पक्षकक्ष उरस्यानां बलाग्रतो व्यूहविभागः - सारफल्गुबलविभागः - पत्त्य्ऽश्वरथहस्तियुद्धानि
विश्वास-प्रस्तुतिः - 01
01 पञ्चधनुःशतापकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात्, भूमिवशेन वा
मूलम् - 01
01 पञ्चधनुःशतापकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात्, भूमिवशेन वा
विश्वास-प्रस्तुतिः - 02
02 विभक्तमुख्यां अचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम्
मूलम् - 02
02 विभक्तमुख्यां अचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम्
विश्वास-प्रस्तुतिः - 03
03 शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरं अश्वं, पञ्चशमान्तरं रथं हस्तिनं वा
मूलम् - 03
03 शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरं अश्वं, पञ्चशमान्तरं रथं हस्तिनं वा
विश्वास-प्रस्तुतिः - 04
04 द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत
मूलम् - 04
04 द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत
विश्वास-प्रस्तुतिः - 05
05 एवं यथासुखं असम्बाधं युध्येत
मूलम् - 05
05 एवं यथासुखं असम्बाधं युध्येत
विश्वास-प्रस्तुतिः - 06
06 पञ्चारत्नि धनुः
मूलम् - 06
06 पञ्चारत्नि धनुः
विश्वास-प्रस्तुतिः - 07
07 तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वं, पञ्चधनुषि रथं हस्तिनं वा
मूलम् - 07
07 तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वं, पञ्चधनुषि रथं हस्तिनं वा
विश्वास-प्रस्तुतिः - 08
08 पञ्चधनुरनीकसन्धिः पक्षकक्ष उरस्यानाम्
मूलम् - 08
08 पञ्चधनुरनीकसन्धिः पक्षकक्ष उरस्यानाम्
विश्वास-प्रस्तुतिः - 09
09 अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः
मूलम् - 09
09 अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः
विश्वास-प्रस्तुतिः - 10
10 पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः
मूलम् - 10
10 पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः
विश्वास-प्रस्तुतिः - 11
11 तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः
मूलम् - 11
11 तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः
विश्वास-प्रस्तुतिः - 12
12 त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च उभयतः
मूलम् - 12
12 त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च उभयतः
विश्वास-प्रस्तुतिः - 13
13 पञ्चचत्वारिंशद् एवं रथा रथव्यूहे भवन्ति, द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोधारः, तावन्तः पादगोपाः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 एष समव्यूहः
मूलम् - 14
14 एष समव्यूहः
विश्वास-प्रस्तुतिः - 15
15 तस्य द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
मूलम् - 15
15 तस्य द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
विश्वास-प्रस्तुतिः - 16
16 एवं ओजा दश समव्यूहप्रकृतयो भवन्ति
मूलम् - 16
16 एवं ओजा दश समव्यूहप्रकृतयो भवन्ति
विश्वास-प्रस्तुतिः - 17
17 पक्षकक्ष उरस्यानां मिथो विषमसङ्ख्याने विषमव्यूहः
मूलम् - 17
17 पक्षकक्ष उरस्यानां मिथो विषमसङ्ख्याने विषमव्यूहः
विश्वास-प्रस्तुतिः - 18
18 तस्यापि द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
मूलम् - 18
18 तस्यापि द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
विश्वास-प्रस्तुतिः - 19
19 एवं ओजा दश विषमव्यूहप्रकृतयो भवन्ति
मूलम् - 19
19 एवं ओजा दश विषमव्यूहप्रकृतयो भवन्ति
विश्वास-प्रस्तुतिः - 20
20 अतः सैन्यानां व्यूहशेषं आवापः कार्यः
मूलम् - 20
20 अतः सैन्यानां व्यूहशेषं आवापः कार्यः
विश्वास-प्रस्तुतिः - 21
21 रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषं उरस्यं स्थापयेत्
मूलम् - 21
21 रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषं उरस्यं स्थापयेत्
विश्वास-प्रस्तुतिः - 22
22 एवं त्रिभाग ऊनो रथानां आवापः कार्यः
मूलम् - 22
22 एवं त्रिभाग ऊनो रथानां आवापः कार्यः
विश्वास-प्रस्तुतिः - 23
23 तेन हस्तिनां अश्वानां आवापो व्याख्यातः
मूलम् - 23
23 तेन हस्तिनां अश्वानां आवापो व्याख्यातः
विश्वास-प्रस्तुतिः - 24
24 यावद्ऽश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात् तावद् आवापः कार्यः
मूलम् - 24
24 यावद्ऽश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात् तावद् आवापः कार्यः
विश्वास-प्रस्तुतिः - 25
25 दण्डबाहुल्यं आवापः
मूलम् - 25
25 दण्डबाहुल्यं आवापः
विश्वास-प्रस्तुतिः - 26
26 पत्तिबाहुल्यं प्रत्यापावः
मूलम् - 26
26 पत्तिबाहुल्यं प्रत्यापावः
विश्वास-प्रस्तुतिः - 27
27 एकाङ्गबाहुल्यं अन्वावापः
मूलम् - 27
27 एकाङ्गबाहुल्यं अन्वावापः
विश्वास-प्रस्तुतिः - 28
28 दूष्यबाहुल्यं अत्यावापः
मूलम् - 28
28 दूष्यबाहुल्यं अत्यावापः
विश्वास-प्रस्तुतिः - 29
29 परावापात् प्रत्यावापाच्च चतुर्गुणाद् आऽष्टगुणाद् इति वा विभवतः सैन्यानां आवापः
मूलम् - 29
29 परावापात् प्रत्यावापाच्च चतुर्गुणाद् आऽष्टगुणाद् इति वा विभवतः सैन्यानां आवापः
विश्वास-प्रस्तुतिः - 30
30 रथव्यूहेन हस्तिव्यूहो व्याख्यातः
मूलम् - 30
30 रथव्यूहेन हस्तिव्यूहो व्याख्यातः
विश्वास-प्रस्तुतिः - 31
31 व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये
मूलम् - 31
31 व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये
विश्वास-प्रस्तुतिः - 32
32 हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी
मूलम् - 32
32 हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी
विश्वास-प्रस्तुतिः - 33
33 विपरीतोऽन्तभेदी
मूलम् - 33
33 विपरीतोऽन्तभेदी
विश्वास-प्रस्तुतिः - 34
34 हस्तिनां एव तु शुद्धः - साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति
मूलम् - 34
34 हस्तिनां एव तु शुद्धः - साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति
विश्वास-प्रस्तुतिः - 35
35 अश्वव्यूहो - वर्मिणां उरस्यं शुद्धानां कक्षपक्षाविति
मूलम् - 35
35 अश्वव्यूहो - वर्मिणां उरस्यं शुद्धानां कक्षपक्षाविति
विश्वास-प्रस्तुतिः - 36
36 पत्तिव्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः
मूलम् - 36
36 पत्तिव्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः
विश्वास-प्रस्तुतिः - 37
37 इति शुद्धाः
मूलम् - 37
37 इति शुद्धाः
विश्वास-प्रस्तुतिः - 38
38 पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः
मूलम् - 38
38 पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः
विश्वास-प्रस्तुतिः - 39
39 इति द्व्य्ऽङ्गबलविभागः
मूलम् - 39
39 इति द्व्य्ऽङ्गबलविभागः
विश्वास-प्रस्तुतिः - 40
40 तेन त्र्ऽङ्गबलविभागो व्याख्यातः
मूलम् - 40
40 तेन त्र्ऽङ्गबलविभागो व्याख्यातः
विश्वास-प्रस्तुतिः - 41
41 दण्डसम्पत् सारबलं पुंसां
मूलम् - 41
41 दण्डसम्पत् सारबलं पुंसां
विश्वास-प्रस्तुतिः - 42
42 हस्त्य्ऽश्वयोर्विशेषः कुलं जातिः सत्त्वं वयःस्थता प्राणो वर्ष्म जवः तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जनाचारता इति
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 पत्त्य्ऽश्वरथद्विपानां सारत्रिभागं उरस्यं स्थापयेत्, द्वौ त्रिभागौ कक्षं पक्षं च उभयतः, अनुलोमं अनुसारं, प्रतिलोमं तृतीयसारं, फल्गु प्रतिलोमम्
मूलम् - 43

विश्वास-प्रस्तुतिः - 44
44 एवं सर्वं उपयोगं गमयेत्
मूलम् - 44
44 एवं सर्वं उपयोगं गमयेत्
विश्वास-प्रस्तुतिः - 45
45 फल्गुबलं अन्तेष्ववधाय वेगाभिहूलिको भवति
मूलम् - 45
45 फल्गुबलं अन्तेष्ववधाय वेगाभिहूलिको भवति
विश्वास-प्रस्तुतिः - 46
46 सारबलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारं, मध्ये फल्गुबलम्
मूलम् - 46
46 सारबलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारं, मध्ये फल्गुबलम्
विश्वास-प्रस्तुतिः - 47
47 एवं एतत् सहिष्णु भवति
मूलम् - 47
47 एवं एतत् सहिष्णु भवति
विश्वास-प्रस्तुतिः - 48
48 व्यूहं तु स्थापयित्वा पक्षकक्ष उरस्यानां एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात्
मूलम् - 48
48 व्यूहं तु स्थापयित्वा पक्षकक्ष उरस्यानां एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात्
विश्वास-प्रस्तुतिः - 49
49 यत् परस्य दुर्बलं वीतहस्त्य्ऽश्वं दूष्यामात्यं कृत उपजापं वा तत्प्रभूतसारेणाभिहन्यात्
मूलम् - 49
49 यत् परस्य दुर्बलं वीतहस्त्य्ऽश्वं दूष्यामात्यं कृत उपजापं वा तत्प्रभूतसारेणाभिहन्यात्
विश्वास-प्रस्तुतिः - 50
50 यद् वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात्
मूलम् - 50
50 यद् वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात्
विश्वास-प्रस्तुतिः - 51
51 यद् अङ्गं अल्पसारं आत्मनः तद् बहुना उपचिनुयात्
मूलम् - 51
51 यद् अङ्गं अल्पसारं आत्मनः तद् बहुना उपचिनुयात्
विश्वास-प्रस्तुतिः - 52
52 यतः परस्यापचयः ततोऽभ्याशे व्यूहेत, यतोत् वा भयं स्यात्
मूलम् - 52
52 यतः परस्यापचयः ततोऽभ्याशे व्यूहेत, यतोत् वा भयं स्यात्
विश्वास-प्रस्तुतिः - 53
53 अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्यावधानं वलयो गोमूत्रिका मण्डलं प्रकीर्णिका व्यावृत्तपृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्नरक्षा भग्नानुपात इत्यश्वयुद्धानि
मूलम् - 53

विश्वास-प्रस्तुतिः - 54
54 प्रकीर्णिकावर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्ष उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं च इति हसित्युद्धानि
मूलम् - 54

विश्वास-प्रस्तुतिः - 55
55 उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानि इति रथयुद्धानि
मूलम् - 55
55 उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानि इति रथयुद्धानि
विश्वास-प्रस्तुतिः - 56
56 सर्वदेशकालप्रहरणं उपांशुदण्डश्च इति पत्तियुद्धानि
मूलम् - 56
56 सर्वदेशकालप्रहरणं उपांशुदण्डश्च इति पत्तियुद्धानि
विश्वास-प्रस्तुतिः - 57
57ab एतेन विधिना व्यूहान् ओजान् युग्मांश्च कारयेत् ।
57chd विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत्
मूलम् - 57
57ab एतेन विधिना व्यूहान् ओजान् युग्मांश्च कारयेत् ।
57chd विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत्
विश्वास-प्रस्तुतिः - 58
58ab द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।
58chd भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः (इति)
मूलम् - 58