अपसर्पप्रणिधिः
विश्वास-प्रस्तुतिः - 01
01 श्रेणीमुख्यं आप्तं निष्पातयेत्
मूलम् - 01
01 श्रेणीमुख्यं आप्तं निष्पातयेत्
विश्वास-प्रस्तुतिः - 02
02 स परं आश्र्त्य पक्षापदेशेन स्वविषयात् साचिव्यकरसहाय उपादानं कुर्वीत
मूलम् - 02
02 स परं आश्र्त्य पक्षापदेशेन स्वविषयात् साचिव्यकरसहाय उपादानं कुर्वीत
विश्वास-प्रस्तुतिः - 03
03 कृतापसर्प उपचयो वा परं अनुमान्य स्वामिनो दूष्यग्रामं वीतहस्त्य्ऽश्वं दूष्यामात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत्
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 जनपद एकदेशं श्रेणीं अटवीं वा सहाय उपादानार्थं संश्रयेत
मूलम् - 04
04 जनपद एकदेशं श्रेणीं अटवीं वा सहाय उपादानार्थं संश्रयेत
विश्वास-प्रस्तुतिः - 05
05 विश्वासं उपगतः स्वामिनः प्रेषयेत्
मूलम् - 05
05 विश्वासं उपगतः स्वामिनः प्रेषयेत्
विश्वास-प्रस्तुतिः - 06
06 ततः स्वामी हस्तिबन्धनं अटवीघातं वाऽपदिश्य गूढं एव प्रहरेत्
मूलम् - 06
06 ततः स्वामी हस्तिबन्धनं अटवीघातं वाऽपदिश्य गूढं एव प्रहरेत्
विश्वास-प्रस्तुतिः - 07
07 एतेनामात्याटविका व्याख्याताः
मूलम् - 07
07 एतेनामात्याटविका व्याख्याताः
विश्वास-प्रस्तुतिः - 08
08 शत्रुणा मैत्रीं कृत्वाऽमात्यान् अवक्षिपेत्
मूलम् - 08
08 शत्रुणा मैत्रीं कृत्वाऽमात्यान् अवक्षिपेत्
विश्वास-प्रस्तुतिः - 09
09 ते तत्शत्रोः प्रेषयेयुः भर्तारं नः प्रसादय इति
मूलम् - 09
09 ते तत्शत्रोः प्रेषयेयुः भर्तारं नः प्रसादय इति
विश्वास-प्रस्तुतिः - 10
10 स यं दूतं प्रेषयेत्, तं उपालभेत भर्ता ते मां अमात्यैर्भेदयति, न च पुनरिहागन्तव्यम् इति
मूलम् - 10
10 स यं दूतं प्रेषयेत्, तं उपालभेत भर्ता ते मां अमात्यैर्भेदयति, न च पुनरिहागन्तव्यम् इति
विश्वास-प्रस्तुतिः - 11
11 अथ एकं अमात्यं निष्पातयेत्
मूलम् - 11
11 अथ एकं अमात्यं निष्पातयेत्
विश्वास-प्रस्तुतिः - 12
12 स परं आश्रित्य योगापसर्पापरक्तदूष्यान् अशक्तिमतः स्तेनाटविकान् उभय उपघातकान् वा परस्य उपहरेत्
मूलम् - 12
12 स परं आश्रित्य योगापसर्पापरक्तदूष्यान् अशक्तिमतः स्तेनाटविकान् उभय उपघातकान् वा परस्य उपहरेत्
विश्वास-प्रस्तुतिः - 13
13 आप्तभाव उपगतः प्रवीरपुरुष उपघातं अस्य उपहरेद् अन्तपालं आटविकं दण्डचारिणं वा दृढं असौ चासौ च ते शत्रुणा सन्धत्ते इति
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 अथ पश्चाद् अभित्यक्तशासनैरेनान् घातयेत्
मूलम् - 14
14 अथ पश्चाद् अभित्यक्तशासनैरेनान् घातयेत्
विश्वास-प्रस्तुतिः - 15
15 दण्डबलव्यवहारेण वा शत्रुं उद्योज्य घातयेत्
मूलम् - 15
15 दण्डबलव्यवहारेण वा शत्रुं उद्योज्य घातयेत्
विश्वास-प्रस्तुतिः - 16
16 कृत्यपक्ष उपग्रहेण वा परस्यामित्रं राजानं आत्मन्यपकारयित्वाऽभियुञ्जीत
मूलम् - 16
16 कृत्यपक्ष उपग्रहेण वा परस्यामित्रं राजानं आत्मन्यपकारयित्वाऽभियुञ्जीत
विश्वास-प्रस्तुतिः - 17
17 ततः परस्य प्रेषयेत् असौ ते वैरी ममापकरोति, तं एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः इति
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 प्रतिपन्नं अभिसत्कृत्यागतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्
मूलम् - 18
18 प्रतिपन्नं अभिसत्कृत्यागतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्
विश्वास-प्रस्तुतिः - 19
19 अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्
मूलम् - 19
19 अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्
विश्वास-प्रस्तुतिः - 20
20 अविषह्यं उपांशुदण्डेन वा घातयेत्
मूलम् - 20
20 अविषह्यं उपांशुदण्डेन वा घातयेत्
विश्वास-प्रस्तुतिः - 21
21 स चेद् दण्डं दद्यान्न स्वयं आगच्छेत् तं अस्य वैरिणा घातयेत्
मूलम् - 21
21 स चेद् दण्डं दद्यान्न स्वयं आगच्छेत् तं अस्य वैरिणा घातयेत्
विश्वास-प्रस्तुतिः - 22
22 दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाऽप्येनं उभयतःसम्पीडनेन घातयेत्
मूलम् - 22
22 दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाऽप्येनं उभयतःसम्पीडनेन घातयेत्
विश्वास-प्रस्तुतिः - 23
23 अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद् राज्य एकदेशं वा यातव्यस्यादातुकामः, तथाऽप्येनं वैरिणा सर्वसन्दोहेन वा घातयेत्
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 वैरिणा वा सक्तस्य दण्ड उपनयेन मूलं अन्यतो हारयेत्
मूलम् - 24
24 वैरिणा वा सक्तस्य दण्ड उपनयेन मूलं अन्यतो हारयेत्
विश्वास-प्रस्तुतिः - 25
25 शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम्
मूलम् - 25
25 शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम्
विश्वास-प्रस्तुतिः - 26
26 ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाऽभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः
मूलम् - 26
26 ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाऽभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः
विश्वास-प्रस्तुतिः - 27
27 शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात्
मूलम् - 27
27 शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात्
विश्वास-प्रस्तुतिः - 28
28 ततो मित्रगतं अतिसन्दध्यात्
मूलम् - 28
28 ततो मित्रगतं अतिसन्दध्यात्
विश्वास-प्रस्तुतिः - 29
29 कृतप्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाऽऽत्मानं अभियोजयेत्
मूलम् - 29
29 कृतप्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाऽऽत्मानं अभियोजयेत्
विश्वास-प्रस्तुतिः - 30
30 ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
मूलम् - 30
30 ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
विश्वास-प्रस्तुतिः - 31
31 मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत् सामन्तादिभिर्मूलं अस्य हारयेत्
मूलम् - 31
31 मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत् सामन्तादिभिर्मूलं अस्य हारयेत्
विश्वास-प्रस्तुतिः - 32
32 दण्डेन वा त्रातुं इछेत् तं अस्य घातयेत्
मूलम् - 32
32 दण्डेन वा त्रातुं इछेत् तं अस्य घातयेत्
विश्वास-प्रस्तुतिः - 33
33 तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्यभूम्या पणेत
मूलम् - 33
33 तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्यभूम्या पणेत
विश्वास-प्रस्तुतिः - 34
34 ततः परस्परं मित्रव्यञ्जना वा उभयवेतना वा दूतान् प्रेषयेयुः अयं ते राजा भूमिं लिप्सते शत्रुसंहितः इति
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत
मूलम् - 35
35 तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत
विश्वास-प्रस्तुतिः - 36
36 दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत्
मूलम् - 36
36 दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत्
विश्वास-प्रस्तुतिः - 37
37 ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुं अतिसन्दध्युः
मूलम् - 37
37 ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुं अतिसन्दध्युः
विश्वास-प्रस्तुतिः - 38
38 भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः
मूलम् - 38
38 भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः
विश्वास-प्रस्तुतिः - 39
39 अभित्यक्तशासनैः प्रतिसमानयेयुः
मूलम् - 39
39 अभित्यक्तशासनैः प्रतिसमानयेयुः
विश्वास-प्रस्तुतिः - 40
40 लुब्धकव्यञ्जना वा मांसविक्रयेण द्वाह्स्था दौवारिकापाश्रयाश्चोराभ्यागमं परस्य द्विः त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः आसन्नश्चोरगणः, महांश्चाक्रन्दः, प्रभूतं सैन्यं आगच्छतु इति
मूलम् - 40

विश्वास-प्रस्तुतिः - 41
41 तद् अर्पयित्वा ग्रामघातदण्डस्य सैन्यं इतरद् आदाय रात्रौ दुर्गद्वारेषु ब्रूयुः हतश्चोरगणः, सिद्धयात्रं इदं सैन्यं आगतं, द्वारं अपाव्रियताम् इति
मूलम् - 41

विश्वास-प्रस्तुतिः - 42
42 पूर्वप्रणिहिता वा द्वाराणि दद्युः
मूलम् - 42
42 पूर्वप्रणिहिता वा द्वाराणि दद्युः
विश्वास-प्रस्तुतिः - 43
43 तैः सह प्रहरेयुः
मूलम् - 43
43 तैः सह प्रहरेयुः
विश्वास-प्रस्तुतिः - 44
44 कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनान् आयुधीयान् व्वा परदुर्गे प्रणिदध्यात्
मूलम् - 44
44 कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनान् आयुधीयान् व्वा परदुर्गे प्रणिदध्यात्
विश्वास-प्रस्तुतिः - 45
45 तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा
मूलम् - 45
45 तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा
विश्वास-प्रस्तुतिः - 46
46 ततः तद्व्यञ्जनाः प्रमत्तवधं अवस्कन्दप्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्खदुन्दुभिशब्देन वा प्रविष्टम् इत्यावेदयेयुः
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47 प्राकारद्वाराट्टालकदानं अनीकभेदं घातं वा कुर्युः
मूलम् - 47
47 प्राकारद्वाराट्टालकदानं अनीकभेदं घातं वा कुर्युः
विश्वास-प्रस्तुतिः - 48
48 सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहारिभिरुपकरणहारकैर्धान्यक्रेतृविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्दूतैश्च दणड्ऽतिनयनं, सन्धिकर्मविश्वासनार्थम्
मूलम् - 48

विश्वास-प्रस्तुतिः - 49
49 इति राजापसर्पाः
मूलम् - 49
49 इति राजापसर्पाः
विश्वास-प्रस्तुतिः - 50
50 एत एवाटवीनां अपसर्पाः कण्टकशोधन उक्ताश्च
मूलम् - 50
50 एत एवाटवीनां अपसर्पाः कण्टकशोधन उक्ताश्च
विश्वास-प्रस्तुतिः - 51
51 व्रजं अटव्य्।आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः
मूलम् - 51
51 व्रजं अटव्य्।आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः
विश्वास-प्रस्तुतिः - 52
52 कृतसङ्केतं अन्नपानं चात्र मदनरसविद्धं वा कृत्वाऽपगच्छेयुः
मूलम् - 52
52 कृतसङ्केतं अन्नपानं चात्र मदनरसविद्धं वा कृत्वाऽपगच्छेयुः
विश्वास-प्रस्तुतिः - 53
53 गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान् मदनरसविकारकालेऽवस्कन्दयेयुः
मूलम् - 53
53 गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान् मदनरसविकारकालेऽवस्कन्दयेयुः
विश्वास-प्रस्तुतिः - 54
54 सङ्कर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसन्दध्यात्
मूलम् - 54
54 सङ्कर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसन्दध्यात्
विश्वास-प्रस्तुतिः - 55
55 अथावस्कन्दं दद्यात्
मूलम् - 55
55 अथावस्कन्दं दद्यात्
विश्वास-प्रस्तुतिः - 56
56 शौण्डिकव्यञ्जनो वा दैवतप्रेतकार्य उत्सवसमाजेष्वाटविकान् सुराविक्रय उपायननिमित्तं मदनरसयोगेनातिसन्दध्यात्
मूलम् - 56

विश्वास-प्रस्तुतिः - 57
57 अथावस्कन्दं दद्यात्
मूलम् - 57
57 अथावस्कन्दं दद्यात्
विश्वास-प्रस्तुतिः - 58
58ab ग्रामघातप्रविष्टां वा विक्षिप्य बहुधाऽटवीम् ।
58chd घातयेद् इति चोराणां अपसर्पाः प्रकीर्तिताः (इति)
मूलम् - 58