शस्त्राग्निरसप्रणिधयः - वीवधासारप्र्रसारवधः
विश्वास-प्रस्तुतिः - 01
01 ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिकव्यञ्जनाः, जनपदसन्धिषु गोरक्षकतापसव्यञ्जनाः, ते सामन्ताटविकतत्कुलीनापरुद्धानां पण्यागारपूर्वं प्रेषयेयुः अयं देशो हार्यः इति
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 आगतांश्च एषां दुर्गे गूढपुरुषान् अर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः
मूलम् - 02
02 आगतांश्च एषां दुर्गे गूढपुरुषान् अर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः
विश्वास-प्रस्तुतिः - 03
03 तेषु तैः सह प्रहरेयुः
मूलम् - 03
03 तेषु तैः सह प्रहरेयुः
विश्वास-प्रस्तुतिः - 04
04 स्कन्धावारे वाऽस्य शौण्डिकव्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाऽवस्कन्दकाले रसेन प्रवासयित्वा नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेत्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकं अहः, उत्तरं रस्सिद्धं प्रयच्छेत्
मूलम् - 05
05 शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकं अहः, उत्तरं रस्सिद्धं प्रयच्छेत्
विश्वास-प्रस्तुतिः - 06
06 शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत्
मूलम् - 06
06 शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत्
विश्वास-प्रस्तुतिः - 07
07 दण्डमुख्यव्यञ्जनो वा पुत्रं अभित्यक्तं इति समानम्
मूलम् - 07
07 दण्डमुख्यव्यञ्जनो वा पुत्रं अभित्यक्तं इति समानम्
विश्वास-प्रस्तुतिः - 08
08 पाक्वमांसिकाउदनिकाउण्डिकापूपिकव्यञ्जना वा पण्यविशेषं अवघोषयित्वा परस्परसङ्घर्षेण कालिकं समर्घतरं इति वा परान् आहूय रसेन स्वपण्यान्यपचारयेयुः
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 सुराक्षीरदधिसर्पिस्तैलानि वा तद्व्यवहर्तृहस्तेषु गृहीता स्त्रियो बालाश्च रसयुक्तेषु स्वभाजनेषु परिकिरेयुः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 अनेनार्घेण, विशिष्टं वा भूयो दीयताम् इति तत्र एवावाकिरेयुः
मूलम् - 10
10 अनेनार्घेण, विशिष्टं वा भूयो दीयताम् इति तत्र एवावाकिरेयुः
विश्वास-प्रस्तुतिः - 11
11 एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा
मूलम् - 11
11 एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा
विश्वास-प्रस्तुतिः - 12
12 हस्त्य्ऽश्वानां विधायवसेषु रसं आसन्ना दद्युः
मूलम् - 12
12 हस्त्य्ऽश्वानां विधायवसेषु रसं आसन्ना दद्युः
विश्वास-प्रस्तुतिः - 13
13 कर्मकरव्यञ्जना वा रसाक्तं यवसं उदकं वा विक्रीणीरन्
मूलम् - 13
13 कर्मकरव्यञ्जना वा रसाक्तं यवसं उदकं वा विक्रीणीरन्
विश्वास-प्रस्तुतिः - 14
14 चिरसंसृष्टा वा गोवाणिजका गवां अजावीनां वा यूथान्यवस्कन्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः, अश्वखर उष्ट्रमहिषादीनां दुष्टांश्च
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान्
मूलम् - 15
15 तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान्
विश्वास-प्रस्तुतिः - 16
16 लुब्धकव्यञ्जना वा व्यालमृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्पग्राहा वा सर्पान् उग्रविषान्, हस्तिजीविनो वा हस्तिनः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 अग्निजीविनो वाऽग्निं अवसृजेयुः
मूलम् - 17
17 अग्निजीविनो वाऽग्निं अवसृजेयुः
विश्वास-प्रस्तुतिः - 18
18 गूढपुरुषा वा विमुखान् पत्त्य्ऽश्वरथद्विपमुख्यान् अभिहन्युः, आदीपयेयुर्वा मुख्यावासान्
मूलम् - 18
18 गूढपुरुषा वा विमुखान् पत्त्य्ऽश्वरथद्विपमुख्यान् अभिहन्युः, आदीपयेयुर्वा मुख्यावासान्
विश्वास-प्रस्तुतिः - 19
19 दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातं अवस्कन्दप्रतिग्रहं वा कुर्युः
मूलम् - 19
19 दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातं अवस्कन्दप्रतिग्रहं वा कुर्युः
विश्वास-प्रस्तुतिः - 20
20 वनगूढा वा प्रत्यन्तस्कन्धं उपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा
मूलम् - 20
20 वनगूढा वा प्रत्यन्तस्कन्धं उपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा
विश्वास-प्रस्तुतिः - 21
21 ससङ्केतं वा रात्रियुद्धे भूरितूर्यं आहत्य ब्रूयुः अनुप्रविष्टाः स्मो, लब्धं राज्यम् इति
मूलम् - 21
21 ससङ्केतं वा रात्रियुद्धे भूरितूर्यं आहत्य ब्रूयुः अनुप्रविष्टाः स्मो, लब्धं राज्यम् इति
विश्वास-प्रस्तुतिः - 22
22 राजावासं अनुप्रविष्टा वा सङ्कुलेषु राजानं हन्युः
मूलम् - 22
22 राजावासं अनुप्रविष्टा वा सङ्कुलेषु राजानं हन्युः
विश्वास-प्रस्तुतिः - 23
23 सर्वतो वा प्रयातं एन(?एव?) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः
मूलम् - 23
23 सर्वतो वा प्रयातं एन(?एव?) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः
विश्वास-प्रस्तुतिः - 24
24 लुब्धकव्यञ्जना वाऽवस्कन्दसङ्कुलेषु गूढयुद्धहेतुभिरभिहन्युः
मूलम् - 24
24 लुब्धकव्यञ्जना वाऽवस्कन्दसङ्कुलेषु गूढयुद्धहेतुभिरभिहन्युः
विश्वास-प्रस्तुतिः - 25
25 एकायने वा शैलस्तम्भवाटखञ्जनान्तर्।उदके वा स्वभूमिबलेनाभिहन्युः
मूलम् - 25
25 एकायने वा शैलस्तम्भवाटखञ्जनान्तर्।उदके वा स्वभूमिबलेनाभिहन्युः
विश्वास-प्रस्तुतिः - 26
26 नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः
मूलम् - 26
26 नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः
विश्वास-प्रस्तुतिः - 27
27 धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः
मूलम् - 27
27 धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः
विश्वास-प्रस्तुतिः - 28
28 सङ्कटगतं अग्निना, धान्वनगतं धूमेन, निधानगतं रसेन, तोयावगाढं दुष्टग्राहैरुदकचरणैर्वा तीक्ष्णाः साधयेयुः, आदीप्तावासान्निष्पतन्तं वा
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29ab योगवामनयोगाभ्यां योगेनान्यतमेन वा ।
29chd अमित्रं अतिसन्दध्यात् सक्तं उक्तासु भूमिषु (इति)
मूलम् - 29