मन्त्रयुद्ध
विश्वास-प्रस्तुतिः - 01
01 स चेत् सन्धौ नावतिष्ठेत, ब्रूयाद् एनं - इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः, तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुम्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 धर्मं अर्थं चावेक्षस्व
मूलम् - 02
02 धर्मं अर्थं चावेक्षस्व
विश्वास-प्रस्तुतिः - 03
03 मित्रमुखा ह्यमित्राः ते ये त्वा साहसं अधर्मं अर्थातिक्रमं च ग्राहयन्ति
मूलम् - 03
03 मित्रमुखा ह्यमित्राः ते ये त्वा साहसं अधर्मं अर्थातिक्रमं च ग्राहयन्ति
विश्वास-प्रस्तुतिः - 04
04 शूरैः त्यक्तात्मभिः सह योद्धुं साहसं, जनक्षयं उभयतः कर्तुं अधर्मः, दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थातिक्रमः
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 मित्रवांश्च स राजा, भूयश्च एतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोऽभियास्यन्ति
मूलम् - 05
05 मित्रवांश्च स राजा, भूयश्च एतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोऽभियास्यन्ति
विश्वास-प्रस्तुतिः - 06
06 न च मध्यम उदासीनयोर्मण्डलस्य वा परित्यक्तः, भवांः तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते भूयः क्षयव्ययाभ्यां युज्यतां, मित्राच्च भिद्यतां, अथ एनं परित्यक्तमूलं सुखेन उच्छेत्स्यामः इति
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 स भवान्नार्हति मित्रमुखानां अमित्राणां श्रोतुं, मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुं, प्राणसंशयं अनर्थं च उपगन्तुम् इति यच्छेत्
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 तथाऽपि प्रतिष्ठमानस्य प्रकृतिकोपं अस्य कारयेद् यथा सङ्घवृत्ते व्याख्यातं योगवामने च
मूलम् - 08
08 तथाऽपि प्रतिष्ठमानस्य प्रकृतिकोपं अस्य कारयेद् यथा सङ्घवृत्ते व्याख्यातं योगवामने च
विश्वास-प्रस्तुतिः - 09
09 तीक्ष्णरसदप्रयोगं च
मूलम् - 09
09 तीक्ष्णरसदप्रयोगं च
विश्वास-प्रस्तुतिः - 10
10 यद् उक्तं आत्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत
मूलम् - 10
10 यद् उक्तं आत्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 11
11 बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्मादयेयुः
मूलम् - 11
11 बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्मादयेयुः
विश्वास-प्रस्तुतिः - 12
12 बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः
मूलम् - 12
12 बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः
विश्वास-प्रस्तुतिः - 13
13 कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः
मूलम् - 13
13 कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः
विश्वास-प्रस्तुतिः - 14
14 कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसन्धानाय मुख्येषु रसं दापयेयुः
मूलम् - 14
14 कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसन्धानाय मुख्येषु रसं दापयेयुः
विश्वास-प्रस्तुतिः - 15
15 वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यां आसन्नां कामनिमित्तं अर्थेनाभिवृष्य परित्यजेत्
मूलम् - 15
15 वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यां आसन्नां कामनिमित्तं अर्थेनाभिवृष्य परित्यजेत्
विश्वास-प्रस्तुतिः - 16
16 तस्य एव परिचारकव्यञ्जन उपदिष्टः सिद्धव्यञ्जनः सांवदनिकीं ओषधीं दद्यात् वैदेहकशरीरेऽवघातव्या इति
मूलम् - 16
16 तस्य एव परिचारकव्यञ्जन उपदिष्टः सिद्धव्यञ्जनः सांवदनिकीं ओषधीं दद्यात् वैदेहकशरीरेऽवघातव्या इति
विश्वास-प्रस्तुतिः - 17
17 सिद्धे सुभगाया अप्येनं योगं उपदिशेत् राजशरीरेऽवधातव्या इति
मूलम् - 17
17 सिद्धे सुभगाया अप्येनं योगं उपदिशेत् राजशरीरेऽवधातव्या इति
विश्वास-प्रस्तुतिः - 18
18 ततो रसेनातिसन्दध्यात्
मूलम् - 18
18 ततो रसेनातिसन्दध्यात्
विश्वास-प्रस्तुतिः - 19
19 कार्तान्तिकव्यञ्जनो वा महामात्रं राजलक्षणसम्पन्नम् क्रमाभिनीतं ब्रूयात्
मूलम् - 19
19 कार्तान्तिकव्यञ्जनो वा महामात्रं राजलक्षणसम्पन्नम् क्रमाभिनीतं ब्रूयात्
विश्वास-प्रस्तुतिः - 20
20 भार्यां अस्य भिक्षुकी राजपत्नी राजप्रसविनी वा भविष्यसि इति
मूलम् - 20
20 भार्यां अस्य भिक्षुकी राजपत्नी राजप्रसविनी वा भविष्यसि इति
विश्वास-प्रस्तुतिः - 21
21 भार्याव्यञ्जना वा महामात्रं ब्रूयात् राजा किल मां अवरोधयिष्यति, तवान्तिकाय पत्त्रलेख्यं आभरणं च इदं परिव्राजिकयाऽऽहृतम् इति
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनं अर्थं चास्य लोभनीयं अभिनयेत्
मूलम् - 22
22 सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनं अर्थं चास्य लोभनीयं अभिनयेत्
विश्वास-प्रस्तुतिः - 23
23 तद् अस्य वैदेहकव्यञ्जनः प्रतिसन्दध्यात्, कार्यसिद्धिं च ब्रूयात्
मूलम् - 23
23 तद् अस्य वैदेहकव्यञ्जनः प्रतिसन्दध्यात्, कार्यसिद्धिं च ब्रूयात्
विश्वास-प्रस्तुतिः - 24
24 एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक एकं अस्य महामात्रं विक्रमायापगमनाय वा योजयेत् - इति
मूलम् - 24
24 एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक एकं अस्य महामात्रं विक्रमायापगमनाय वा योजयेत् - इति
विश्वास-प्रस्तुतिः - 25
25 दुर्गेषु चास्य शून्यपालासन्नाः सत्त्रिणः पौरजानपदेषु मैत्रीनिमित्तं आवेदयेयुः - शून्यपालेन उक्ता योधाश्चाधिकरणस्थाश्च कृच्छ्रगतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तं आर्जयध्वं, अमित्रांश्च हत इति
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 बहुलीभूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः, मुख्यांश्चाभिहन्युः एवं क्रियन्ते ये शून्यपालस्य न शुश्रूषन्ते इति
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः
मूलम् - 27
27 शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः
विश्वास-प्रस्तुतिः - 28
28 ततः सत्त्रिणः शून्यपालो घातयति विलोपयति च इत्यावेदयेयुः
मूलम् - 28
28 ततः सत्त्रिणः शून्यपालो घातयति विलोपयति च इत्यावेदयेयुः
विश्वास-प्रस्तुतिः - 29
29 एवं जानपदान् समाहर्तुर्भेदयेयुः
मूलम् - 29
29 एवं जानपदान् समाहर्तुर्भेदयेयुः
विश्वास-प्रस्तुतिः - 30
30 समाहर्तृपुरुषांः तु ग्राममध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः एवं क्रियन्ते ये जनपदं अधर्मेण बाधन्ते इति
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31 समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः
मूलम् - 31
31 समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः
विश्वास-प्रस्तुतिः - 32
32 तत्कुलीनं अपरुद्धं वा प्रतिपादयेयुः
मूलम् - 32
32 तत्कुलीनं अपरुद्धं वा प्रतिपादयेयुः
विश्वास-प्रस्तुतिः - 33
33ab अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् ।
33chd दहेयुः तांश्च हन्युर्वा ब्रूयुरस्यार्तवादिनः (इति)
मूलम् - 33