भेद उपादानानि - उपांशुदण्डाः
विश्वास-प्रस्तुतिः - 01
01 सङ्घलाभो दण्डमित्रलाभानां उत्तमः
मूलम् - 01
01 सङ्घलाभो दण्डमित्रलाभानां उत्तमः
विश्वास-प्रस्तुतिः - 02
02 सङ्घा हि संहतत्वाद् अधृष्याः परेषाम्
मूलम् - 02
02 सङ्घा हि संहतत्वाद् अधृष्याः परेषाम्
विश्वास-प्रस्तुतिः - 03
03 तान् अनुगुणान् भुञ्जीत सामदानाभ्यां, विगुणान् भेददण्डाभ्याम्
मूलम् - 03
03 तान् अनुगुणान् भुञ्जीत सामदानाभ्यां, विगुणान् भेददण्डाभ्याम्
विश्वास-प्रस्तुतिः - 04
04 काम्बोजसुराष्ट्रक्षत्रियश्रेण्य्।आदयो वार्त्तशस्त्र उपजीविनः
मूलम् - 04
04 काम्बोजसुराष्ट्रक्षत्रियश्रेण्य्।आदयो वार्त्तशस्त्र उपजीविनः
विश्वास-प्रस्तुतिः - 05
05 लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्द उपजीविनः
मूलम् - 05
05 लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्द उपजीविनः
विश्वास-प्रस्तुतिः - 06
06 सर्वेषां आसन्नाः सत्त्रिणः सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदं उपचारयेयुः असौ त्वा विजल्पति इति
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 एवं उभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहान् उत्पादयेयुः
मूलम् - 07
07 एवं उभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहान् उत्पादयेयुः
विश्वास-प्रस्तुतिः - 08
08 वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्यपक्ष उपग्रहेण वा
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकान् उत्साहयेयुः
मूलम् - 09
09 कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकान् उत्साहयेयुः
विश्वास-प्रस्तुतिः - 10
10 विशिष्टानां च एकपात्रं विवाहं वा हीनेभ्यो वारयेयुः
मूलम् - 10
10 विशिष्टानां च एकपात्रं विवाहं वा हीनेभ्यो वारयेयुः
विश्वास-प्रस्तुतिः - 11
11 हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः
मूलम् - 11
11 हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः
विश्वास-प्रस्तुतिः - 12
12 अवहीनान् वा तुल्यभाव उपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा
मूलम् - 12
12 अवहीनान् वा तुल्यभाव उपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा
विश्वास-प्रस्तुतिः - 13
13 व्यवहारं अवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः
मूलम् - 13
13 व्यवहारं अवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः
विश्वास-प्रस्तुतिः - 14
14 विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः
मूलम् - 14
14 विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः
विश्वास-प्रस्तुतिः - 15
15 सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य प्रतिपक्षवधे योजयेत्
मूलम् - 15
15 सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य प्रतिपक्षवधे योजयेत्
विश्वास-प्रस्तुतिः - 16
16 भिन्नान् अपवाहयेद् वा
मूलम् - 16
16 भिन्नान् अपवाहयेद् वा
विश्वास-प्रस्तुतिः - 17
17 भूमौ च एषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत्
मूलम् - 17
17 भूमौ च एषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत्
विश्वास-प्रस्तुतिः - 18
18 एकस्था हि शस्त्रग्रहणसमर्थाः स्युः
मूलम् - 18
18 एकस्था हि शस्त्रग्रहणसमर्थाः स्युः
विश्वास-प्रस्तुतिः - 19
19 समवाये च एषां अत्ययं स्थापयेत्
मूलम् - 19
19 समवाये च एषां अत्ययं स्थापयेत्
विश्वास-प्रस्तुतिः - 20
20 राजशब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राजपुत्रत्वे स्थापयेत्
मूलम् - 20
20 राजशब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राजपुत्रत्वे स्थापयेत्
विश्वास-प्रस्तुतिः - 21
21 कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां सङ्घेषु प्रकाशयेत्
मूलम् - 21
21 कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां सङ्घेषु प्रकाशयेत्
विश्वास-प्रस्तुतिः - 22
22 सङ्घमुख्यांश्च धर्मिष्ठान् उपजपेत् स्वधर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् इति
मूलम् - 22
22 सङ्घमुख्यांश्च धर्मिष्ठान् उपजपेत् स्वधर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् इति
विश्वास-प्रस्तुतिः - 23
23 प्रतिपन्नेषु कृत्यपक्ष उपग्रहार्थं अर्थं दण्डं च प्रेषयेत्
मूलम् - 23
23 प्रतिपन्नेषु कृत्यपक्ष उपग्रहार्थं अर्थं दण्डं च प्रेषयेत्
विश्वास-प्रस्तुतिः - 24
24 विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेयुः
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 चैत्यदैवतद्वाररक्षास्थानेषु च सत्त्रिणः समयकर्मनिक्षेपं सहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 दृश्यमानेषु च सङ्घेषु राजकीयाः इत्यावेदयेयुः
मूलम् - 26
26 दृश्यमानेषु च सङ्घेषु राजकीयाः इत्यावेदयेयुः
विश्वास-प्रस्तुतिः - 27
27 अथावस्कन्दं दद्यात्
मूलम् - 27
27 अथावस्कन्दं दद्यात्
विश्वास-प्रस्तुतिः - 28
28 सङ्घानां वा वाहनहिरण्ये कालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत्
मूलम् - 28
28 सङ्घानां वा वाहनहिरण्ये कालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत्
विश्वास-प्रस्तुतिः - 29
29 तद् एषां याचिते दत्तं अमुष्मै मुख्याय इति ब्रूयात्
मूलम् - 29
29 तद् एषां याचिते दत्तं अमुष्मै मुख्याय इति ब्रूयात्
विश्वास-प्रस्तुतिः - 30
30 एतेन स्कन्धावाराटवीभेदो व्याख्यातः
मूलम् - 30
30 एतेन स्कन्धावाराटवीभेदो व्याख्यातः
विश्वास-प्रस्तुतिः - 31
31 सङ्घमुख्यपुत्रं आत्मसम्भावितं वा सत्त्री ग्राहयेत् अमुष्य राज्ञः पुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इति
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 प्रतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत्
मूलम् - 32
32 प्रतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत्
विश्वास-प्रस्तुतिः - 33
33 अवाप्तार्थः तं अपि प्रवासयेत्
मूलम् - 33
33 अवाप्तार्थः तं अपि प्रवासयेत्
विश्वास-प्रस्तुतिः - 34
34 बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः सङ्घमुख्यान् उन्मादयेयुः
मूलम् - 34
34 बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः सङ्घमुख्यान् उन्मादयेयुः
विश्वास-प्रस्तुतिः - 35
35 जातकामानां अन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहान् उत्पादयेयुः
मूलम् - 35
35 जातकामानां अन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहान् उत्पादयेयुः
विश्वास-प्रस्तुतिः - 36
36 कलहे तीक्ष्णाः कर्म कुर्युः हतोऽयं इत्थं कामुकः इति
मूलम् - 36
36 कलहे तीक्ष्णाः कर्म कुर्युः हतोऽयं इत्थं कामुकः इति
विश्वास-प्रस्तुतिः - 37
37 विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात् असौ मां मुख्यः त्वयि जातकामां बाधते, तस्मिञ्जीवति न इह स्थास्यामि इति घातं अस्य प्रयोजयेत्
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38 प्रसह्यापहृता वा वनान्ते क्रिडागृहे वाऽपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन
मूलम् - 38
38 प्रसह्यापहृता वा वनान्ते क्रिडागृहे वाऽपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन
विश्वास-प्रस्तुतिः - 39
39 ततः प्रकाशयेत् अमुना मे प्रियो हतः इति
मूलम् - 39
39 ततः प्रकाशयेत् अमुना मे प्रियो हतः इति
विश्वास-प्रस्तुतिः - 40
40 जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्धायापगच्छेत्
मूलम् - 40
40 जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्धायापगच्छेत्
विश्वास-प्रस्तुतिः - 41
41 तस्मिन्न् अपक्रान्ते सत्त्रिणः परप्रयोगं अभिशंसेयुः
मूलम् - 41
41 तस्मिन्न् अपक्रान्ते सत्त्रिणः परप्रयोगं अभिशंसेयुः
विश्वास-प्रस्तुतिः - 42
42 आढ्यविधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेपार्थं विवदमानाः सङ्घमुख्यान् उन्मादयेयुः, अदितिकौशिकस्त्रियो नर्तकीगायना वा
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांः तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा
मूलम् - 43
43 प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांः तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा
विश्वास-प्रस्तुतिः - 44
44 सत्त्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत् अमुष्मिन् ग्रामे दरिद्रकुल्लं अपसृतं, तस्य स्त्री राजार्हा, गृहाण एनाम् इति
मूलम् - 44

विश्वास-प्रस्तुतिः - 45
45 गृहीतायां अर्धमासानन्तरं सिद्धव्यञ्जनो दूष्यसङ्घमुख्यमध्ये प्रक्रोशेत् असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाऽधिचरति इति
मूलम् - 45

विश्वास-प्रस्तुतिः - 46
46 तं चेत् सङ्घो निगृह्णीयात्, राजा एनं उपगृह्य विगुणेषु विक्रमयेत्
मूलम् - 46
46 तं चेत् सङ्घो निगृह्णीयात्, राजा एनं उपगृह्य विगुणेषु विक्रमयेत्
विश्वास-प्रस्तुतिः - 47
47 अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः
मूलम् - 47
47 अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः
विश्वास-प्रस्तुतिः - 48
48 ततः तद्व्यञ्जनाः प्रक्रोशेयुः असौ ब्रह्महा ब्राह्मणीजारश्च इति
मूलम् - 48
48 ततः तद्व्यञ्जनाः प्रक्रोशेयुः असौ ब्रह्महा ब्राह्मणीजारश्च इति
विश्वास-प्रस्तुतिः - 49
49 कार्तान्तिकव्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत् अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति, सर्वस्वेन प्रसह्य वा एनां लभस्व इति
मूलम् - 49

विश्वास-प्रस्तुतिः - 50
50 अलभ्यमानायां परपक्षं उद्धर्षयेत्
मूलम् - 50
50 अलभ्यमानायां परपक्षं उद्धर्षयेत्
विश्वास-प्रस्तुतिः - 51
51 लब्धायां सिद्धः कलहः
मूलम् - 51
51 लब्धायां सिद्धः कलहः
विश्वास-प्रस्तुतिः - 52
52 भिक्षुकी वा प्रियभार्यं मुख्यं ब्रूयात् असौ ते मुख्यो यौवन उत्सिक्तो भार्यायां मां प्राहिणोत्, तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाऽऽगताऽस्मि, निर्दोषा ते भार्या, गूढं अस्मिन् प्रतिकर्तव्यं, अहं अपि तावत् प्रतिपत्स्यामि इति
मूलम् - 52

विश्वास-प्रस्तुतिः - 53
53 एवं।आदिषु कलहस्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा
मूलम् - 53

विश्वास-प्रस्तुतिः - 54
54 सङ्घेष्वेवं एकराजो वर्तेत
मूलम् - 54
54 सङ्घेष्वेवं एकराजो वर्तेत
विश्वास-प्रस्तुतिः - 55
55 सङ्घाश्चाप्येवं एकराजाद् एतेभ्योऽतिसङ्घान् एभ्यो रक्षयेयुः
मूलम् - 55
55 सङ्घाश्चाप्येवं एकराजाद् एतेभ्योऽतिसङ्घान् एभ्यो रक्षयेयुः
विश्वास-प्रस्तुतिः - 56
56ab सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिर्हितः प्रियः ।
56chd दान्तो युक्तजनः तिष्ठेत् सर्वचित्तानुवर्तकः (इति)
मूलम् - 56