प्रलम्भनं, तत्र अद्भुत उत्पादनम्

विश्वास-प्रस्तुतिः - 01

01 शिरीष उदुम्बरशमीचूर्णं सर्पिषा संहृत्यार्धमासिकः क्षुद्योगः

मूलम् - 01

01 शिरीष उदुम्बरशमीचूर्णं सर्पिषा संहृत्यार्धमासिकः क्षुद्योगः

विश्वास-प्रस्तुतिः - 02

02 कशेरुक उत्पलकन्देक्षुमूलबिसदूर्वाक्षीरघृतमण्डसिद्धो मासिकः

मूलम् - 02

02 कशेरुक उत्पलकन्देक्षुमूलबिसदूर्वाक्षीरघृतमण्डसिद्धो मासिकः

विश्वास-प्रस्तुतिः - 03

03 माषयवकुलत्थदर्भमूलचूर्णं वा क्षीरघृताभ्यां, वल्लीक्षीरघृतं वा समसिद्धं, सालपृश्निपर्णीमूलकल्कं पयसा पीत्वा, पयो वा तत्सिद्धं मधुघृताभ्यां अशित्वा मासं उपवसति

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 श्वेतबस्तमूत्रे सप्तरात्र उषितैः सिद्धार्थकैः सिद्धं तैलं कटुकालाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम्

मूलम् - 04

विश्वास-प्रस्तुतिः - 05

05 तक्रयवभक्षस्य सप्तरात्राद् ऊर्ध्वं श्वेतगर्दभस्य लेण्डयवैः सिद्धं गौरसर्षपतैलं विरूपकरणम्

मूलम् - 05

05 तक्रयवभक्षस्य सप्तरात्राद् ऊर्ध्वं श्वेतगर्दभस्य लेण्डयवैः सिद्धं गौरसर्षपतैलं विरूपकरणम्

विश्वास-प्रस्तुतिः - 06

06 एतयोरन्यतरस्य मूत्रलेण्डरससिद्धं सिद्धार्थकतैलं अर्कतूलपतङ्गचूर्णप्रतीवापं श्वेतीकरणम्

मूलम् - 06

06 एतयोरन्यतरस्य मूत्रलेण्डरससिद्धं सिद्धार्थकतैलं अर्कतूलपतङ्गचूर्णप्रतीवापं श्वेतीकरणम्

विश्वास-प्रस्तुतिः - 07

07 श्वेतकुक्कुटाजगरलेण्डयोगः श्वेतीकरणम्

मूलम् - 07

07 श्वेतकुक्कुटाजगरलेण्डयोगः श्वेतीकरणम्

विश्वास-प्रस्तुतिः - 08

08 श्वेतबस्तमूत्रे श्वेतसर्षपाः सप्तरात्र उषितास्तक्र(?)मर्क।क्षीरलवणं धान्यं च पक्षस्थितो योगः श्वेतीकरणम्

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 कटुकालाबौ वलीगते गतंऽर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां श्वेतीकरणम्

मूलम् - 09

09 कटुकालाबौ वलीगते गतंऽर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां श्वेतीकरणम्

विश्वास-प्रस्तुतिः - 10

10ab अलोजुनेति यः कीटः श्वेता च गृहगोलिका ।
10chd एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्खपाण्डराः

मूलम् - 10

10ab अलोजुनेति यः कीटः श्वेता च गृहगोलिका ।
10chd एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्खपाण्डराः

विश्वास-प्रस्तुतिः - 11

11 गोमयेन तिन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसानुलिप्तस्य मासिकः कुष्ठयोगः

मूलम् - 11

11 गोमयेन तिन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसानुलिप्तस्य मासिकः कुष्ठयोगः

विश्वास-प्रस्तुतिः - 12

12 कृष्णसर्पमुखे गृहगोलिकामुखे वा सप्तरात्र उषिता गुज्जाः कुष्ठयोगः

मूलम् - 12

12 कृष्णसर्पमुखे गृहगोलिकामुखे वा सप्तरात्र उषिता गुज्जाः कुष्ठयोगः

विश्वास-प्रस्तुतिः - 13

13 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः

मूलम् - 13

13 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः

विश्वास-प्रस्तुतिः - 14

14 कुष्ठस्यप्रियालकल्ककषायः प्रतीकारः

मूलम् - 14

14 कुष्ठस्यप्रियालकल्ककषायः प्रतीकारः

विश्वास-प्रस्तुतिः - 15

15 कुक्कुटकोशातकी(?)शतावरीमूलयुक्तं आहारयमाणो मासेन गौरो भवति

मूलम् - 15

15 कुक्कुटकोशातकी(?)शतावरीमूलयुक्तं आहारयमाणो मासेन गौरो भवति

विश्वास-प्रस्तुतिः - 16

16 वटकषायस्नातः सहचरकल्कदिग्धः कृष्णो भवति

मूलम् - 16

16 वटकषायस्नातः सहचरकल्कदिग्धः कृष्णो भवति

विश्वास-प्रस्तुतिः - 17

17 शकुनकण्गुतैलयुक्ता हरितालमनःशिलाः श्यामीकरणम्

मूलम् - 17

17 शकुनकण्गुतैलयुक्ता हरितालमनःशिलाः श्यामीकरणम्

विश्वास-प्रस्तुतिः - 18

18 खद्योतचूर्णं सर्षपतैलयुक्तं रात्रौ ज्वलति

मूलम् - 18

18 खद्योतचूर्णं सर्षपतैलयुक्तं रात्रौ ज्वलति

विश्वास-प्रस्तुतिः - 19

19 खद्योतगण्डूपदचूर्णं समुद्रजन्तूनां भृङ्गकपालानां खदिरकर्णिकाराणां पुष्पचूर्णं वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम्

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 पारिभद्रकत्वन्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनं अग्निना

मूलम् - 20

20 पारिभद्रकत्वन्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनं अग्निना

विश्वास-प्रस्तुतिः - 21

21 परिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरं अग्निना ज्वलति

मूलम् - 21

21 परिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरं अग्निना ज्वलति

विश्वास-प्रस्तुतिः - 22

22 पीलुत्वन्मषीमयः पिण्डो हस्ते ज्वलति

मूलम् - 22

22 पीलुत्वन्मषीमयः पिण्डो हस्ते ज्वलति

विश्वास-प्रस्तुतिः - 23

23 मण्डूकवसादिग्धोऽग्निना ज्वलति

मूलम् - 23

23 मण्डूकवसादिग्धोऽग्निना ज्वलति

विश्वास-प्रस्तुतिः - 24

24 तेन प्रदिग्धं अङ्गं कुशाम्रफलतैलसिक्तं समुद्रमण्डूकीफेनकसर्जरसचूर्णयुक्तं वा ज्वलति

मूलम् - 24

24 तेन प्रदिग्धं अङ्गं कुशाम्रफलतैलसिक्तं समुद्रमण्डूकीफेनकसर्जरसचूर्णयुक्तं वा ज्वलति

विश्वास-प्रस्तुतिः - 25

25 मण्डूककुलीरादीनां वसया समभागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्निप्रज्वालनम्

मूलम् - 25

25 मण्डूककुलीरादीनां वसया समभागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्निप्रज्वालनम्

विश्वास-प्रस्तुतिः - 26

26 वेणुमूलशैवललिप्तं अङ्गं मण्डूकवसादिग्धं अग्निना ज्वलति

मूलम् - 26

26 वेणुमूलशैवललिप्तं अङ्गं मण्डूकवसादिग्धं अग्निना ज्वलति

विश्वास-प्रस्तुतिः - 27

27 पारिभद्रकप्पतिबलावञ्जुलवज्रकदलीमूलकल्केन मण्डूकवसासिद्धेन तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति

मूलम् - 27

27 पारिभद्रकप्पतिबलावञ्जुलवज्रकदलीमूलकल्केन मण्डूकवसासिद्धेन तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति

विश्वास-प्रस्तुतिः - 28

28ab उप उदका प्रतिबला वञ्जुलः पारिभद्रकः ।
28chd एतेषां मूलकल्केन मण्डूकवसया सह

मूलम् - 28

28ab उप उदका प्रतिबला वञ्जुलः पारिभद्रकः ।
28chd एतेषां मूलकल्केन मण्डूकवसया सह

विश्वास-प्रस्तुतिः - 29

29ab साधयेत् तैलं एतेन पादावभ्यज्य निर्मलौ ।
29chd अङ्गारराशौ विचरेद् यथा कुसुमसञ्चये

मूलम् - 29

29ab साधयेत् तैलं एतेन पादावभ्यज्य निर्मलौ ।
29chd अङ्गारराशौ विचरेद् यथा कुसुमसञ्चये

विश्वास-प्रस्तुतिः - 30

30 हंसक्रौञ्चमयूराणां अन्येषां वा महाशकुनीनां उदकप्लवानां पुच्छेषु बद्धा नलदीपिका रात्रावुल्कादर्शनम्

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

31 वैद्युतं भस्माङ्गिशमनम्

मूलम् - 31

31 वैद्युतं भस्माङ्गिशमनम्

विश्वास-प्रस्तुतिः - 32

32 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलं मण्डूकवसामिश्रं चुल्लुयां दीप्तायां अपाचनम्

मूलम् - 32

32 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलं मण्डूकवसामिश्रं चुल्लुयां दीप्तायां अपाचनम्

विश्वास-प्रस्तुतिः - 33

33 चुल्लीशोधनं प्रतीकारः

मूलम् - 33

33 चुल्लीशोधनं प्रतीकारः

विश्वास-प्रस्तुतिः - 34

34 पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिर्वा पिचुपरिवेष्टितो मुख्याद् अग्निधूम उत्सर्गः

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

35 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति

मूलम् - 35

35 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति

विश्वास-प्रस्तुतिः - 36

36 समुद्रफेनकः तैलयुक्तोऽम्भसि प्लवमानो ज्वलति

मूलम् - 36

36 समुद्रफेनकः तैलयुक्तोऽम्भसि प्लवमानो ज्वलति

विश्वास-प्रस्तुतिः - 37

37 प्लवमानानां अस्थिषु कल्माषवेणुना निर्मथितोऽग्निर्न उदकेन शाम्यति, उदकेन ज्वलति

मूलम् - 37

37 प्लवमानानां अस्थिषु कल्माषवेणुना निर्मथितोऽग्निर्न उदकेन शाम्यति, उदकेन ज्वलति

विश्वास-प्रस्तुतिः - 38

38 शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपर्शुकास्थिषु कल्माषवेणुना निर्मथितोऽग्निः स्त्रियाः पुरुषस्य वाऽस्थिषु मनुष्यपर्शुकया निर्मथितोऽग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योऽग्निर्ज्वलति

मूलम् - 38

विश्वास-प्रस्तुतिः - 39

39ab चुच्चुन्दरी खञ्जरीटः खारकीटश्च पिष्यते ।
39chd अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम्

मूलम् - 39

39ab चुच्चुन्दरी खञ्जरीटः खारकीटश्च पिष्यते ।
39chd अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम्

विश्वास-प्रस्तुतिः - 40

40 अयस्कान्तो वा पाषाणः कुलीरदर्दुरखारकीटवसाप्रदेहेन द्विगुणः

मूलम् - 40

40 अयस्कान्तो वा पाषाणः कुलीरदर्दुरखारकीटवसाप्रदेहेन द्विगुणः

विश्वास-प्रस्तुतिः - 41

41 नारकगर्भः कङ्कभासपार्श्व उत्पल उदकपिष्टश्चतुष्पदद्विपदानां पादलेपः

मूलम् - 41

41 नारकगर्भः कङ्कभासपार्श्व उत्पल उदकपिष्टश्चतुष्पदद्विपदानां पादलेपः

विश्वास-प्रस्तुतिः - 42

42 उलूकगृध्रवसाभ्यां उष्ट्रचर्म उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति

मूलम् - 42

विश्वास-प्रस्तुतिः - 43

43 श्येनकङ्ककाकगृध्रहंसक्रौञ्चवीचीरल्लानां मज्जानो रेतांसि वा योजनशताय, सिंहव्याघ्रद्वीपकाक उलूकानां मज्जानो रेतांसि वा

मूलम् - 43

विश्वास-प्रस्तुतिः - 44

44 सार्ववर्णिकानि गर्भपतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेतशिशून् वा तत्समुत्थितं मेदो योजनशताय

मूलम् - 44

44 सार्ववर्णिकानि गर्भपतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेतशिशून् वा तत्समुत्थितं मेदो योजनशताय

विश्वास-प्रस्तुतिः - 45

45a अनिष्टैरद्भुत उत्पातैः परस्य उद्वेगं आचरेत् ।
45b आराज्याय इति निर्वादः समानः कोप उच्यते (इति)

मूलम् - 45