद्धि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग ! पुनरमात्यप्रकृतिः ? (266-14)
11. लध्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति । (294 - 1 )
12. आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति । (288-21)
13. बलं हि चित्तं विकरोति । ( 321-4)
14. श्ववराहयोः कलहे अन्यतरसिद्धिश्चण्डालस्य । ( 363-25)
15. यत् प्रसह्य हरेदन्यः तत् प्रयच्छेदुपायतः । रक्षेत् स्वदेहं न धनंका ह्यनित्ये धने दया ? ( 410 - 21 )
16. मर्यादां स्थापयेदाचार्यान् अमात्यांश्च य एनमपायस्थानेभ्योवारयेयुः । ( 13-5)
17. नार्हत्यात्मक्षयेण मित्रमुखानमित्रान् वर्धयितुम् । (32-1)
-
*
५. धर्मादिकृत्स्नपुरुषार्थसम्पादनरक्षणाद्यावश्यकता,
तेषु प्राबल्यदौर्बल्यादिविमर्शश्च,
1. स्वधर्मः स्वर्गायानन्त्याय च तस्यातिक्रमे लोकः सङ्करादुच्छिद्येत । (8-12 )
2.एष त्रयीधर्मः चतुर्णांवर्णानां आश्रमाणां च स्वधर्मस्थापनादौपकारिकः । ( 7 - 15 )
3. स्वधर्म संदधानो हि प्रेत्य चेह च नन्दति । ( 8-16)
4. राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा । (162-14)
5. चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । नश्यतां सर्वधर्माणांराजा धर्मप्रवर्तकः । (162-5)
6. अनुशासद्धि धर्मेण व्यवहारेण संस्थया।न्यायेन च चतुर्थेनचतुरन्तां महीं जयेत् । (162-20 )
7. धर्मो ह्यधर्मोपहतः शास्तारं हन्त्युपेक्षितः ।( 200 - 10 )
8. जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत (435- 3 )
9. चरित्रमकृतं धर्म्यंकृतं चान्यैः प्रवर्तयेत् । प्रवर्तयेन्नचाधर्म्यं कृतंचान्यैर्निवर्तयेत् । (436–19)
10. उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च । प्रकृतीनां क्षयो लोभः वैराग्यं वोपजायते ।(295-3)
11. धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । विवादार्थश्चतुष्पादःपश्चिमः पूर्वबाधकः । (162-9)
12. अत्र सत्ये स्थितो धर्मः व्यवहारस्तु साक्षिषु । चरित्रं संग्रहेपुंसां राज्ञामाज्ञा तु शासनम् । (162-11)
13. संस्थया धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । यस्मिन्नर्थे विरुद्ध्येतधर्मेणार्थं विनिश्चयेत् । (163 - 3 )
14. शास्त्रं विप्रतिपद्येत धर्मन्यायेन केनचित् । न्यायस्तत्र प्रमाणंस्यात् तत्र पाठो हि नश्यति । (163-5)
15. धर्ममर्थं चोपदिशेत्, धर्मं अनर्थं च । (37-1)
16. न धर्मार्थौपीडयेत् । (258-7)
17. मतिकर्मसु पृष्टो हि तदात्वे आयत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवत् अपरिषद्भीरुः कथयेत् । ( 261-7)
18. मित्रमुखा ह्यमित्रास्ते, ये साहसमधर्ममर्थातिक्रमं च ग्राहयन्ति । ( 411 - 7 )
19. अमोक्षो हि धर्मविवाहानाम् ।( 167-12 )
20. तीर्थोपरोधो हि धर्मवधः । ( 170-10)
21. आपदर्थं हि स्त्रीधनम्। ( 165 -5)
22. अर्थो धर्म कामः इति पूर्वः पूर्वः श्रेयानुपसंप्राप्तुम् ।अनर्थोऽधर्मः शोक इति पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ।(381-5)
23. कोशपूर्वाः सर्वारम्भा \। (74-23)
24. धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा या अर्थस्यसिद्धिः सा सर्वार्थसिद्धिः । (381-27)
25. अल्पकोशो हि राजा पौरजानपदानेव ग्रसते । (51- 7 )
26. नाधनाः प्राप्नुवन्त्यर्थान् नरा यत्नशतैरपि । अर्थैरर्थाः प्रबध्यन्तेगजाः प्रतिगजैरिव । ( 371-16 )
27. क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवति । (432-26)
28. अर्थ एव प्रधान इति कौटल्यः ; अर्थमूलौ हि ! धर्मकामाविति। (13-1)
29. जित्वाऽपि हि क्षीणदण्डकोशः पराजितो भवति । ( 319-10 )
30. अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च । प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम्। ( 42 - 17 )
31. धर्मार्थाविरोधेन कामं सेवेत, न निःसुखः स्यात् समं वा त्रिवर्गमन्योन्यानुबन्धम् । एको ह्यत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीडयति । (12-22 )
32. न च अकामः पुरुषोऽस्ति । ( 165-25)
33. नक्षत्रमतिपृच्छन्तं बालमर्थोऽतिवर्तते । अर्थो ह्यर्थस्य नक्षत्रं किंकरिष्यन्ति तारकाः ? (371-13)
34. आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते । पृथिवी कोशदण्डाभ्यप्राप्यते कोशभूषणा । (95-12 )
-
*
६. राज्ञां तत्प्रकृतीनां च परस्परं
नीत्या वर्तनक्रमः.
1.प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः । ( 15-18 )
2.दुर्दर्शो हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते ! (41–20)
3.सर्वमात्ययिकं कार्यंशृणुयान्नातिपातयेत् । कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वा विजायते । ( 42 - 5 )
4.प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नात्मप्रियं हितंराज्ञः प्रजानां तु प्रियं हितम् । ( 42-15 )
5. न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्।बालस्याप्यर्थषद्वाक्यमुपयुञ्जीत पण्डितः । (29-24)
6.न दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् । कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् । (18-16)
7. कृता च कलुषा बुद्धिः नागत्वान्तं निवर्तेत स्थिता सत्ववतां धृतौ।(18-18)
8. यत् प्रसह्य हरेदन्यः तत प्रयच्छेदुपायतः । ( 410 - 21 )
9. स्वयमुपस्थितं नावमन्येत, स्वयमारूढा हि स्त्री त्यज्यमानाभिशपतीति लोकप्रवादः । (266-16)
10. पुनरावर्तमानस्य निराशस्य च जीविते । अधार्यो जायते वेगःतस्माद्भग्नं न पीडयेत् । (392-20)
11. शासनप्रधाना हि राजानः ।( 80-9)
12. यावद्भयो गुह्यमाचष्टे नरेभ्यः पुरुषाधिपः ।अवशः कर्मणा तेनवश्यो भवति तावताम् । ( 14-1 )
13. नास्य गुह्यं परे विद्युः छिद्रं विद्यात् परस्य च । गृहेत् कूर्मइवाङ्गानि यत् स्याद्विवृतमात्मनः । ( 32-2)
14. यथा लीनस्सर्पः यस्माद्भयं पश्यति तत्र विषमुत्सृजति एवमयंराजापि जातदोषाशङ्कः क्रोधविषमुत्सृजति । (27-19)
15. यथा श्वगणिनां धेनुः श्वभ्यो दुग्धे न ब्राह्मणेभ्यः, एवमयंराजाऽपि सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुग्धे नात्मगुणसम्पनेभ्यः । (28-1)
16. यथा चण्डालोदपानः चण्डालानामेवोपभोग्यः नान्येषां, एवमयं राजा नीचानामेवोपभोग्यः नार्याणाम् । (28-6)
17. दूतमुखा वै राजानः तस्मादुद्धृतेष्वपि शस्त्रेषु यथोक्तं वक्तारः । तेषामन्तावसायिनोऽप्यवध्याः, किमङ्ग ! पुनर्ब्राह्मणाः ? (33-8)
18. अपराधं सहेताल्पं तृप्येदल्वेऽपि चोदये । (74-15)
19. एकदेशं दहेदग्निः शरीरं वा परं गतः । सपुत्रदारं राजा तु घातयेद्वर्धयेत वा । (262-11)
20. वितंसगिलवत् विश्वासेनामिषेण चारीन् हन्यात् । ( 377-13)
21. सर्वत्रानुप्रणतो हि कुलैडक इव निराशो जीविते वसति । युद्धयमानश्चाल्पसैन्यः समुद्रमिवाप्लवोऽवगाहमानःसीदति ।(409-11)
22. तादृशाः तादृशैरेव बोद्धव्याः । ( 25 - 17 )
23. बालिशजातीयो ह्येष जेनुकामः पराजयं नक्षमते ।(206-17)
24. विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः पूज्याः । (208-11 )
25. जायते प्लक्षबीजाशात् कपोतादिव शाल्मलेः । उद्वेगजननो नित्यंपश्चादपि भयावहः । (300-24 )
26. स्वयं यच्छीलः तच्छीलाः प्रकृतयो भवन्ति । (340-7)
27. इन्द्रयमस्थानमेतत् राजानः प्रत्यक्षहेडप्रसादाः, तानवमन्यमानंदैवोऽपि दण्डः स्पृशति । ( 25 - 1 )
28. यतोनिमित्तं व्यसनं प्रकृतीनामवाप्नुयात् । प्रागेव प्रतिकुर्वीततन्निमित्तमतन्द्रितः (355-10)
29. विशिष्टादल्पमप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् । (297-5)
30. कृतप्रणाशः शक्तिहानिः विद्यापण्यत्वं आशुनिर्वेदः देशलौल्यंअविश्वासः बलवद्विग्रहो वा परित्यागस्थानम्। (309-7)
31. यतः श्रेयस्ततो व्रजेत् । (303-27)
32. गुरुव्यसनं न्यायवृत्तिमभियुक्तं प्रकृतयोऽनुगृह्णन्ति । ( 294-11)
33. क्षीणलुब्धा हि प्रकृतयः सुखेनोपजापं पीडां वोपगच्छन्ति ।(294-17)
34. क्षीणलुब्धा हि प्रकृतयः भर्तरि स्निग्धाः भर्तृहिते तिष्ठन्ति उपजापं वा विसंवादयन्ति । (294-19)
35. अवक्षेपेण हि सतां असतां प्रग्रहेण च । अभूतानां च हिंसानामधर्माणां प्रवर्तनैः । उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च । अकार्याणांच करणैःकार्याणां च प्रणाशनैः । अप्रदानैश्च देयानां अदेयानां चसाधनैः । अदण्डनैश्च दण्ड्यानां दण्ड्यानां चण्डदण्डनैः ।अग्राह्याणामुपग्राहैः ग्राह्याणां चानभिग्रहैः । अनर्थ्यानां चकरणैः अर्थ्यानां च विघातनैः । अरक्षणैश्च चोरेभ्यः स्वयं चपरिपोषणैः । पातैः पुरुषकाराणांकर्मणां गुणदूषणैः ।उपघातैः प्रधानानां मान्यानां चावमाननैः । विरोधनैश्च वृद्धानांवैषम्येणानृतेन च । कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन च । प्रकृतीनां क्षयोलोभः वैराग्यं चोपजायते। क्षीणाः प्रकृतयो लोभं लुब्धा यान्तिविरागताम् । विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वास्वयम् । (295 - 3)
36.न ह्यजनो जनपदः, अजनपदं वा राज्यं भवति । ( 431 - 16 )
37. शक्यारम्भी विषह्यं कर्मारभेत, कल्यारम्भी निर्दोष, भव्यारम्भीकल्याणोदयम् । स्थिरकर्मा नासमाप्य कर्मोपरमते, अनुरक्तप्रकृतिः ससहायत्वात् अल्पेनाप्यनुग्रहेण कार्यं साधयति ।त एते कृतार्थाः सुखेन प्रभूतं चोपकुर्वन्ति । (305-3)
38. पुरुषवद्धि राज्यम् अपुरुषा गौर्वन्ध्येव किं दुहीत ? (313-21)
39. समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात् । विगृहीतो हिज्यायसा हस्तिना पादयुद्धमिवाभ्युपैति । समेन च आमं पात्रमामेनाहतमिव उभयतः क्षयं करोति । कुम्भेनेवाश्मा हीनेनैकान्तसिद्धिमवाप्नोति । (288-12 )
40. तेजो हि सन्धानकारणम् ! नातप्तं लोहं लोहेन सन्धीयते ।(288-19)
41. अवश्यमपि हि शक्यं सामादिभिर्वश्यं कर्तुम् । (307-22 )
42. इन्द्रस्य हि स प्रणमति, यो बलीयसो नमति । (409-8)
७. मन्त्रिणः, मन्त्रालोचनप्रकाराश्च.
1. इन्द्रस्य हि मन्त्रिपरिषदृषीणांसहस्रं, स तच्चक्षुः तस्मादिमंद्व्यक्षं सहस्त्राक्षमाहुः । (31-20)
2. सहायसाध्यं राजस्वं चक्रमेकं न वर्तते । (13-7)
3. ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् । जयत्यजितमत्यन्तम् । (16 - 7 )
4. यथामदान्धो हस्ती मत्तेनाधिष्ठितः यद्यदासादयति तत्सर्वंप्रमृद्गाति, एवमयमशास्त्रचक्षुरन्धो राजा अन्धेन मन्त्रिणाधिष्ठितः ।(27-14)
5. राज्यकारणाद्धि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग !पुनरमात्यप्रकृतिः ? (266-14)
6. न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम् । बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः । (29-24)
7. प्रमादमदसुप्तप्रलापकामादिरुत्सेकः प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति । ( 29-9 )
8. मन्त्रभेदो ह्ययोगक्षेमकरः राज्ञः तदायत्तपुरुषाणां च । (29-14)
9. कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यास इङ्गिताकाराभ्यां हिमन्त्रसंवरणार्थमा चरन्ति प्राज्ञाः । (2633)
10. असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । निस्संशयं विपद्यन्तेमिनप्लवइवोदधौ । ( 320-13 )
-
*
८. दण्डमहिमा.
1. न ह्येवं विधं वशोपनयनमस्ति भूतानां यथा दण्डः ! ( 9 - 12 )
2. तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः, मृदुदण्डः परिभूयते, यथार्हदण्डः पूज्यः । (9-15 )
3. सुविज्ञातप्रणीतो हि दण्डः प्रजाः धर्मार्थकामैर्योजयति, दुष्प्रणीतस्तु कामक्रोधाभ्यामज्ञानाद्वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग ! पुनः गृहस्थान् ? ( 9 - 16 )
4. अप्रणीतो हि दण्डः मात्स्यन्यायमुद्भावयति । बलीयानबलं हिग्रसते दण्डधराभावे ! (9-19 )
5. चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः । स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ( वेश्मसु ) । ( 16 - 116 )
6. विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः । ( 19 - J4)
7. नवास्तु यमस्थाने दण्डधरं मन्यमानाःनापराध्यन्ति ।(16 - N 15)
8. +दण्डकरा राजानः हि प्रजानां किल्बिषं हरन्ति, योगक्षेमवहाश्चभवन्ति । (24-17)
9.दण्डो हि केवलं लोकं परं चेमं च रक्षति । राज्ञा पुत्रे च शत्रौच यथादोषं समं धृतः । (162-16)
10. शास्ता हि वरुणो राजा मिथ्यां व्याचरतां नृषु । ( 246-16)
11. तमेव हि प्रत्यावृत्तो ग्रसते । (292-5)
12. दोषशुद्धौ हि दूष्या न विद्यन्ते । दूष्यशुद्धौ हि दोषः पुनरम्यान्दूषयति ! (373-3).
-
*
९. विश्वास्याः अविश्वास्याश्च.
1. समाः सर्वेषु भावेषु विश्वास्याः लोकसंप्रियाः । (208-12)
2. प्रियो यस्य भवेद्यो वाऽप्रियोऽस्य कतरस्तयोः ? (288-1)
3. अभ्युच्चितश्चाविश्वास्यः ; ‘ऋद्धिर्हि चित्तविकारिणी’ ! (297-4)
4. आपद्धिसौहृदस्थैर्यमुत्पादयति ! (307-2)
5. उपकारलक्षणं मित्रम् \। ( 307-8)
6. अविश्वास्यो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च । तस्मात् समानशीलवेषभाषाचारतामुपगच्छेत् । ( 436-19)
7. + सहाध्यायिनः विश्वास्या अपि सह क्रीडितत्वात् परिभवन्ति(16M 19 )
8. +गुह्यसधर्माणो हि समानशीलव्यसनत्वान्मर्मज्ञभयान्नापराध्यन्ति । ( 16 M 20 )
9. +सगन्धा ह्येनमपचरन्तमपि न त्यजन्ति । अमानुषेष्वपि चैतदृश्यते – गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति । (16 - N 11)
10. +सगन्धा ह्यस्य सर्वमवगृह्य स्वामिवत्प्रचरन्ति । ( 16 - N 14 )
-
*
१०. वाक्प्रयोगविधयः.
1. अहीनकालं राजार्थं स्वार्थं प्रियहितैस्सह । परार्थं देशकाले चब्रूयाद्धर्मार्थसंहितम् । (261-23)
2.मतिकर्मसु पृष्टोहि तदात्वे आयत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवत् अपरिषद्भीरुः कथयेत् । ( 261 - 7 )
3. पृष्टः प्रियहितं ब्रूयात् न ब्रूयादहितं प्रियम् । अप्रियं वा हितंब्रूयात् शृण्वतोऽनुमतो मिथः । (261-25)
4. तूष्णीं वा प्रतिवाक्ये स्यात् द्वेष्यादींश्च न वर्णयेत् । अप्रियाअपि दक्षास्स्युः तद्भावाये बहिष्कृताः । अनर्थ्याश्च प्रियादृष्टाः चित्तज्ञानानुवर्तिनः । ( 262-1 )
5. अभिहास्येष्वभिहसेत् घोरहासांश्च वर्जयेत् । परात् संक्रामयेत् घोरं न च घोरं स्वयं वदेत् । तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः । (262-4)
6. परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ! (345-19 )
7. दुरुक्तं शल्यं हृदि निखातं तेजस्सन्दीपनं इन्द्रियोपतापि चभवति (345–19).
-
*
११. आर्याः ब्राह्मणाः.
1. सर्वापराधेष्वपीडनीयो हि ब्राह्मणः । (232-10)
2. प्रणिपातेन ब्राह्मणबलं परोऽभिहारयेत् । (365-5)
**3. ब्राह्मणेनैधितं क्षत्रं जयत्यजितमत्यन्तम् । ( 16 P - 8 ). **
4.दूतमुखा वैराजानः, तस्मादुद्धृतेष्वपि शस्त्रेषु यथोक्तं वक्तारः ।तेषामन्तावसायिनोऽध्यवध्याः किमङ्ग ! पुनः ब्राह्मणाः ?(33-8)
5. नत्वेवार्यस्य दासभावः ।(191-8)
-
*
१२. युद्धप्रशंसा.
1. यान् यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति ।क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ।(391-3)
2. नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् ।तत्तस्य माभून्नरकं च गच्छेत् यो भर्तृपिण्डस्य कृते न युध्येत् ।(391-7)
3. सामान्या हि पथि सिद्धिश्वासिद्धिश्च । (195-2)
-
*
१३. पुत्राः कीदृशाः भवेयुः ?
1.कर्कटकसधर्माणो हि जनकभक्षाः राजपुत्राः !(35 - 9 )
2.सुखोपरुद्धाः हि पुत्राः पितरं नामिद्रुह्यन्ति !(36-5)
3.राज्यकारणाद्धि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति(266-14)
4.अनीश्वरा हि पितृमन्तः पुत्राः ! ( 171-5)
-
*
१४. सङ्घः कीदृशः भवेत् ?
1. अनेक मुख्यं हि परस्परभयात् परोपजापं नोपैति ! (64-7)
2. सहस्त्रेषु हि मुख्यो भवत्येको न वा (348-14 )
3. सङ्घाः हि संहतत्वादधृष्याः परेषाम् ।( 403 - 8 )
4. एकस्था हि शस्त्रग्रहणसमर्थाः स्युः ।(404-8)
5. सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिहितः प्रियः । दान्तो युक्तजनस्तिष्ठेत्सर्वचित्तानुवर्तकः ॥ ( 406 - 17 )
-
*
१५. अनृजूनां गतिः कीदृशी ?
1. महत्यर्थापहारे अल्पेनापि सिद्धः सर्वंभजेत । (76-20)
2. यः समुदयं परिहापयति स राजार्थं भक्षयति । (78-8)
3. यः समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति ।(78-9)
4. यः समुदयं व्ययमुपनयति स पुरुषकर्माणि भक्षयति ।(78-11)
5.यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु वा विषं वा ।अर्थस्तथा ह्यर्थचरेण राज्ञः स्वल्पोऽप्यनास्वादयितुं न शक्यः ॥(79-12)
6. मत्स्या यथाऽन्तस्सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।युक्तास्तथा कार्यविधौ नियुक्ताः ज्ञातुं न शक्या धनमाददानाः ॥(79-16)
7.अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः । (79-20)
8. दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया सन्निपातेन चोरवेषशस्त्रभाण्डसामान्येन च गृह्यमाणः, चोरभाण्डस्योपवासेन वा ।(231-3)
9.+ चित्तमनित्यं हि मनुष्याणाम् ! (77-14)
10.अश्वसधर्माणो हि मनुष्याः नियुक्ताः कर्मसु विकुर्वते ।(77-15)
11.अशुचयो हि कारवः । ( 189-24 )
12.प्रायशो हि कितवाः कूटवेदिनः \। (206-19)
-
*
१६. व्यवहारः
1.विवाहपूर्वो हि व्यवहारः । (163-20)
2.ध्रुवं हि साक्षिभिःश्रोतव्यम् । ( 187-2)
3.कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति । (205-6 )
4. न चाभियुक्तेऽभियोगोऽस्ति । ( 161 - 19 )
5. कृतकार्यविनिश्चयो ह्यभियोक्ता, नाभियुक्तः । (161-19)
6. क्षीरघृतभृता हि वत्सानुपहन्युः । (134-15)
7. अविसंवादाद्धि स्थानस्थैर्यमवाप्नोति । (261–6)
8. असारं हि बालप्रातिभाव्यम् ! (185-2)
-
*
१७. अन्यानि कानिचिद्वाक्यानि.
1. हस्तिप्रधानो हि विजयो राज्ञाम् । ( 55-10 )
2. + काष्ठे ह्यग्निरवहितो वसति । (58-5 )
3. चतुष्पदानामपि हि रूपलिङ्गसामान्यं भवति, किमङ्ग ! पुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानाम् ? (226-20 )
4. हस्तिप्रधानो हि परानीकवधः ! (3139)
5. कालश्च सकृदभ्येति नरं वै कालकांक्षिणम् । दुर्लभस्सपुनस्तस्यकालः कर्म चिकीर्षतः ॥ (266-18 )
6. स्थलगतो हि श्वा नक्रंविकर्षति, निम्नगतो नक्रः श्वानम् ।(360-24)
7. दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् । (361-1 )
8परस्परसाधका हि शक्तिदेशकालाः । ( 361-2)
9. शमव्यायामौ योगक्षेमयोर्योनिः । कर्मारम्भाणां योगाराधनःव्यायामः । कर्मफलोपभोगानां क्षेमाराधनः शमः । (223 -22)
10.नदीमातृकं हि स्वाजीवं, अपाश्रयश्चापदि भवति । ( 815-12)
11.+ सर्वसमयवित् आशुग्रन्थः चार्वक्षरः लेखनवाचनसमर्थश्च हिलेखकः स्यात् । (80-10)
12.पुत्रार्था हि स्त्रियः । ( 165-17)
13.कुतो हि साध्वीजनस्य छलम् ? (169-1)
14.महत्यदकाशे हि स्थाल्याश्चानूप्याश्चौषधयो भवन्ति । (312-17 )
15.दैवमानुषं हि कर्म लोकं यापयति । (274-1)
16.अविश्वास्यो ह्यग्निःदैवपीडनं च \। (432-24)
17.आलम्बनाभावे ह्यालम्बिता न विद्यते । ( 374-17
इति अर्थशास्त्रसङ्गृहीतानि सुभाषितानि
-
*
अथ
कौटलीयानां सोमदेवीयानां च राजनीतिसूत्राणां
परिशिष्टम्
-
*
]
-
“1. अधर्मपथा सुखेच्छोः प्रतिक्षणमनोविसंवादादिना उद्वेगभूयिष्ठताया अनिवार्यतया न तस्यैकान्तसुखितेति भावः” ↩︎
-
“2. देवताऽतिथ्यादिप्रीणनरूपस्य धर्मस्य अर्थंविना दुर्लभत्वात्.” ↩︎
-
“3.अजितेन्द्रियस्य रावणादिवल्लब्धराज्यरक्षणमप्यशक्यं हि भवेत्” ↩︎
-
“4. विद्यादिग्रहणेन आत्मनि नम्रतादिसम्पादनम् विनयः अर्धशा. पु. 11 पं 10.” ↩︎
-
“5. अर्थशा पु. 10 . पं 14.” ↩︎
-
“6. प्रयोगजन्य फल संवाददृढीकृतः आवश्यकतत्तच्छामार्थनिश्चयः विज्ञानम् .” ↩︎
-
“7. आत्मगुणसम्पादनं परमपरिशुद्धात्मस्वरूपावलोकनं वा अत्र आत्मसम्पादनम्” ↩︎
-
“8. प्रकृतयः—अमात्यसुहृत्कोशराष्ट्रदुर्गबलानि, तासां सम्पत्–अपेक्षितयवद्गुणपौष्कल्यम्, समृद्धिश्च ; ताम्.” ↩︎
-
“1 अर्थशा. पु. 13, पं. 7.” ↩︎
-
“2. राजालोचितमन्त्र प्रतिद्वंद्विभूतम्.” ↩︎
-
“3. शास्त्रज्ञंधर्मार्थकामभयोपधाभिर्दृष्टशौचं पुरुषं मन्त्रिपदे नियोजयेदित्यर्थः अर्थशा. पु. 18, पं 6.” ↩︎
-
॑# “4. अर्थशा. पु. 28, पं. 22.” ↩︎
-
“5 निःस्रावः–प्रकाशनम्” ↩︎
-
“6. किमुत मन्त्ररक्षणे इति भावः” ↩︎
- ↩︎
-
“2. लाभ रक्षण–वर्धन–सद्विनियोगाः” ↩︎
-
“3. स्वराष्ट्रपरराष्ट्र्र्योः विषये स्वस्वगुणसम्पत्तिमहितैः स्वाम्यादिभिः कर्तृभिः करणैश्च यथायथं पुष्कलमविकलञ्च निर्वाह्ययोः तन्त्रावापयोः राज्यतन्त्रात्मकत्वेऽपि साधनस्वरूप फलदशाभ्यां भेदेन आधीन्यं वर्णितम्.” ↩︎
-
“4.स्वराष्ट्रानुष्ठानं तन्त्रम्, परराष्ट्रानुष्ठानं आवापः” ↩︎
-
“5. राजेतिरञ्जननिमित्तकोऽयं शब्दः. प्रवृत्तिनिमित्त पौष्कल्येन रञ्जनपरिकरगतातिशय निबन्धनतां रञ्जने दर्शयति—नीतीति.” ↩︎
-
“6. सर्वस्य राज्ञःस्वस्वराष्ट्राव्यवहितः अनिशंमर्मविज्ञानप्रहरणचिन्तनपरतया शत्रुर्भवत्येव.” ↩︎
-
“7. एकराज्यव्यवहितो हि मध्यमं स्वतन्त्रमनिच्छन् स्वायत्तं परायत्तं वा चिकीर्षति ; अत एव तदनन्तरे राज्ञि मित्ररूपो भवतीति भावः” ↩︎
-
“8. अर्थशा. पु. 283, पं. 18.” ↩︎
-
“9.अर्थशा. पु. 288, पं. 19.” ↩︎
-
“10 अर्थशा. पु. 288, पं. 12.” ↩︎
-
“अर्थ. पु. 323, पं. 13” ↩︎
-
“अर्थ. पु. 262, पं. 10.” ↩︎
-
“अर्थ. पु. 261,पं. 25” ↩︎
-
“रामकृष्णादिभिरेव कृतस्य मया करणे को दोष इत्यालोच्य नाशास्त्रीयं कर्तुमारभेतेत्यर्थः” ↩︎
-
“एकत्र सन्धिं अन्यत्र विग्रहमिति भावः” ↩︎
-
“अर्थशा. पु. 11, पं. 16.” ↩︎
-
" मृगहननादि पापकृत्यं मृगया. तत्परस्य हि अनवरत प्रवृत्तवधबन्धनेच्छाजिघांसाभिः तत्तदवसरकर्तव्यजातंम् विस्मृतं भवेदिति ." ↩︎
-
“अयं क्षत्रियमात्रधर्मः उक्तं हि ‘असंतुष्टो द्विजो नष्टः सन्तुष्टश्चापि पार्थिवः’ इति,” ↩︎
-
“जीविका.” ↩︎
-
“पूर्णप्रयत्नः सुसहायसम्पत्तिर्वा पुरुषकारः.” ↩︎
-
“अशान्तचित्तस्यअनवहितस्य वा” ↩︎
-
“उपायानुष्ठानप्रकारमित्यादिः” ↩︎
-
“कार्यमध्ये.” ↩︎
-
“आलस्यम्.” ↩︎
-
“दुःखफलं सम्भावितदुषण रिहरबहुविघ्नं च.” ↩︎
-
“घुणादयो हि क्रिमयः यदि यदृच्छया अक्षररेखावदेव काश्चित् रेखाः सृजेयुः तावन्मात्रेण तत् तेषां कौशलं न तत्कर्मणि नियोजनार्हम्.” ↩︎
-
“पूर्वमेव परिशील्य कार्यसम्पादनेन कार्यविपत्त्यनन्तरं संवृत्तदोषवर्णनं मूर्खलक्षणं हि.” ↩︎
-
“अस्थाने सारल्यम्.” ↩︎
-
“ऊधः– गोस्तनम् .” ↩︎
-
“सर्वकार्यविदूरः.” ↩︎
-
“मूलं भागः व्याजी परिधः क्लृप्तं रूपिकं अत्ययश्च आयमुखानि अर्थ पु. 68 पं. 14. 3” ↩︎
-
“अर्थ. पु. 9 पं. 14.” ↩︎
-
“हीनशक्तिम्.” ↩︎
-
“अजितेन्द्रियाणां अनात्मज्ञानां च.” ↩︎
-
“अग्रे करिष्याम इति कालयापने अवश्यमन्तरायः–विघ्न एव संजायते इत्यर्थः” ↩︎
-
“तूष्णीं स्थिया निःसंशयविनाशापादनात् वरं यथाशक्तिनिवारणप्रयत्नेन संदिग्धविनाशावस्थापादनमिति भावः” ↩︎
-
“किन्तु केवलं श्रम एव.” ↩︎
-
“न नाशयति. " ↩︎
-
“धर्मार्थनाशकरकामसेवी.” ↩︎
-
“अकपटस्वभावासक्तः,” ↩︎
-
“जनविश्वासः,” ↩︎
-
“नेता–नायकः–स्वामी.” ↩︎
-
“विश्वासानर्हं( यथा भवति तथा वा ↩︎
-
“अतीततत्तच्छक्त्यवधिम्.” ↩︎
-
“नम्रीभवन्त्यपि.” ↩︎
-
“घटी यन्त्रस्यैको भागः” ↩︎
-
“पापकर्मशीलानां पुरुषाणाम्.” ↩︎
-
“अर्थागमप्रसङ्गे” ↩︎
-
“चेदिति शेषः.” ↩︎
-
“स्वाम्यमात्यादिप्रकृतिसप्तके अन्यतमवैकल्यमपि पुरुषं नाशयतीत्यर्थः” ↩︎
-
“सच्चारित्रम्.” ↩︎
-
“निकृतिः–निकारः–अपकारः.” ↩︎
-
“युक्तयालोचनशक्तिः,” ↩︎
-
“दावो वनहुताशनः.” ↩︎
-
“तदेव निग्रहहेतुरपि भवेदिति भावः.” ↩︎
-
“अतिरहसीति यावत्” ↩︎
-
“अधीरः,. तद्रक्षणाभिवर्धनविनियोगेषु सदुपायमजानानः चिन्ताक्रान्तो हि भवति.” ↩︎
-
“अधीरस्य.” ↩︎
-
“मद्यपानेन मत्तः शौण्डः.” ↩︎
-
“समधातुताहेतुः.” ↩︎
-
“भुक्तजीर्णानन्तरभोजनम्.” ↩︎
-
“वृद्धे अशक्तेवा शरीरे” ↩︎
-
“अधिकव्यथादायी.” ↩︎
-
“निधानं–कोशः, कोशस्थधनानुगुण्येन दानं कर्तव्यमिति यावत्.” ↩︎
-
“प्रतारणम्,” ↩︎
-
“उत्तरकाले बहुफलदायकमित्यर्थः” ↩︎
-
“अवस्कन्नं–शत्रुदुर्गाक्रमणेन परिलुण्टनादिकं कार्यजातं स्वयमेव निरीक्षेतेत्यर्थः” ↩︎
-
“धर्मं ध्वजीकृत्य तन्निवाहार्थमिति अत्यधिकं पापं यत्र प्रसक्तं भवति तत्रेत्यर्थः” ↩︎
-
“यो यस्य वल्लभः तं परित्यज्य स्वार्थसाधकस्वं अस्य अधार्मिकमित्यर्थः” ↩︎
-
“तृणादिगुल्मादपि.” ↩︎
-
“यस्य कस्यापि धनप्राप्तौ स्वेनैव प्राप्तमिव मन्यमानःसन्तुष्टो भवति, न चासूयतीत्यर्थः” ↩︎
-
“सकाण्डो निष्फलो गुच्छः पलालम्,” ↩︎
-
“तुषादिकमपीति यावत् मनुष्यस्येति शेषः.” ↩︎
-
“सर्वकालेष्वपीत्यर्थः.” ↩︎
-
“कर्तव्यहीनस्य सार्वकालिकी क्षुदित्यर्थः” ↩︎
-
“दयावन्तं स्वामिनं आश्रित्य जीवितुमिच्छेत्” ↩︎
-
“न परिक्रोशेत्–निन्दां न कुर्यात्.” ↩︎
-
“यशोरूपेण वर्तमानं शरीरम्.” ↩︎
-
“प्रशमफलमिति यावत्” ↩︎
-
“तत्तदवस्थानुगुण्येन.” ↩︎
-
“स्वाङ्गीकृतमवधिम्” ↩︎
-
“सर्वभयेष्वप्यधिकं भयमयश इत्यर्थः” ↩︎
-
“यत्र सद्भिराधीयमाना गुणाः सङ्क्रामन्ति तद्द्रव्यम्.अतथाविधविषये कृतःशिक्षणयत्नः व्यर्थ इत्यर्थः” ↩︎
-
“ज्योतिश्शास्त्रादपि.” ↩︎
-
“यां कामपि कामनामुद्दिश्य तत्साफल्यसम्पादनाय क्रियमाणा सेवा उपचार इत्युच्यत इत्यर्थः,” ↩︎
-
“स्वापकारिणि क्षमा तन्निग्रहहेतुरिति भावः.” ↩︎
-
“प्रायो मनुष्याणां बहुधनसम्पत्तिः मरणानुपदमेव पिशाचत्वापादकमिति भावः.” ↩︎
-
“अमनस्विनां त्वात्मनाशकमिति भावः” ↩︎
-
“4 समाधिः–समाहितमनस्कता,” ↩︎
-
“सद्गृहस्थसकाशात्.” ↩︎
-
“सेवाकालेषु अनुचितसमयेषु चेति शेषः स्यात्” ↩︎
-
“तीर्थं स्त्रीणामार्तवम् तत्समवाये=बह्वीनां पत्नीनां युगपदृतुप्राप्तौ अर्थ पु. 165 पं. 20.” ↩︎
-
“दास्याः पतिः दासो हि भवतीति.” ↩︎
-
“प्राप्तोपकारस्सन्नपि नीचः ‘उपकारकर्ता स्वस्मात् प्रत्युपकारमपेक्षेत’ इतिभियातस्मै च कमप्युपकारं कर्तुमनिच्छया च उपकर्तुरेव शत्रुस्संवृत्तो भवतीत्यर्थः” ↩︎
-
“अयं केवलोपदेशजन्यानुभवगम्यो विषयः” ↩︎
-
“तथ्यपथ्यार्थयुक्तं शोभनं च वाक्यं सूनृतम् .” ↩︎
-
“वस्तुतो गुरवस्सम्पान्नाः न दुस्तर्कादिभिश्शोधनीयाः इत्यर्थः.आद्यपतनासमवायकारणलक्षणगुरुत्ववन्तस्तु अवश्यं शोधनेन लघुकरणीया एव.” ↩︎
-
“पञ्चेन्द्रियस्य देहस्य बुद्धेश्चमनसस्तथा । द्रव्यदेशक्रियादीनां शुद्धिराचार इष्यते ॥ इति मनुः” ↩︎
-
“जीविकावृत्तेरपहारो न कार्य इत्यर्थः” ↩︎
-
“गजम्.” ↩︎
-
“गजबन्धनःआलानस्तम्भः” ↩︎
-
“द्रुमोत्पलः” ↩︎
-
“निम्बः” ↩︎
-
“अत्र तच्छब्दः ब्रह्मपर इति केचित्.” ↩︎
-
“स्त्रीबन्धनं—गार्हस्थ्यम्. प्रायश इति शेषः, दृष्टस्वभावानुवादोऽयम्, न तु विधिः, वस्तुतस्तु गार्हस्थ्यं नैव प्रतिबन्धकं, प्रत्युत विवेचनशीलानां मुक्तयनुकूलमेव.” ↩︎
-
“अशक्यत्वात्” ↩︎
-
“शुभाशंसिन इति यावत्” ↩︎
-
“प्रकृतिपाशान्मोचनम्” ↩︎
-
“कर्तृ” ↩︎
-
“उषसि,” ↩︎
-
“एकान्ते इति शेषः,मनसो दुर्निर्ग्रहत्वात् कामादिमनोविकारसम्भावनया अयंनिषेधः” ↩︎
-
“निद्राम्. दिवास्वापो हि सुप्तव्याधिव्यालानां प्रबोधनम्” ↩︎
-
“ऐहिकामुष्मिकोभयसौख्यजनकमित्यर्थः” ↩︎
-
“कृतकृत्यताभावादिना स्वकर्तव्याद्वश्येतेति हेतोः.” ↩︎
-
“इहैवेति शेषः.” ↩︎
-
“तैस्तैः क्रियमाण कार्यमेव तस्य तस्य तत्त्वज्ञतां प्रकाशयतीत्यर्थः” ↩︎
-
“मिथ्यासाक्षी,” ↩︎
-
“कालविशेषे इति शेषः” ↩︎
-
“स्वकीय मनोवाक्कायकर्मभिः परकीयमनोवाक्कायकर्मणां दुःखोद्वेगजनिकाया हिंसाया वर्जनं धर्म इत्यर्थः परार्थोपयोगि शरीरमित्यर्थः,” ↩︎
-
“ज्ञानमत्र परतत्त्वसाक्षात्कार एव; न तु अकाण्डे जनोद्वेजकवाग्वैखरीप्रदर्शनमात्रप्रयोजकविविधानन्त- दोषजालकलुषीकृतेन्द्रियवर्गदुर्दृष्टिपरामृष्टपरस्परासम्बद्धरेखासमुदायसहस्रोपस्थितिजनकं, स्वपरयोरशान्ति- मयतापादनेन ऐहिकामुष्मिकसर्वविधश्रेयः प्रतिबन्धकं, उक्तिमात्र सामीचीन्यसम्पादन- रूपानन्तापर्यवसितदुःखमात्रपर्यवसितं, भ्रामकं, निरर्थकं च शास्त्रपाण्डित्यम्.” ↩︎
-
“अनुष्ठीयमानसकलकर्मप्रायोगिकतत्त्वार्थशानरूपेण दीपेन, आत्मनः परस्य चेति शेषः” ↩︎
-
“प्रकृतिविकारात्मकं सर्वमित्यर्थः” ↩︎
-
“प्रमाद्यतामिति शेषः जाग्रतां त्विदं शरीरमेव अनन्तफलहेतुरिति भाव्यम्.” ↩︎
-
“श्रेयस्साधनशक्तिविशेषः” ↩︎
-
“तपसः इत्यर्थः” ↩︎
-
“ऐहिकं श्रेयः (प्रेय. ↩︎
-
“रिक्तं–हीनम्” ↩︎
-
“अतः तादृशः त्यागः सर्वथा अनादरणीय इत्यर्थः,” ↩︎
-
“शत्रुः” ↩︎
-
“श्रीपर्वतवत्–पा.” ↩︎
-
“यस्मात् त्यागात्” ↩︎
-
“भवेयुरिति शेषः.” ↩︎
-
“अभिनन्दनीय इत्यादिः” ↩︎
-
“एतिह्यं वृद्धपरम्परासिद्धः श्रौतः साम्प्रदायिको वा उपदेशः” ↩︎
-
“पौराणिकः” ↩︎
-
“विघ्नः.” ↩︎
-
“पापमार्गरताः.” ↩︎
-
" सिन्धुरः - हस्ती.” ↩︎
-
“बीजार्थे रक्षितं व्रीह्यादिधान्यमपि यः भक्षयति सः बीजभोजी.” ↩︎
-
“दुःखपरिणामः” ↩︎
-
“ऐश्वर्यं - प्राभवम् .” ↩︎
-
“कारणे कार्योपचारात्.” ↩︎
-
“एककालानुभाव्यतया प्राप्तौ सत्याम्.” ↩︎
-
“कालान्तरेऽपि धर्मकामयोरनुभवस्थावकाशसंभवे तु.” ↩︎
-
“यथाक्रममन्वयः.” ↩︎
-
“यस्मिन् आपद्गते मृतेऽपि वा न कश्चिदपि शोकेन ‘हन्त !’ इति शब्दं प्रयुङ्क्तेतथाविधः सर्वोपेक्षाद्वेषादिविषयः मानवः अहन्तकरः इति व्याख्या.” ↩︎
-
“पितृपैतामहपरम्परा क्रमः.” ↩︎
-
“शिक्षणोपदेशादिरूपा गुरुक्रिया.” ↩︎
-
“एतादृशस्तु नैव समुपदेशार्ह इति भावः.” ↩︎
-
“विचारवचनकर्मसु पाटवम्.” ↩︎
-
“समर्थो भवति.” ↩︎
-
“राज्ञिइत्यादिः.” ↩︎
-
“आत्मादीनां समसमायोगः–समशक्त्याऐकमुख्यम्.” ↩︎
-
“अत्मनो रमणस्थानानि.” ↩︎
-
“उपचरित्वानुपचरितत्वे तत्तत्स्वनुभवगम्ये.” ↩︎
-
“चिन्ता.” ↩︎
-
“समाधिः योगशक्तिः.” ↩︎
-
“विप्रकृष्टं –परोक्षम्, संनिकृष्टं –प्रत्यक्षम्.यथासंख्यंविवक्षितम्.” ↩︎
-
“प्रश्रयः –स्वसंनिधौ अन्यैः विनयप्रदर्शनम्” ↩︎
-
" मनोभूः –कामः” ↩︎
-
“विपत्सु रणेषु च.” ↩︎
-
“असाधितांशसाधनाय मनोयोगः” ↩︎
-
" शक्तो भवति.” ↩︎
-
“केवलम् .” ↩︎
-
“धर्मानुबन्धः” ↩︎
-
“अधिकारः " ↩︎
-
“इतिहासपुराणमित्येकम्.” ↩︎
-
“तत्तन्मतीयाः” ↩︎
-
“क्रयविक्रयव्यवहारैः कृषिगोरक्षणाभ्यां च जीवनम्” ↩︎
-
“अतिथिसत्कारः.” ↩︎
-
“सत्र – नित्यान्नदानस्थानम् प्रपा –जलदान स्थानम्.” ↩︎
-
“उपजीवन –शुश्रूषा कारुकर्म–शिल्पक्रिया कुशीलवकर्म–स्तोत्रकरणम्.” ↩︎
-
“उपस्कारः–गृहपात्रसमुदायः.” ↩︎
-
“अक्रूरत्वम्.” ↩︎
-
“संयोजयति.” ↩︎
-
“पिण्याकम् .” ↩︎
-
“समयानुसारेणेति शेषः. " ↩︎
-
“प्राप्तदारिद्र्यादिकष्टनिवारणेन समुद्धारकस्य कस्यचित् प्रदर्शनेनापीत्यर्थः " ↩︎
-
“शाकाभिवर्धनाय कल्पिता आरामाः” ↩︎
-
“गृहे कूपः.” ↩︎
-
“परिवारपोषणे” ↩︎
-
“धान्यसङ्ग्रहं न करोति, आयादधिकं व्ययं करोति च.” ↩︎
-
“जीविकाहेतुभूतं धनम्.” ↩︎
-
“रिपुभिरभेद्या बुद्धिर्यस्य सः.” ↩︎
-
“धर्मार्थकामभयोपधाभिर्विशुद्धम्. (अर्थशास्त्र - पु. 16 ↩︎
-
“नियोगार्हेषु हेतुष्विति शेषः.” ↩︎
-
“यत्र कुत्रापि स्थितो भोजनकाले सिद्धो दृश्यमानः जनः” ↩︎
-
“वाताभिभूतः उन्मत्तश्चश्वा अलर्कः.” ↩︎
-
“असंमर्दितककुत् गलिः.” ↩︎
-
“विनिपातः —आपत्.” ↩︎
-
“आवरणशून्ये प्रदेशे.” ↩︎
-
“श्लोकश्चायम्–‘अनेन तव पुत्रस्य प्रविष्टस्य वनान्तरे । शिखामाकृष्य पादेनखड्गेन निहतं शिरः’इति.” ↩︎
-
“अनुक्तः अनाहूतश्च .” ↩︎
-
“निर्णीतमन्त्रः.” ↩︎
-
“कार्य विलम्बवान्.” ↩︎
-
“उदयः अभिवृद्धिः व्ययः नाशः.” ↩︎
-
“स्वामिनश्छन्दोऽनुरोधार्थम्.” ↩︎
-
“वृथेति शेषः.” ↩︎
-
“अदोषदूषितं चक्षुरिव.” ↩︎
-
“जीर्यति.” ↩︎
-
“कादाचित्केति शेषः. " ↩︎
-
“आथर्वण्यः अभिचारकृतयः कृत्याः” ↩︎
-
“गुणः = ज्या.” ↩︎
-
“पिञ्जनं = शय्यादितूलस्फोटकः (शोधकः ↩︎
-
“कलहः. अतः क्षत्रियो नमन्त्री कार्य इत्यर्थः.” ↩︎
-
“स्त्रीधनादिष्वतीव लुब्धः.” ↩︎
-
“सूचीमुखाः–दृष्टिविषाः,” ↩︎
-
" क्रोधेनानन्दादिना वाअविचार्यैव कार्यकारिणाम्” ↩︎
-
“विघ्नाः . प्रत्यवाया इति–पा.” ↩︎
-
“व्याकुलत्वम्.” ↩︎
-
“केतकीनां दोहदतया, कीटकानां तु भोज्यतया.” ↩︎
-
“विश्वासः.” ↩︎
-
“दर्शयति.” ↩︎
-
“आसन्नविनाशस्य.” ↩︎
-
“समापनविपन्निवारणेन कार्यमसाधयतः.” ↩︎
-
“कामशास्त्र शस्त्रविद्यायां हस्त्यश्वादिवाहनविद्यायां चेत्यर्थः.” ↩︎
-
“सेवा.” ↩︎
-
“विद्याविरुद्धविविधकर्मस्वासत्तिम्.” ↩︎
-
“चाञ्चल्यम्.” ↩︎
-
“गावः–केशाः लोमानि वा दीयन्ते–खण्डयन्तेऽत्रेति गोदानं –केशान्ताख्यः द्विजात्यनुष्टेयः संस्कारमेदः,” ↩︎
-
“विडम्बनं –उपहासः.” ↩︎
-
“आत्मा–मनः. एषां स्वरूपं स्थितिश्च समभ्यस्तेयेन सः.” ↩︎
-
“तन्त्रं –कार्यपुरुषसमूहः.” ↩︎
-
“योधानभिगन्तुं समर्थः साङ्ग्रामिकः सुन्दरःआभिगामिकः.” ↩︎
-
“सः दूतः.” ↩︎
-
“ज्ञातं चेदिति शेषः” ↩︎
-
“अन्तावसायिनः चण्डालाः.” ↩︎
-
“केवलं स्वोदरपूरकः.” ↩︎
-
“किन्तु क्षणभङ्गुराः.” ↩︎
-
“स्वेच्छाप्रवृत्तः.” ↩︎
-
“अपराधवशात्कारागृहादौ निक्षिप्तोऽपि पुनस्तदाज्ञोल्लङ्गनं कुर्याञ्चेत्.” ↩︎
-
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रवादाः कृषिहिंसे चेन्येतास्सप्तेतयःस्मृताः॥” ↩︎
-
“संतोषनिमित्तं उपहारम्. " ↩︎
-
“परिहासान् केलीश्च.” ↩︎
-
“आसन्धादिकमारुह्य.” ↩︎
-
“यथा कमण्डलुः पृथुबुध्नोदरः अल्पग्रीवः विस्तृतमुखश्च जलस्य ग्रहणं त्वरया कुर्वन् विसर्गे नलिकारूपेण शनैश्शनेर्विसृजतिएवं आयव्यययोरपि कार्यमिति भावः.” ↩︎
-
“दरिद्रभिक्षुसदृशो भवति.” ↩︎
-
“एष्वन्यतमविरोधेऽपि स्वामिविरोध एवेति भावः.” ↩︎
-
“अतिमृदुस्वभावम् .” ↩︎
-
“परिवारम्.” ↩︎
-
“अन्यानधिकारिणः.” ↩︎
-
“अपेक्षितेति शेषः.” ↩︎
-
“पश्चात्तापादियुक्तो भवेत्.” ↩︎
-
“अथान्यानपि कांश्चन अधिकारे निषिद्धानाह –मानीत्यादिना . मानी = दुरभिमानी.” ↩︎
-
“निष्प्रतिबन्धः.” ↩︎
-
“दुर्योधनामात्यो हि शकुनिः पाण्डवैस्सहानर्थमुत्पाद्य स्वामिनमात्मना सह घातितवान् इति, नन्दमन्त्री शकटालः राज्ञागुहायां निरुद्धः पश्चात् स्वपदं प्राप्तिः चाणक्येन नन्दं घातितवानिति च कथे.” ↩︎
-
“सुखम्.” ↩︎
-
“राज्यतन्त्रम्.” ↩︎
-
“अधिवारे हि स्थिरीकृतेऽलसः निरवग्रहो वा चरतीति हेतोः.” ↩︎
-
“निबन्धकः पुस्तके लेखकः.” ↩︎
-
“तस्येव शिरांस सर्वभारारोपणम् . " ↩︎
-
“शासनभयपूर्वकंआह्वानम्.” ↩︎
-
“धनराशिदात्रीत्यर्थः.” ↩︎
-
" नायं विधिः, किन्तु सम्भावना.” ↩︎
-
“‘हारक’इति भाषायां प्रसिद्धाः.” ↩︎
-
“नागवनं–हस्तिनां वनम्.” ↩︎
-
“अर्थशास्त्रे - पु. 49.” ↩︎
-
“बीजवापकालेषु.” ↩︎
-
“धान्यमञ्जरीषु क्षीरपूर्णासु भवन्तीषु.” ↩︎
-
“तत्तत्कालानुगुणकर्मातिक्रमेण.” ↩︎
-
“विक्रेयवस्तुशोधनी.” ↩︎
-
“शुल्कस्थानम्.” ↩︎
-
“सस्यशालिनः बहवो ग्रामाः” ↩︎
-
“एकस्मिन्नेव प्रदेशे विभिन्नकालेषु निर्मितानामिति शेषः.” ↩︎
-
“प्रवेशानुमतिसूचकमुद्रारहितः.” ↩︎
-
“पर्वतगर्तादिना निम्नोन्नतभूभागबाहुल्यम्.” ↩︎
-
“घासकाष्ठादिभूयस्त्वम्.” ↩︎
-
“भेदः.” ↩︎
-
" दोषोत्पादनम्.” ↩︎
-
“हठादाक्रमणम्.” ↩︎
-
“ग्रामकूटाः–ग्रामाधिकारिणः आढ्यपदस्य सर्वत्रान्वयः.” ↩︎
-
" न नश्यति.” ↩︎
-
“युद्धमेव कन्दुकक्रीडा यासां ताः सम्पदः.” ↩︎
-
“क्षत्रियभूयिष्ठत्वं, बलिष्ठत्वं वा.” ↩︎
-
" प्रतिनिधयः.” ↩︎
-
“आपन्निवारणं न करोति.” ↩︎
-
“बुद्धिमत्सु मूर्खेषु च यो विशेषं न जानाति तस्मिन्.” ↩︎
-
“सवञ्चना नम्रता.” ↩︎
-
“दोषैकदृक्तम् .” ↩︎
-
“अप्रतिकूलाः.” ↩︎
-
“समोपस्थितम् .” ↩︎
-
“आपदमिति शेषः.” ↩︎
-
“हस्तपादादियावदङ्गपूर्णेऽपि.” ↩︎
-
“वण्ठः =अतिनिकृष्टः जन्तुः.आप्लवङ्गादिति पाठान्तरम्.” ↩︎
-
“कुटुम्बमोहः.” ↩︎
-
“सर्वासु सपत्नीषु स्वस्यां च समानतया वर्तनं पत्युः.” ↩︎
-
“ऋतुकालेष्वभुक्ताः” ↩︎
-
“तिर्यक्सम्बन्धी.” ↩︎
-
“नृत्याद्यर्थं स्वगृह एवागत्य सिद्धा भवन्त्यः.” ↩︎
-
“मण्डूकस्य.” ↩︎
-
“आभिचारिकंकर्म.” ↩︎
-
“खड्गेन.” ↩︎
-
“अमृतवाप्य इव काश्चित्,सुरावाप्य इवकाश्चिदित्यर्थः” ↩︎
-
“संस्करणं –अलङ्करणम्.” ↩︎
-
“असिरिव.” ↩︎
-
“तीक्ष्णासु छुरिकासु.” ↩︎
-
“दुःखसङ्कोचौ विना.” ↩︎
-
“आकारणा–आह्वानम्.” ↩︎
-
“स्नानादिसंस्कारः.” ↩︎
-
“सर्वसंमाननस्वरूपयोग्यताच्युतिः.” ↩︎
-
“सजातीयानाम् .” ↩︎
-
“विश्रम्भः विश्वासः. आदेशः—आज्ञा.” ↩︎
-
“नाशयेत्.” ↩︎
-
“कार्यान्तरोद्वेगानवरुद्धः.” ↩︎
-
“गर्भशर्म-गर्भसुखावहम्.” ↩︎
-
“आत्मलाभः उत्तमात्मतासिद्धिः - आत्मनिस्वसाक्षात्कारादिभगवद्योगान्तसामर्थ्यं प्रकृतिनिग्रहसामर्थ्यं चेतियावत्,” ↩︎
-
“संन्यसने.” ↩︎
-
“नश्येत्.” ↩︎
-
“व्यासङ्गः– चिन्तामनः क्लेशादिः.” ↩︎
-
" उत्तरकाले.” ↩︎
-
" पूर्वोत्तरवाग्व्याघातः.” ↩︎
-
“बहिर्द्वरिरथ्याचवलोकनम्.” ↩︎
-
“चित्तस्वास्थ्यम्.” ↩︎
-
“षण्डम्.” ↩︎
-
“उत्तमा वन्दनीया कापि देवता.” ↩︎
-
“अश्मर्यादयः रोगाः.” ↩︎
-
“उषसीति स्यात्.” ↩︎
-
“अङ्गीकुर्वन्ति.” ↩︎
-
“जाठराग्नेः भुक्तपचनसामर्थ्यम्.” ↩︎
-
“प्रदीप्तमग्निम्.” ↩︎
-
“वज्रमिव कठिनं कृत्वेत्यर्थः. मध्ये तु द्रवाशीस्यादितिभावः.” ↩︎
-
“आहारसेवनोपक्रमे अन्ते च घृतं भुञ्जानः.” ↩︎
-
“जाठराग्निपाटवम्.” ↩︎
-
" देहक्षयः.” ↩︎
-
“अल्पमेव भुञ्जानम्.” ↩︎
-
“वमनाय.” ↩︎
-
“मलं विसर्जितुमिच्छुः.” ↩︎
-
“मूत्रितुमिच्छुः.” ↩︎
-
" व्यवायः–मैथुनम्." ↩︎
-
“बृहस्कुक्षिताम्.” ↩︎
-
“क्षणविलम्बेऽपि अपायावहे.” ↩︎
-
“शत्रुवासभूमिम्.” ↩︎
-
“विषविद्याम् .” ↩︎
-
“अमृतयोगे.” ↩︎
-
" परिभ्रमेत्." ↩︎
-
“वृष्याः–वीर्यवर्धकाः.” ↩︎
-
“सकृत्प्रसूतानां गवाम् .” ↩︎
-
“पुरुषसङ्गमनिच्छन्तीम्.” ↩︎
-
“वृषशशाशृप्रकृतीनां मध्ये इतिशेषः.” ↩︎
-
“समसुरतात्.” ↩︎
-
“तस्यैवानुसरणम्.” ↩︎
-
“विफलः किञ्चदपि सहायमकुर्वम्.” ↩︎
-
“क्षणिक इति शेषः.” ↩︎
-
“आमिषः- उपभोगः विप्लुतम् - नाशः” ↩︎
-
“स्वशक्तिचित्ताद्यनुसारेणेति शेषः” ↩︎
-
“आकल्पः-भूषणम् .” ↩︎
-
“आलम्भः-वधः.” ↩︎
-
“आमरणमनशनम्.” ↩︎
-
“पुरोहितादिष्विति शेषः.” ↩︎
-
“स्वयं कार्येषु अप्रवृत्तः अङ्गसङ्कोचं करोति.” ↩︎
-
“सुखं मनश्शान्तिर्वा " ↩︎
-
“विश्वासयोग्यता.” ↩︎
-
“निन्द्यता.” ↩︎
-
“विभवः =धनादिः” ↩︎
-
“ज्ञानहीनस्य.” ↩︎
-
“द्विजोपाधिभेदः, अपूरितशक्तिर्देवप्रतिमा वा ठक्कुरः” ↩︎
-
" वरण्डः-कृपणः” ↩︎
-
॓॑# “कलकलतया समूहतापत्तिम्.” ↩︎
-
“चापल्यम्.” ↩︎
-
" तस्यैवापकारकरणम्." ↩︎
-
“अजा.” ↩︎
-
“निन्दति " ↩︎
-
“अपराधिलिङ्गानि.” ↩︎
-
“कपटेन.” ↩︎
-
“द्वादशसंवत्सरभोगःभुक्तिः” ↩︎
-
“राजबलेन कृतम्” ↩︎
-
“द्यूतकारः वञ्चकश्च कितवः,” ↩︎
-
“मुखत एवोक्ते.” ↩︎
-
“निर्णयं कुर्यात्” ↩︎
-
“विरुद्धव्यवहाराणाम्.” ↩︎
-
“अनुबन्ध :-दोषः, प्रमाणान्तरापेक्षा वा” ↩︎
-
“परकृतस्य स्वोपालम्भस्येत्यर्थः” ↩︎
-
“घोटकसज्जाभेदः पल्ययनम्.” ↩︎
-
“द्रव्यसंचयस्थानं वैश्रवण, पोत; बालः, श्रवणपोतयोरिति पाठान्तरम्.” ↩︎
-
“समाधानकरम्.” ↩︎
-
“उक्षा-बलीवर्दः.” ↩︎
-
“शमः क्षेमस्य व्यायामः योगस्येति” ↩︎
-
“कर्मणां सम्यक्प्रयोगेण तदीयानि फलानि प्रत्यक्षीकुर्वन्.” ↩︎