योगातिसन्धानं - दण्डातिसन्धानं - एकविजयः

विश्वास-प्रस्तुतिः - 01

01 दैवतेज्यायाम्(देवता इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजाऽऽगमस्थानानि भक्तितः

मूलम् - 01

01 दैवतेज्यायाम्(देवता इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजाऽऽगमस्थानानि भक्तितः

विश्वास-प्रस्तुतिः - 02

02 तत्रास्य योगं उब्जयेत्

मूलम् - 02

02 तत्रास्य योगं उब्जयेत्

विश्वास-प्रस्तुतिः - 03

03 देवतागृहप्रविष्टस्य उपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत्

मूलम् - 03

03 देवतागृहप्रविष्टस्य उपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत्

विश्वास-प्रस्तुतिः - 04

04 शिलाशस्त्रवर्षं उत्तमागारात्, कपाटं अवपातितं वा, भित्तिप्रणिहितं एकदेशबद्धं वा परिघं मोक्षयेत्

मूलम् - 04

04 शिलाशस्त्रवर्षं उत्तमागारात्, कपाटं अवपातितं वा, भित्तिप्रणिहितं एकदेशबद्धं वा परिघं मोक्षयेत्

विश्वास-प्रस्तुतिः - 05

05 देवतादेहध्वजप्रहरणानि वाऽस्य उपरिष्टात् पातयेत्

मूलम् - 05

05 देवतादेहध्वजप्रहरणानि वाऽस्य उपरिष्टात् पातयेत्

विश्वास-प्रस्तुतिः - 06

06 स्थानासनगमनभूमिषु वाऽस्य गोमयप्रदेहेन गन्ध उदकप्रसेकेन वा रसं अतिचारयेत्, पुष्पचूर्ण उपहारेण वा

मूलम् - 06

06 स्थानासनगमनभूमिषु वाऽस्य गोमयप्रदेहेन गन्ध उदकप्रसेकेन वा रसं अतिचारयेत्, पुष्पचूर्ण उपहारेण वा

विश्वास-प्रस्तुतिः - 07

07 गन्धप्रतिच्छन्नं वाऽस्य तीक्ष्णं धूमं अतिनयेत्

मूलम् - 07

07 गन्धप्रतिच्छन्नं वाऽस्य तीक्ष्णं धूमं अतिनयेत्

विश्वास-प्रस्तुतिः - 08

08 शूलकूपं अवपातनं वा शयनासनस्याधस्ताद् यन्त्रबद्धतलं एनं कीलमोक्षणेन प्रवेशयेत्

मूलम् - 08

08 शूलकूपं अवपातनं वा शयनासनस्याधस्ताद् यन्त्रबद्धतलं एनं कीलमोक्षणेन प्रवेशयेत्

विश्वास-प्रस्तुतिः - 09

09 प्रत्यासन्ने वाऽमित्रे जनपदाज् जनं अवरोधक्षमं अतिनयेत्

मूलम् - 09

09 प्रत्यासन्ने वाऽमित्रे जनपदाज् जनं अवरोधक्षमं अतिनयेत्

विश्वास-प्रस्तुतिः - 10

10 दुर्गाच्चानवरोधक्षमं अपनयेत्, प्रत्यादेयं अरिविषयं वा प्रेषयेत्

मूलम् - 10

10 दुर्गाच्चानवरोधक्षमं अपनयेत्, प्रत्यादेयं अरिविषयं वा प्रेषयेत्

विश्वास-प्रस्तुतिः - 11

11 जनपदं च एकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत्

मूलम् - 11

11 जनपदं च एकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत्

विश्वास-प्रस्तुतिः - 12

12 उपरोधहेतवो दण्ड उपनतवृत्ते व्याख्याताः

मूलम् - 12

12 उपरोधहेतवो दण्ड उपनतवृत्ते व्याख्याताः

विश्वास-प्रस्तुतिः - 13

13 तृणकाष्ठं आयोजनाद् दाहयेत्

मूलम् - 13

13 तृणकाष्ठं आयोजनाद् दाहयेत्

विश्वास-प्रस्तुतिः - 14

14 उदकानि च दूषयेत्, अवस्रावयेच्च

मूलम् - 14

14 उदकानि च दूषयेत्, अवस्रावयेच्च

विश्वास-प्रस्तुतिः - 15

15 कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत्

मूलम् - 15

15 कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत्

विश्वास-प्रस्तुतिः - 16

16 सुरुङ्गां अमित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यान् अभिहारयेत्, अमित्रं वा

मूलम् - 16

16 सुरुङ्गां अमित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यान् अभिहारयेत्, अमित्रं वा

विश्वास-प्रस्तुतिः - 17

17 परप्रयुक्तायां वा सुरुङ्गायां परिखां उदकान्तिकीं खानयेत्, कूपशालां अनुसालं वा

मूलम् - 17

17 परप्रयुक्तायां वा सुरुङ्गायां परिखां उदकान्तिकीं खानयेत्, कूपशालां अनुसालं वा

विश्वास-प्रस्तुतिः - 18

18 तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत् खाताभिज्ञानार्थम्

मूलम् - 18

18 तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत् खाताभिज्ञानार्थम्

विश्वास-प्रस्तुतिः - 19

19 ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत्

मूलम् - 19

19 ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत्

विश्वास-प्रस्तुतिः - 20

20 मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत्

मूलम् - 20

20 मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत्

विश्वास-प्रस्तुतिः - 21

21 प्रतिविहितदुर्गो वा मूले दायाद् कृत्वा प्रतिलोमां अस्य दिशं गच्छेत्, यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रैर्वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वाऽस्य हारयेत् वीवधासारप्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेणास्य प्रहर्तुं, यतो वा स्वं राज्यं त्रायेत मूलस्य उपचयं वा कुर्यात्

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 यतः सन्धिं अभिप्रेतं लभेत ततो वा गच्छेत्

मूलम् - 22

22 यतः सन्धिं अभिप्रेतं लभेत ततो वा गच्छेत्

विश्वास-प्रस्तुतिः - 23

23 सहप्रस्थायिनो वाऽस्य प्रेषयेयुः अयं ते शत्रुरस्माकं हस्तगतः, पण्यं विप्रकारं वाऽपदिश्य हिरण्यं अन्तःसारबलं च प्रेषय यस्य एनं अर्पयेम बद्धं प्रवासितं वा इति

मूलम् - 23

विश्वास-प्रस्तुतिः - 24

24 प्रतिपन्ने हिरण्यं सारबलं चाददीत

मूलम् - 24

24 प्रतिपन्ने हिरण्यं सारबलं चाददीत

विश्वास-प्रस्तुतिः - 25

25 अन्तपालो वा दुर्गसम्प्रदाने बल एकदेशं अतिनीय विश्वस्तं घातयेत्

मूलम् - 25

25 अन्तपालो वा दुर्गसम्प्रदाने बल एकदेशं अतिनीय विश्वस्तं घातयेत्

विश्वास-प्रस्तुतिः - 26

26 जनपदं एकस्थं वा घातयितुं अमित्रानीकं आवाहयेत्

मूलम् - 26

26 जनपदं एकस्थं वा घातयितुं अमित्रानीकं आवाहयेत्

विश्वास-प्रस्तुतिः - 27

27 तद् अवरुद्धदेशं अतिनीय विश्वस्तं घातयेत्

मूलम् - 27

27 तद् अवरुद्धदेशं अतिनीय विश्वस्तं घातयेत्

विश्वास-प्रस्तुतिः - 28

28 मित्रव्यञ्जनो वा बाह्यस्य प्रेषयेत् क्षीणं अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण इति

मूलम् - 28

विश्वास-प्रस्तुतिः - 29

29 ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाऽभित्यक्ताः

मूलम् - 29

29 ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाऽभित्यक्ताः

विश्वास-प्रस्तुतिः - 30

30 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम्

मूलम् - 30

30 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम्

विश्वास-प्रस्तुतिः - 31

31 सन्धिं वा कृत्वा हिरण्य एकदेशं अस्मै दद्यात्, विलम्बमानः शेषम्

मूलम् - 31

31 सन्धिं वा कृत्वा हिरण्य एकदेशं अस्मै दद्यात्, विलम्बमानः शेषम्

विश्वास-प्रस्तुतिः - 32

32 ततो रक्षाविधानान्यवस्रावयेत्

मूलम् - 32

32 ततो रक्षाविधानान्यवस्रावयेत्

विश्वास-प्रस्तुतिः - 33

33 अग्निरसशस्त्रैर्वा प्रहरेत्

मूलम् - 33

33 अग्निरसशस्त्रैर्वा प्रहरेत्

विश्वास-प्रस्तुतिः - 34

34 हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभान् अनुगृह्णीयात्

मूलम् - 34

34 हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभान् अनुगृह्णीयात्

विश्वास-प्रस्तुतिः - 35

35 परिक्षीणो वाऽस्मै दुर्गं दत्त्वा निर्गच्छेत्

मूलम् - 35

35 परिक्षीणो वाऽस्मै दुर्गं दत्त्वा निर्गच्छेत्

विश्वास-प्रस्तुतिः - 36

36 सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत्

मूलम् - 36

36 सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत्

विश्वास-प्रस्तुतिः - 37

37 रात्राववस्कन्दं दत्त्वा सिद्धः तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत्

मूलम् - 37

37 रात्राववस्कन्दं दत्त्वा सिद्धः तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत्

विश्वास-प्रस्तुतिः - 38

38 पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत्

मूलम् - 38

38 पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत्

विश्वास-प्रस्तुतिः - 39

39 प्रेतव्यञ्जनो वा गूढैर्निह्रियेत

मूलम् - 39

39 प्रेतव्यञ्जनो वा गूढैर्निह्रियेत

विश्वास-प्रस्तुतिः - 40

40 स्त्रीवेषधारी वा प्रेतं अनुगच्छेत्

मूलम् - 40

40 स्त्रीवेषधारी वा प्रेतं अनुगच्छेत्

विश्वास-प्रस्तुतिः - 41

41 दैवत उपहारश्राद्धप्रहवणेषु वा रसविद्धं अन्नपानं अवसृज्य

मूलम् - 41

41 दैवत उपहारश्राद्धप्रहवणेषु वा रसविद्धं अन्नपानं अवसृज्य

विश्वास-प्रस्तुतिः - 42

42 कृत उपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात्

मूलम् - 42

42 कृत उपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात्

विश्वास-प्रस्तुतिः - 43

43 एवं गृहीतदुर्गो वा प्राश्यप्राशं चैत्यं उपस्थाप्य दैवतप्रतिमाच्छिद्रं प्रविश्यासीत, गूढभित्तिं वा, दैवतप्रतिमायुक्तं वा भूमिगृहम्

मूलम् - 43

विश्वास-प्रस्तुतिः - 44

44 विस्मृते सुरुङ्गया रात्रौ राजावासं अनुप्रविश्य सुप्तं अमित्रं हन्यात्

मूलम् - 44

44 विस्मृते सुरुङ्गया रात्रौ राजावासं अनुप्रविश्य सुप्तं अमित्रं हन्यात्

विश्वास-प्रस्तुतिः - 45

45 यन्त्रविश्लेषणं वा विश्लेष्याधस्ताद् अवपातयेत्

मूलम् - 45

45 यन्त्रविश्लेषणं वा विश्लेष्याधस्ताद् अवपातयेत्

विश्वास-प्रस्तुतिः - 46

46 रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाऽधिशयानं अमित्रं आदीपयेत्

मूलम् - 46

46 रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाऽधिशयानं अमित्रं आदीपयेत्

विश्वास-प्रस्तुतिः - 47

47 प्रमदवनविहाराणां अन्यतमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरुङ्गागूढभित्तिप्रविष्टाः तीक्ष्णा हन्युः, गूढप्रणिहिता वा रसेन

मूलम् - 47

विश्वास-प्रस्तुतिः - 48

48 स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमान् उपरि मुञ्चेयुः

मूलम् - 48

48 स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमान् उपरि मुञ्चेयुः

विश्वास-प्रस्तुतिः - 49

49 प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत

मूलम् - 49

49 प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 50

50 ततो गूढं एवापगच्छेत्, स्वजनसञ्ज्ञां च प्ररूपयेत्

मूलम् - 50

50 ततो गूढं एवापगच्छेत्, स्वजनसञ्ज्ञां च प्ररूपयेत्

विश्वास-प्रस्तुतिः - 51

51ab द्वाह्स्थान् वर्षधरांश्चान्यान्निगूढ उपहितान् परे ।
51chd तूर्यसञ्ज्ञाभिराहूय द्विषत्शेषाणि घातयेत् (इति)

मूलम् - 51