स्वबल उपघातप्रतीकारः
विश्वास-प्रस्तुतिः - 01
01 स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः
मूलम् - 01
01 स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः
विश्वास-प्रस्तुतिः - 02
02 श्लेष्मातककपित्थदन्तिदन्तशठगोजिशिरीषपाटलीबलास्योनागपुनर्नवाश्वेतवारणक्वाथयुक्तम्(?) चन्दनसालावृकीलोहितयुक्तं नेजन उदकं राज उपभोग्यानां गुह्यप्रक्षालनं स्त्रीणां, सेनायाश्च विषप्रतीकारः
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 पृषतनकुलनीलकण्ठगोधापित्तयुक्तं महीराजीचूर्णं सिन्दुवारितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोषहरः
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 सृगालविन्नामदनसिन्दुवारितवरणवारणवलीमूलकषायाणां अन्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 कैडर्यपूतितिलतैलं उन्मादहरं नस्तःकर्म
मूलम् - 05
05 कैडर्यपूतितिलतैलं उन्मादहरं नस्तःकर्म
विश्वास-प्रस्तुतिः - 06
06 प्रियङ्गुनक्तमालयोगः कुष्ठहरः
मूलम् - 06
06 प्रियङ्गुनक्तमालयोगः कुष्ठहरः
विश्वास-प्रस्तुतिः - 07
07 कुष्ठलोध्रयोगः पाकशोषघ्नः
मूलम् - 07
07 कुष्ठलोध्रयोगः पाकशोषघ्नः
विश्वास-प्रस्तुतिः - 08
08 कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम्
मूलम् - 08
08 कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम्
विश्वास-प्रस्तुतिः - 09
09 प्रियङ्गुमञ्जिष्ठातगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जु।उदकविषप्रहारपतननिह्सञ्ज्ञानां पुनःप्रत्यानयनाय
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 मनुष्याणां अक्षमात्रं, गवाश्वानां द्विगुणं, चतुर्गुणं हस्त्य्।उष्ट्राणाम्
मूलम् - 10
10 मनुष्याणां अक्षमात्रं, गवाश्वानां द्विगुणं, चतुर्गुणं हस्त्य्।उष्ट्राणाम्
विश्वास-प्रस्तुतिः - 11
11 रुक्मगर्भश्च एषां मणिः सर्वविषहरः
मूलम् - 11
11 रुक्मगर्भश्च एषां मणिः सर्वविषहरः
विश्वास-प्रस्तुतिः - 12
12 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः
मूलम् - 12
12 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः
विश्वास-प्रस्तुतिः - 13
13ab तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः ।
13chd लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः
मूलम् - 13
13ab तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः ।
13chd लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः
विश्वास-प्रस्तुतिः - 14
14ab एतैः कृत्वा प्रतीकारं स्वसैन्यानां अथात्मनः ।
14chd अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् (इति)
मूलम् - 14