पर्युपासनकर्म - अवमर्दः
विश्वास-प्रस्तुतिः - 01
01 कर्शनपूर्वं पर्युपासनकर्म
मूलम् - 01
01 कर्शनपूर्वं पर्युपासनकर्म
विश्वास-प्रस्तुतिः - 02
02 जनपदं यथानिविष्टं अभये स्थापयेत्
मूलम् - 02
02 जनपदं यथानिविष्टं अभये स्थापयेत्
विश्वास-प्रस्तुतिः - 03
03 उत्थितं अनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः
मूलम् - 03
03 उत्थितं अनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः
विश्वास-प्रस्तुतिः - 04
04 सङ्ग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत्
मूलम् - 04
04 सङ्ग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत्
विश्वास-प्रस्तुतिः - 05
05 न ह्यजनो जनपदो राज्यं अजनपदं वा भवति इति कौटिल्यः
मूलम् - 05
05 न ह्यजनो जनपदो राज्यं अजनपदं वा भवति इति कौटिल्यः
विश्वास-प्रस्तुतिः - 06
06 विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च
मूलम् - 06
06 विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च
विश्वास-प्रस्तुतिः - 07
07ab प्रसारवीवधच्छेदान् मुष्टिसस्यवधाद् अपि ।
07chd वमनाद् गूढघाताच्च जायते प्रकृतिक्षयः
मूलम् - 07
07ab प्रसारवीवधच्छेदान् मुष्टिसस्यवधाद् अपि ।
07chd वमनाद् गूढघाताच्च जायते प्रकृतिक्षयः
विश्वास-प्रस्तुतिः - 08
08 प्रभूतगुणबद्ध(वद्ध) अन्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सैन्यं, ऋतुश्च पुरस्तात्, अपर्तुः परस्य, व्याधिदुर्भिक्षनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च इति पर्युपासीत
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च, परिक्षिप्य दुर्गं खातसालाभ्यां, दूषयित्वा उदकं, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गाबलकुटिकाभ्यां वप्रप्राकारौ हारयेत्, दारं च गुडेन
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 निम्नं वा पांसुमालयाऽऽच्छादयेत्
मूलम् - 10
10 निम्नं वा पांसुमालयाऽऽच्छादयेत्
विश्वास-प्रस्तुतिः - 11
11 बहुलारक्षं यन्त्रैर्घातयेत्
मूलम् - 11
11 बहुलारक्षं यन्त्रैर्घातयेत्
विश्वास-प्रस्तुतिः - 12
12 निष्किराद् उपनिष्कृष्याश्वैश्च प्रहरेयुः
मूलम् - 12
12 निष्किराद् उपनिष्कृष्याश्वैश्च प्रहरेयुः
विश्वास-प्रस्तुतिः - 13
13 विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्च उपायानां सिद्धिं लिप्सेत
मूलम् - 13
13 विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्च उपायानां सिद्धिं लिप्सेत
विश्वास-प्रस्तुतिः - 14
14 दुर्गवासिनः श्येनकाकनप्तृभासशुकसारिक उलूककपोतान् ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विसृजेत्
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 अपकृष्टस्कन्धावाराद् उच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गं आदीपयेत्
मूलम् - 15
15 अपकृष्टस्कन्धावाराद् उच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गं आदीपयेत्
विश्वास-प्रस्तुतिः - 16
16 गूढपुर्षाश्चान्तर्दुर्गपालका नकुलवानरबिडालशुनां पुच्छेष्वग्नियोगं आधाय काण्डनिचयरक्षाविधानवेश्मसु विसृजेयुः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 शुष्कमत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस उपहारेण वयोभिर्हारयेयुः
मूलम् - 17
17 शुष्कमत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस उपहारेण वयोभिर्हारयेयुः
विश्वास-प्रस्तुतिः - 18
18 सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खर उष्ट्राजावीनां लेण्डं चाग्निधारणम्
मूलम् - 18
18 सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खर उष्ट्राजावीनां लेण्डं चाग्निधारणम्
विश्वास-प्रस्तुतिः - 19
19 प्रियालचूर्णं अवल्गुजमषीमधु।उच्छिष्टं अश्वखर उष्ट्रगोलेण्डं इत्येष क्षेप्योऽग्नियोगः
मूलम् - 19
19 प्रियालचूर्णं अवल्गुजमषीमधु।उच्छिष्टं अश्वखर उष्ट्रगोलेण्डं इत्येष क्षेप्योऽग्नियोगः
विश्वास-प्रस्तुतिः - 20
20 सर्वलोहचूर्णं अग्निवर्णं वा कुम्भीसीसत्रपुचूर्णं वा पारिभद्रकपलाशपुष्पकेशमषीतैलमधु।उच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगो विश्वासघाती वा
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः
मूलम् - 21
21 तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः
विश्वास-प्रस्तुतिः - 22
22 न त्वेव विद्यमाने पराक्रमेऽग्निं अवसृजेत्
मूलम् - 22
22 न त्वेव विद्यमाने पराक्रमेऽग्निं अवसृजेत्
विश्वास-प्रस्तुतिः - 23
23 अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसङ्ख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः
मूलम् - 23
23 अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसङ्ख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः
विश्वास-प्रस्तुतिः - 24
24 क्षीणनिचयं चावाप्तं अपि राज्यं क्षयाय एव भवति इति पर्युपासनकर्म
मूलम् - 24
24 क्षीणनिचयं चावाप्तं अपि राज्यं क्षयाय एव भवति इति पर्युपासनकर्म
विश्वास-प्रस्तुतिः - 25
25 सर्वारम्भ उपकरणविष्टिसम्पन्नोऽस्मि, व्याधितः पर उपधाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा, निरासारः सासारो वा पुरा मित्रैः सन्धत्ते इत्यवमर्दकालः
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षाऽनीकदर्शनसङ्गसौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धप्रेतपुरुषे जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे वाऽवमृद्नीयात्
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 स्कन्धावारं उत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत्
मूलम् - 27
27 स्कन्धावारं उत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत्
विश्वास-प्रस्तुतिः - 28
28 मित्रासारमुख्यव्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् - इदं ते छिद्रं, इमे दूष्याः सम्रोद्धुर्वा छिद्रं, अयं ते कृत्यपक्षः इति
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत्
मूलम् - 29
29 तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत्
विश्वास-प्रस्तुतिः - 30
30 ततो मित्रासारव्यञ्जनो वा सम्रुद्धं ब्रूयात् मां त्रातुं उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि इति
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31 प्रतिपन्नं उभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
मूलम् - 31
31 प्रतिपन्नं उभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
विश्वास-प्रस्तुतिः - 32
32 नगरं वाऽस्य प्रमृद्नीयात्
मूलम् - 32
32 नगरं वाऽस्य प्रमृद्नीयात्
विश्वास-प्रस्तुतिः - 33
33 सारबलं वाऽस्य वमयित्वाऽभिहन्यात्
मूलम् - 33
33 सारबलं वाऽस्य वमयित्वाऽभिहन्यात्
विश्वास-प्रस्तुतिः - 34
34 तेन दण्ड उपनताटविका व्याख्याताः
मूलम् - 34
34 तेन दण्ड उपनताटविका व्याख्याताः
विश्वास-प्रस्तुतिः - 35
35 दण्ड उपनताटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् - अयं सम्रोद्धा व्याधितः, पार्ष्णिग्राहेणाभियुक्तः, छिद्रं अन्यद् उत्थितं, अन्यस्यां भूमावपयातुकामः इति
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 प्रतिपन्ने सम्रोद्धा स्कन्धावारं आदीप्यापयायात्
मूलम् - 36
36 प्रतिपन्ने सम्रोद्धा स्कन्धावारं आदीप्यापयायात्
विश्वास-प्रस्तुतिः - 37
37 ततः पूर्ववद् आचरेत्
मूलम् - 37
37 ततः पूर्ववद् आचरेत्
विश्वास-प्रस्तुतिः - 38
38 पण्यसम्पातं वा कृत्वा पण्येन एनं रसविद्धेनातिसन्दध्यात्
मूलम् - 38
38 पण्यसम्पातं वा कृत्वा पण्येन एनं रसविद्धेनातिसन्दध्यात्
विश्वास-प्रस्तुतिः - 39
39 आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम् इति
मूलम् - 39
39 आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम् इति
विश्वास-प्रस्तुतिः - 40
40 प्रतिपन्नं पूर्ववद् आचरेत्
मूलम् - 40
40 प्रतिपन्नं पूर्ववद् आचरेत्
विश्वास-प्रस्तुतिः - 41
41 मित्रं बन्धुं वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः
मूलम् - 41
41 मित्रं बन्धुं वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः
विश्वास-प्रस्तुतिः - 42
42 आसारव्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - अमुष्मिन् देशे काले च स्कन्धावारं अभिहनिष्यामि, युष्माभिरपि योद्धव्यम् इति
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 प्रतिपन्नं यथा उक्तं अभ्याघातसङ्कुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत्
मूलम् - 43
43 प्रतिपन्नं यथा उक्तं अभ्याघातसङ्कुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत्
विश्वास-प्रस्तुतिः - 44
44 यद् वा मित्रं आवाहयेद् आटव्विकं वा, तं उत्साहयेत् विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व इति
मूलम् - 44
44 यद् वा मित्रं आवाहयेद् आटव्विकं वा, तं उत्साहयेत् विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व इति
विश्वास-प्रस्तुतिः - 45
45 विक्रान्तं प्रकृतिभिर्दूष्यमुख्य उपग्रहेण वा घातयेत्, स्वयं वा रसेन मित्रघातकोऽयम् इत्यवाप्तार्थः
मूलम् - 45

विश्वास-प्रस्तुतिः - 46
46 विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत्
मूलम् - 46
46 विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत्
विश्वास-प्रस्तुतिः - 47
47 आप्तभाव उपगतः प्रवीरपुरुषानस्य उपघातयेत्
मूलम् - 47
47 आप्तभाव उपगतः प्रवीरपुरुषानस्य उपघातयेत्
विश्वास-प्रस्तुतिः - 48
48 सन्धिं वा कृत्वा जनपदं एनं निवेशयेत्
मूलम् - 48
48 सन्धिं वा कृत्वा जनपदं एनं निवेशयेत्
विश्वास-प्रस्तुतिः - 49
49 निविष्टं अस्य जनपदं अविज्ञातो हन्यात्
मूलम् - 49
49 निविष्टं अस्य जनपदं अविज्ञातो हन्यात्
विश्वास-प्रस्तुतिः - 50
50 अपकारयित्वा दूष्याटविकेषु वा बल एकदेशं अतिनीय दुर्गं अवस्कन्देन हारयेत्
मूलम् - 50
50 अपकारयित्वा दूष्याटविकेषु वा बल एकदेशं अतिनीय दुर्गं अवस्कन्देन हारयेत्
विश्वास-प्रस्तुतिः - 51
51 दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसञ्ज्ञाचिह्नाः परदुर्गं अवस्कन्देयुः
मूलम् - 51
51 दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसञ्ज्ञाचिह्नाः परदुर्गं अवस्कन्देयुः
विश्वास-प्रस्तुतिः - 52
52 परदुर्गं अवस्कन्द्य स्कन्धावारं वा पतितपरान्मुखाभिपन्नं उक्तकेशशस्त्रभयविरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः
मूलम् - 52

विश्वास-प्रस्तुतिः - 53
53 परदुर्गं अवाप्य विशुद्धशत्रुपक्षं कृत उपांशुदण्डप्रतीकारं अन्तर्बहिश्च प्रविशेत्
मूलम् - 53
53 परदुर्गं अवाप्य विशुद्धशत्रुपक्षं कृत उपांशुदण्डप्रतीकारं अन्तर्बहिश्च प्रविशेत्
विश्वास-प्रस्तुतिः - 54
54 एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम्
मूलम् - 54
54 एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम्
विश्वास-प्रस्तुतिः - 55
55 एष प्रथमो मार्गः पृथिवीं जेतुम्
मूलम् - 55
55 एष प्रथमो मार्गः पृथिवीं जेतुम्
विश्वास-प्रस्तुतिः - 56
56 मध्यम उदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः
मूलम् - 56
56 मध्यम उदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः
विश्वास-प्रस्तुतिः - 57
57 एष द्वितीयो मार्गः
मूलम् - 57
57 एष द्वितीयो मार्गः
विश्वास-प्रस्तुतिः - 58
58 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतःसम्पीडनेन साधयेत्
मूलम् - 58
58 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतःसम्पीडनेन साधयेत्
विश्वास-प्रस्तुतिः - 59
59 एषतृतीयो मार्गः
मूलम् - 59
59 एषतृतीयो मार्गः
विश्वास-प्रस्तुतिः - 60
60 शक्यं एकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयं, त्रिगुणः तृतीयम्
मूलम् - 60
60 शक्यं एकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयं, त्रिगुणः तृतीयम्
विश्वास-प्रस्तुतिः - 61
61 एष चतुर्थो मार्गः पृथिवीं जेतुम्
मूलम् - 61
61 एष चतुर्थो मार्गः पृथिवीं जेतुम्
विश्वास-प्रस्तुतिः - 62
62 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत
मूलम् - 62
62 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत
विश्वास-प्रस्तुतिः - 63
63ab उपजापोऽपसर्पश्च वामनं पर्युपासनम् ।
63chd अवमर्दश्च पञ्च एते दुर्गलम्भस्य हेतवः (इति)
मूलम् - 63