युद्धभूमयः - पत्त्य्ऽश्वरथहस्तिकर्माणि
विश्वास-प्रस्तुतिः - 01
01 स्वभूमिः पत्त्य्ऽश्वरथद्विपानां इष्टा युद्धे निवेशे च
मूलम् - 01
01 स्वभूमिः पत्त्य्ऽश्वरथद्विपानां इष्टा युद्धे निवेशे च
विश्वास-प्रस्तुतिः - 02
02 धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनां अश्वानां च यथास्वं इष्टा युद्धभूमयः कालाश्च
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 समा स्थिराऽभिकाशा निरुत्खातिन्यचक्रखुराऽनक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्य्ऽश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः
मूलम् - 04
04 अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः
विश्वास-प्रस्तुतिः - 05
05 स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः
मूलम् - 05
05 स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः
विश्वास-प्रस्तुतिः - 06
06 गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः
मूलम् - 06
06 गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः
विश्वास-प्रस्तुतिः - 07
07 अकण्टकिन्यबहुविषमा प्रत्यासारवती इति पदातीनां अतिशयः
मूलम् - 07
07 अकण्टकिन्यबहुविषमा प्रत्यासारवती इति पदातीनां अतिशयः
विश्वास-प्रस्तुतिः - 08
08 द्विगुणप्रत्यासारा कर्दम उदकखञ्जनहीना निह्शर्करा इति वाजिनां अतिशयः
मूलम् - 08
08 द्विगुणप्रत्यासारा कर्दम उदकखञ्जनहीना निह्शर्करा इति वाजिनां अतिशयः
विश्वास-प्रस्तुतिः - 09
09 पांसुकर्दम उदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्ता इति हस्तिनां अतिशयः
मूलम् - 09
09 पांसुकर्दम उदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्ता इति हस्तिनां अतिशयः
विश्वास-प्रस्तुतिः - 10
10 तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्था इति रथानां अतिशयः
मूलम् - 10
10 तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्था इति रथानां अतिशयः
विश्वास-प्रस्तुतिः - 11
11 उक्ता सर्वेषां भूमिः
मूलम् - 11
11 उक्ता सर्वेषां भूमिः
विश्वास-प्रस्तुतिः - 12
12 एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति
मूलम् - 12
12 एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति
विश्वास-प्रस्तुतिः - 13
13 भूमिवासवनविचयोऽविषमतोयतीर्थवातरश्मिग्रहणं वीवधासारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसारवृद्धिर्बाहु।उत्सारः पूर्वप्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्गानुसारविनिमयः कोशकुमाराभिहरणं जघनकोट्य्ऽभिघातो हीनानुसारणं अनुयानं समाजकर्म इत्यश्वकर्माणि
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 पुरोयानं अकृतमार्गवासतीर्थकर्म बाहु।उत्सारः तोयतरणावतरणे स्थानगमनावतरणं विषमसम्बाधप्रवेशोऽग्निदानशमनं एकाङ्गविजयो भिन्नसन्धानं अभिन्नभेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनंऽउदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहनापवाहनं इति हस्तिकर्माणि
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 स्वबलरक्षा चतुर्ऽङ्गबलप्रतिषेधः सङ्ग्रामे ग्रहणं मोक्षणं भिन्नसन्धानं अभिन्नभेदनं त्रासनं औदार्यं भीमघोषश्च इति रथकर्माणि
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 सर्वदेशकालशस्त्रवहनं व्यायामश्च इति पदातिकर्माणि
मूलम् - 16
16 सर्वदेशकालशस्त्रवहनं व्यायामश्च इति पदातिकर्माणि
विश्वास-प्रस्तुतिः - 17
17 शिबिरमार्गसेतुकूपतीर्थशोधनकर्म यन्त्रायुधावरण उपकरणग्रासवहनं आयोधनाच्च प्रहरणावरणप्रतिविद्धापनयनं इति विष्टिकर्माणि
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18ab कुर्याद् गवाश्वव्यायोगं रथेष्वल्पहयो नृपः ।
18chd खर उष्ट्रशकटानां वा गर्भं अल्पगजः तथा (इति)
मूलम् - 18