परबलघातप्रयोगः

विश्वास-प्रस्तुतिः - 01

01 चातुर्वर्ण्यरक्षाऽर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत

मूलम् - 01

01 चातुर्वर्ण्यरक्षाऽर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 02

02 कालकूटादिर्विषवर्गः श्रद्धेयदेशवेषशिल्पभाषाऽभिजनापदेशैः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिर्म्लेच्छजातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च परशरीर उपभोगेष्ववधातव्यः

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 राजक्रीडाभाण्डनिधानद्रव्य उपब्भोगेषु गूढाः शस्त्रनिधानं कुर्युः, सत्त्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम्

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णं उच्चिदिण्गकम्बलीशतकन्द(कर्दम?) इध्मकृकलासचूर्णं गृहगोलिकान्धाहिकक्रकण्टकपूतिकीटगोमारिकाचूर्णं भल्लातकावल्गुजरसम्युक्तं सद्यःप्राणहरं, एतेषां वा धूमः

मूलम् - 04

विश्वास-प्रस्तुतिः - 05

05ab कीटो वाऽन्यतमः तप्तः कृष्णसर्पप्रियङ्गुभिः ।
05chd शोषयेद् एष सम्योगः सद्यःप्राणहरो मतः

मूलम् - 05

05ab कीटो वाऽन्यतमः तप्तः कृष्णसर्पप्रियङ्गुभिः ।
05chd शोषयेद् एष सम्योगः सद्यःप्राणहरो मतः

विश्वास-प्रस्तुतिः - 06

06 धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तं आर्धमासिकः

मूलम् - 06

06 धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तं आर्धमासिकः

विश्वास-प्रस्तुतिः - 07

07 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः

मूलम् - 07

07 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः

विश्वास-प्रस्तुतिः - 08

08 कलामात्रं पुरुषाणां, द्विगुणं खराश्वानां, चतुर्गुणं हस्त्य्।उष्ट्राणाम्

मूलम् - 08

08 कलामात्रं पुरुषाणां, द्विगुणं खराश्वानां, चतुर्गुणं हस्त्य्।उष्ट्राणाम्

विश्वास-प्रस्तुतिः - 09

09 शतकर्दम उच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्चरति तावन् मारयति

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 पूकिकीटमस्त्यकटुतुम्बीशतकर्दम इध्म इन्द्रगोपचूर्णं पूतिकीटक्षुद्रारालाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तं अन्धीकरो धूमः

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टं अन्धीकरो धूमः

मूलम् - 11

11 पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टं अन्धीकरो धूमः

विश्वास-प्रस्तुतिः - 12

12 सर्पनिर्मोकं गोऽश्वपुरीषं अन्धाहिकशिरश्चान्धीकरो धूमः

मूलम् - 12

12 सर्पनिर्मोकं गोऽश्वपुरीषं अन्धाहिकशिरश्चान्धीकरो धूमः

विश्वास-प्रस्तुतिः - 13

13 पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं कासीसहिङ्गुयवतुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बीजानि गोमूत्रिकाभाण्डीमूलं निम्बशिग्रुफणिर्जकाक्षीवपीलुकभङ्गः सर्पशफरीचर्म हस्तिनखशृङ्गचूर्णं इत्येष धूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशो यावच्चरति तावन् मारयति

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 कालीकुष्ठनडशतावलीमूलं सर्पप्रचलाककृकणपञ्चकुष्ठचूर्णं वा धूमः पूर्वकल्पेनार्द्रशुष्कपलालेन वा प्रणीतः सङ्ग्रामावतरणावस्कन्दनसङ्कुलेषु कृतनेजन उदकाक्षिप्रतीकारैः प्रणीतः सर्वप्राणिनां नेत्रघ्नः

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 शारिकाकपोतबकबलाकालेण्डं अर्काक्षिपीलुकस्नुहिक्षीरपिष्टं अन्धीकरणं अञ्जनं उदकदूषणं च

मूलम् - 15

15 शारिकाकपोतबकबलाकालेण्डं अर्काक्षिपीलुकस्नुहिक्षीरपिष्टं अन्धीकरणं अञ्जनं उदकदूषणं च

विश्वास-प्रस्तुतिः - 16

16 यवकशालिमूलमदनफलजातीपत्त्रनरमूत्रयोगः प्लक्षविदारीमूलयुक्तो मूक उदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 शृङ्गिगौतमवृककण्टकारमयूरपदीयोगो गुञ्जालाङ्गलीविषमूलिक इङ्गुदीयोगः करवीराक्षिपीलुकार्कमृगमारणीयोगो मद्नकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 समस्ता वा यवस इन्धन उदकदूषणाः

मूलम् - 18

18 समस्ता वा यवस इन्धन उदकदूषणाः

विश्वास-प्रस्तुतिः - 19

19 कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधं उन्मादं च करोति

मूलम् - 19

19 कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधं उन्मादं च करोति

विश्वास-प्रस्तुतिः - 20

20 कृकलासगृहगोलिकायोगः कुष्ठकरः

मूलम् - 20

20 कृकलासगृहगोलिकायोगः कुष्ठकरः

विश्वास-प्रस्तुतिः - 21

21 स एव चित्रं एकान्त्रमधुयुक्तः प्रमेहं आपादयति, मनुष्यलोहितयुक्तः शोषम्

मूलम् - 21

21 स एव चित्रं एकान्त्रमधुयुक्तः प्रमेहं आपादयति, मनुष्यलोहितयुक्तः शोषम्

विश्वास-प्रस्तुतिः - 22

22 दूषीविषं मदनकोद्रवचूर्णं अपजिह्विकायोगः

मूलम् - 22

22 दूषीविषं मदनकोद्रवचूर्णं अपजिह्विकायोगः

विश्वास-प्रस्तुतिः - 23

23 मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः

मूलम् - 23

23 मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः

विश्वास-प्रस्तुतिः - 24

24 पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः

मूलम् - 24

24 पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः

विश्वास-प्रस्तुतिः - 25

25 भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिर।करो मासार्धमासिकः

मूलम् - 25

25 भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिर।करो मासार्धमासिकः

विश्वास-प्रस्तुतिः - 26

26 कलामात्रं पुरुषाणां इत् समानं पूर्वेण

मूलम् - 26

26 कलामात्रं पुरुषाणां इत् समानं पूर्वेण

विश्वास-प्रस्तुतिः - 27

27 भङ्गक्वाथ उपनयनं औषधानां, चूर्णं प्राणभृतां, सर्वेषां वा क्वाथ उपनयनं, एवं वीर्यवत्तरं भव्ति

मूलम् - 27

27 भङ्गक्वाथ उपनयनं औषधानां, चूर्णं प्राणभृतां, सर्वेषां वा क्वाथ उपनयनं, एवं वीर्यवत्तरं भव्ति

विश्वास-प्रस्तुतिः - 28

28 इति योगसम्पत्

मूलम् - 28

28 इति योगसम्पत्

विश्वास-प्रस्तुतिः - 29

29 शाल्मली-विदारी-धान्य-सिद्धो मूलवत्सनाभ-सम्युक्तश् चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो
यं विध्यति स विद्धोऽन्यान् दश-पुरुषान् दशति,
ते दष्टा दशान्यान् दशन्ति पुरुषान्

English - 29

29 When an arrow, boiled* with the seeds of Śālmalī and Vidārī, containing Mula and Vatsanābha, and smeared with an ointment of blood of muskrats shrew, pierces a man, the man so pierced bites ten other men; and those who are so bitten, bite ten other men.

मानसतरङ्गिणीकृत् - 29

I have a partly written essay on this sUtra as it is a topic of considerable interest to me. I agree with Anand that the aconite toxin is one of the keys to this toxic arrow. Indeed, elsewhere in the arthashAstra, the kauTilya mentions vatsanAbha as one of the viSha-s collected by the state. However what is of interest to me is the so-called muskrat: you are right that it is a wrong translation. sutra goes thus:

Word is ChuChundarI which should be correctly translated as shrew. Why it is of interest to me is that kauTilya was ahead of his times & probably the first one to record a shrew toxin. To date the Haitian solenodon the European water shrew, the Mediterranean shrew, the American short-tailed shrew,&the East Asian shrew have been shown to be venomous. The American shrew’s toxin is related to a toxin of the gila monster & the East Asian shrew’s main toxin is related to a snail toxin. No one has studied the toxicity of the Indian shrew but the fact that it stuns is prey upon biting suggests that it has an as yet uncharacterized toxin. Thus, despite the likely exaggerations of the effects this sUtra might be first record of shew toxicity though the medical saMhitA-s need to also be considered as possible early records of the same.

I also believe that vidArI in the sUtra is a likely hallucinogenic Ipomea that might account for at least part of the bizarre symptoms described in it.

मूलम् - 29

29 शाल्मली-विदारीधान्यसिद्धो मूलवत्सनाभसम्युक्तश्चुच्छुन्दरीशोणितप्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोऽन्यान् दशपुरुषान् दशति, ते दष्टा दशान्यान् दशन्ति पुरुषान्

विश्वास-प्रस्तुतिः - 30

30 बल्लातकयातुधानावानुधामार्गवबाणानां पुष्पैरेलकाक्षिगुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

31 ततोऽर्धधरणिको योगः सक्तुपिण्याकाभ्यां उदके प्रणीतो धनुःशतायामं उदकाशयं दूषयति

मूलम् - 31

31 ततोऽर्धधरणिको योगः सक्तुपिण्याकाभ्यां उदके प्रणीतो धनुःशतायामं उदकाशयं दूषयति

विश्वास-प्रस्तुतिः - 32

32 मत्स्यपरम्परा ह्येतेन दष्टाऽभिमृष्टा वा विषीभवति, यश्च एतद् उदकं पिबति स्पृशति वा

मूलम् - 32

32 मत्स्यपरम्परा ह्येतेन दष्टाऽभिमृष्टा वा विषीभवति, यश्च एतद् उदकं पिबति स्पृशति वा

विश्वास-प्रस्तुतिः - 33

33 रक्तश्वेतसर्षपैर्गोधा त्रिपक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन उद्धृता यावत् पश्यति तावन् मारयति, कृष्णसर्पो वा

मूलम् - 33

विश्वास-प्रस्तुतिः - 34

34 विद्युत्प्रदग्धोऽङ्गारो ज्वालो वा विद्युत्प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाऽभिहुतोऽग्निः प्रणीतश्च निस्प्रतीकारो दहति

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

35ab कर्माराद् अग्निं आहृत्य क्षौद्रेण जुहुयात् पृथक् ।
35chd सुरया शौण्डिकाद् अग्निं मार्गतोऽग्निं घृतेन च

मूलम् - 35

विश्वास-प्रस्तुतिः - 36

36ab माल्येन च एकपत्न्य्ऽग्निं पुंश्चल्य्ऽग्निं च सर्षपैः ।
36chd दध्ना च सूतिकास्वग्निं आहिताग्निं च तण्डुलैः

मूलम् - 36

विश्वास-प्रस्तुतिः - 37

37ab चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च
37chd समस्तान् बस्तवसया मानुषेण ध्रुवेण च

मूलम् - 37

37ab चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च
37chd समस्तान् बस्तवसया मानुषेण ध्रुवेण च

विश्वास-प्रस्तुतिः - 38

38ab जुहुयाद् अग्निमन्त्रेण राजवृक्षस्य दारुभिः ।
38chd एष निष्प्रतिकारोऽग्निर्द्विषतां नेत्रमोहनः

मूलम् - 38

38ab जुहुयाद् अग्निमन्त्रेण राजवृक्षस्य दारुभिः ।
38chd एष निष्प्रतिकारोऽग्निर्द्विषतां नेत्रमोहनः

विश्वास-प्रस्तुतिः - 39

39 अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते

मूलम् - 39

39 अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते

विश्वास-प्रस्तुतिः - 40

40 अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा (इति)

मूलम् - 40