उपजापः
विश्वास-प्रस्तुतिः - 01
01 विजिगीषुः परग्रामं अवाप्तुकामः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 सर्वज्ञख्यापनं तु - गृहगुह्यप्रवृत्तिज्ञानेन प्रत्यादेशो मुख्यानां, कण्टकशोधनापसर्पावगमेन प्रकाशनं राजद्विष्टकारिणां, विज्ञाप्य उपायनख्यापनं अदृष्टसंसर्गविद्यासञ्ज्ञाऽऽदिभिः, विदेशप्रवृत्तिज्ञानं तद् अहरेव गृहकपोतेन मुद्रासम्युक्तेन
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 दैवतसम्योगख्यापनं तु - सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छिद्रान् अनुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर्वा नागवरुणव्यञ्जनैः सम्भाषणं पूजनं च, रात्रावन्तर्।उदके समुद्रवालुकाकोशं प्रणिधायाग्निमालादर्शनं, शिलाशिक्यावगृहीते प्लवके स्थानं, उदकबस्तिना जरायुणा वा शिरोऽवगूढनासः पृषतान्त्रकुलीरनक्रशिंशुमार उद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 तेन रात्रिगणश्चरति
मूलम् - 04
04 तेन रात्रिगणश्चरति
विश्वास-प्रस्तुतिः - 05
05 इत्युदकचरणानि
मूलम् - 05
05 इत्युदकचरणानि
विश्वास-प्रस्तुतिः - 06
06 तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखाद् अग्निधूम उत्सर्गः
मूलम् - 06
06 तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखाद् अग्निधूम उत्सर्गः
विश्वास-प्रस्तुतिः - 07
07 तद् अस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिक इक्षणिकगूढपुरुषाः साचिव्यकराः तद्दर्शिनश्च प्रकाशयेयुः
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 परस्य विषये दैवतदर्शनं दिव्यकोशदण्ड उत्पत्तिं चास्य ब्रूयुः
मूलम् - 08
08 परस्य विषये दैवतदर्शनं दिव्यकोशदण्ड उत्पत्तिं चास्य ब्रूयुः
विश्वास-प्रस्तुतिः - 09
09 दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतं अमित्रस्य
मूलम् - 09
09 दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतं अमित्रस्य
विश्वास-प्रस्तुतिः - 10
10 सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः
मूलम् - 10
10 सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः
विश्वास-प्रस्तुतिः - 11
11 परस्य मुख्यान् मित्रत्वेन उपदिशन्तो दूतव्यञ्जनाः स्वामिसत्कारं ब्रूयुः, स्वपक्षबलाधानं परपक्षप्रतिघातं च
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 तुल्ययोगक्षेमं अमात्यानां आयुधीयानां च कथयेयुः
मूलम् - 12
12 तुल्ययोगक्षेमं अमात्यानां आयुधीयानां च कथयेयुः
विश्वास-प्रस्तुतिः - 13
13 तेषु व्यसनाभ्युदयावेक्षणं अपत्यपूजनं च प्रयुञ्जीत
मूलम् - 13
13 तेषु व्यसनाभ्युदयावेक्षणं अपत्यपूजनं च प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 14
14 तेन परपक्षं उत्साहयेद् यथा उक्तं पुरस्तात्
मूलम् - 14
14 तेन परपक्षं उत्साहयेद् यथा उक्तं पुरस्तात्
विश्वास-प्रस्तुतिः - 15
15 भूयश्च वक्ष्यामः
मूलम् - 15
15 भूयश्च वक्ष्यामः
विश्वास-प्रस्तुतिः - 16
16 साधारणगर्दभेन दक्षान्, लकुटशाखाहननाभ्यां दण्डचारिणः, कुल एडकेन च उद्विग्नान्, अशनिवर्षेण विमानितान्, विदुलेनावकेशिना वायसपिण्डेन कैतवजमेघेन इति विहताशान् दुर्भगालङ्कारेण द्वेषिणा इति पूजाफलान्, व्याघ्रचर्मणा मृत्युकूटेन च उपहितान्, पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराऽभिमन्थनेन इति ध्रुव उपकारिण इति
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 प्रतिपन्नान् अर्थमानाभ्यां योजयेत्
मूलम् - 17
17 प्रतिपन्नान् अर्थमानाभ्यां योजयेत्
विश्वास-प्रस्तुतिः - 18
18 द्रव्यभक्तच्छिद्रेषु च एनान् द्रव्यभक्तदानैरनुगृह्णीयात्
मूलम् - 18
18 द्रव्यभक्तच्छिद्रेषु च एनान् द्रव्यभक्तदानैरनुगृह्णीयात्
विश्वास-प्रस्तुतिः - 19
19 अप्रतिगृह्णतां स्त्रीकुमारालङ्कारान् अभिहरेयुः
मूलम् - 19
19 अप्रतिगृह्णतां स्त्रीकुमारालङ्कारान् अभिहरेयुः
विश्वास-प्रस्तुतिः - 20
20 दुर्भिक्षस्तेनाटव्य्।उपघातेषु च पौरजानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः इति
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21ab तथा इति प्रतिपन्नेषु द्रव्यधान्यान्यपरिग्रहैः ।
21chd साचिव्यं कार्यं इत्येतद् उपजापाद् भूतं महत् (इति)
मूलम् - 21