लब्धप्रशमनम्

विश्वास-प्रस्तुतिः - 01

01 द्विविधं विजिगीषोः समुत्थानं - अटव्य्।आदिकं एकग्रामादिकं च

मूलम् - 01

01 द्विविधं विजिगीषोः समुत्थानं - अटव्य्।आदिकं एकग्रामादिकं च

विश्वास-प्रस्तुतिः - 02

02 त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति

मूलम् - 02

02 त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति

विश्वास-प्रस्तुतिः - 03

03 नवं अवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन

मूलम् - 03

03 नवं अवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन

विश्वास-प्रस्तुतिः - 04

04 स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत

मूलम् - 04

04 स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत

विश्वास-प्रस्तुतिः - 05

05 यथासम्भाषितं च कृत्यपक्षं उपग्राहयेत्, भूयश्च कृतप्रयासम्

मूलम् - 05

05 यथासम्भाषितं च कृत्यपक्षं उपग्राहयेत्, भूयश्च कृतप्रयासम्

विश्वास-प्रस्तुतिः - 06

06 अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च

मूलम् - 06

06 अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च

विश्वास-प्रस्तुतिः - 07

07 तस्मात् समानशीलवेषभाषाऽऽचारतां उपगछेत्

मूलम् - 07

07 तस्मात् समानशीलवेषभाषाऽऽचारतां उपगछेत्

विश्वास-प्रस्तुतिः - 08

08 देशदैवतस्माज उत्सवविहारेषु च भक्तिं अनुवर्तेत

मूलम् - 08

08 देशदैवतस्माज उत्सवविहारेषु च भक्तिं अनुवर्तेत

विश्वास-प्रस्तुतिः - 09

09 देशग्रामजातिसङ्घमुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामिसत्कारं च विद्यमानम्

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 उचितैश्च एनान् भोगपरिहाररक्षाऽवेक्षणैर्भुञ्जीत

मूलम् - 10

10 उचितैश्च एनान् भोगपरिहाररक्षाऽवेक्षणैर्भुञ्जीत

विश्वास-प्रस्तुतिः - 11

11 सर्वदेवताऽऽश्रमपूजनं च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कारयेत्, सर्वबन्धनमोक्षणं अनुग्रहं दीनानाथव्याधितानां च

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 चातुर्मास्येष्वर्धमासिकं अघातं, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम्

मूलम् - 12

12 चातुर्मास्येष्वर्धमासिकं अघातं, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम्

विश्वास-प्रस्तुतिः - 13

13 योनिबालवधं पुंस्त्व उपघातं च प्रतिषेधयेत्

मूलम् - 13

13 योनिबालवधं पुंस्त्व उपघातं च प्रतिषेधयेत्

विश्वास-प्रस्तुतिः - 14

14 यच्च कोशदण्ड उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्यव्यवहारं स्थापयेत्

मूलम् - 14

14 यच्च कोशदण्ड उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्यव्यवहारं स्थापयेत्

विश्वास-प्रस्तुतिः - 15

15 चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासं अनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च

मूलम् - 15

15 चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासं अनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च

विश्वास-प्रस्तुतिः - 16

16 परा उपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत्

मूलम् - 16

16 परा उपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत्

विश्वास-प्रस्तुतिः - 17

17 अपकारसमर्थान् अनुक्षियतो वा भर्तृविनाशं उपांशुदण्डेन प्रशमयेत्

मूलम् - 17

17 अपकारसमर्थान् अनुक्षियतो वा भर्तृविनाशं उपांशुदण्डेन प्रशमयेत्

विश्वास-प्रस्तुतिः - 18

18 स्वदेशीयान् वा परेण वाऽपरुद्धान् अपवाहितस्थानेषु स्थापयेत्

मूलम् - 18

18 स्वदेशीयान् वा परेण वाऽपरुद्धान् अपवाहितस्थानेषु स्थापयेत्

विश्वास-प्रस्तुतिः - 19

19 यश्च तत्कुलीनः प्रत्यादेयं आदातुं शक्तः, प्रत्यन्ताटवीस्थो वा प्रबाधितुं अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश्चतुर्भागं वा कोशदण्डदानं अवस्थाप्य, यद् उपकुर्वाणः पौरजानपदान् कोपयेत्

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 कुपितैः तैरेनं घातयेत्

मूलम् - 20

20 कुपितैः तैरेनं घातयेत्

विश्वास-प्रस्तुतिः - 21

21 प्रकृतिभिरुपक्रुष्टं अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति

मूलम् - 21

21 प्रकृतिभिरुपक्रुष्टं अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति

विश्वास-प्रस्तुतिः - 22

22 भूतपूर्वे येन दोषेणापवृत्तः तं प्रकृतिदोषं छादयेत्, येन च गुणेन उपावृत्तः तं तीव्रीकुर्यात् - इति

मूलम् - 22

विश्वास-प्रस्तुतिः - 23

23 पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत् - इति

मूलम् - 23

23 पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत् - इति

विश्वास-प्रस्तुतिः - 24

24ab चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।
24chd प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् (इति)

मूलम् - 24