सेनामुख्यवधह् - मण्डलप्रोत्साहनम्
विश्वास-प्रस्तुतिः - 01
01 राज्ञो राजवल्लभानां चासन्नाः सत्त्रिणः पत्त्य्ऽश्वरथद्विपमुख्यानां राजा क्रुद्धः इति सुहृद्विश्वासेन मित्रस्थानीयेषु कथयेयुः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु स्वामिवचनेनागम्यताम् इति ब्रूयुः
मूलम् - 02
02 बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु स्वामिवचनेनागम्यताम् इति ब्रूयुः
विश्वास-प्रस्तुतिः - 03
03 तान्निर्गच्छत एवाभिहन्युः, स्वामिसन्देशः इति चासन्नान् ब्रूयुः
मूलम् - 03
03 तान्निर्गच्छत एवाभिहन्युः, स्वामिसन्देशः इति चासन्नान् ब्रूयुः
विश्वास-प्रस्तुतिः - 04
04 ये चाप्रवासिताः तान् सत्त्रिणो ब्रूयुः एतत् तद् यद् अस्माभिः कथितं, जीवितुकामेनापक्रान्तव्यम् इति
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 येभ्यश्च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, मया प्रत्याख्याताः शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 ततः पूर्ववद् आचरेत्
मूलम् - 06
06 ततः पूर्ववद् आचरेत्
विश्वास-प्रस्तुतिः - 07
07 येभ्यश्च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, तेभ्यो मया सोऽर्थो विश्वासार्थं दत्तः, शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 ततः पूर्ववद् आचरेत्
मूलम् - 08
08 ततः पूर्ववद् आचरेत्
विश्वास-प्रस्तुतिः - 09
09 ये च एनं याच्यं अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा याच्यं अर्थं असौ चासौ च मा न याचते, किं अन्यत् स्वदोषशङ्कितत्वात्, तेषां उद्धरणे प्रयतस्व इति
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 ततः पूर्ववद् आचरेत्
मूलम् - 10
10 ततः पूर्ववद् आचरेत्
विश्वास-प्रस्तुतिः - 11
11 एतेन सर्वः कृत्यपक्षो व्याख्यातः
मूलम् - 11
11 एतेन सर्वः कृत्यपक्षो व्याख्यातः
विश्वास-प्रस्तुतिः - 12
12 प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते इति
मूलम् - 12
12 प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते इति
विश्वास-प्रस्तुतिः - 13
13 प्रतिपन्ने दूष्यान् अस्य शासनहरान् दर्शयेत् एतत् तत् इति
मूलम् - 13
13 प्रतिपन्ने दूष्यान् अस्य शासनहरान् दर्शयेत् एतत् तत् इति
विश्वास-प्रस्तुतिः - 14
14 सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा
मूलम् - 14
14 सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा
विश्वास-प्रस्तुतिः - 15
15 योऽस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा उपजापयेत् आत्मसम्पन्नतरः त्वं पुत्रः, तथाऽप्यन्तर्हितः, तत्किं उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युवराजो विनाशयति इति
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 तत्कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् अन्तर्बलं प्रत्यन्तस्कन्धं अन्तं वाऽस्य प्रमृद्नीहि इति
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 आटविकान् अर्थमानाभ्यां उपगृह्य राज्यं अस्य घातयेत्
मूलम् - 17
17 आटविकान् अर्थमानाभ्यां उपगृह्य राज्यं अस्य घातयेत्
विश्वास-प्रस्तुतिः - 18
18 पार्ष्णिग्राहं वाऽस्य ब्रूयात् एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति, पार्ष्णिं अस्य गृहाण, त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि इति
मूलम् - 18

विश्वास-प्रस्तुतिः - 19
19 मित्राणि वाऽस्य ब्रूयात् अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वाऽस्य यात्रां विहनाम इति
मूलम् - 19

विश्वास-प्रस्तुतिः - 20
20 तत्संहतानां असंहतानां च प्रेषयेत् एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वं, अहं वः श्रेयान् अभ्युपपत्तुम् इति
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21ab मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः ।
21chd यथाऽऽसन्नस्य मोक्षार्थं सर्वस्वेन तद्ऽर्पणम् (इति)
मूलम् - 21