योगवामनम्
विश्वास-प्रस्तुतिः - 01
01 मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत्
मूलम् - 01
01 मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत्
विश्वास-प्रस्तुतिः - 02
02 शिष्याश्चास्य मूलफल उपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः
मूलम् - 02
02 शिष्याश्चास्य मूलफल उपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः
विश्वास-प्रस्तुतिः - 03
03 समागताश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्, शते शते च वर्षाणां पूर्णेऽहं अग्निं प्रविश्य पुनर्बालो भवामि, तद् इह भवत् समीपे चतुर्थं अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व) इति
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 प्रतिपन्नं ब्रूयात् सप्तरात्रं इह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम् इति
मूलम् - 04
04 प्रतिपन्नं ब्रूयात् सप्तरात्रं इह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम् इति
विश्वास-प्रस्तुतिः - 05
05 वसन्तं अवस्कन्देत
मूलम् - 05
05 वसन्तं अवस्कन्देत
विश्वास-प्रस्तुतिः - 06
06 मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी वस्तशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके निदध्याद् उपजिह्विकानुसरणार्थं, स्वर्णनालिकां वा
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 ततः सत्त्री राज्ञः कथयेत् असौ सिद्धः पुष्पितं निधिं जानाति इति
मूलम् - 07
07 ततः सत्त्री राज्ञः कथयेत् असौ सिद्धः पुष्पितं निधिं जानाति इति
विश्वास-प्रस्तुतिः - 08
08 स राज्ञा पृष्ठः तथा इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यं अन्तर्।आधाय
मूलम् - 08
08 स राज्ञा पृष्ठः तथा इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यं अन्तर्।आधाय
विश्वास-प्रस्तुतिः - 09
09 ब्रूयाच्च एनं नागरक्षितोऽयं निधिः प्रणिपातसाध्यः इति
मूलम् - 09
09 ब्रूयाच्च एनं नागरक्षितोऽयं निधिः प्रणिपातसाध्यः इति
विश्वास-प्रस्तुतिः - 10
10 प्रतिपन्नं ब्रूयात् सप्तरात्रम् इति समानम्
मूलम् - 10
10 प्रतिपन्नं ब्रूयात् सप्तरात्रम् इति समानम्
विश्वास-प्रस्तुतिः - 11
11 स्थानिकव्यञ्जनं वा रात्रौ तेजनाग्नियुक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रमाभीनीतं राज्ञः कथयेयुः असौ सिद्धः सामेधिकः इति
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः सप्तरात्रम् इति समानम्
मूलम् - 12
12 तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः सप्तरात्रम् इति समानम्
विश्वास-प्रस्तुतिः - 13
13 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत्
मूलम् - 13
13 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत्
विश्वास-प्रस्तुतिः - 14
14 तं राजा इति समानम्
मूलम् - 14
14 तं राजा इति समानम्
विश्वास-प्रस्तुतिः - 15
15 सिद्धव्यञ्जनो वा देशदेवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृतिमुख्यान् अभिसंवास्य क्रमेण राजानं अतिसन्दध्यात्
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 जटिलव्यञ्जनं अन्तर्।उदकवासिनं वा सर्वश्वेतं तटसुरुङ्गाभूमिगृहापसरणं वरुणं नागराजं वा सत्त्रिणः क्रमाभिनीतं राज्ञः कथयेयुः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 तं राजा इति समानम्
मूलम् - 17
17 तं राजा इति समानम्
विश्वास-प्रस्तुतिः - 18
18 जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत्
मूलम् - 18
18 जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत्
विश्वास-प्रस्तुतिः - 19
19 प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत्
मूलम् - 19
19 प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत्
विश्वास-प्रस्तुतिः - 20
20 अश्वपण्य उपयाता वैदेहकव्यञ्जनाः पण्य उपायननिमित्तं आहूय राजानं पण्यपरीक्षायां आसक्तं अश्वव्यतिकीर्णं वा हन्युः, अश्वैश्च प्रहरेयुः
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 नगराभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम् इत्यव्यक्तं ब्रूयुः
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 तद् एषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः
मूलम् - 22
22 तद् एषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः
विश्वास-प्रस्तुतिः - 23
23 मङ्गल्ये वा ह्रदे तटाकमध्ये वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमयानि निष्पेषयन्तः तथैव ब्रूयुः
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 ऋक्षचर्मकञ्चुकिनो वाऽग्निधूम उत्सर्गयुक्ता रक्षोरूपं वहन्तः त्रिरपसव्यं नगरं कुर्वाणाः श्वसृगालवाशितान्तरेषु तथैव ब्रूयुः
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः
मूलम् - 25
25 चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः
विश्वास-प्रस्तुतिः - 26
26 तद् अन्ये ख्यापयेयुः
मूलम् - 26
26 तद् अन्ये ख्यापयेयुः
विश्वास-प्रस्तुतिः - 27
27 दैवतप्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः
मूलम् - 27
27 दैवतप्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः
विश्वास-प्रस्तुतिः - 28
28 तद् अन्ये देवरुधिरसंस्रावे सङ्ग्रामे पराजयं ब्रूयुः
मूलम् - 28
28 तद् अन्ये देवरुधिरसंस्रावे सङ्ग्रामे पराजयं ब्रूयुः
विश्वास-प्रस्तुतिः - 29
29 सन्धिरात्रिषु श्मशानप्रमुखे वा चैत्यं ऊर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः
मूलम् - 29
29 सन्धिरात्रिषु श्मशानप्रमुखे वा चैत्यं ऊर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः
विश्वास-प्रस्तुतिः - 30
30 ततो रक्षोरूपी मनुष्यकं याचेत
मूलम् - 30
30 ततो रक्षोरूपी मनुष्यकं याचेत
विश्वास-प्रस्तुतिः - 31
31 यश्चात्र शूरवादिकोऽन्यतमो वा द्रष्टुं आगच्छेत् तं अन्ये लोहमुसलैर्हन्युः, यथा रक्षोभिर्हत इति ज्ञायेत
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 तद् अद्भुतं राज्ञः तद्दर्शिनः सत्त्रिणश्च कथयेयुः
मूलम् - 32
32 तद् अद्भुतं राज्ञः तद्दर्शिनः सत्त्रिणश्च कथयेयुः
विश्वास-प्रस्तुतिः - 33
33 ततो नैमितित्कमौहूर्तिकव्यञ्जनाः शान्तिं प्रायश्चित्तं ब्रूयुः अन्यथा महद् अकुशलं राज्ञो देशस्य च इति
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 प्रतिपन्नं एतेषु सप्तरात्रं एक एकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम् इति ब्रूयुः
मूलम् - 34
34 प्रतिपन्नं एतेषु सप्तरात्रं एक एकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम् इति ब्रूयुः
विश्वास-प्रस्तुतिः - 35
35 ततः समानम्
मूलम् - 35
35 ततः समानम्
विश्वास-प्रस्तुतिः - 36
36 एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेशार्थम्
मूलम् - 36
36 एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेशार्थम्
विश्वास-प्रस्तुतिः - 37
37 ततः प्रयोजयेद् योगान्
मूलम् - 37
37 ततः प्रयोजयेद् योगान्
विश्वास-प्रस्तुतिः - 38
38 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
मूलम् - 38
38 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
विश्वास-प्रस्तुतिः - 39
39 हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः
मूलम् - 39
39 हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः
विश्वास-प्रस्तुतिः - 40
40 प्रतिपन्नं गहनं एकायनं वाऽतिनीय घातयेयुः, बद्ध्वा वाऽपहरेयुः
मूलम् - 40
40 प्रतिपन्नं गहनं एकायनं वाऽतिनीय घातयेयुः, बद्ध्वा वाऽपहरेयुः
विश्वास-प्रस्तुतिः - 41
41 तेन मृगयाकामो व्याख्यातः
मूलम् - 41
41 तेन मृगयाकामो व्याख्यातः
विश्वास-प्रस्तुतिः - 42
42 द्रव्यस्त्रीलोलुपं आढ्यविधवाभिर्वा परमरूपयौवनाभिः स्त्रीभिर्दायनिक्षेपार्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः
मूलम् - 43
43 प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः
विश्वास-प्रस्तुतिः - 44
44 सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानां अभीक्ष्णाभिगमनेषु वा भूमिगृहसुरुङ्गारूढभित्तिप्रविष्टाः तीक्ष्णाः परं अभिहन्युः
मूलम् - 44

विश्वास-प्रस्तुतिः - 45
45ab येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् ।
45chd यात्राविहारे रमते यत्र क्रीडति वाऽम्भसि
मूलम् - 45

विश्वास-प्रस्तुतिः - 46
46ab धिग्।उक्त्य्।आदिषु सर्वेषु यज्ञप्रहवणेषु वा ।
46chd सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा ।
मूलम् - 46
46ab धिग्।उक्त्य्।आदिषु सर्वेषु यज्ञप्रहवणेषु वा ।
46chd सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा ।
विश्वास-प्रस्तुतिः - 47
47ab प्रमादं याति यस्मिन् वा विश्वासात् स्वजन उत्सवे
47chd यत्रास्यारक्षिसञ्चारो दुर्दिने सङ्कुलेषु वा ।
मूलम् - 47

विश्वास-प्रस्तुतिः - 48
48ab विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा ।
48chd वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः
मूलम् - 48
48ab विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा ।
48chd वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः
विश्वास-प्रस्तुतिः - 49
49ab मद्यभोजनफेलाभिः तूर्यैर्वाऽभिगताः सह ।
49chd प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह (इति)
मूलम् - 49
49ab मद्यभोजनफेलाभिः तूर्यैर्वाऽभिगताः सह ।
49chd प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह (इति)
विश्वास-प्रस्तुतिः - 50
50ab यथैव प्रविशेयुश्च द्विषतः सत्त्रहेतुभिः ।
50chd तथैव चापगच्छेयुरित्युक्तं योगवामनम्
मूलम् - 50