दूतकर्म
विश्वास-प्रस्तुतिः - 01
01 बलीयसाऽभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत्
मूलम् - 01
01 बलीयसाऽभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत्
विश्वास-प्रस्तुतिः - 02
02 इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः
मूलम् - 02
02 इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः
विश्वास-प्रस्तुतिः - 03
03 सर्वसन्दोहेन बलानां युध्येत
मूलम् - 03
03 सर्वसन्दोहेन बलानां युध्येत
विश्वास-प्रस्तुतिः - 04
04 पराक्रमो हि व्यसनं अपहन्ति
मूलम् - 04
04 पराक्रमो हि व्यसनं अपहन्ति
विश्वास-प्रस्तुतिः - 05
05 स्वधर्मश्च एष क्षत्रियस्य, युद्धे जयः पराजयो वा इति विशालाक्षः
मूलम् - 05
05 स्वधर्मश्च एष क्षत्रियस्य, युद्धे जयः पराजयो वा इति विशालाक्षः
विश्वास-प्रस्तुतिः - 06
06 न इति कौटिल्यः
मूलम् - 06
06 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 07
07 सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति
मूलम् - 07
07 सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति
विश्वास-प्रस्तुतिः - 08
08 युध्यमानश्चाल्पसैन्यः समुद्रं इवाप्लवोऽवगाहमानः सीदति
मूलम् - 08
08 युध्यमानश्चाल्पसैन्यः समुद्रं इवाप्लवोऽवगाहमानः सीदति
विश्वास-प्रस्तुतिः - 09
09 तद्विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत
मूलम् - 09
09 तद्विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत
विश्वास-प्रस्तुतिः - 10
10 त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति
मूलम् - 10
10 त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति
विश्वास-प्रस्तुतिः - 11
11 तेषां अभ्यवपत्त्या धर्मविजयी तुष्यति
मूलम् - 11
11 तेषां अभ्यवपत्त्या धर्मविजयी तुष्यति
विश्वास-प्रस्तुतिः - 12
12 तं अभ्यवपद्येत, परेषां अपि भयात्
मूलम् - 12
12 तं अभ्यवपद्येत, परेषां अपि भयात्
विश्वास-प्रस्तुतिः - 13
13 भूमिद्रव्यहरणेन लोभविजयी तुष्यति
मूलम् - 13
13 भूमिद्रव्यहरणेन लोभविजयी तुष्यति
विश्वास-प्रस्तुतिः - 14
14 तं अर्थेनाभ्यवपद्येत
मूलम् - 14
14 तं अर्थेनाभ्यवपद्येत
विश्वास-प्रस्तुतिः - 15
15 भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी
मूलम् - 15
15 भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी
विश्वास-प्रस्तुतिः - 16
16 तं भूमिद्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत
मूलम् - 16
16 तं भूमिद्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत
विश्वास-प्रस्तुतिः - 17
17 तेषां अन्यतमं उत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत
मूलम् - 17
17 तेषां अन्यतमं उत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत
विश्वास-प्रस्तुतिः - 18
18 शत्रुपक्षं अस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम्
मूलम् - 18
18 शत्रुपक्षं अस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम्
विश्वास-प्रस्तुतिः - 19
19 दुर्गं राष्ट्रं स्कन्धावारं वाऽस्य गूढाः शस्त्ररसाग्निभिः साधयेयुः
मूलम् - 19
19 दुर्गं राष्ट्रं स्कन्धावारं वाऽस्य गूढाः शस्त्ररसाग्निभिः साधयेयुः
विश्वास-प्रस्तुतिः - 20
20 सर्वतः पार्ष्णिं अस्य ग्राहयेत्
मूलम् - 20
20 सर्वतः पार्ष्णिं अस्य ग्राहयेत्
विश्वास-प्रस्तुतिः - 21
21 अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत्
मूलम् - 21
21 अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत्
विश्वास-प्रस्तुतिः - 22
22 अपकारान्तेषु चास्य दूटं प्रेषयेत्
मूलम् - 22
22 अपकारान्तेषु चास्य दूटं प्रेषयेत्
विश्वास-प्रस्तुतिः - 23
23 अनपकृत्य वा सन्धानम्
मूलम् - 23
23 अनपकृत्य वा सन्धानम्
विश्वास-प्रस्तुतिः - 24
24 तथाऽप्यभिप्रयान्तं कोशदण्डयोः पाद उत्तरं अहोरात्र उत्तरं वा सन्धिं याचेत
मूलम् - 24
24 तथाऽप्यभिप्रयान्तं कोशदण्डयोः पाद उत्तरं अहोरात्र उत्तरं वा सन्धिं याचेत
विश्वास-प्रस्तुतिः - 25
25 स चेद् दण्डसन्धिं याचेत, कुण्ठं अस्मै हस्त्य्ऽश्वं दद्याद्, उत्साहितं वा गरयुक्तम्
मूलम् - 25
25 स चेद् दण्डसन्धिं याचेत, कुण्ठं अस्मै हस्त्य्ऽश्वं दद्याद्, उत्साहितं वा गरयुक्तम्
विश्वास-प्रस्तुतिः - 26
26 पुरुषसन्धिं याचेत, दूष्यामित्राटवीबलं अस्मै दद्याद् योगपुरुषाधिष्ठितम्
मूलम् - 26
26 पुरुषसन्धिं याचेत, दूष्यामित्राटवीबलं अस्मै दद्याद् योगपुरुषाधिष्ठितम्
विश्वास-प्रस्तुतिः - 27
27 तथा कुर्याद् यथा उभयविनाशः स्यात्
मूलम् - 27
27 तथा कुर्याद् यथा उभयविनाशः स्यात्
विश्वास-प्रस्तुतिः - 28
28 तीक्ष्णबलं वाऽस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलं अनुरक्तं वा यद् अस्य व्यसनेऽपकुर्यात्
मूलम् - 28
28 तीक्ष्णबलं वाऽस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलं अनुरक्तं वा यद् अस्य व्यसनेऽपकुर्यात्
विश्वास-प्रस्तुतिः - 29
29 कोशसन्धिं याचेत, सारं अस्मै दद्याद् यस्य क्रेतारं नाधिगच्छेत्, कुप्यं अयुद्धयोग्यं वा
मूलम् - 29
29 कोशसन्धिं याचेत, सारं अस्मै दद्याद् यस्य क्रेतारं नाधिगच्छेत्, कुप्यं अयुद्धयोग्यं वा
विश्वास-प्रस्तुतिः - 30
30 भूमिसन्धिं याचेत, प्रत्यादेयां नित्यामित्रां अनपाश्रयां महाक्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात्
मूलम् - 30
30 भूमिसन्धिं याचेत, प्रत्यादेयां नित्यामित्रां अनपाश्रयां महाक्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात्
विश्वास-प्रस्तुतिः - 31
31 सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत बलीयसः
मूलम् - 31
31 सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत बलीयसः
विश्वास-प्रस्तुतिः - 32
32ab यत् प्रसह्य हरेद् अन्यः तत् प्रयच्चेद् उपायतः ।
32chd रक्षेत् स्वदेहं न धनं का ह्यनित्ये धने दया (इति)
मूलम् - 32