कूटयुद्धविकल्पाः - स्वसैन्य उत्साहनं - स्वबलान्यबलव्यायोगः
विश्वास-प्रस्तुतिः - 01
01 बलविशिष्टः कृत उपजापः प्रतिविहित।ऋतुः स्वभूम्यां प्रकाशयुद्धं उपेयात्
मूलम् - 01
01 बलविशिष्टः कृत उपजापः प्रतिविहित।ऋतुः स्वभूम्यां प्रकाशयुद्धं उपेयात्
विश्वास-प्रस्तुतिः - 02
02 विपर्यये कूटयुद्धम्
मूलम् - 02
02 विपर्यये कूटयुद्धम्
विश्वास-प्रस्तुतिः - 03
03 बलव्यसनावस्कन्दकालेषु परं अभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम्
मूलम् - 03
03 बलव्यसनावस्कन्दकालेषु परं अभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम्
विश्वास-प्रस्तुतिः - 04
04 दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात्
मूलम् - 04
04 दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात्
विश्वास-प्रस्तुतिः - 05
05 संहतानीकं हस्तिभिर्भेदयेत्
मूलम् - 05
05 संहतानीकं हस्तिभिर्भेदयेत्
विश्वास-प्रस्तुतिः - 06
06 पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात्
मूलम् - 06
06 पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात्
विश्वास-प्रस्तुतिः - 07
07 पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्ऽश्वेनाभिहन्यात्
मूलम् - 07
07 पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्ऽश्वेनाभिहन्यात्
विश्वास-प्रस्तुतिः - 08
08 पृष्ठतोऽभिहत्या प्रचलं विमुखं वा पुरस्तात् सारबलेनाभिहन्यात्
मूलम् - 08
08 पृष्ठतोऽभिहत्या प्रचलं विमुखं वा पुरस्तात् सारबलेनाभिहन्यात्
विश्वास-प्रस्तुतिः - 09
09 ताभ्यां पार्श्वाभिगातौ व्याख्यातौ
मूलम् - 09
09 ताभ्यां पार्श्वाभिगातौ व्याख्यातौ
विश्वास-प्रस्तुतिः - 10
10 यतो वा दूष्यफल्गुबलं ततोऽभिहन्यात्
मूलम् - 10
10 यतो वा दूष्यफल्गुबलं ततोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 11
11 पुरस्ताद् विषमायां पृष्ठतोऽभिहन्यात्
मूलम् - 11
11 पुरस्ताद् विषमायां पृष्ठतोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 12
12 पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात्
मूलम् - 12
12 पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात्
विश्वास-प्रस्तुतिः - 13
13 पार्श्वतो विषमायां इतरतोऽभिहन्यात्
मूलम् - 13
13 पार्श्वतो विषमायां इतरतोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 14
14 दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात्
मूलम् - 14
14 दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात्
विश्वास-प्रस्तुतिः - 15
15 दूष्यबलेन वा स्वयं भङ्गं दत्त्वा जितम् इति विश्वस्तं अविश्वस्तः सत्त्रापाश्रयोऽभिहन्यात्
मूलम् - 15
15 दूष्यबलेन वा स्वयं भङ्गं दत्त्वा जितम् इति विश्वस्तं अविश्वस्तः सत्त्रापाश्रयोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 16
16 सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तं अप्रमत्तोऽभिहन्यात्
मूलम् - 16
16 सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तं अप्रमत्तोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 17
17 फल्गुबलावच्छन्नसारबलो वा परवीरान् अनुप्रविश्य हन्यात्
मूलम् - 17
17 फल्गुबलावच्छन्नसारबलो वा परवीरान् अनुप्रविश्य हन्यात्
विश्वास-प्रस्तुतिः - 18
18 गोग्रहणेन श्वापदवधेन वा परवीरान् आकृष्य सत्त्रच्छन्नोऽभिहन्यात्
मूलम् - 18
18 गोग्रहणेन श्वापदवधेन वा परवीरान् आकृष्य सत्त्रच्छन्नोऽभिहन्यात्
विश्वास-प्रस्तुतिः - 19
19 रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तान् अवसुप्तान् वा दिवा हन्यात्
मूलम् - 19
19 रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तान् अवसुप्तान् वा दिवा हन्यात्
विश्वास-प्रस्तुतिः - 20
20 सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात्
मूलम् - 20
20 सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात्
विश्वास-प्रस्तुतिः - 21
21 अहःसम्नाहपरिश्रान्तान् अपराह्नेऽभिहन्यात्
मूलम् - 21
21 अहःसम्नाहपरिश्रान्तान् अपराह्नेऽभिहन्यात्
विश्वास-प्रस्तुतिः - 22
22 शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिष उष्ट्रयूथैर्वा त्रस्नुभिरकृतहस्त्य्ऽश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात्
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 प्रतिसूर्यवातं वा सर्वं अभिहन्यात्
मूलम् - 23
23 प्रतिसूर्यवातं वा सर्वं अभिहन्यात्
विश्वास-प्रस्तुतिः - 24
24 धान्वनवनसङ्कटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि
मूलम् - 24
24 धान्वनवनसङ्कटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि
विश्वास-प्रस्तुतिः - 25
25 पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः
मूलम् - 25
25 पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः
विश्वास-प्रस्तुतिः - 26
26 सङ्ग्रामः तु निर्दिष्टदेशकालो धर्मिष्ठः
मूलम् - 26
26 सङ्ग्रामः तु निर्दिष्टदेशकालो धर्मिष्ठः
विश्वास-प्रस्तुतिः - 27
27 संहत्य दण्डं ब्रूयात् तुल्यवेतनोऽस्मि, भवद्भिः सह भोग्यं इदं राज्यं, मयाऽभिहितैः परोऽभिहन्तव्यः इति
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानां अवभृथेषु सा ते गतिर्या शूराणाम् इति
मूलम् - 28
28 वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानां अवभृथेषु सा ते गतिर्या शूराणाम् इति
विश्वास-प्रस्तुतिः - 29
29 अपि इह श्लोकौ भवतः
मूलम् - 29
29 अपि इह श्लोकौ भवतः
विश्वास-प्रस्तुतिः - 30
30ab यान् यज्ञसङ्घैः तपसा च विप्राः स्वर्ग एषिणः पात्रचयैश्च यान्ति ।
30chd क्षणेन तान् अप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31ab नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृत उत्तरीयम् ।
31chd तत् तस्य मा भून्नरकं च गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् - इति
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 मन्त्रिपुरोहिताभ्यां उत्साहयेद् योधान् व्यूहसम्पदा
मूलम् - 32
32 मन्त्रिपुरोहिताभ्यां उत्साहयेद् योधान् व्यूहसम्पदा
विश्वास-प्रस्तुतिः - 33
33 कार्तान्तिकादिश्चास्य वर्गः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 श्वो युद्धम् इति कृत उपवासः शस्त्रवाहनं चानुशयीत
मूलम् - 34
34 श्वो युद्धम् इति कृत उपवासः शस्त्रवाहनं चानुशयीत
विश्वास-प्रस्तुतिः - 35
35 अथर्वभिश्च जुहुयात्
मूलम् - 35
35 अथर्वभिश्च जुहुयात्
विश्वास-प्रस्तुतिः - 36
36 विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत्
मूलम् - 36
36 विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत्
विश्वास-प्रस्तुतिः - 37
37 ब्राह्मणेभ्यश्चात्मानं अतिसृजेत्
मूलम् - 37
37 ब्राह्मणेभ्यश्चात्मानं अतिसृजेत्
विश्वास-प्रस्तुतिः - 38
38 शौर्यशिल्पाभिजनानुरागयुक्तं अर्थमानाभ्यां अविसंवादितं अनीकगर्भं कुर्वीत
मूलम् - 38
38 शौर्यशिल्पाभिजनानुरागयुक्तं अर्थमानाभ्यां अविसंवादितं अनीकगर्भं कुर्वीत
विश्वास-प्रस्तुतिः - 39
39 पितृपुत्रभ्रातृकाणां आयुधीयानां अध्वजं मुण्डानीकं राजस्थानम्
मूलम् - 39
39 पितृपुत्रभ्रातृकाणां आयुधीयानां अध्वजं मुण्डानीकं राजस्थानम्
विश्वास-प्रस्तुतिः - 40
40 हस्ती रथो वा राजवाहनं अश्वानुबन्धः
मूलम् - 40
40 हस्ती रथो वा राजवाहनं अश्वानुबन्धः
विश्वास-प्रस्तुतिः - 41
41 यत् प्रायसैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत्
मूलम् - 41
41 यत् प्रायसैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत्
विश्वास-प्रस्तुतिः - 42
42 राजव्यञ्जनो व्यूहाधिष्ठानं आयोज्यः
मूलम् - 42
42 राजव्यञ्जनो व्यूहाधिष्ठानं आयोज्यः
विश्वास-प्रस्तुतिः - 43
43 सूतमागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जातिसङ्घकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः
मूलम् - 43
43 सूतमागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जातिसङ्घकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः
विश्वास-प्रस्तुतिः - 44
44 पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिं असिद्धिं परेषाम्
मूलम् - 44
44 पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिं असिद्धिं परेषाम्
विश्वास-प्रस्तुतिः - 45
45 सेनापतिरर्थमानाभ्यां अभिसंस्कृतं अनीकं आभाषेत - शतसाहस्रो राजवधः, पञ्चाशत्साहस्रः सेनापतिकुमारवधः, दशसाहस्रः प्रवीरमुख्यवधः, पञ्चसाहस्रो हस्तिरथवधः, साहस्रोऽश्ववधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं भोगद्वैगुण्यं स्वयङ्ग्राहश्च इति
मूलम् - 45

विश्वास-प्रस्तुतिः - 46
46 तद् एषां दशवर्गाधिपतयो विद्युः
मूलम् - 46
46 तद् एषां दशवर्गाधिपतयो विद्युः
विश्वास-प्रस्तुतिः - 47
47 चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्नपानरक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतः तिष्ठेयुः
मूलम् - 47

विश्वास-प्रस्तुतिः - 48
48 अदक्षिणामुखं पृष्ठतःसूर्यं अनुलोमवातं अनीकं स्वभूमौ व्यूहेत
मूलम् - 48
48 अदक्षिणामुखं पृष्ठतःसूर्यं अनुलोमवातं अनीकं स्वभूमौ व्यूहेत
विश्वास-प्रस्तुतिः - 49
49 परभूमिव्यूहे चाश्वांश्चारयेयुः
मूलम् - 49
49 परभूमिव्यूहे चाश्वांश्चारयेयुः
विश्वास-प्रस्तुतिः - 50
50 यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्च उभयथा जीयेत
मूलम् - 50
50 यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्च उभयथा जीयेत
विश्वास-प्रस्तुतिः - 52
52 समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात् पार्श्वाभ्यां पश्चाच्च ज्ञेया
मूलम् - 52
52 समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात् पार्श्वाभ्यां पश्चाच्च ज्ञेया
विश्वास-प्रस्तुतिः - 53
53 समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः
मूलम् - 53
53 समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः
विश्वास-प्रस्तुतिः - 54
54 विशिष्टबलं भङ्क्त्वा सन्धिं याचेत
मूलम् - 54
54 विशिष्टबलं भङ्क्त्वा सन्धिं याचेत
विश्वास-प्रस्तुतिः - 55
55 समबलेन याचितः सन्दधीत
मूलम् - 55
55 समबलेन याचितः सन्दधीत
विश्वास-प्रस्तुतिः - 56
56 हीनं अनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा
मूलम् - 56
56 हीनं अनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा
विश्वास-प्रस्तुतिः - 57
57ab पुनर्।आवर्तमानस्य निराशस्य च जीविते ।
57chd अधार्यो जायते वेगः तस्माद् भग्नं न पीडयेत् (इति)
मूलम् - 57