तन्त्रयुक्तयः
विश्वास-प्रस्तुतिः - 01
01 मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः
मूलम् - 01
01 मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः
विश्वास-प्रस्तुतिः - 02
02 तस्याः पृथिव्या लाभपालन उपायः शास्त्रं अर्थशास्त्रं इति
मूलम् - 02
02 तस्याः पृथिव्या लाभपालन उपायः शास्त्रं अर्थशास्त्रं इति
विश्वास-प्रस्तुतिः - 03
03 तद्द्वात्रिंशद् युक्तियुक्तं - अधिकरणं, विधानं, योगः, पदार्थः, हेत्व्ऽर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्यशेषः, अनुमतं, व्याख्यानं, निर्वचनं, निदर्शनं, अपवर्गः, स्वसञ्ज्ञा, पूर्वपक्षः, उत्तरपक्षः, एकान्तः, अनागतावेक्षणं, अतिक्रान्तावेक्षणं, नियोगः, विकल्पः, समुच्चयः ऊह्यं इति
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 यं अर्थं अधिकृत्य उच्यते तद् अधिकरणम्
मूलम् - 04
04 यं अर्थं अधिकृत्य उच्यते तद् अधिकरणम्
विश्वास-प्रस्तुतिः - 05
05 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशः तानि संहृत्य एकं इदं अर्थशास्त्रं कृतम् इति
मूलम् - 05
05 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशः तानि संहृत्य एकं इदं अर्थशास्त्रं कृतम् इति
विश्वास-प्रस्तुतिः - 06
06 शास्त्रस्य प्रकरणानुपूर्वी विधानम्
मूलम् - 06
06 शास्त्रस्य प्रकरणानुपूर्वी विधानम्
विश्वास-प्रस्तुतिः - 07
07 विद्यासमुद्देशः, वृद्धसम्योगः, इन्द्रियजयः, अमात्य उत्पत्तिः इत्येवं।आदिकं इति
मूलम् - 07
07 विद्यासमुद्देशः, वृद्धसम्योगः, इन्द्रियजयः, अमात्य उत्पत्तिः इत्येवं।आदिकं इति
विश्वास-प्रस्तुतिः - 08
08 वाक्ययोजना योगः
मूलम् - 08
08 वाक्ययोजना योगः
विश्वास-प्रस्तुतिः - 09
09 चतुर्वर्णाश्रमो लोकः इति
मूलम् - 09
09 चतुर्वर्णाश्रमो लोकः इति
विश्वास-प्रस्तुतिः - 10
10 पदावधिकः पदार्थः
मूलम् - 10
10 पदावधिकः पदार्थः
विश्वास-प्रस्तुतिः - 11
11 मूलहर इति पदम्
मूलम् - 11
11 मूलहर इति पदम्
विश्वास-प्रस्तुतिः - 12
12 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः इत्यर्थः
मूलम् - 12
12 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः इत्यर्थः
विश्वास-प्रस्तुतिः - 13
13 हेतुरर्थसाधको हेत्व्ऽर्थः
मूलम् - 13
13 हेतुरर्थसाधको हेत्व्ऽर्थः
विश्वास-प्रस्तुतिः - 14
14 अर्थमूलौ हि धर्मकामौ इति
मूलम् - 14
14 अर्थमूलौ हि धर्मकामौ इति
विश्वास-प्रस्तुतिः - 15
15 समासवाक्यं उद्देशः
मूलम् - 15
15 समासवाक्यं उद्देशः
विश्वास-प्रस्तुतिः - 16
16 विद्याविनयहेतुरिन्द्रियजयः इति
मूलम् - 16
16 विद्याविनयहेतुरिन्द्रियजयः इति
विश्वास-प्रस्तुतिः - 17
17 व्यासवाक्यं निर्देशः
मूलम् - 17
17 व्यासवाक्यं निर्देशः
विश्वास-प्रस्तुतिः - 18
18 कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयःइति
मूलम् - 18
18 कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयःइति
विश्वास-प्रस्तुतिः - 19
19 एवं वर्तितव्यं इत्युपदेशः
मूलम् - 19
19 एवं वर्तितव्यं इत्युपदेशः
विश्वास-प्रस्तुतिः - 20
20 धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात् इति
मूलम् - 20
20 धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात् इति
विश्वास-प्रस्तुतिः - 21
21 एवं असावाह इत्यपदेशः
मूलम् - 21
21 एवं असावाह इत्यपदेशः
विश्वास-प्रस्तुतिः - 22
22 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः - षोडश इति बार्हस्पत्याः - विंशतिं इत्यौशनसाः - यथासामर्थ्यं इति कौटिल्यः इति
मूलम् - 22
22 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः - षोडश इति बार्हस्पत्याः - विंशतिं इत्यौशनसाः - यथासामर्थ्यं इति कौटिल्यः इति
विश्वास-प्रस्तुतिः - 23
23 उक्तेन साधनं अतिदेशः
मूलम् - 23
23 उक्तेन साधनं अतिदेशः
विश्वास-प्रस्तुतिः - 24
24 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् इति
मूलम् - 24
24 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् इति
विश्वास-प्रस्तुतिः - 25
25 वक्तव्येन साधनं प्रदेशः
मूलम् - 25
25 वक्तव्येन साधनं प्रदेशः
विश्वास-प्रस्तुतिः - 26
26 सामदानभेददण्डैर्वा, यथाऽऽपत्सु व्याख्यास्यामः इति
मूलम् - 26
26 सामदानभेददण्डैर्वा, यथाऽऽपत्सु व्याख्यास्यामः इति
विश्वास-प्रस्तुतिः - 27
27 दृष्टेनादृष्टस्य साधनं उपमानम्
मूलम् - 27
27 दृष्टेनादृष्टस्य साधनं उपमानम्
विश्वास-प्रस्तुतिः - 28
28 निवृत्तपरिहारान् पिता इवानुगृह्णीयात् इति
मूलम् - 28
28 निवृत्तपरिहारान् पिता इवानुगृह्णीयात् इति
विश्वास-प्रस्तुतिः - 29
29 यद् अनुक्तं अर्थाद् आपद्यते साऽर्थापत्तिः
मूलम् - 29
29 यद् अनुक्तं अर्थाद् आपद्यते साऽर्थापत्तिः
विश्वास-प्रस्तुतिः - 30
30 लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
मूलम् - 30
30 लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
विश्वास-प्रस्तुतिः - 31
31 नाप्रियहितद्वारेणाश्रयेत इत्यर्थाद् आपन्नं भवति इति
मूलम् - 31
31 नाप्रियहितद्वारेणाश्रयेत इत्यर्थाद् आपन्नं भवति इति
विश्वास-प्रस्तुतिः - 32
32 उभयतोहेतुमान् अर्थः संशयः
मूलम् - 32
32 उभयतोहेतुमान् अर्थः संशयः
विश्वास-प्रस्तुतिः - 33
33 क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति
मूलम् - 33
33 क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति
विश्वास-प्रस्तुतिः - 34
34 प्रकरणान्तरेण समानोऽर्थः प्रसङ्गः
मूलम् - 34
34 प्रकरणान्तरेण समानोऽर्थः प्रसङ्गः
विश्वास-प्रस्तुतिः - 35
35 कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण इति
मूलम् - 35
35 कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण इति
विश्वास-प्रस्तुतिः - 36
36 प्रतिलोमेन साधनं विपर्ययः
मूलम् - 36
36 प्रतिलोमेन साधनं विपर्ययः
विश्वास-प्रस्तुतिः - 37
37 विपरीतं अतुष्टस्य इति
मूलम् - 37
37 विपरीतं अतुष्टस्य इति
विश्वास-प्रस्तुतिः - 38
38 येन वाक्यं समाप्यते स वाक्यशेषः
मूलम् - 38
38 येन वाक्यं समाप्यते स वाक्यशेषः
विश्वास-प्रस्तुतिः - 39
39 छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च इति
मूलम् - 39
39 छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च इति
विश्वास-प्रस्तुतिः - 40
40 तत्र शकुनेः इति वाक्यशेषः
मूलम् - 40
40 तत्र शकुनेः इति वाक्यशेषः
विश्वास-प्रस्तुतिः - 41
41 परवाक्यं अप्रतिषिद्धं अनुमतम्
मूलम् - 41
41 परवाक्यं अप्रतिषिद्धं अनुमतम्
विश्वास-प्रस्तुतिः - 42
42 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः इति
मूलम् - 42
42 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः इति
विश्वास-प्रस्तुतिः - 43
43 अतिशयवर्णना व्याख्यानम्
मूलम् - 43
43 अतिशयवर्णना व्याख्यानम्
विश्वास-प्रस्तुतिः - 44
44 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात् इति
मूलम् - 44
44 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात् इति
विश्वास-प्रस्तुतिः - 45
45 गुणतः शब्दनिष्पत्तिर्निर्वचनम्
मूलम् - 45
45 गुणतः शब्दनिष्पत्तिर्निर्वचनम्
विश्वास-प्रस्तुतिः - 46
46 व्यस्यत्येनं श्रेयस इति व्यसनम् इति
मूलम् - 46
46 व्यस्यत्येनं श्रेयस इति व्यसनम् इति
विश्वास-प्रस्तुतिः - 47
47 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम्
मूलम् - 47
47 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम्
विश्वास-प्रस्तुतिः - 48
48 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति इति
मूलम् - 48
48 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति इति
विश्वास-प्रस्तुतिः - 49
49 अभिप्लुतव्यपकर्षणं अपवर्गः
मूलम् - 49
49 अभिप्लुतव्यपकर्षणं अपवर्गः
विश्वास-प्रस्तुतिः - 50
50 नित्यं आसन्नं अरिबलं वासयेद् अन्यत्राभ्यन्तरकोपशङ्कायाः इति
मूलम् - 50
50 नित्यं आसन्नं अरिबलं वासयेद् अन्यत्राभ्यन्तरकोपशङ्कायाः इति
विश्वास-प्रस्तुतिः - 51
51 परैरसमितः शब्दः स्वसञ्ज्ञा
मूलम् - 51
51 परैरसमितः शब्दः स्वसञ्ज्ञा
विश्वास-प्रस्तुतिः - 52
52 प्रथमा प्रकृतिः, तस्य भूम्य्ऽनन्तरा द्वितीया, भूम्य्।एकान्तरा तृतीया इति
मूलम् - 52
52 प्रथमा प्रकृतिः, तस्य भूम्य्ऽनन्तरा द्वितीया, भूम्य्।एकान्तरा तृतीया इति
विश्वास-प्रस्तुतिः - 53
53 प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः
मूलम् - 53
53 प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः
विश्वास-प्रस्तुतिः - 54
54 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः इति
मूलम् - 54
54 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः इति
विश्वास-प्रस्तुतिः - 55
55 तस्य निर्णयनवाक्यं उत्तरपक्षः
मूलम् - 55
55 तस्य निर्णयनवाक्यं उत्तरपक्षः
विश्वास-प्रस्तुतिः - 56
56 तद्।आयत्तत्वात्, तत्कूटस्थानीयो हि स्वामी इति
मूलम् - 56
56 तद्।आयत्तत्वात्, तत्कूटस्थानीयो हि स्वामी इति
विश्वास-प्रस्तुतिः - 57
57 सर्वत्रायत्तं एकान्तः
मूलम् - 57
57 सर्वत्रायत्तं एकान्तः
विश्वास-प्रस्तुतिः - 58
58 तस्माद् उत्थानं आत्मनः कुर्वीत इति
मूलम् - 58
58 तस्माद् उत्थानं आत्मनः कुर्वीत इति
विश्वास-प्रस्तुतिः - 59
59 पश्चाद् एवं विहितं इत्यनागतावेक्षणम्
मूलम् - 59
59 पश्चाद् एवं विहितं इत्यनागतावेक्षणम्
विश्वास-प्रस्तुतिः - 60
60 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः इति
मूलम् - 60
60 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः इति
विश्वास-प्रस्तुतिः - 61
61 पुरस्ताद् एवं विहितं इत्यतिक्रान्तावेष्कणम्
मूलम् - 61
61 पुरस्ताद् एवं विहितं इत्यतिक्रान्तावेष्कणम्
विश्वास-प्रस्तुतिः - 62
62 अमात्यसम्पद् उक्ता पुरस्तात् इति
मूलम् - 62
62 अमात्यसम्पद् उक्ता पुरस्तात् इति
विश्वास-प्रस्तुतिः - 63
63 एवं नान्यथा इति नियोगः
मूलम् - 63
63 एवं नान्यथा इति नियोगः
विश्वास-प्रस्तुतिः - 64
64 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेत्, नाधर्म्यं अनर्थय्ं च इति
मूलम् - 64
64 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेत्, नाधर्म्यं अनर्थय्ं च इति
विश्वास-प्रस्तुतिः - 65
65 अनेन वाऽनेन वा इति विकल्पः
मूलम् - 65
65 अनेन वाऽनेन वा इति विकल्पः
विश्वास-प्रस्तुतिः - 66
66 दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति
मूलम् - 66
66 दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति
विश्वास-प्रस्तुतिः - 67
67 अनेन चानेन च इति समुच्चयः
मूलम् - 67
67 अनेन चानेन च इति समुच्चयः
विश्वास-प्रस्तुतिः - 68
68 स्वयञ्जातः पितुर्बन्धूनां च दायादः इति
मूलम् - 68
68 स्वयञ्जातः पितुर्बन्धूनां च दायादः इति
विश्वास-प्रस्तुतिः - 69
69 अनुक्तकरणं ऊह्यम्
मूलम् - 69
69 अनुक्तकरणं ऊह्यम्
विश्वास-प्रस्तुतिः - 70
70 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति
मूलम् - 70
70 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति
विश्वास-प्रस्तुतिः - 71
71ab एवं शास्त्रं इदं युक्तं एताभिः तन्त्रयुक्तिभिः ।
71chd अवाप्तौ पालने च उक्तं लोकस्यास्य परस्य च
मूलम् - 71
71ab एवं शास्त्रं इदं युक्तं एताभिः तन्त्रयुक्तिभिः ।
71chd अवाप्तौ पालने च उक्तं लोकस्यास्य परस्य च
विश्वास-प्रस्तुतिः - 72
72ab धर्मं अर्थं च कामं च प्रवर्तयति पाति च ।
72chd अधर्मानर्थविद्वेषान् इदं शास्त्रं निहन्ति च
मूलम् - 72
72ab धर्मं अर्थं च कामं च प्रवर्तयति पाति च ।
72chd अधर्मानर्थविद्वेषान् इदं शास्त्रं निहन्ति च
विश्वास-प्रस्तुतिः - 73
73ab येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
73chd अमर्षेण उद्धृतान्याशु तेन शास्त्रं इदं कृतम् (इति)
मूलम् - 73
73ab येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
73chd अमर्षेण उद्धृतान्याशु तेन शास्त्रं इदं कृतम् (इति)