प्रलम्भनं, तत्र भैषज्यमन्त्रयोगः
विश्वास-प्रस्तुतिः - 01
01 मार्जार उष्ट्रवृकवराहश्वाविद्वागुलीनप्तृकाक उलूकानां अन्येषां वा निशाचराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति
मूलम् - 02
02 ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति
विश्वास-प्रस्तुतिः - 03
03ab एकाम्लकं वराहाक्षि खद्योतः कालशारिवा ।
03chd एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति
मूलम् - 03
03ab एकाम्लकं वराहाक्षि खद्योतः कालशारिवा ।
03chd एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति
विश्वास-प्रस्तुतिः - 04
04 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां यवान् आवास्याविक्षीरेण सेचयेत्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 ततो यवविरूढमालां आबध्य नष्टच्छायारूपश्चरति
मूलम् - 05
05 ततो यवविरूढमालां आबध्य नष्टच्छायारूपश्चरति
विश्वास-प्रस्तुतिः - 06
06 त्रिरत्र उपोषितः पुष्येण श्वमार्जार उलूकवागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत्
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 ततो यथास्वं अभ्यक्ताक्षो नष्टच्छायारूपश्चरति
मूलम् - 07
07 ततो यथास्वं अभ्यक्ताक्षो नष्टच्छायारूपश्चरति
विश्वास-प्रस्तुतिः - 08
08 त्रिरात्र उपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत्
मूलम् - 08
08 त्रिरात्र उपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत्
विश्वास-प्रस्तुतिः - 09
09 ततो अन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति
मूलम् - 09
09 ततो अन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति
विश्वास-प्रस्तुतिः - 10
10 त्रिरात्र उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत्
मूलम् - 10
10 त्रिरात्र उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत्
विश्वास-प्रस्तुतिः - 11
11 ततो निशाचराणां सत्त्वानां अन्यतमस्य शिरःकपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत्
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 तद् अञ्जनं पुष्येण उद्धृत्य तस्यां अञ्जन्यां निदध्यात्
मूलम् - 12
12 तद् अञ्जनं पुष्येण उद्धृत्य तस्यां अञ्जन्यां निदध्यात्
विश्वास-प्रस्तुतिः - 13
13 तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति
मूलम् - 13
13 तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति
विश्वास-प्रस्तुतिः - 14
14 यत्र ब्राह्मणं आहिताग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रिरात्र उपोषितः पुष्येण स्वयम्मृतस्य वाससा प्रसेवं कृत्वा चिताभस्मना पूरयित्वा तं आबध्य नष्टच्छायारूपश्चरति
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाऽहिभस्त्रा पशूनां अन्तर्धानम्
मूलम् - 15
15 ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाऽहिभस्त्रा पशूनां अन्तर्धानम्
विश्वास-प्रस्तुतिः - 16
16 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणां अन्तर्धानम्
मूलम् - 16
16 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणां अन्तर्धानम्
विश्वास-प्रस्तुतिः - 17
17 उलूकवागुलीपुच्छपुरीषजान्व्ऽस्थिचूर्णपूर्णाऽहिभस्त्रा पक्षिणां अन्तर्धानम्
मूलम् - 17
17 उलूकवागुलीपुच्छपुरीषजान्व्ऽस्थिचूर्णपूर्णाऽहिभस्त्रा पक्षिणां अन्तर्धानम्
विश्वास-प्रस्तुतिः - 18
18 इत्यष्टावन्तर्धानयोगः
मूलम् - 18
18 इत्यष्टावन्तर्धानयोगः
विश्वास-प्रस्तुतिः - 19
19ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
19chd भण्डीरपाकं नरकं निकुम्भं कुम्भं एव च
मूलम् - 19
19ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
19chd भण्डीरपाकं नरकं निकुम्भं कुम्भं एव च
विश्वास-प्रस्तुतिः - 20
20ab देवलं नारदं वन्दे वन्दे सावर्णिगालवम् ।
20chd एतेषां अनुयोगेन कृतं ते स्वापनं महत्
मूलम् - 20
20ab देवलं नारदं वन्दे वन्दे सावर्णिगालवम् ।
20chd एतेषां अनुयोगेन कृतं ते स्वापनं महत्
विश्वास-प्रस्तुतिः - 21
21ab यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः ।
21chd तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः
मूलम् - 21
21ab यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः ।
21chd तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः
विश्वास-प्रस्तुतिः - 22
22ab भण्डकानां सहस्रेण रथनेमिशतेन च ।
22chd इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः
मूलम् - 22
22ab भण्डकानां सहस्रेण रथनेमिशतेन च ।
22chd इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः
विश्वास-प्रस्तुतिः - 23
23ab नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः ।
23chd ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः
मूलम् - 23
23ab नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः ।
23chd ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः
विश्वास-प्रस्तुतिः - 24
24ab अध्ययनपारगाः सिद्धा ये च कौलास तापसाः ।
24chd एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत्
मूलम् - 24
24ab अध्ययनपारगाः सिद्धा ये च कौलास तापसाः ।
24chd एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत्
विश्वास-प्रस्तुतिः - 25
25 अतिगच्छन्ति च मय्यपगच्छन्तु संहताः
मूलम् - 25
25 अतिगच्छन्ति च मय्यपगच्छन्तु संहताः
विश्वास-प्रस्तुतिः - 26
26 अलिते, वलिते, मनवे स्वाहा
मूलम् - 26
26 अलिते, वलिते, मनवे स्वाहा
विश्वास-प्रस्तुतिः - 27
27 एतस्य प्रयोगः
मूलम् - 27
27 एतस्य प्रयोगः
विश्वास-प्रस्तुतिः - 28
28 त्रिरात्र उपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद् विलखावलेखनं क्रीणीयात्
मूलम् - 28
28 त्रिरात्र उपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद् विलखावलेखनं क्रीणीयात्
विश्वास-प्रस्तुतिः - 29
29 तन्माषैः सह कण्डोलिकायां कृत्वाऽसङ्कीर्ण आदहने निखानयेत्
मूलम् - 29
29 तन्माषैः सह कण्डोलिकायां कृत्वाऽसङ्कीर्ण आदहने निखानयेत्
विश्वास-प्रस्तुतिः - 30
30 द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत्
मूलम् - 30
30 द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत्
विश्वास-प्रस्तुतिः - 31
31 तत एकां गुलिकां अभिमन्त्रयित्वा यत्र एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
मूलम् - 31
31 तत एकां गुलिकां अभिमन्त्रयित्वा यत्र एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
विश्वास-प्रस्तुतिः - 32
32 एतेन एव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतं असङ्कीर्ण आदहने निखानयेत्
मूलम् - 32
32 एतेन एव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतं असङ्कीर्ण आदहने निखानयेत्
विश्वास-प्रस्तुतिः - 33
33 द्वितीयस्यां चतुर्दश्यां उद्धृत्यादहनभस्मना सह यत्र एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
मूलम् - 33
33 द्वितीयस्यां चतुर्दश्यां उद्धृत्यादहनभस्मना सह यत्र एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
विश्वास-प्रस्तुतिः - 34
34ab सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् ।
34chd सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान्
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35ab वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः ।
35chd वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा
मूलम् - 36
36 स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा
विश्वास-प्रस्तुतिः - 37
37ab सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
37chd श्वाविधः शल्यकं च एतत् त्रिश्वेतं ब्रह्मनिर्मितम्
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38ab प्रसुप्ताः सर्वसिद्धा हि एतत् ते स्वापनं कृतम् ।
38chd यावद् ग्रामस्य सीमान्तः सूर्यस्य उद्गमनाद् इति
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39 स्वाहा
मूलम् - 39
39 स्वाहा
विश्वास-प्रस्तुतिः - 40
40 एतस्य प्रयोगः
मूलम् - 40
40 एतस्य प्रयोगः
विश्वास-प्रस्तुतिः - 41
41 श्वाविधः शल्यकानि त्रिश्वेतानि, सप्तरात्र उपोषितः कृष्णचतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्टशतसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
मूलम् - 41

विश्वास-प्रस्तुतिः - 42
42 तत एकं एतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति
मूलम् - 42
42 तत एकं एतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति
विश्वास-प्रस्तुतिः - 43
43ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
43chd निकुम्भं नरकं कुम्भं तन्तुकच्छं महाऽसुरम्
मूलम् - 43
43ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
43chd निकुम्भं नरकं कुम्भं तन्तुकच्छं महाऽसुरम्
विश्वास-प्रस्तुतिः - 44
44ab अर्मालवं प्रमीलं च मण्ड उलूकं घट उबलम् ।
44chd कृष्णकंस उपचारं च पौलोमीं च यशस्विनीम्
मूलम् - 44
44ab अर्मालवं प्रमीलं च मण्ड उलूकं घट उबलम् ।
44chd कृष्णकंस उपचारं च पौलोमीं च यशस्विनीम्
विश्वास-प्रस्तुतिः - 45
45ab अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्ऽर्थं शवशारिकाम् ।
45chd जयतु जयति च नमः शलकभूतेभ्यः स्वाहा
मूलम् - 45
45ab अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्ऽर्थं शवशारिकाम् ।
45chd जयतु जयति च नमः शलकभूतेभ्यः स्वाहा
विश्वास-प्रस्तुतिः - 46
46ab सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
46chd सुखं स्वपन्तु सिद्धार्था यं अर्थं मार्गयामहे ।
46ech यावद् अस्तं अयाद् उदयो यावद् अर्थं फलं मम
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47 इति स्वाहा
मूलम् - 47
47 इति स्वाहा
विश्वास-प्रस्तुतिः - 48
48 एतस्य प्रयोगः
मूलम् - 48
48 एतस्य प्रयोगः
विश्वास-प्रस्तुतिः - 49
49 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां असङ्कीर्ण आदहने बलिं कृत्वा एतेन मन्त्रेण शवशारिकां गृहीत्वा पौत्रीपोट्टलिकं बध्नीयात्
मूलम् - 49

विश्वास-प्रस्तुतिः - 50
50 तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्र एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति
मूलम् - 50
50 तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्र एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति
विश्वास-प्रस्तुतिः - 51
51ab उपैमि शरणं चाग्निं दैवतानि दिशो दश ।
51chd अपयान्तु च सर्वाणि वशतां यान्तु मे सदा
मूलम् - 51
51ab उपैमि शरणं चाग्निं दैवतानि दिशो दश ।
51chd अपयान्तु च सर्वाणि वशतां यान्तु मे सदा
विश्वास-प्रस्तुतिः - 52
52 स्वाहा
मूलम् - 52
52 स्वाहा
विश्वास-प्रस्तुतिः - 53
53 एतस्य प्रयोगः
मूलम् - 53
53 एतस्य प्रयोगः
विश्वास-प्रस्तुतिः - 54
54 त्रिरात्र उपोस्षितः पुष्येण शर्करा एकविंशतिसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
मूलम् - 54
54 त्रिरात्र उपोस्षितः पुष्येण शर्करा एकविंशतिसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
विश्वास-प्रस्तुतिः - 55
55 ततो गन्धमाल्येन पूजयित्वा निखानयेत्
मूलम् - 55
55 ततो गन्धमाल्येन पूजयित्वा निखानयेत्
विश्वास-प्रस्तुतिः - 56
56 द्वितीयेन पुष्येण उद्धृत्य एकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात्
मूलम् - 56
56 द्वितीयेन पुष्येण उद्धृत्य एकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात्
विश्वास-प्रस्तुतिः - 57
57 अभ्यन्तर्ं चतसृणां शर्कराणां द्वारं अपाव्रियते
मूलम् - 57
57 अभ्यन्तर्ं चतसृणां शर्कराणां द्वारं अपाव्रियते
विश्वास-प्रस्तुतिः - 58
58 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्च एतेन
मूलम् - 58
58 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्च एतेन
विश्वास-प्रस्तुतिः - 59
59 द्विगोयुक्तं गोयानं आहृतं भवति
मूलम् - 59
59 द्विगोयुक्तं गोयानं आहृतं भवति
विश्वास-प्रस्तुतिः - 60
60 ततः परमाकाशे विरामति
मूलम् - 60
60 ततः परमाकाशे विरामति
विश्वास-प्रस्तुतिः - 61
61 रविसगन्धः परिघमति सर्वं पृणाति
मूलम् - 61
61 रविसगन्धः परिघमति सर्वं पृणाति
विश्वास-प्रस्तुतिः - 62
62 चण्डालीकुम्भीतुम्बकटुकसारोघः सनारीभगोऽसि - स्वाहा
मूलम् - 62
62 चण्डालीकुम्भीतुम्बकटुकसारोघः सनारीभगोऽसि - स्वाहा
विश्वास-प्रस्तुतिः - 63
63 ताल उद्घाटनं प्रस्वापनं च
मूलम् - 63
63 ताल उद्घाटनं प्रस्वापनं च
विश्वास-प्रस्तुतिः - 64
64 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां तुवरीरावास्य उदकेन सेचयेत्
मूलम् - 64

विश्वास-प्रस्तुतिः - 65
65 जातानां पुष्येण एव गृहीत्वा रज्जुकां वर्तयेत्
मूलम् - 65
65 जातानां पुष्येण एव गृहीत्वा रज्जुकां वर्तयेत्
विश्वास-प्रस्तुतिः - 66
66 ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति
मूलम् - 66
66 ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति
विश्वास-प्रस्तुतिः - 67
67 उदकाहिभस्त्रां उच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च
मूलम् - 67
67 उदकाहिभस्त्रां उच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च
विश्वास-प्रस्तुतिः - 68
68 वराहभस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनाऽवबध्नीयात्, आनाहकारणम्
मूलम् - 68
68 वराहभस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनाऽवबध्नीयात्, आनाहकारणम्
विश्वास-प्रस्तुतिः - 69
69 कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृक्षमयीं अमित्रप्रतिमां अञ्ज्यात्, अन्धीकरणम्
मूलम् - 69

विश्वास-प्रस्तुतिः - 70
70 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत्
मूलम् - 70
70 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत्
विश्वास-प्रस्तुतिः - 71
71 एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदेऽस्यासने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति
मूलम् - 71

विश्वास-प्रस्तुतिः - 72
72 एतेन एव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः
मूलम् - 72
72 एतेन एव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः
विश्वास-प्रस्तुतिः - 73
73ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
73chd कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा
मूलम् - 73
73ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
73chd कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा
विश्वास-प्रस्तुतिः - 74
74ab निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।
74chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
मूलम् - 74
74ab निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।
74chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
विश्वास-प्रस्तुतिः - 75
75ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
75chd स्वयङ्गुप्ता मनुष्यास्थि पदे यस्य निखन्यते
मूलम् - 75
75ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
75chd स्वयङ्गुप्ता मनुष्यास्थि पदे यस्य निखन्यते
विश्वास-प्रस्तुतिः - 76
76ab द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।
76chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
मूलम् - 76
76ab द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।
76chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
विश्वास-प्रस्तुतिः - 77
77ab अजमर्कटरोमाणि मार्जारनकुलस्य च ।
77chd ब्राह्मणानां श्वपाकानां काक उलूकस्य चाहरेत् ।
77chd एतेन विष्ठाऽवक्षुण्णा सद्य उत्सादकारिका
मूलम् - 77

विश्वास-प्रस्तुतिः - 78
78ab प्रेतनिर्मालिका किण्वं रोमाणि नकुलस्य च ।
78chd वृश्चिकाल्य्(?) अहिकृत्तिश्च पदे यस्य निखन्यते ।
78ef भवत्यपुरुषः सद्यो यावत् तन्नापनीयते
मूलम् - 78

विश्वास-प्रस्तुतिः - 79
79 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां गुञ्जा आवास्य उदकेन सेचयेत्
मूलम् - 79

विश्वास-प्रस्तुतिः - 80
80 जातानां अमावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत्
मूलम् - 80
80 जातानां अमावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत्
विश्वास-प्रस्तुतिः - 81
81 तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते
मूलम् - 81
81 तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते
विश्वास-प्रस्तुतिः - 82
82 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनान् उत्कृत्य दाहयेत्
मूलम् - 82
82 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनान् उत्कृत्य दाहयेत्
विश्वास-प्रस्तुतिः - 83
83 दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भं अन्तर्लेपयेत्
मूलम् - 83
83 दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भं अन्तर्लेपयेत्
विश्वास-प्रस्तुतिः - 84
84 तं ग्रामं अपसव्यं परिणीय यत् तत्र न्यस्तं नवनीतं एषां तत् सर्वं आगच्छति
मूलम् - 84
84 तं ग्रामं अपसव्यं परिणीय यत् तत्र न्यस्तं नवनीतं एषां तत् सर्वं आगच्छति
विश्वास-प्रस्तुतिः - 85
85 कृष्णचतुर्दश्यां पुष्ययोगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत्
85 तां स्वयं पतितां गृह्णीयात्
मूलम् - 85

विश्वास-प्रस्तुतिः - 87
87 तया वृक्षफलान्याकारितान्यागच्छन्ति
मूलम् - 87
87 तया वृक्षफलान्याकारितान्यागच्छन्ति
विश्वास-प्रस्तुतिः - 88
88ab मन्त्रभैषज्यसम्युक्ता योगा मायाकृताश्च ये ।
88chd उपहन्याद् अमित्रांः तैः स्वजनं चाभिपालयेत् (इति)
मूलम् - 88