स्कन्धावारनिवेशः
विश्वास-प्रस्तुतिः - 01
01 वास्तुकप्रशस्ते वास्तुनि नायकवर्धकि मौहूर्तिकाः स्कन्धावारं, वृत्तं दीर्घं चतुर्ऽश्रं वा भूमिवशेन वा, चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 मध्यमस्य उत्तरे नवभागे राजवास्तुकं धनुःशतायामं अर्धविस्तारं, पश्चिमार्धे तस्यान्तःपुरम्
मूलम् - 02
02 मध्यमस्य उत्तरे नवभागे राजवास्तुकं धनुःशतायामं अर्धविस्तारं, पश्चिमार्धे तस्यान्तःपुरम्
विश्वास-प्रस्तुतिः - 03
03 अन्तर्वंशिकसैन्यं चान्ते निविशेत
मूलम् - 03
03 अन्तर्वंशिकसैन्यं चान्ते निविशेत
विश्वास-प्रस्तुतिः - 04
04 पुरस्ताद् उपस्थानं, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजाउपवाह्यानां हस्त्य्ऽश्वरथानां स्थानम्
मूलम् - 04
04 पुरस्ताद् उपस्थानं, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजाउपवाह्यानां हस्त्य्ऽश्वरथानां स्थानम्
विश्वास-प्रस्तुतिः - 05
05 अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः
मूलम् - 05
05 अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः
विश्वास-प्रस्तुतिः - 06
06 प्रथमे पुरस्तान् मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम्
मूलम् - 06
06 प्रथमे पुरस्तान् मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम्
विश्वास-प्रस्तुतिः - 07
07 द्वितीये मौलभृतानां स्थानं अश्वरथानां सेनापतेश्च
मूलम् - 07
07 द्वितीये मौलभृतानां स्थानं अश्वरथानां सेनापतेश्च
विश्वास-प्रस्तुतिः - 08
08 तृतीये हस्तिनः श्रेण्यः प्रशास्ता च
मूलम् - 08
08 तृतीये हस्तिनः श्रेण्यः प्रशास्ता च
विश्वास-प्रस्तुतिः - 09
09 चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम्
मूलम् - 09
09 चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम्
विश्वास-प्रस्तुतिः - 10
10 वणिजो रूपाजीवाश्चानुमहापथम्
मूलम् - 10
10 वणिजो रूपाजीवाश्चानुमहापथम्
विश्वास-प्रस्तुतिः - 11
11 बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः
मूलम् - 11
11 बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः
विश्वास-प्रस्तुतिः - 12
12 शत्रूणां आपाते कूपकूटावपातकण्टकिनीश्च स्थापयेत्
मूलम् - 12
12 शत्रूणां आपाते कूपकूटावपातकण्टकिनीश्च स्थापयेत्
विश्वास-प्रस्तुतिः - 13
13 अष्टादशवर्गाणां आरक्षविपर्यासं कारयेत्
मूलम् - 13
13 अष्टादशवर्गाणां आरक्षविपर्यासं कारयेत्
विश्वास-प्रस्तुतिः - 14
14 दिवायामं च कारयेद् अपसर्पज्ञानार्थम्
मूलम् - 14
14 दिवायामं च कारयेद् अपसर्पज्ञानार्थम्
विश्वास-प्रस्तुतिः - 15
15 विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च
मूलम् - 15
15 विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च
विश्वास-प्रस्तुतिः - 16
16 सेनानिवृत्तं आयुधीयं अशासनं शून्यपालो बध्नीयात्
मूलम् - 16
16 सेनानिवृत्तं आयुधीयं अशासनं शून्यपालो बध्नीयात्
विश्वास-प्रस्तुतिः - 17
17ab पुरस्ताद् अध्वनः सम्यक्प्रशास्ता रक्षणानि च ।
17chd यायाद् वर्धकिविष्टिभ्यां उदकानि च कारयेत् (इति)
मूलम् - 17