दण्डभोगमण्डलासंहतव्यूहव्यूहनं - तस्य प्रतिव्यूहस्थानम्
विश्वास-प्रस्तुतिः - 01
01 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः
मूलम् - 01
01 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः
विश्वास-प्रस्तुतिः - 02
02 पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः
मूलम् - 02
02 पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः
विश्वास-प्रस्तुतिः - 03
03 प्रपक्षकक्ष उरस्या उभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः
मूलम् - 03
03 प्रपक्षकक्ष उरस्या उभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः
विश्वास-प्रस्तुतिः - 04
04 तत्र तिर्यग्वृत्तिर्दण्डः
मूलम् - 04
04 तत्र तिर्यग्वृत्तिर्दण्डः
विश्वास-प्रस्तुतिः - 05
05 समस्तानां अन्वावृत्तिर्भोगः
मूलम् - 05
05 समस्तानां अन्वावृत्तिर्भोगः
विश्वास-प्रस्तुतिः - 06
06 सरतां सर्वतोवृत्तिर्मण्डलः
मूलम् - 06
06 सरतां सर्वतोवृत्तिर्मण्डलः
विश्वास-प्रस्तुतिः - 07
07 स्थितानां पृथग्ऽनीकवृत्तिरसंहतः
मूलम् - 07
07 स्थितानां पृथग्ऽनीकवृत्तिरसंहतः
विश्वास-प्रस्तुतिः - 08
08 पक्षकक्ष उरस्यैः समं वर्तमानो दण्डः
मूलम् - 08
08 पक्षकक्ष उरस्यैः समं वर्तमानो दण्डः
विश्वास-प्रस्तुतिः - 09
09 स कक्षातिक्रान्तः प्रदरः
मूलम् - 09
09 स कक्षातिक्रान्तः प्रदरः
विश्वास-प्रस्तुतिः - 10
10 स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः
मूलम् - 10
10 स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः
विश्वास-प्रस्तुतिः - 11
11 स एवातिक्रान्तः पक्षाभ्यां असह्यः
मूलम् - 11
11 स एवातिक्रान्तः पक्षाभ्यां असह्यः
विश्वास-प्रस्तुतिः - 12
12 पक्षाववस्थाप्य उरस्यातिक्रान्तः श्येनः
मूलम् - 12
12 पक्षाववस्थाप्य उरस्यातिक्रान्तः श्येनः
विश्वास-प्रस्तुतिः - 13
13 विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च
मूलम् - 13
13 विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च
विश्वास-प्रस्तुतिः - 14
14 चापपक्षः सञ्जयः
मूलम् - 14
14 चापपक्षः सञ्जयः
विश्वास-प्रस्तुतिः - 15
15 स एव उरस्यातिक्रान्तो विजयः
मूलम् - 15
15 स एव उरस्यातिक्रान्तो विजयः
विश्वास-प्रस्तुतिः - 16
16 स्थूलकर्णपक्षः स्थूणाकर्णः
मूलम् - 16
16 स्थूलकर्णपक्षः स्थूणाकर्णः
विश्वास-प्रस्तुतिः - 17
17 द्विगुणपक्षस्थूणो विशालविजयः
मूलम् - 17
17 द्विगुणपक्षस्थूणो विशालविजयः
विश्वास-प्रस्तुतिः - 18
18 त्र्य्ऽभिक्रान्तपक्षश्चमूमुखः
मूलम् - 18
18 त्र्य्ऽभिक्रान्तपक्षश्चमूमुखः
विश्वास-प्रस्तुतिः - 19
19 विपर्यये झषास्यः
मूलम् - 19
19 विपर्यये झषास्यः
विश्वास-प्रस्तुतिः - 20
20 ऊर्ध्वराजिर्दण्डः सूची
मूलम् - 20
20 ऊर्ध्वराजिर्दण्डः सूची
विश्वास-प्रस्तुतिः - 21
21 द्वौ दण्डौ वलयः
मूलम् - 21
21 द्वौ दण्डौ वलयः
विश्वास-प्रस्तुतिः - 22
22 चत्वारो दुर्जयः
मूलम् - 22
22 चत्वारो दुर्जयः
विश्वास-प्रस्तुतिः - 23
23 इति दण्डव्यूहाः
मूलम् - 23
23 इति दण्डव्यूहाः
विश्वास-प्रस्तुतिः - 24
24 पक्षकक्ष उरस्यैर्विषमं वर्तमानो भोगः
मूलम् - 24
24 पक्षकक्ष उरस्यैर्विषमं वर्तमानो भोगः
विश्वास-प्रस्तुतिः - 25
25 स सर्पसारी गोमूत्रिका वा
मूलम् - 25
25 स सर्पसारी गोमूत्रिका वा
विश्वास-प्रस्तुतिः - 26
26 स युग्म उरस्यो दण्डपक्षः शकटः
मूलम् - 26
26 स युग्म उरस्यो दण्डपक्षः शकटः
विश्वास-प्रस्तुतिः - 27
27 विपर्यये मकरः
मूलम् - 27
27 विपर्यये मकरः
विश्वास-प्रस्तुतिः - 28
28 हस्त्य्ऽश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः
मूलम् - 28
28 हस्त्य्ऽश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः
विश्वास-प्रस्तुतिः - 29
29 इति भोगव्यूहाः
मूलम् - 29
29 इति भोगव्यूहाः
विश्वास-प्रस्तुतिः - 30
30 पक्षकक्ष उरस्यानां एकीभावे मण्डलः
मूलम् - 30
30 पक्षकक्ष उरस्यानां एकीभावे मण्डलः
विश्वास-प्रस्तुतिः - 31
31 स सर्वतोमुखः सर्वतोभद्रः
मूलम् - 31
31 स सर्वतोमुखः सर्वतोभद्रः
विश्वास-प्रस्तुतिः - 32
32 अष्टानीको दुर्जयः
मूलम् - 32
32 अष्टानीको दुर्जयः
विश्वास-प्रस्तुतिः - 33
33 इति मण्डलव्यूहाः
मूलम् - 33
33 इति मण्डलव्यूहाः
विश्वास-प्रस्तुतिः - 34
34 पक्षकक्ष उरस्यानां असंहताद् असंहतः
मूलम् - 34
34 पक्षकक्ष उरस्यानां असंहताद् असंहतः
विश्वास-प्रस्तुतिः - 35
35 स पञ्चानीकानां आकृतिस्थापनाद् वज्रो गोधा वा
मूलम् - 35
35 स पञ्चानीकानां आकृतिस्थापनाद् वज्रो गोधा वा
विश्वास-प्रस्तुतिः - 36
36 चतुर्णां उद्धानकः काकपदी वा
मूलम् - 36
36 चतुर्णां उद्धानकः काकपदी वा
विश्वास-प्रस्तुतिः - 37
37 त्रयाणां अर्धचन्द्रकः कर्कटकशृङ्गी वा
मूलम् - 37
37 त्रयाणां अर्धचन्द्रकः कर्कटकशृङ्गी वा
विश्वास-प्रस्तुतिः - 38
38 इत्यसंहतव्यूहाः
मूलम् - 38
38 इत्यसंहतव्यूहाः
विश्वास-प्रस्तुतिः - 39
39 रथ उरस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः
मूलम् - 39
39 रथ उरस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः
विश्वास-प्रस्तुतिः - 40
40 पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठं अचलः
मूलम् - 40
40 पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठं अचलः
विश्वास-प्रस्तुतिः - 41
41 हस्तिनोऽश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः
मूलम् - 41
41 हस्तिनोऽश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः
विश्वास-प्रस्तुतिः - 42
42 तेषां प्रदरं दृढकेन घातयेत्, दृढकं असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, सञ्जयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण
मूलम् - 42
42 तेषां प्रदरं दृढकेन घातयेत्, दृढकं असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, सञ्जयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण
विश्वास-प्रस्तुतिः - 43
43 दुर्जयेन सर्वान् प्रतिव्यूहेत
मूलम् - 43
43 दुर्जयेन सर्वान् प्रतिव्यूहेत
विश्वास-प्रस्तुतिः - 44
44 पत्त्य्ऽश्वरथद्विपानां पूर्वं पूर्वं उत्तरेण घातयेत्, हीनाङ्गं अधिकाङ्गेन च इति
मूलम् - 44
44 पत्त्य्ऽश्वरथद्विपानां पूर्वं पूर्वं उत्तरेण घातयेत्, हीनाङ्गं अधिकाङ्गेन च इति
विश्वास-प्रस्तुतिः - 45
45 अङ्गदशकस्य एकः पतिः पतिकः, पतिकदशकस्य एकः सेनापतिः, तद्दशकस्य एको नायक इति
मूलम् - 45
45 अङ्गदशकस्य एकः पतिः पतिकः, पतिकदशकस्य एकः सेनापतिः, तद्दशकस्य एको नायक इति
विश्वास-प्रस्तुतिः - 46
46 स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां सञ्ज्ञाः स्थापयेद् अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च
मूलम् - 46
46 स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां सञ्ज्ञाः स्थापयेद् अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च
विश्वास-प्रस्तुतिः - 47
47 समे व्यूहे देशकालसारयोगात् सिद्धिः
मूलम् - 47
47 समे व्यूहे देशकालसारयोगात् सिद्धिः
विश्वास-प्रस्तुतिः - 48
48ab यन्त्रैरुपनिषद्योगैः तीक्ष्णैर्व्यासक्तघातिभिः ।
48chd मायाभिर्देवसम्योगैः शकटैर्हस्तिभीषणैः
मूलम् - 48
48ab यन्त्रैरुपनिषद्योगैः तीक्ष्णैर्व्यासक्तघातिभिः ।
48chd मायाभिर्देवसम्योगैः शकटैर्हस्तिभीषणैः
विश्वास-प्रस्तुतिः - 49
49ab दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः ।
49chd कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः
मूलम् - 49
49ab दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः ।
49chd कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः
विश्वास-प्रस्तुतिः - 50
50ab दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।
50chd शत्रुराटविको वा इति परस्य उद्वेगं आचरेत्
मूलम् - 50
50ab दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।
50chd शत्रुराटविको वा इति परस्य उद्वेगं आचरेत्
विश्वास-प्रस्तुतिः - 51
51ab एकं हन्यान्न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
51chd प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भगतान् अपि (इति)
मूलम् - 51
51ab एकं हन्यान्न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
51chd प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भगतान् अपि (इति)